सूत उवाच 001
तेषु तत्रोपविष्टेषु ब्राह्मणेषु समन्ततः 001a
रुरुश्चुक्रोश गहनं वनं गत्वा सुदुःखितः 001c
शोकेनाभिहतः सोऽथ विलपन्करुणं बहु 002a
अब्रवीद्वचनं शोचन्प्रियां चिन्त्य प्रमद्वराम् 002c
शेते सा भुवि तन्वङ्गी मम शोकविवर्धिनी 003a
बान्धवानां च सर्वेषां किं नु दुःखमतः परम् 003c
यदि दत्तं तपस्तप्तं गुरवो वा मया यदि 004a
सम्यगाराधितास्तेन सञ्जीवतु मम प्रिया 004c
यथा जन्मप्रभृति वै यतात्माहं धृतव्रतः 005a
प्रमद्वरा तथाद्यैव समुत्तिष्ठतु भामिनी 005c
देवदूत उवाच 006
अभिधत्से ह यद्वाचा रुरो दुःखेन तन्मृषा 006a
न तु मर्त्यस्य धर्मात्मन्नायुरस्ति गतायुषः 006c
गतायुरेषा कृपणा गन्धर्वाप्सरसोः सुता 007a
तस्माच्छोके मनस्तात मा कृथास्त्वं कथञ्चन 007c
उपायश्चात्र विहितः पूर्वं देवैर्महात्मभिः 008a
तं यदीच्छसि कर्तुं त्वं प्राप्स्यसीमां प्रमद्वराम् 008c
रुरुरुवाच 009
क उपायः कृतो देवैर्ब्रूहि तत्त्वेन खेचर 009a
करिष्ये तं तथा श्रुत्वा त्रातुमर्हति मां भवान् 009c
देवदूत उवाच 010
आयुषोऽर्धं प्रयच्छस्व कन्यायै भृगुनन्दन 010a
एवमुत्थास्यति रुरो तव भार्या प्रमद्वरा 010c
रुरुरुवाच 011
आयुषोऽर्धं प्रयच्छामि कन्यायै खेचरोत्तम 011a
शृङ्गाररूपाभरणा उत्तिष्ठतु मम प्रिया 011c
सूत उवाच 012
ततो गन्धर्वराजश्च देवदूतश्च सत्तमौ 012a
धर्मराजमुपेत्येदं वचनं प्रत्यभाषताम् 012c
धर्मराजायुषोऽर्धेन रुरोर्भार्या प्रमद्वरा 013a
समुत्तिष्ठतु कल्याणी मृतैव यदि मन्यसे 013c
धर्मराज उवाच 014
प्रमद्वरा रुरोर्भार्या देवदूत यदीच्छसि 014a
उत्तिष्ठत्वायुषोऽर्धेन रुरोरेव समन्विता 014c
सूत उवाच 015
एवमुक्ते ततः कन्या सोदतिष्ठत्प्रमद्वरा 015a
रुरोस्तस्यायुषोऽर्धेन सुप्तेव वरवर्णिनी 015c
एतद्दृष्टं भविष्ये हि रुरोरुत्तमतेजसः 016a
आयुषोऽतिप्रवृद्धस्य भार्यार्थेऽर्धं ह्रसत्विति 016c
तत इष्टेऽहनि तयोः पितरौ चक्रतुर्मुदा 017a
विवाहं तौ च रेमाते परस्परहितैषिणौ 017c
स लब्ध्वा दुर्लभां भार्यां पद्मकिञ्जल्कसप्रभाम् 018a
व्रतं चक्रे विनाशाय जिह्मगानां धृतव्रतः 018c
स दृष्ट्वा जिह्मगान्सर्वांस्तीव्रकोपसमन्वितः 019a
अभिहन्ति यथासन्नं गृह्य प्रहरणं सदा 019c
स कदाचिद्वनं विप्रो रुरुरभ्यागमन्महत् 020a
शयानं तत्र चापश्यड्डुण्डुभं वयसान्वितम् 020c
तत उद्यम्य दण्डं स कालदण्डोपमं तदा 021a
अभ्यघ्नद्रुषितो विप्रस्तमुवाचाथ डुण्डुभः 021c
नापराध्यामि ते किञ्चिदहमद्य तपोधन 022a
संरम्भात्तत्किमर्थं मामभिहंसि रुषान्वितः 022c