सूत उवाच BR001
BR001a सुपर्णेनोह्यमानास्ते जग्मुस्तं देशमाशु वै
सागराम्बुपरिक्षिप्तं पक्षिसङ्घनिनादितम् BR001c
BR002a विचित्रफलपुष्पाभिर्वनराजिभिरावृतम्
BR002c भवनैरावृतं रम्यैस्तथा पद्माकरैरपि
BR003a प्रसन्नसलिलैश्चापि ह्रदैश्चित्रैर्विभूषितम्
BR003c दिव्यगन्धवहैः पुण्यैर्मारुतैरुपवीजितम्
BR004a उपजिघ्रद्भिराकाशं वृक्षैर्मलयजैरपि
BR004c शोभितं पुष्पवर्षाणि मुञ्चद्भिर्मारुतोद्धुतैः
BR005a किरद्भिरिव तत्रस्थान्नागान्पुष्पाम्बुवृष्टिभिः
BR005c मनःसंहर्षणं पुण्यं गन्धर्वाप्सरसां प्रियम्
BR005e नानापक्षिरुतं रम्यं कद्रूपुत्रप्रहर्षणम्
BR006a तत्ते वनं समासाद्य विजह्रुः पन्नगा मुदा
BR006c अब्रुवंश्च महावीर्यं सुपर्णं पतगोत्तमम्
BR007a वहास्मानपरं द्वीपं सुरम्यं विपुलोदकम्
BR007c त्वं हि देशान्बहून्रम्यान्पतन्पश्यसि खेचर
BR008a स विचिन्त्याब्रवीत्पक्षी मातरं विनतां तदा
BR008c किं कारणं मया मातः कर्तव्यं सर्पभाषितम्
विनतोवाच BR009
BR009a दासीभूतास्म्यनार्याया भगिन्याः पतगोत्तम
BR009c पणं वितथमास्थाय सर्पैरुपधिना कृतम्
सूत उवाच BR010
BR010a तस्मिंस्तु कथिते मात्रा कारणे गगनेचरः
BR010c उवाच वचनं सर्पांस्तेन दुःखेन दुःखितः
BR011a किमाहृत्य विदित्वा वा किं वा कृत्वेह पौरुषम्
BR011c दास्याद्वो विप्रमुच्येयं सत्यं शंसत लेलिहाः
BR012a श्रुत्वा तमब्रुवन्सर्पा आहरामृतमोजसा
BR012c ततो दास्याद्विप्रमोक्षो भविता तव खेचर