सूत उवाच 001
ततः कामगमः पक्षी महावीर्यो महाबलः 001a
मातुरन्तिकमागच्छत्परं तीरं महोदधेः 001c
यत्र सा विनता तस्मिन्पणितेन पराजिता 002a
अतीव दुःखसन्तप्ता दासीभावमुपागता 002c
ततः कदाचिद्विनतां प्रवणां पुत्रसन्निधौ 003a
काल आहूय वचनं कद्रूरिदमभाषत 003c
नागानामालयं भद्रे सुरम्यं रमणीयकम् 004a
समुद्रकुक्षावेकान्ते तत्र मां विनते वह 004c
ततः सुपर्णमाता तामवहत्सर्पमातरम् 005a
पन्नगान्गरुडश्चापि मातुर्वचनचोदितः 005c
स सूर्यस्याभितो याति वैनतेयो विहङ्गमः 006a
सूर्यरश्मिपरीताश्च मूर्च्छिताः पन्नगाभवन् 006c
तदवस्थान्सुतान्दृष्ट्वा कद्रूः शक्रमथास्तुवत् 006e
नमस्ते देवदेवेश नमस्ते बलसूदन 007a
नमुचिघ्न नमस्तेऽस्तु सहस्राक्ष शचीपते 007c
सर्पाणां सूर्यतप्तानां वारिणा त्वं प्लवो भव 008a
त्वमेव परमं त्राणमस्माकममरोत्तम 008c
ईशो ह्यसि पयः स्रष्टुं त्वमनल्पं पुरन्दर 009a
त्वमेव मेघस्त्वं वायुस्त्वमग्निर्वैद्युतोऽम्बरे 009c
त्वमभ्रघनविक्षेप्ता त्वामेवाहुः पुनर्घनम् 010a
त्वं वज्रमतुलं घोरं घोषवांस्त्वं बलाहकः 010c
स्रष्टा त्वमेव लोकानां संहर्ता चापराजितः 011a
त्वं ज्योतिः सर्वभूतानां त्वमादित्यो विभावसुः 011c
त्वं महद्भूतमाश्चर्यं त्वं राजा त्वं सुरोत्तमः 012a
त्वं विष्णुस्त्वं सहस्राक्षस्त्वं देवस्त्वं परायणम् 012c
त्वं सर्वममृतं देव त्वं सोमः परमार्चितः 013a
त्वं मुहूर्तस्तिथिश्च त्वं लवस्त्वं वै पुनः क्षणः 013c
शुक्लस्त्वं बहुलश्चैव कला काष्ठा त्रुटिस्तथा 014a
संवत्सरर्तवो मासा रजन्यश्च दिनानि च 014c
त्वमुत्तमा सगिरिवना वसुन्धरा; सभास्करं वितिमिरमम्बरं तथा 015a
महोदधिः सतिमितिमिङ्गिलस्तथा; महोर्मिमान्बहुमकरो झषालयः 015c
महद्यशस्त्वमिति सदाभिपूज्यसे; मनीषिभिर्मुदितमना महर्षिभिः 016a
अभिष्टुतः पिबसि च सोममध्वरे; वषट्कृतान्यपि च हवींषि भूतये 016c
त्वं विप्रैः सततमिहेज्यसे फलार्थं; वेदाङ्गेष्वतुलबलौघ गीयसे च 017a
त्वद्धेतोर्यजनपरायणा द्विजेन्द्रा; वेदाङ्गान्यभिगमयन्ति सर्ववेदैः 017c