001 शौनक उवाच सौते कथय तामेतां विस्तरेण कथां पुनः 001a
आस्तीकस्य कवेः साधोः शुश्रूषा परमा हि नः 001c
मधुरं कथ्यते सौम्य श्लक्ष्णाक्षरपदं त्वया 002a
प्रीयामहे भृशं तात पितेवेदं प्रभाषसे 002c
अस्मच्छुश्रूषणे नित्यं पिता हि निरतस्तव 003a
आचष्टैतद्यथाख्यानं पिता ते त्वं तथा वद 003c
सूत उवाच 004
आयुष्यमिदमाख्यानमास्तीकं कथयामि ते 004a
यथा श्रुतं कथयतः सकाशाद्वै पितुर्मया 004c
पुरा देवयुगे ब्रह्मन्प्रजापतिसुते शुभे 005a
आस्तां भगिन्यौ रूपेण समुपेतेऽद्भुतेऽनघे 005c
ते भार्ये कश्यपस्यास्तां कद्रूश्च विनता च ह 006a
प्रादात्ताभ्यां वरं प्रीतः प्रजापतिसमः पतिः 006c
कश्यपो धर्मपत्नीभ्यां मुदा परमया युतः 006e
वरातिसर्गं श्रुत्वैव कश्यपादुत्तमं च ते 007a
हर्षादप्रतिमां प्रीतिं प्रापतुः स्म वरस्त्रियौ 007c
वव्रे कद्रूः सुतान्नागान्सहस्रं तुल्यतेजसः 008a
द्वौ पुत्रौ विनता वव्रे कद्रूपुत्राधिकौ बले 008c
ओजसा तेजसा चैव विक्रमेणाधिकौ सुतौ 008e
तस्यै भर्ता वरं प्रादादध्यर्धं पुत्रमीप्सितम् 009a
एवमस्त्विति तं चाह कश्यपं विनता तदा 009c
कृतकृत्या तु विनता लब्ध्वा वीर्याधिकौ सुतौ 010a
कद्रूश्च लब्ध्वा पुत्राणां सहस्रं तुल्यतेजसाम् 010c
धार्यौ प्रयत्नतो गर्भावित्युक्त्वा स महातपाः 011a
ते भार्ये वरसंहृष्टे कश्यपो वनमाविशत् 011c
कालेन महता कद्रूरण्डानां दशतीर्दश 012a
जनयामास विप्रेन्द्र द्वे अण्डे विनता तदा 012c
तयोरण्डानि निदधुः प्रहृष्टाः परिचारिकाः 013a
सोपस्वेदेषु भाण्डेषु पञ्च वर्षशतानि च 013c
ततः पञ्चशते काले कद्रूपुत्रा विनिःसृताः 014a
अण्डाभ्यां विनतायास्तु मिथुनं न व्यदृश्यत 014c
ततः पुत्रार्थिणी देवी व्रीडिता सा तपस्विनी 015a
अण्डं बिभेद विनता तत्र पुत्रमदृक्षत 015c
पूर्वार्धकायसम्पन्नमितरेणाप्रकाशता 016a
स पुत्रो रोषसम्पन्नः शशापैनामिति श्रुतिः 016c
योऽहमेवं कृतो मातस्त्वया लोभपरीतया 017a
शरीरेणासमग्रोऽद्य तस्माद्दासी भविष्यसि 017c
पञ्च वर्षशतान्यस्या यया विस्पर्धसे सह 018a
एष च त्वां सुतो मातर्दास्यत्वान्मोक्षयिष्यति 018c
यद्येनमपि मातस्त्वं मामिवाण्डविभेदनात् 019a
न करिष्यस्यदेहं वा व्यङ्गं वापि तपस्विनम् 019c
प्रतिपालयितव्यस्ते जन्मकालोऽस्य धीरया 020a
विशिष्टबलमीप्सन्त्या पञ्चवर्षशतात्परः 020c
एवं शप्त्वा ततः पुत्रो विनतामन्तरिक्षगः 021a
अरुणो दृश्यते ब्रह्मन्प्रभातसमये सदा 021c
गरुडोऽपि यथाकालं जज्ञे पन्नगसूदनः 022a
स जातमात्रो विनतां परित्यज्य खमाविशत् 022c
आदास्यन्नात्मनो भोज्यमन्नं विहितमस्य यत् 023a
विधात्रा भृगुशार्दूल क्षुधितस्य बुभुक्षतः 023c