रुरुरुवाच 001a
मम प्राणसमा भार्या दष्टासीद्भुजगेन ह 001a
तत्र मे समयो घोर आत्मनोरग वै कृतः 001c
हन्यां सदैव भुजगं यं यं पश्येयमित्युत 002a
ततोऽहं त्वां जिघांसामि जीवितेन विमोक्ष्यसे 002c
डुण्डुभ उवाच 003
अन्ये ते भुजगा विप्र ये दशन्तीह मानवान् 003a
डुण्डुभानहिगन्धेन न त्वं हिंसितुमर्हसि 003c
एकानर्थान्पृथगर्थानेकदुःखान्पृथक्सुखान् 004a
डुण्डुभान्धर्मविद्भूत्वा न त्वं हिंसितुमर्हसि 004c
सूत उवाच 005
इति श्रुत्वा वचस्तस्य भुजगस्य रुरुस्तदा 005a
नावधीद्भयसंविग्न ऋषिं मत्वाथ डुण्डुभम् 005c
उवाच चैनं भगवान्रुरुः संशमयन्निव 006a
कामया भुजग ब्रूहि कोऽसीमां विक्रियां गतः 006c
डुण्डुभ उवाच 007
अहं पुरा रुरो नाम्ना ऋषिरासं सहस्रपात् 007a
सोऽहं शापेन विप्रस्य भुजगत्वमुपागतः 007c
रुरुरुवाच 008
किमर्थं शप्तवान्क्रुद्धो द्विजस्त्वां भुजगोत्तम 008a
कियन्तं चैव कालं ते वपुरेतद्भविष्यति 008c