सूत उवाच 001
इत्युक्तो गरुडः सर्पैस्ततो मातरमब्रवीत् 001a
गच्छाम्यमृतमाहर्तुं भक्ष्यमिच्छामि वेदितुम् 001c
विनतोवाच 002
समुद्रकुक्षावेकान्ते निषादालयमुत्तमम् 002a
सहस्राणामनेकानां तान्भुक्त्वामृतमानय 002c
न तु ते ब्राह्मणं हन्तुं कार्या बुद्धिः कथञ्चन 003a
अवध्यः सर्वभूतानां ब्राह्मणो ह्यनलोपमः 003c
अग्निरर्को विषं शस्त्रं विप्रो भवति कोपितः 004a
भूतानामग्रभुग्विप्रो वर्णश्रेष्ठः पिता गुरुः 004c
गरुड उवाच 005
यथाहमभिजानीयां ब्राह्मणं लक्षणैः शुभैः 005a
तन्मे कारणतो मातः पृच्छतो वक्तुमर्हसि 005c
विनतोवाच 006
यस्ते कण्ठमनुप्राप्तो निगीर्णं बडिशं यथा 006a
दहेदङ्गारवत्पुत्र तं विद्याद्ब्राह्मणर्षभम् 006c
सूत उवाच 007
प्रोवाच चैनं विनता पुत्रहार्दादिदं वचः 007a
जानन्त्यप्यतुलं वीर्यमाशीर्वादसमन्वितम् 007c
पक्षौ ते मारुतः पातु चन्द्रः पृष्ठं तु पुत्रक 008a
शिरस्तु पातु ते वह्निर्भास्करः सर्वमेव तु 008c
अहं च ते सदा पुत्र शान्तिस्वस्तिपरायणा 009a
अरिष्टं व्रज पन्थानं वत्स कार्यार्थसिद्धये 009c
ततः स मातुर्वचनं निशम्य; वितत्य पक्षौ नभ उत्पपात 010a
ततो निषादान्बलवानुपागमद्बुभुक्षितः काल इवान्तको महान् 010c
स तान्निषादानुपसंहरंस्तदा; रजः समुद्धूय नभःस्पृशं महत् 011a
समुद्रकुक्षौ च विशोषयन्पयः; समीपगान्भूमिधरान्विचालयन् 011c
ततः स चक्रे महदाननं तदा; निषादमार्गं प्रतिरुध्य पक्षिराट् 012a
ततो निषादास्त्वरिताः प्रवव्रजुर्यतो मुखं तस्य भुजङ्गभोजिनः 012c
तदाननं विवृतमतिप्रमाणवत्समभ्ययुर्गगनमिवार्दिताः खगाः 013a
सहस्रशः पवनरजोभ्रमोहिता; महानिलप्रचलितपादपे वने 013c
ततः खगो वदनममित्रतापनः; समाहरत्परिचपलो महाबलः 014a
निषूदयन्बहुविधमत्स्यभक्षिणो; बुभुक्षितो गगनचरेश्वरस्तदा 014c