सूत उवाच 001
एतत्ते सर्वमाख्यातममृतं मथितं यथा 001a
यत्र सोऽश्वः समुत्पन्नः श्रीमानतुलविक्रमः 001c
यं निशाम्य तदा कद्रूर्विनतामिदमब्रवीत् 002a
उच्चैःश्रवा नु किंवर्णो भद्रे जानीहि माचिरम् 002c
विनतोवाच 003
श्वेत एवाश्वराजोऽयं किं वा त्वं मन्यसे शुभे 003a
ब्रूहि वर्णं त्वमप्यस्य ततोऽत्र विपणावहे 003c
कद्रूरुवाच 004
कृष्णवालमहं मन्ये हयमेनं शुचिस्मिते 004a
एहि सार्धं मया दीव्य दासीभावाय भामिनि 004c
सूत उवाच 005
एवं ते समयं कृत्वा दासीभावाय वै मिथः 005a
जग्मतुः स्वगृहानेव श्वो द्रक्ष्याव इति स्म ह 005c
ततः पुत्रसहस्रं तु कद्रूर्जिह्मं चिकीर्षती 006a
आज्ञापयामास तदा वाला भूत्वाञ्जनप्रभाः 006c
आविशध्वं हयं क्षिप्रं दासी न स्यामहं यथा 007a
तद्वाक्यं नान्वपद्यन्त ताञ्शशाप भुजङ्गमान् 007c
सर्पसत्रे वर्तमाने पावको वः प्रधक्ष्यति 008a
जनमेजयस्य राजर्षेः पाण्डवेयस्य धीमतः 008c
शापमेनं तु शुश्राव स्वयमेव पितामहः 009a
अतिक्रूरं समुद्दिष्टं कद्र्वा दैवादतीव हि 009c
सार्धं देवगणैः सर्वैर्वाचं तामन्वमोदत 010a
बहुत्वं प्रेक्ष्य सर्पाणां प्रजानां हितकाम्यया 010c
तिग्मवीर्यविषा ह्येते दन्दशूका महाबलाः 011a
तेषां तीक्ष्णविषत्वाद्धि प्रजानां च हिताय वै 011c
प्रादाद्विषहणीं विद्यां काश्यपाय महात्मने 011e