सूत उवाच 001
स्पृष्टमात्रा तु पद्भ्यां सा गरुडेन बलीयसा 001a
अभज्यत तरोः शाखा भग्नां चैनामधारयत् 001c
तां भग्नां स महाशाखां स्मयन्समवलोकयन् 002a
अथात्र लम्बतोऽपश्यद्वालखिल्यानधोमुखान् 002c
स तद्विनाशसन्त्रासादनुपत्य खगाधिपः 003a
शाखामास्येन जग्राह तेषामेवान्ववेक्षया 003c
शनैः पर्यपतत्पक्षी पर्वतान्प्रविशातयन् 003e
एवं सोऽभ्यपतद्देशान्बहून्सगजकच्छपः 004a
दयार्थं वालखिल्यानां न च स्थानमविन्दत 004c
स गत्वा पर्वतश्रेष्ठं गन्धमादनमव्ययम् 005a
ददर्श कश्यपं तत्र पितरं तपसि स्थितम् 005c
ददर्श तं पिता चापि दिव्यरूपं विहङ्गमम् 006a
तेजोवीर्यबलोपेतं मनोमारुतरंहसम् 006c
शैलशृङ्गप्रतीकाशं ब्रह्मदण्डमिवोद्यतम् 007a
अचिन्त्यमनभिज्ञेयं सर्वभूतभयङ्करम् 007c
मायावीर्यधरं साक्षादग्निमिद्धमिवोद्यतम् 008a
अप्रधृष्यमजेयं च देवदानवराक्षसैः 008c
भेत्तारं गिरिशृङ्गाणां नदीजलविशोषणम् 009a
लोकसंलोडनं घोरं कृतान्तसमदर्शनम् 009c
तमागतमभिप्रेक्ष्य भगवान्कश्यपस्तदा 010a
विदित्वा चास्य सङ्कल्पमिदं वचनमब्रवीत् 010c
पुत्र मा साहसं कार्षीर्मा सद्यो लप्स्यसे व्यथाम् 011a
मा त्वा दहेयुः सङ्क्रुद्धा वालखिल्या मरीचिपाः 011c
प्रसादयामास स तान्कश्यपः पुत्रकारणात् 012a
वालखिल्यांस्तपःसिद्धानिदमुद्दिश्य कारणम् 012c
प्रजाहितार्थमारम्भो गरुडस्य तपोधनाः 013a
चिकीर्षति महत्कर्म तदनुज्ञातुमर्हथ 013c
एवमुक्ता भगवता मुनयस्ते समभ्ययुः 014a
मुक्त्वा शाखां गिरिं पुण्यं हिमवन्तं तपोर्थिनः 014c
ततस्तेष्वपयातेषु पितरं विनतात्मजः 015a
शाखाव्याक्षिप्तवदनः पर्यपृच्छत कश्यपम् 015c
भगवन्क्व विमुञ्चामि तरुशाखामिमामहम् 016a
वर्जितं ब्राह्मणैर्देशमाख्यातु भगवान्मम 016c
ततो निष्पुरुषं शैलं हिमसंरुद्धकन्दरम् 017a
अगम्यं मनसाप्यन्यैस्तस्याचख्यौ स कश्यपः 017c
तं पर्वतमहाकुक्षिमाविश्य मनसा खगः 018a
जवेनाभ्यपतत्तार्क्ष्यः सशाखागजकच्छपः 018c
न तां वध्रः परिणहेच्छतचर्मा महानणुः 019a
शाखिनो महतीं शाखां यां प्रगृह्य ययौ खगः 019c
ततः स शतसाहस्रं योजनान्तरमागतः 020a
कालेन नातिमहता गरुडः पततां वरः 020c
स तं गत्वा क्षणेनैव पर्वतं वचनात्पितुः 021a
अमुञ्चन्महतीं शाखां सस्वनां तत्र खेचरः 021c
पक्षानिलहतश्चास्य प्राकम्पत स शैलराट् 022a
मुमोच पुष्पवर्षं च समागलितपादपः 022c
शृङ्गाणि च व्यशीर्यन्त गिरेस्तस्य समन्ततः 023a
मणिकाञ्चनचित्राणि शोभयन्ति महागिरिम् 023c
शाखिनो बहवश्चापि शाखयाभिहतास्तया 024a
काञ्चनैः कुसुमैर्भान्ति विद्युत्वन्त इवाम्बुदाः 024c
ते हेमविकचा भूयो युक्ताः पर्वतधातुभिः 025a
व्यराजञ्शाखिनस्तत्र सूर्यांशुप्रतिरञ्जिताः 025c
ततस्तस्य गिरेः शृङ्गमास्थाय स खगोत्तमः 026a
भक्षयामास गरुडस्तावुभौ गजकच्छपौ 026c
ततः पर्वतकूटाग्रादुत्पपात मनोजवः 027a
प्रावर्तन्ताथ देवानामुत्पाता भयवेदिनः 027c
इन्द्रस्य वज्रं दयितं प्रजज्वाल व्यथान्वितम् 028a
सधूमा चापतत्सार्चिर्दिवोल्का नभसश्च्युता 028c
तथा वसूनां रुद्राणामादित्यानां च सर्वशः 029a
साध्यानां मरुतां चैव ये चान्ये देवतागणाः 029c
स्वं स्वं प्रहरणं तेषां परस्परमुपाद्रवत् 029e
अभूतपूर्वं सङ्ग्रामे तदा देवासुरेऽपि च 030a
ववुर्वाताः सनिर्घाताः पेतुरुल्काः समन्ततः 030c
निरभ्रमपि चाकाशं प्रजगर्ज महास्वनम् 031a
देवानामपि यो देवः सोऽप्यवर्षदसृक्तदा 031c
मम्लुर्माल्यानि देवानां शेमुस्तेजांसि चैव हि 032a
उत्पातमेघा रौद्राश्च ववर्षुः शोणितं बहु 032c
रजांसि मुकुटान्येषामुत्थितानि व्यधर्षयन् 032e
ततस्त्राससमुद्विग्नः सह देवैः शतक्रतुः 033a
उत्पातान्दारुणान्पश्यन्नित्युवाच बृहस्पतिम् 033c
किमर्थं भगवन्घोरा महोत्पाताः समुत्थिताः 034a
न च शत्रुं प्रपश्यामि युधि यो नः प्रधर्षयेत् 034c
बृहस्पतिरुवाच 035
तवापराधाद्देवेन्द्र प्रमादाच्च शतक्रतो 035a
तपसा वालखिल्यानां भूतमुत्पन्नमद्भुतम् 035c
कश्यपस्य मुनेः पुत्रो विनतायाश्च खेचरः 036a
हर्तुं सोममनुप्राप्तो बलवान्कामरूपवान् 036c
समर्थो बलिनां श्रेष्ठो हर्तुं सोमं विहङ्गमः 037a
सर्वं सम्भावयाम्यस्मिन्नसाध्यमपि साधयेत् 037c
सूत उवाच 038
श्रुत्वैतद्वचनं शक्रः प्रोवाचामृतरक्षिणः 038a
महावीर्यबलः पक्षी हर्तुं सोममिहोद्यतः 038c
युष्मान्सम्बोधयाम्येष यथा स न हरेद्बलात् 039a
अतुलं हि बलं तस्य बृहस्पतिरुवाच मे 039c
तच्छ्रुत्वा विबुधा वाक्यं विस्मिता यत्नमास्थिताः 040a
परिवार्यामृतं तस्थुर्वज्री चेन्द्रः शतक्रतुः 040c
धारयन्तो महार्हाणि कवचानि मनस्विनः 041a
काञ्चनानि विचित्राणि वैडूर्यविकृतानि च 041c
विविधानि च शस्त्राणि घोररूपाण्यनेकशः 042a
शिततीक्ष्णाग्रधाराणि समुद्यम्य सहस्रशः 042c
सविस्फुलिङ्गज्वालानि सधूमानि च सर्वशः 043a
चक्राणि परिघांश्चैव त्रिशूलानि परश्वधान् 043c
शक्तीश्च विविधास्तीक्ष्णाः करवालांश्च निर्मलान् 044a
स्वदेहरूपाण्यादाय गदाश्चोग्रप्रदर्शनाः 044c
तैः शस्त्रैर्भानुमद्भिस्ते दिव्याभरणभूषिताः 045a
भानुमन्तः सुरगणास्तस्थुर्विगतकल्मषाः 045c
अनुपमबलवीर्यतेजसो; धृतमनसः परिरक्षणेऽमृतस्य 046a
असुरपुरविदारणाः सुरा; ज्वलनसमिद्धवपुःप्रकाशिनः 046c
इति समरवरं सुरास्थितं; परिघसहस्रशतैः समाकुलम् 047a
विगलितमिव चाम्बरान्तरे; तपनमरीचिविभासितं बभौ 047c