001 सूत उवाच तं समुद्रमतिक्रम्य कद्रूर्विनतया सह 001a
न्यपतत्तुरगाभ्याशे नचिरादिव शीघ्रगा 001c
निशाम्य च बहून्वालान्कृष्णान्पुच्छं समाश्रितान् 002a
विनतां विषण्णवदनां कद्रूर्दास्ये न्ययोजयत् 002c
ततः सा विनता तस्मिन्पणितेन पराजिता 003a
अभवद्दुःखसन्तप्ता दासीभावं समास्थिता 003c
एतस्मिन्नन्तरे चैव गरुडः काल आगते 004a
विना मात्रा महातेजा विदार्याण्डमजायत 004c
अग्निराशिरिवोद्भासन्समिद्धोऽतिभयङ्करः 005a
प्रवृद्धः सहसा पक्षी महाकायो नभोगतः 005c
तं दृष्ट्वा शरणं जग्मुः प्रजाः सर्वा विभावसुम् 006a
प्रणिपत्याब्रुवंश्चैनमासीनं विश्वरूपिणम् 006c
अग्ने मा त्वं प्रवर्धिष्ठाः कच्चिन्नो न दिधक्षसि 007a
असौ हि राशिः सुमहान्समिद्धस्तव सर्पति 007c
अग्निरुवाच 008
नैतदेवं यथा यूयं मन्यध्वमसुरार्दनाः 008a
गरुडो बलवानेष मम तुल्यः स्वतेजसा 008c
सूत उवाच 009
एवमुक्तास्ततो गत्वा गरुडं वाग्भिरस्तुवन् 009a
अदूरादभ्युपेत्यैनं देवाः सर्षिगणास्तदा 009c
त्वमृषिस्त्वं महाभागस्त्वं देवः पतगेश्वरः 010a
त्वं प्रभुस्तपनप्रख्यस्त्वं नस्त्राणमनुत्तमम् 010c
बलोर्मिमान्साधुरदीनसत्त्वः; समृद्धिमान्दुष्प्रसहस्त्वमेव 011a
तपः श्रुतं सर्वमहीनकीर्ते; अनागतं चोपगतं च सर्वम् 011c
त्वमुत्तमः सर्वमिदं चराचरं; गभस्तिभिर्भानुरिवावभाससे 012a
समाक्षिपन्भानुमतः प्रभां मुहुस्त्वमन्तकः सर्वमिदं ध्रुवाध्रुवम् 012c
दिवाकरः परिकुपितो यथा दहेत्प्रजास्तथा दहसि हुताशनप्रभ 013a
भयङ्करः प्रलय इवाग्निरुत्थितो; विनाशयन्युगपरिवर्तनान्तकृत् 013c
खगेश्वरं शरणमुपस्थिता वयं; महौजसं वितिमिरमभ्रगोचरम् 014a
महाबलं गरुडमुपेत्य खेचरं; परावरं वरदमजय्यविक्रमम् 014c
एवं स्तुतः सुपर्णस्तु देवैः सर्षिगणैस्तदा 015a
तेजसः प्रतिसंहारमात्मनः स चकार ह 015c