सूत उवाच 001
अथावरणमुख्यानि नानाप्रहरणानि च 001a
प्रगृह्याभ्यद्रवन्देवान्सहिता दैत्यदानवाः 001c
ततस्तदमृतं देवो विष्णुरादाय वीर्यवान् 002a
जहार दानवेन्द्रेभ्यो नरेण सहितः प्रभुः 002c
ततो देवगणाः सर्वे पपुस्तदमृतं तदा 003a
विष्णोः सकाशात्सम्प्राप्य सम्भ्रमे तुमुले सति 003c
ततः पिबत्सु तत्कालं देवेष्वमृतमीप्सितम् 004a
राहुर्विबुधरूपेण दानवः प्रापिबत्तदा 004c
तस्य कण्ठमनुप्राप्ते दानवस्यामृते तदा 005a
आख्यातं चन्द्रसूर्याभ्यां सुराणां हितकाम्यया 005c
ततो भगवता तस्य शिरश्छिन्नमलङ्कृतम् 006a
चक्रायुधेन चक्रेण पिबतोऽमृतमोजसा 006c
तच्छैलशृङ्गप्रतिमं दानवस्य शिरो महत् 007a
चक्रेणोत्कृत्तमपतच्चालयद्वसुधातलम् 007c
ततो वैरविनिर्बन्धः कृतो राहुमुखेन वै 008a
शाश्वतश्चन्द्रसूर्याभ्यां ग्रसत्यद्यापि चैव तौ 008c
विहाय भगवांश्चापि स्त्रीरूपमतुलं हरिः 009a
नानाप्रहरणैर्भीमैर्दानवान्समकम्पयत् 009c
ततः प्रवृत्तः सङ्ग्रामः समीपे लवणाम्भसः 010a
सुराणामसुराणां च सर्वघोरतरो महान् 010c
प्रासाः सुविपुलास्तीक्ष्णा न्यपतन्त सहस्रशः 011a
तोमराश्च सुतीक्ष्णाग्राः शस्त्राणि विविधानि च 011c
ततोऽसुराश्चक्रभिन्ना वमन्तो रुधिरं बहु 012a
असिशक्तिगदारुग्णा निपेतुर्धरणीतले 012c
छिन्नानि पट्टिशैश्चापि शिरांसि युधि दारुणे 013a
तप्तकाञ्चनजालानि निपेतुरनिशं तदा 013c
रुधिरेणावलिप्ताङ्गा निहताश्च महासुराः 014a
अद्रीणामिव कूटानि धातुरक्तानि शेरते 014c
हाहाकारः समभवत्तत्र तत्र सहस्रशः 015a
अन्योन्यं छिन्दतां शस्त्रैरादित्ये लोहितायति 015c
परिघैश्चायसैः पीतैः सन्निकर्षे च मुष्टिभिः 016a
निघ्नतां समरेऽन्योन्यं शब्दो दिवमिवास्पृशत् 016c
छिन्धि भिन्धि प्रधावध्वं पातयाभिसरेति च 017a
व्यश्रूयन्त महाघोराः शब्दास्तत्र समन्ततः 017c
एवं सुतुमुले युद्धे वर्तमाने भयावहे 018a
नरनारायणौ देवौ समाजग्मतुराहवम् 018c
तत्र दिव्यं धनुर्दृष्ट्वा नरस्य भगवानपि 019a
चिन्तयामास वै चक्रं विष्णुर्दानवसूदनम् 019c
ततोऽम्बराच्चिन्तितमात्रमागतं; महाप्रभं चक्रममित्रतापनम् 020a
विभावसोस्तुल्यमकुण्ठमण्डलं; सुदर्शनं भीममजय्यमुत्तमम् 020c
तदागतं ज्वलितहुताशनप्रभं; भयङ्करं करिकरबाहुरच्युतः 021a
मुमोच वै चपलमुदग्रवेगवन्महाप्रभं परनगरावदारणम् 021c
तदन्तकज्वलनसमानवर्चसं; पुनः पुनर्न्यपतत वेगवत्तदा 022a
विदारयद्दितिदनुजान्सहस्रशः; करेरितं पुरुषवरेण संयुगे 022c
दहत्क्वचिज्ज्वलन इवावलेलिहत्प्रसह्य तानसुरगणान्न्यकृन्तत 023a
प्रवेरितं वियति मुहुः क्षितौ तदा; पपौ रणे रुधिरमथो पिशाचवत् 023c
अथासुरा गिरिभिरदीनचेतसो; मुहुर्मुहुः सुरगणमर्दयंस्तदा 024a
महाबला विगलितमेघवर्चसः; सहस्रशो गगनमभिप्रपद्य ह 024c
अथाम्बराद्भयजननाः प्रपेदिरे; सपादपा बहुविधमेघरूपिणः 025a
महाद्रयः प्रविगलिताग्रसानवः; परस्परं द्रुतमभिहत्य सस्वनाः 025c
ततो मही प्रविचलिता सकानना; महाद्रिपाताभिहता समन्ततः 026a
परस्परं भृशमभिगर्जतां मुहू; रणाजिरे भृशमभिसम्प्रवर्तिते 026c
नरस्ततो वरकनकाग्रभूषणैर्महेषुभिर्गगनपथं समावृणोत् 027a
विदारयन्गिरिशिखराणि पत्रिभिर्महाभयेऽसुरगणविग्रहे तदा 027c
ततो महीं लवणजलं च सागरं; महासुराः प्रविविशुरर्दिताः सुरैः 028a
वियद्गतं ज्वलितहुताशनप्रभं; सुदर्शनं परिकुपितं निशाम्य च 028c
ततः सुरैर्विजयमवाप्य मन्दरः; स्वमेव देशं गमितः सुपूजितः 029a
विनाद्य खं दिवमपि चैव सर्वशस्ततो गताः सलिलधरा यथागतम् 029c
ततोऽमृतं सुनिहितमेव चक्रिरे; सुराः परां मुदमभिगम्य पुष्कलाम् 030a
ददौ च तं निधिममृतस्य रक्षितुं; किरीटिने बलभिदथामरैः सह 030c