रुरुरुवाच 001
कथं हिंसितवान्सर्पान्क्षत्रियो जनमेजयः 001a
सर्पा वा हिंसितास्तात किमर्थं द्विजसत्तम 001c
किमर्थं मोक्षिताश्चैव पन्नगास्तेन शंस मे 002a
आस्तीकेन तदाचक्ष्व श्रोतुमिच्छाम्यशेषतः 002c
ऋषिरुवाच 003
श्रोष्यसि त्वं रुरो सर्वमास्तीकचरितं महत् 003a
ब्राह्मणानां कथयतामित्युक्त्वान्तरधीयत 003c
सूत उवाच 004
रुरुश्चापि वनं सर्वं पर्यधावत्समन्ततः 004a
तमृषिं द्रष्टुमन्विच्छन्संश्रान्तो न्यपतद्भुवि 004c
लब्धसञ्ज्ञो रुरुश्चायात्तच्चाचख्यौ पितुस्तदा 005a
पिता चास्य तदाख्यानं पृष्टः सर्वं न्यवेदयत् 005c