सूत उवाच 001
तस्य कण्ठमनुप्राप्तो ब्राह्मणः सह भार्यया 001a
दहन्दीप्त इवाङ्गारस्तमुवाचान्तरिक्षगः 001c
द्विजोत्तम विनिर्गच्छ तूर्णमास्यादपावृतात् 002a
न हि मे ब्राह्मणो वध्यः पापेष्वपि रतः सदा 002c
ब्रुवाणमेवं गरुडं ब्राह्मणः समभाषत 003a
निषादी मम भार्येयं निर्गच्छतु मया सह 003c
गरुड उवाच 004
एतामपि निषादीं त्वं परिगृह्याशु निष्पत 004a
तूर्णं सम्भावयात्मानमजीर्णं मम तेजसा 004c
सूत उवाच 005
ततः स विप्रो निष्क्रान्तो निषादीसहितस्तदा 005a
वर्धयित्वा च गरुडमिष्टं देशं जगाम ह 005c
सहभार्ये विनिष्क्रान्ते तस्मिन्विप्रे स पक्षिराट् 006a
वितत्य पक्षावाकाशमुत्पपात मनोजवः 006c
ततोऽपश्यत्स पितरं पृष्टश्चाख्यातवान्पितुः 007a
अहं हि सर्पैः प्रहितः सोममाहर्तुमुद्यतः 007c
मातुर्दास्यविमोक्षार्थमाहरिष्ये तमद्य वै 007e
मात्रा चास्मि समादिष्टो निषादान्भक्षयेति वै 008a
न च मे तृप्तिरभवद्भक्षयित्वा सहस्रशः 008c
तस्माद्भोक्तव्यमपरं भगवन्प्रदिशस्व मे 009a
यद्भुक्त्वामृतमाहर्तुं समर्थः स्यामहं प्रभो 009c
कश्यप उवाच 010
आसीद्विभावसुर्नाम महर्षिः कोपनो भृशम् 010a
भ्राता तस्यानुजश्चासीत्सुप्रतीको महातपाः 010c
स नेच्छति धनं भ्रात्रा सहैकस्थं महामुनिः 011a
विभागं कीर्तयत्येव सुप्रतीकोऽथ नित्यशः 011c
अथाब्रवीच्च तं भ्राता सुप्रतीकं विभावसुः 012a
विभागं बहवो मोहात्कर्तुमिच्छन्ति नित्यदा 012c
ततो विभक्ता अन्योन्यं नाद्रियन्तेऽर्थमोहिताः 012e
ततः स्वार्थपरान्मूढान्पृथग्भूतान्स्वकैर्धनैः 013a
विदित्वा भेदयन्त्येतानमित्रा मित्ररूपिणः 013c
विदित्वा चापरे भिन्नानन्तरेषु पतन्त्यथ 014a
भिन्नानामतुलो नाशः क्षिप्रमेव प्रवर्तते 014c
तस्माच्चैव विभागार्थं न प्रशंसन्ति पण्डिताः 015a
गुरुशास्त्रे निबद्धानामन्योन्यमभिशङ्किनाम् 015c
नियन्तुं न हि शक्यस्त्वं भेदतो धनमिच्छसि 016a
यस्मात्तस्मात्सुप्रतीक हस्तित्वं समवाप्स्यसि 016c
शप्तस्त्वेवं सुप्रतीको विभावसुमथाब्रवीत् 017a
त्वमप्यन्तर्जलचरः कच्छपः सम्भविष्यसि 017c
एवमन्योन्यशापात्तौ सुप्रतीकविभावसू 018a
गजकच्छपतां प्राप्तावर्थार्थं मूढचेतसौ 018c
रोषदोषानुषङ्गेण तिर्यग्योनिगतावपि 019a
परस्परद्वेषरतौ प्रमाणबलदर्पितौ 019c
सरस्यस्मिन्महाकायौ पूर्ववैरानुसारिणौ 020a
तयोरेकतरः श्रीमान्समुपैति महागजः 020c
तस्य बृंहितशब्देन कूर्मोऽप्यन्तर्जलेशयः 021a
उत्थितोऽसौ महाकायः कृत्स्नं सङ्क्षोभयन्सरः 021c
तं दृष्ट्वावेष्टितकरः पतत्येष गजो जलम् 022a
दन्तहस्ताग्रलाङ्गूलपादवेगेन वीर्यवान् 022c
तं विक्षोभयमाणं तु सरो बहुझषाकुलम् 023a
कूर्मोऽप्यभ्युद्यतशिरा युद्धायाभ्येति वीर्यवान् 023c
षडुच्छ्रितो योजनानि गजस्तद्द्विगुणायतः 024a
कूर्मस्त्रियोजनोत्सेधो दशयोजनमण्डलः 024c
तावेतौ युद्धसम्मत्तौ परस्परजयैषिणौ 025a
उपयुज्याशु कर्मेदं साधयेप्सितमात्मनः 025c
सूत उवाच 026
स तच्छ्रुत्वा पितुर्वाक्यं भीमवेगोऽन्तरिक्षगः 026a
नखेन गजमेकेन कूर्ममेकेन चाक्षिपत् 026c
समुत्पपात चाकाशं तत उच्चैर्विहङ्गमः 027a
सोऽलम्बतीर्थमासाद्य देववृक्षानुपागमत् 027c
ते भीताः समकम्पन्त तस्य पक्षानिलाहताः 028a
न नो भञ्ज्यादिति तदा दिव्याः कनकशाखिनः 028c
प्रचलाङ्गान्स तान्दृष्ट्वा मनोरथफलाङ्कुरान् 029a
अन्यानतुलरूपाङ्गानुपचक्राम खेचरः 029c
काञ्चनै राजतैश्चैव फलैर्वैडूर्यशाखिनः 030a
सागराम्बुपरिक्षिप्तान्भ्राजमानान्महाद्रुमान् 030c
तमुवाच खगश्रेष्ठं तत्र रोहिणपादपः 031a
अतिप्रवृद्धः सुमहानापतन्तं मनोजवम् 031c
यैषा मम महाशाखा शतयोजनमायता 032a
एतामास्थाय शाखां त्वं खादेमौ गजकच्छपौ 032c
ततो द्रुमं पतगसहस्रसेवितं; महीधरप्रतिमवपुः प्रकम्पयन् 033a
खगोत्तमो द्रुतमभिपत्य वेगवान्बभञ्ज तामविरलपत्रसंवृताम् 033c