सूत उवाच 001
जाम्बूनदमयो भूत्वा मरीचिविकचोज्ज्वलः 001a
प्रविवेश बलात्पक्षी वारिवेग इवार्णवम् 001c
स चक्रं क्षुरपर्यन्तमपश्यदमृतान्तिके 002a
परिभ्रमन्तमनिशं तीक्ष्णधारमयस्मयम् 002c
ज्वलनार्कप्रभं घोरं छेदनं सोमहारिणाम् 003a
घोररूपं तदत्यर्थं यन्त्रं देवैः सुनिर्मितम् 003c
तस्यान्तरं स दृष्ट्वैव पर्यवर्तत खेचरः 004a
अरान्तरेणाभ्यपतत्सङ्क्षिप्याङ्गं क्षणेन ह 004c
अधश्चक्रस्य चैवात्र दीप्तानलसमद्युती 005a
विद्युज्जिह्वौ महाघोरौ दीप्तास्यौ दीप्तलोचनौ 005c
चक्षुर्विषौ महावीर्यौ नित्यक्रुद्धौ तरस्विनौ 006a
रक्षार्थमेवामृतस्य ददर्श भुजगोत्तमौ 006c
सदा संरब्धनयनौ सदा चानिमिषेक्षणौ 007a
तयोरेकोऽपि यं पश्येत्स तूर्णं भस्मसाद्भवेत् 007c
तयोश्चक्षूंषि रजसा सुपर्णस्तूर्णमावृणोत् 008a
अदृष्टरूपस्तौ चापि सर्वतः पर्यकालयत् 008c
तयोरङ्गे समाक्रम्य वैनतेयोऽन्तरिक्षगः 009a
आच्छिनत्तरसा मध्ये सोममभ्यद्रवत्ततः 009c
समुत्पाट्यामृतं तत्तु वैनतेयस्ततो बली 010a
उत्पपात जवेनैव यन्त्रमुन्मथ्य वीर्यवान् 010c
अपीत्वैवामृतं पक्षी परिगृह्याशु वीर्यवान् 011a
अगच्छदपरिश्रान्त आवार्यार्कप्रभां खगः 011c
विष्णुना तु तदाकाशे वैनतेयः समेयिवान् 012a
तस्य नारायणस्तुष्टस्तेनालौल्येन कर्मणा 012c
तमुवाचाव्ययो देवो वरदोऽस्मीति खेचरम् 013a
स वव्रे तव तिष्ठेयमुपरीत्यन्तरिक्षगः 013c
उवाच चैनं भूयोऽपि नारायणमिदं वचः 014a
अजरश्चामरश्च स्याममृतेन विनाप्यहम् 014c
प्रतिगृह्य वरौ तौ च गरुडो विष्णुमब्रवीत् 015a
भवतेऽपि वरं दद्मि वृणीतां भगवानपि 015c
तं वव्रे वाहनं कृष्णो गरुत्मन्तं महाबलम् 016a
ध्वजं च चक्रे भगवानुपरि स्थास्यसीति तम् 016c
अनुपत्य खगं त्विन्द्रो वज्रेणाङ्गेऽभ्यताडयत् 017a
विहङ्गमं सुरामित्रं हरन्तममृतं बलात् 017c
तमुवाचेन्द्रमाक्रन्दे गरुडः पततां वरः 018a
प्रहसञ्श्लक्ष्णया वाचा तथा वज्रसमाहतः 018c
ऋषेर्मानं करिष्यामि वज्रं यस्यास्थिसम्भवम् 019a
वज्रस्य च करिष्यामि तव चैव शतक्रतो 019c
एष पत्रं त्यजाम्येकं यस्यान्तं नोपलप्स्यसे 020a
न हि वज्रनिपातेन रुजा मेऽस्ति कदाचन 020c
तत्र तं सर्वभूतानि विस्मितान्यब्रुवंस्तदा 021a
सुरूपं पत्रमालक्ष्य सुपर्णोऽयं भवत्विति 021c
दृष्ट्वा तदद्भुतं चापि सहस्राक्षः पुरन्दरः 022a
खगो महदिदं भूतमिति मत्वाभ्यभाषत 022c
बलं विज्ञातुमिच्छामि यत्ते परमनुत्तमम् 023a
सख्यं चानन्तमिच्छामि त्वया सह खगोत्तम 023c