सूत उवाच 001
ततस्तस्मिन्द्विजश्रेष्ठ समुदीर्णे तथाविधे 001a
गरुत्मान्पक्षिराट्तूर्णं सम्प्राप्तो विबुधान्प्रति 001c
तं दृष्ट्वातिबलं चैव प्राकम्पन्त समन्ततः 002a
परस्परं च प्रत्यघ्नन्सर्वप्रहरणान्यपि 002c
तत्र चासीदमेयात्मा विद्युदग्निसमप्रभः 003a
भौवनः सुमहावीर्यः सोमस्य परिरक्षिता 003c
स तेन पतगेन्द्रेण पक्षतुण्डनखैः क्षतः 004a
मुहूर्तमतुलं युद्धं कृत्वा विनिहतो युधि 004c
रजश्चोद्धूय सुमहत्पक्षवातेन खेचरः 005a
कृत्वा लोकान्निरालोकांस्तेन देवानवाकिरत् 005c
तेनावकीर्णा रजसा देवा मोहमुपागमन् 006a
न चैनं ददृशुश्छन्ना रजसामृतरक्षिणः 006c
एवं संलोडयामास गरुडस्त्रिदिवालयम् 007a
पक्षतुण्डप्रहारैश्च देवान्स विददार ह 007c
ततो देवः सहस्राक्षस्तूर्णं वायुमचोदयत् 008a
विक्षिपेमां रजोवृष्टिं तवैतत्कर्म मारुत 008c
अथ वायुरपोवाह तद्रजस्तरसा बली 009a
ततो वितिमिरे जाते देवाः शकुनिमार्दयन् 009c
ननाद चोच्चैर्बलवान्महामेघरवः खगः 010a
वध्यमानः सुरगणैः सर्वभूतानि भीषयन् 010c
010e उत्पपात महावीर्यः पक्षिराट्परवीरहा तमुत्पत्यान्तरिक्षस्थं देवानामुपरि स्थितम् 011a
वर्मिणो विबुधाः सर्वे नानाशस्त्रैरवाकिरन् 011c
पट्टिशैः परिघैः शूलैर्गदाभिश्च सवासवाः 012a
क्षुरान्तैर्ज्वलितैश्चापि चक्रैरादित्यरूपिभिः 012c
नानाशस्त्रविसर्गैश्च वध्यमानः समन्ततः 013a
कुर्वन्सुतुमुलं युद्धं पक्षिराण्न व्यकम्पत 013c
विनर्दन्निव चाकाशे वैनतेयः प्रतापवान् 014a
पक्षाभ्यामुरसा चैव समन्ताद्व्याक्षिपत्सुरान् 014c
ते विक्षिप्तास्ततो देवाः प्रजग्मुर्गरुडार्दिताः 015a
नखतुण्डक्षताश्चैव सुस्रुवुः शोणितं बहु 015c
साध्याः प्राचीं सगन्धर्वा वसवो दक्षिणां दिशम् 016a
प्रजग्मुः सहिता रुद्रैः पतगेन्द्रप्रधर्षिताः 016c
दिशं प्रतीचीमादित्या नासत्या उत्तरां दिशम् 017a
मुहुर्मुहुः प्रेक्षमाणा युध्यमाना महौजसम् 017c
अश्वक्रन्देन वीरेण रेणुकेन च पक्षिणा 018a
क्रथनेन च शूरेण तपनेन च खेचरः 018c
उलूकश्वसनाभ्यां च निमेषेण च पक्षिणा 019a
प्ररुजेन च संयुद्धं चकार प्रलिहेन च 019c
तान्पक्षनखतुण्डाग्रैरभिनद्विनतासुतः 020a
युगान्तकाले सङ्क्रुद्धः पिनाकीव महाबलः 020c
महावीर्या महोत्साहास्तेन ते बहुधा क्षताः 021a
रेजुरभ्रघनप्रख्या रुधिरौघप्रवर्षिणः 021c
तान्कृत्वा पतगश्रेष्ठः सर्वानुत्क्रान्तजीवितान् 022a
अतिक्रान्तोऽमृतस्यार्थे सर्वतोऽग्निमपश्यत 022c
आवृण्वानं महाज्वालमर्चिर्भिः सर्वतोऽम्बरम् 023a
दहन्तमिव तीक्ष्णांशुं घोरं वायुसमीरितम् 023c
ततो नवत्या नवतीर्मुखानां; कृत्वा तरस्वी गरुडो महात्मा 024a
नदीः समापीय मुखैस्ततस्तैः; सुशीघ्रमागम्य पुनर्जवेन 024c
ज्वलन्तमग्निं तममित्रतापनः; समास्तरत्पत्ररथो नदीभिः 025a
ततः प्रचक्रे वपुरन्यदल्पं; प्रवेष्टुकामोऽग्निमभिप्रशाम्य 025c