सूत उवाच 001
ततो रजन्यां व्युष्टायां प्रभात उदिते रवौ 001a
कद्रूश्च विनता चैव भगिन्यौ ते तपोधन 001c
अमर्षिते सुसंरब्धे दास्ये कृतपणे तदा 002a
जग्मतुस्तुरगं द्रष्टुमुच्छैःश्रवसमन्तिकात् 002c
ददृशाते तदा तत्र समुद्रं निधिमम्भसाम् 003a
तिमिङ्गिलझषाकीर्णं मकरैरावृतं तथा 003c
सत्त्वैश्च बहुसाहस्रैर्नानारूपैः समावृतम् 004a
उग्रैर्नित्यमनाधृष्यं कूर्मग्राहसमाकुलम् 004c
आकरं सर्वरत्नानामालयं वरुणस्य च 005a
नागानामालयं रम्यमुत्तमं सरितां पतिम् 005c
पातालज्वलनावासमसुराणां च बन्धनम् 006a
भयङ्करं च सत्त्वानां पयसां निधिमर्णवम् 006c
शुभं दिव्यममर्त्यानाममृतस्याकरं परम् 007a
अप्रमेयमचिन्त्यं च सुपुण्यजलमद्भुतम् 007c
घोरं जलचरारावरौद्रं भैरवनिस्वनम् 008a
गम्भीरावर्तकलिलं सर्वभूतभयङ्करम् 008c
वेलादोलानिलचलं क्षोभोद्वेगसमुत्थितम् 009a
वीचीहस्तैः प्रचलितैर्नृत्यन्तमिव सर्वशः 009c
चन्द्रवृद्धिक्षयवशादुद्वृत्तोर्मिदुरासदम् 010a
पाञ्चजन्यस्य जननं रत्नाकरमनुत्तमम् 010c
गां विन्दता भगवता गोविन्देनामितौजसा 011a
वराहरूपिणा चान्तर्विक्षोभितजलाविलम् 011c
ब्रह्मर्षिणा च तपता वर्षाणां शतमत्रिणा 012a
अनासादितगाधं च पातालतलमव्ययम् 012c
अध्यात्मयोगनिद्रां च पद्मनाभस्य सेवतः 013a
युगादिकालशयनं विष्णोरमिततेजसः 013c
वडवामुखदीप्ताग्नेस्तोयहव्यप्रदं शुभम् 014a
अगाधपारं विस्तीर्णमप्रमेयं सरित्पतिम् 014c
महानदीभिर्बह्वीभिः स्पर्धयेव सहस्रशः 015a
अभिसार्यमाणमनिशं ददृशाते महार्णवम् 015c
गम्भीरं तिमिमकरोग्रसङ्कुलं तं; गर्जन्तं जलचररावरौद्रनादैः 016a
विस्तीर्णं ददृशतुरम्बरप्रकाशं; तेऽगाधं निधिमुरुमम्भसामनन्तम् 016c
इत्येवं झषमकरोर्मिसङ्कुलं तं; गम्भीरं विकसितमम्बरप्रकाशम् 017a
पातालज्वलनशिखाविदीपितं तं; पश्यन्त्यौ द्रुतमभिपेततुस्तदानीम् 017c