सूत उवाच 001
ततोऽभ्रशिखराकारैर्गिरिशृङ्गैरलङ्कृतम् 001a
मन्दरं पर्वतवरं लताजालसमावृतम् 001c
नानाविहगसङ्घुष्टं नानादंष्ट्रिसमाकुलम् 002a
किन्नरैरप्सरोभिश्च देवैरपि च सेवितम् 002c
एकादश सहस्राणि योजनानां समुच्छ्रितम् 003a
अधो भूमेः सहस्रेषु तावत्स्वेव प्रतिष्ठितम् 003c
तमुद्धर्तुं न शक्ता वै सर्वे देवगणास्तदा 004a
विष्णुमासीनमभ्येत्य ब्रह्माणं चेदमब्रुवन् 004c
भवन्तावत्र कुरुतां बुद्धिं नैःश्रेयसीं पराम् 005a
मन्दरोद्धरणे यत्नः क्रियतां च हिताय नः 005c
तथेति चाब्रवीद्विष्णुर्ब्रह्मणा सह भार्गव 006a
ततोऽनन्तः समुत्थाय ब्रह्मणा परिचोदितः 006c
नारायणेन चाप्युक्तस्तस्मिन्कर्मणि वीर्यवान् 006e
अथ पर्वतराजानं तमनन्तो महाबलः 007a
उज्जहार बलाद्ब्रह्मन्सवनं सवनौकसम् 007c
ततस्तेन सुराः सार्धं समुद्रमुपतस्थिरे 008a
तमूचुरमृतार्थाय निर्मथिष्यामहे जलम् 008c
अपाम्पतिरथोवाच ममाप्यंशो भवेत्ततः 009a
सोढास्मि विपुलं मर्दं मन्दरभ्रमणादिति 009c
ऊचुश्च कूर्मराजानमकूपारं सुरासुराः 010a
गिरेरधिष्ठानमस्य भवान्भवितुमर्हति 010c
कूर्मेण तु तथेत्युक्त्वा पृष्ठमस्य समर्पितम् 011a
तस्य शैलस्य चाग्रं वै यन्त्रेणेन्द्रोऽभ्यपीडयत् 011c
मन्थानं मन्दरं कृत्वा तथा नेत्रं च वासुकिम् 012a
देवा मथितुमारब्धाः समुद्रं निधिमम्भसाम् 012c
अमृतार्थिनस्ततो ब्रह्मन्सहिता दैत्यदानवाः 012e
एकमन्तमुपाश्लिष्टा नागराज्ञो महासुराः 013a
विबुधाः सहिताः सर्वे यतः पुच्छं ततः स्थिताः 013c
अनन्तो भगवान्देवो यतो नारायणस्ततः 014a
शिर उद्यम्य नागस्य पुनः पुनरवाक्षिपत् 014c
वासुकेरथ नागस्य सहसाक्षिप्यतः सुरैः 015a
सधूमाः सार्चिषो वाता निष्पेतुरसकृन्मुखात् 015c
ते धूमसङ्घाः सम्भूता मेघसङ्घाः सविद्युतः 016a
अभ्यवर्षन्सुरगणाञ्छ्रमसन्तापकर्शितान् 016c
तस्माच्च गिरिकूटाग्रात्प्रच्युताः पुष्पवृष्टयः 017a
सुरासुरगणान्माल्यैः सर्वतः समवाकिरन् 017c
बभूवात्र महाघोषो महामेघरवोपमः 018a
उदधेर्मथ्यमानस्य मन्दरेण सुरासुरैः 018c
तत्र नानाजलचरा विनिष्पिष्टा महाद्रिणा 019a
विलयं समुपाजग्मुः शतशो लवणाम्भसि 019c
वारुणानि च भूतानि विविधानि महीधरः 020a
पातालतलवासीनि विलयं समुपानयत् 020c
तस्मिंश्च भ्राम्यमाणेऽद्रौ सङ्घृष्यन्तः परस्परम् 021a
न्यपतन्पतगोपेताः पर्वताग्रान्महाद्रुमाः 021c
तेषां सङ्घर्षजश्चाग्निरर्चिर्भिः प्रज्वलन्मुहुः 022a
विद्युद्भिरिव नीलाभ्रमावृणोन्मन्दरं गिरिम् 022c
ददाह कुञ्जरांश्चैव सिंहांश्चैव विनिःसृतान् 023a
विगतासूनि सर्वाणि सत्त्वानि विविधानि च 023c
तमग्निममरश्रेष्ठः प्रदहन्तं ततस्ततः 024a
वारिणा मेघजेनेन्द्रः शमयामास सर्वतः 024c
ततो नानाविधास्तत्र सुस्रुवुः सागराम्भसि 025a
महाद्रुमाणां निर्यासा बहवश्चौषधीरसाः 025c
तेषाममृतवीर्याणां रसानां पयसैव च 026a
अमरत्वं सुरा जग्मुः काञ्चनस्य च निःस्रवात् 026c
अथ तस्य समुद्रस्य तज्जातमुदकं पयः 027a
रसोत्तमैर्विमिश्रं च ततः क्षीरादभूद्घृतम् 027c
ततो ब्रह्माणमासीनं देवा वरदमब्रुवन् 028a
श्रान्ताः स्म सुभृशं ब्रह्मन्नोद्भवत्यमृतं च तत् 028c
ऋते नारायणं देवं दैत्या नागोत्तमास्तथा 029a
चिरारब्धमिदं चापि सागरस्यापि मन्थनम् 029c
ततो नारायणं देवं ब्रह्मा वचनमब्रवीत् 030a
विधत्स्वैषां बलं विष्णो भवानत्र परायणम् 030c
विष्णुरुवाच 031
बलं ददामि सर्वेषां कर्मैतद्ये समास्थिताः 031a
क्षोभ्यतां कलशः सर्वैर्मन्दरः परिवर्त्यताम् 031c
सूत उवाच 032
नारायणवचः श्रुत्वा बलिनस्ते महोदधेः 032a
तत्पयः सहिता भूयश्चक्रिरे भृशमाकुलम् 032c
ततः शतसहस्रांशुः समान इव सागरात् 033a
प्रसन्नभाः समुत्पन्नः सोमः शीतांशुरुज्ज्वलः 033c
श्रीरनन्तरमुत्पन्ना घृतात्पाण्डुरवासिनी 034a
सुरा देवी समुत्पन्ना तुरगः पाण्डुरस्तथा 034c
कौस्तुभश्च मणिर्दिव्य उत्पन्नोऽमृतसम्भवः 035a
मरीचिविकचः श्रीमान्नारायणउरोगतः 035c
श्रीः सुरा चैव सोमश्च तुरगश्च मनोजवः 036a
यतो देवास्ततो जग्मुरादित्यपथमाश्रिताः 036c
धन्वन्तरिस्ततो देवो वपुष्मानुदतिष्ठत 037a
श्वेतं कमण्डलुं बिभ्रदमृतं यत्र तिष्ठति 037c
एतदत्यद्भुतं दृष्ट्वा दानवानां समुत्थितः 038a
अमृतार्थे महान्नादो ममेदमिति जल्पताम् 038c
ततो नारायणो मायामास्थितो मोहिनीं प्रभुः 039a
स्त्रीरूपमद्भुतं कृत्वा दानवानभिसंश्रितः 039c
ततस्तदमृतं तस्यै ददुस्ते मूढचेतसः 040a
स्त्रियै दानवदैतेयाः सर्वे तद्गतमानसाः 040c