सूत उवाच 001
एतस्मिन्नेव काले तु भगिन्यौ ते तपोधन 001a
अपश्यतां समायान्तमुच्चैःश्रवसमन्तिकात् 001c
यं तं देवगणाः सर्वे हृष्टरूपा अपूजयन् 002a
मथ्यमानेऽमृते जातमश्वरत्नमनुत्तमम् 002c
महौघबलमश्वानामुत्तमं जवतां वरम् 003a
श्रीमन्तमजरं दिव्यं सर्वलक्षणलक्षितम् 003c
शौनक उवाच 004
कथं तदमृतं देवैर्मथितं क्व च शंस मे 004a
यत्र जज्ञे महावीर्यः सोऽश्वराजो महाद्युतिः 004c
सूत उवाच 005
ज्वलन्तमचलं मेरुं तेजोराशिमनुत्तमम् 005a
आक्षिपन्तं प्रभां भानोः स्वशृङ्गैः काञ्चनोज्ज्वलैः 005c
काञ्चनाभरणं चित्रं देवगन्धर्वसेवितम् 006a
अप्रमेयमनाधृष्यमधर्मबहुलैर्जनैः 006c
व्यालैराचरितं घोरैर्दिव्यौषधिविदीपितम् 007a
नाकमावृत्य तिष्ठन्तमुच्छ्रयेण महागिरिम् 007c
अगम्यं मनसाप्यन्यैर्नदीवृक्षसमन्वितम् 008a
नानापतगसङ्घैश्च नादितं सुमनोहरैः 008c
तस्य पृष्ठमुपारुह्य बहुरत्नाचितं शुभम् 009a
अनन्तकल्पमुद्विद्धं सुराः सर्वे महौजसः 009c
ते मन्त्रयितुमारब्धास्तत्रासीना दिवौकसः 010a
अमृतार्थे समागम्य तपोनियमसंस्थिताः 010c
तत्र नारायणो देवो ब्रह्माणमिदमब्रवीत् 011a
चिन्तयत्सु सुरेष्वेवं मन्त्रयत्सु च सर्वशः 011c
देवैरसुरसङ्घैश्च मथ्यतां कलशोदधिः 012a
भविष्यत्यमृतं तत्र मथ्यमाने महोदधौ 012c
सर्वौषधीः समावाप्य सर्वरत्नानि चैव हि 013a
मन्थध्वमुदधिं देवा वेत्स्यध्वममृतं ततः 013c