डुण्डुभ उवाच 001
सखा बभूव मे पूर्वं खगमो नाम वै द्विजः 001a
भृशं संशितवाक्तात तपोबलसमन्वितः 001c
स मया क्रीडता बाल्ये कृत्वा तार्णमथोरगम् 002a
अग्निहोत्रे प्रसक्तः सन्भीषितः प्रमुमोह वै 002c
लब्ध्वा च स पुनः सञ्ज्ञां मामुवाच तपोधनः 003a
निर्दहन्निव कोपेन सत्यवाक्संशितव्रतः 003c
यथावीर्यस्त्वया सर्पः कृतोऽयं मद्बिभीषया 004a
तथावीर्यो भुजङ्गस्त्वं मम कोपाद्भविष्यसि 004c
तस्याहं तपसो वीर्यं जानमानस्तपोधन 005a
भृशमुद्विग्नहृदयस्तमवोचं वनौकसम् 005c
प्रयतः सम्भ्रमाच्चैव प्राञ्जलिः प्रणतः स्थितः 006a
सखेति हसतेदं ते नर्मार्थं वै कृतं मया 006c
क्षन्तुमर्हसि मे ब्रह्मञ्छापोऽयं विनिवर्त्यताम् 007a
सोऽथ मामब्रवीद्दृष्ट्वा भृशमुद्विग्नचेतसम् 007c
मुहुरुष्णं विनिःश्वस्य सुसम्भ्रान्तस्तपोधनः 008a
नानृतं वै मया प्रोक्तं भवितेदं कथञ्चन 008c
यत्तु वक्ष्यामि ते वाक्यं शृणु तन्मे धृतव्रत 009a
श्रुत्वा च हृदि ते वाक्यमिदमस्तु तपोधन 009c
उत्पत्स्यति रुरुर्नाम प्रमतेरात्मजः शुचिः 010a
तं दृष्ट्वा शापमोक्षस्ते भविता नचिरादिव 010c
स त्वं रुरुरिति ख्यातः प्रमतेरात्मजः शुचिः 011a
स्वरूपं प्रतिलभ्याहमद्य वक्ष्यामि ते हितम् 011c
अहिंसा परमो धर्मः सर्वप्राणभृतां स्मृतः 012a
तस्मात्प्राणभृतः सर्वान्न हिंस्याद्ब्राह्मणः क्वचित् 012c
ब्राह्मणः सौम्य एवेह जायतेति परा श्रुतिः 013a
वेदवेदाङ्गवित्तात सर्वभूताभयप्रदः 013c
अहिंसा सत्यवचनं क्षमा चेति विनिश्चितम् 014a
ब्राह्मणस्य परो धर्मो वेदानां धरणादपि 014c
क्षत्रियस्य तु यो धर्मः स नेहेष्यति वै तव 015a
दण्डधारणमुग्रत्वं प्रजानां परिपालनम् 015c
तदिदं क्षत्रियस्यासीत्कर्म वै शृणु मे रुरो 016a
जनमेजयस्य धर्मात्मन्सर्पाणां हिंसनं पुरा 016c
परित्राणं च भीतानां सर्पाणां ब्राह्मणादपि 017a
तपोवीर्यबलोपेताद्वेदवेदाङ्गपारगात् 017c
आस्तीकाद्द्विजमुख्याद्वै सर्पसत्रे द्विजोत्तमस 017e