शौनक उवाच 001
कोऽपराधो महेन्द्रस्य कः प्रमादश्च सूतज 001a
तपसा वालखिल्यानां सम्भूतो गरुडः कथम् 001c
कश्यपस्य द्विजातेश्च कथं वै पक्षिराट्सुतः 002a
अधृष्यः सर्वभूतानामवध्यश्चाभवत्कथम् 002c
कथं च कामचारी स कामवीर्यश्च खेचरः 003a
एतदिच्छाम्यहं श्रोतुं पुराणे यदि पठ्यते 003c
सूत उवाच 004
विषयोऽयं पुराणस्य यन्मां त्वं परिपृच्छसि 004a
शृणु मे वदतः सर्वमेतत्सङ्क्षेपतो द्विज 004c
यजतः पुत्रकामस्य कश्यपस्य प्रजापतेः 005a
साहाय्यमृषयो देवा गन्धर्वाश्च ददुः किल 005c
तत्रेध्मानयने शक्रो नियुक्तः कश्यपेन ह 006a
मुनयो वालखिल्याश्च ये चान्ये देवतागणाः 006c
शक्रस्तु वीर्यसदृशमिध्मभारं गिरिप्रभम् 007a
समुद्यम्यानयामास नातिकृच्छ्रादिव प्रभुः 007c
अथापश्यदृषीन्ह्रस्वानङ्गुष्ठोदरपर्वणः 008a
पलाशवृन्तिकामेकां सहितान्वहतः पथि 008c
प्रलीनान्स्वेष्विवाङ्गेषु निराहारांस्तपोधनान् 009a
क्लिश्यमानान्मन्दबलान्गोष्पदे सम्प्लुतोदके 009c
तांश्च सर्वान्स्मयाविष्टो वीर्योन्मत्तः पुरन्दरः 010a
अवहस्यात्यगाच्छीघ्रं लङ्घयित्वावमन्य च 010c
तेऽथ रोषसमाविष्टाः सुभृशं जातमन्यवः 011a
आरेभिरे महत्कर्म तदा शक्रभयङ्करम् 011c
जुहुवुस्ते सुतपसो विधिवज्जातवेदसम् 012a
मन्त्रैरुच्चावचैर्विप्रा येन कामेन तच्छृणु 012c
कामवीर्यः कामगमो देवराजभयप्रदः 013a
इन्द्रोऽन्यः सर्वदेवानां भवेदिति यतव्रताः 013c
इन्द्राच्छतगुणः शौर्ये वीर्ये चैव मनोजवः 014a
तपसो नः फलेनाद्य दारुणः सम्भवत्विति 014c
तद्बुद्ध्वा भृशसन्तप्तो देवराजः शतक्रतुः 015a
जगाम शरणं तत्र कश्यपं संशितव्रतम् 015c
तच्छ्रुत्वा देवराजस्य कश्यपोऽथ प्रजापतिः 016a
वालखिल्यानुपागम्य कर्मसिद्धिमपृच्छत 016c
एवमस्त्विति तं चापि प्रत्यूचुः सत्यवादिनः 017a
तान्कश्यप उवाचेदं सान्त्वपूर्वं प्रजापतिः 017c
अयमिन्द्रस्त्रिभुवने नियोगाद्ब्रह्मणः कृतः 018a
इन्द्रार्थं च भवन्तोऽपि यत्नवन्तस्तपोधनाः 018c
न मिथ्या ब्रह्मणो वाक्यं कर्तुमर्हथ सत्तमाः 019a
भवतां च न मिथ्यायं सङ्कल्पो मे चिकीर्षितः 019c
भवत्वेष पतत्रीणामिन्द्रोऽतिबलसत्त्ववान् 020a
प्रसादः क्रियतां चैव देवराजस्य याचतः 020c
एवमुक्ताः कश्यपेन वालखिल्यास्तपोधनाः 021a
प्रत्यूचुरभिसम्म्पूज्य मुनिश्रेष्ठं प्रजापतिम् 021c
इन्द्रार्थोऽयं समारम्भः सर्वेषां नः प्रजापते 022a
अपत्यार्थं समारम्भो भवतश्चायमीप्सितः 022c
तदिदं सफलं कर्म त्वया वै प्रतिगृह्यताम् 023a
तथा चैव विधत्स्वात्र यथा श्रेयोऽनुपश्यसि 023c
एतस्मिन्नेव काले तु देवी दाक्षायणी शुभा 024a
विनता नाम कल्याणी पुत्रकामा यशस्विनी 024c
तपस्तप्त्वा व्रतपरा स्नाता पुंसवने शुचिः 025a
उपचक्राम भर्तारं तामुवाचाथ कश्यपः 025c
आरम्भः सफलो देवि भवितायं तवेप्सितः 026a
जनयिष्यसि पुत्रौ द्वौ वीरौ त्रिभुवनेश्वरौ 026c
तपसा वालखिल्यानां मम सङ्कल्पजौ तथा 027a
भविष्यतो महाभागौ पुत्रौ ते लोकपूजितौ 027c
उवाच चैनां भगवान्मारीचः पुनरेव ह 028a
धार्यतामप्रमादेन गर्भोऽयं सुमहोदयः 028c
एकः सर्वपतत्रीणामिन्द्रत्वं कारयिष्यति 029a
लोकसम्भावितो वीरः कामवीर्यो विहङ्गमः 029c
शतक्रतुमथोवाच प्रीयमाणः प्रजापतिः 030a
त्वत्सहायौ खगावेतौ भ्रातरौ ते भविष्यतः 030c
नैताभ्यां भविता दोषः सकाशात्ते पुरन्दर 031a
व्येतु ते शक्र सन्तापस्त्वमेवेन्द्रो भविष्यसि 031c
न चाप्येवं त्वया भूयः क्षेप्तव्या ब्रह्मवादिनः 032a
न चावमान्या दर्पात्ते वाग्विषा भृशकोपनाः 032c
एवमुक्तो जगामेन्द्रो निर्विशङ्कस्त्रिविष्टपम् 033a
विनता चापि सिद्धार्था बभूव मुदिता तदा 033c
जनयामास पुत्रौ द्वावरुणं गरुडं तथा 034a
अरुणस्तयोस्तु विकल आदित्यस्य पुरःसरः 034c
पतत्रीणां तु गरुड इन्द्रत्वेनाभ्यषिच्यत 035a
तस्यैतत्कर्म सुमहच्छ्रूयतां भृगुनन्दन 035c