सूत उवाच 001
एवं स्तुतस्तदा कद्र्वा भगवान्हरिवाहनः 001a
नीलजीमूतसङ्घातैर्व्योम सर्वं समावृणोत् 001c
ते मेघा मुमुचुस्तोयं प्रभूतं विद्युदुज्ज्वलाः 002a
परस्परमिवात्यर्थं गर्जन्तः सततं दिवि 002c
सङ्घातितमिवाकाशं जलदैः सुमहाद्भुतैः 003a
सृजद्भिरतुलं तोयमजस्रं सुमहारवैः 003c
सम्प्रनृत्तमिवाकाशं धारोर्मिभिरनेकशः 004a
मेघस्तनितनिर्घोषमम्बरं समपद्यत 004c
नागानामुत्तमो हर्षस्तदा वर्षति वासवे 005a
आपूर्यत मही चापि सलिलेन समन्ततः 005c