शौनक उवाच 13001
किमर्थं राजशार्दूलः स राजा जनमेजयः 13001a
सर्पसत्रेण सर्पाणां गतोऽन्तं तद्वदस्व मे 13001c
आस्तीकश्च द्विजश्रेष्ठः किमर्थं जपतां वरः 13002a
मोक्षयामास भुजगान्दीप्तात्तस्माद्धुताशनात् 13002c
कस्य पुत्रः स राजासीत्सर्पसत्रं य आहरत् 13003a
स च द्विजातिप्रवरः कस्य पुत्रो वदस्व मे 13003c
सूत उवाच 13004
महदाख्यानमास्तीकं यत्रैतत्प्रोच्यते द्विज 13004a
13004c सर्वमेतदशेषेण शृणु मे वदतां वर
शौनक उवाच 13005
13005a श्रोतुमिच्छाम्यशेषेण कथामेतां मनोरमाम्
13005c आस्तीकस्य पुराणस्य ब्राह्मणस्य यशस्विनः
सूत उवाच 13006
13006a इतिहासमिमं वृद्धाः पुराणं परिचक्षते
13006c कृष्णद्वैपायनप्रोक्तं नैमिषारण्यवासिनः
13007a पूर्वं प्रचोदितः सूतः पिता मे लोमहर्षणः
13007c शिष्यो व्यासस्य मेधावी ब्राह्मणैरिदमुक्तवान्
13008a तस्मादहमुपश्रुत्य प्रवक्ष्यामि यथातथम्
13008c इदमास्तीकमाख्यानं तुभ्यं शौनक पृच्छते
13009a आस्तीकस्य पिता ह्यासीत्प्रजापतिसमः प्रभुः
13009c ब्रह्मचारी यताहारस्तपस्युग्रे रतः सदा
13010a जरत्कारुरिति ख्यात ऊर्ध्वरेता महानृषिः
13010c यायावराणां धर्मज्ञः प्रवरः संशितव्रतः
13011a अटमानः कदाचित्स स्वान्ददर्श पितामहान्
13011c लम्बमानान्महागर्ते पादैरूर्ध्वैरधोमुखान्
13012a तानब्रवीत्स दृष्ट्वैव जरत्कारुः पितामहान्
13012c के भवन्तोऽवलम्बन्ते गर्तेऽस्मिन्वा अधोमुखाः
13013a वीरणस्तम्बके लग्नाः सर्वतः परिभक्षिते
13013c मूषकेन निगूढेन गर्तेऽस्मिन्नित्यवासिना
पितर ऊचुः 13014
13014a यायावरा नाम वयमृषयः संशितव्रताः
13014c सन्तानप्रक्षयाद्ब्रह्मन्नधो गच्छाम मेदिनीम्
13015a अस्माकं सन्ततिस्त्वेको जरत्कारुरिति श्रुतः
13015c मन्दभाग्योऽल्पभाग्यानां तप एव समास्थितः
13016a न स पुत्राञ्जनयितुं दारान्मूढश्चिकीर्षति
13016c तेन लम्बामहे गर्ते सन्तानप्रक्षयादिह
13017a अनाथास्तेन नाथेन यथा दुष्कृतिनस्तथा
13017c कस्त्वं बन्धुरिवास्माकमनुशोचसि सत्तम
13018a ज्ञातुमिच्छामहे ब्रह्मन्को भवानिह धिष्ठितः
13018c किमर्थं चैव नः शोच्याननुकम्पितुमर्हसि
जरत्कारुरुवाच 13019
13019a मम पूर्वे भवन्तो वै पितरः सपितामहाः
13019c ब्रूत किं करवाण्यद्य जरत्कारुरहं स्वयम्
पितर ऊचुः 13020
13020a यतस्व यत्नवांस्तात सन्तानाय कुलस्य नः
13020c आत्मनोऽर्थेऽस्मदर्थे च धर्म इत्येव चाभिभो
13021a न हि धर्मफलैस्तात न तपोभिः सुसञ्चितैः
13021c तां गतिं प्राप्नुवन्तीह पुत्रिणो यां व्रजन्ति ह
13022a तद्दारग्रहणे यत्नं सन्तत्यां च मनः कुरु
13022c पुत्रकास्मन्नियोगात्त्वमेतन्नः परमं हितम्
जरत्कारुरुवाच 13023
13023a न दारान्वै करिष्यामि सदा मे भावितं मनः
13023c भवतां तु हितार्थाय करिष्ये दारसङ्ग्रहम्
13024a समयेन च कर्ताहमनेन विधिपूर्वकम्
13024c तथा यद्युपलप्स्यामि करिष्ये नान्यथा त्वहम्
13025a सनाम्नी या भवित्री मे दित्सिता चैव बन्धुभिः
13025c भैक्षवत्तामहं कन्यामुपयंस्ये विधानतः
13026a दरिद्राय हि मे भार्यां को दास्यति विशेषतः
13026c प्रतिग्रहीष्ये भिक्षां तु यदि कश्चित्प्रदास्यति
13027a एवं दारक्रियाहेतोः प्रयतिष्ये पितामहाः
13027c अनेन विधिना शश्वन्न करिष्येऽहमन्यथा
13028a तत्र चोत्पत्स्यते जन्तुर्भवतां तारणाय वै
13028c शाश्वतं स्थानमासाद्य मोदन्तां पितरो मम
सूत उवाच 13029
13029a ततो निवेशाय तदा स विप्रः संशितव्रतः
13029c महीं चचार दारार्थी न च दारानविन्दत
13030a स कदाचिद्वनं गत्वा विप्रः पितृवचः स्मरन्
13030c चुक्रोश कन्याभिक्षार्थी तिस्रो वाचः शनैरिव
13031a तं वासुकिः प्रत्यगृह्णादुद्यम्य भगिनीं तदा
13031c न स तां प्रतिजग्राह न सनाम्नीति चिन्तयन्
13032a सनाम्नीमुद्यतां भार्यां गृह्णीयामिति तस्य हि
13032c मनो निविष्टमभवज्जरत्कारोर्महात्मनः
13033a तमुवाच महाप्राज्ञो जरत्कारुर्महातपाः
13033c किन्नाम्नी भगिनीयं ते ब्रूहि सत्यं भुजङ्गम
वासुकिरुवाच 13034
13034a जरत्कारो जरत्कारुः स्वसेयमनुजा मम
13034c त्वदर्थं रक्षिता पूर्वं प्रतीच्छेमां द्विजोत्तम
सूत उवाच 13035
13035a मात्रा हि भुजगाः शप्ताः पूर्वं ब्रह्मविदां वर
13035c जनमेजयस्य वो यज्ञे धक्ष्यत्यनिलसारथिः
13036a तस्य शापस्य शान्त्यर्थं प्रददौ पन्नगोत्तमः
13036c स्वसारमृषये तस्मै सुव्रताय तपस्विने
13037a स च तां प्रतिजग्राह विधिदृष्टेन कर्मणा
13037c आस्तीको नाम पुत्रश्च तस्यां जज्ञे महात्मनः
13038a तपस्वी च महात्मा च वेदवेदाङ्गपारगः
13038c समः सर्वस्य लोकस्य पितृमातृभयापहः
13039a अथ कालस्य महतः पाण्डवेयो नराधिपः
13039c आजहार महायज्ञं सर्पसत्रमिति श्रुतिः
13040a तस्मिन्प्रवृत्ते सत्रे तु सर्पाणामन्तकाय वै
13040c मोचयामास तं शापमास्तीकः सुमहायशाः
13041a नागांश्च मातुलांश्चैव तथा चान्यान्स बान्धवान्
13041c पितॄंश्च तारयामास सन्तत्या तपसा तथा
13041e व्रतैश्च विविधैर्ब्रह्मन्स्वाध्यायैश्चानृणोऽभवत्
13042a देवांश्च तर्पयामास यज्ञैर्विविधदक्षिणैः
13042c ऋषींश्च ब्रह्मचर्येण सन्तत्या च पितामहान्
13043a अपहृत्य गुरुं भारं पितॄणां संशितव्रतः
13043c जरत्कारुर्गतः स्वर्गं सहितः स्वैः पितामहैः
13044a आस्तीकं च सुतं प्राप्य धर्मं चानुत्तमं मुनिः
13044c जरत्कारुः सुमहता कालेन स्वर्गमीयिवान्
13045a एतदाख्यानमास्तीकं यथावत्कीर्तितं मया
13045c प्रब्रूहि भृगुशार्दूल किं भूयः कथ्यतामितिस