सूत उवाच 001
स चापि च्यवनो ब्रह्मन्भार्गवोऽजनयत्सुतम् 001a
सुकन्यायां महात्मानं प्रमतिं दीप्ततेजसम् 001c
प्रमतिस्तु रुरुं नाम घृताच्यां समजीजनत् 002a
रुरुः प्रमद्वरायां तु शुनकं समजीजनत् 002c
तस्य ब्रह्मन्रुरोः सर्वं चरितं भूरितेजसः 003a
विस्तरेण प्रवक्ष्यामि तच्छृणु त्वमशेषतः 003c
ऋषिरासीन्महान्पूर्वं तपोविद्यासमन्वितः 004a
स्थूलकेश इति ख्यातः सर्वभूतहिते रतः 004c
एतस्मिन्नेव काले तु मेनकायां प्रजज्ञिवान् 005a
गन्धर्वराजो विप्रर्षे विश्वावसुरिति श्रुतः 005c
अथाप्सरा मेनका सा तं गर्भं भृगुनन्दन 006a
उत्ससर्ज यथाकालं स्थूलकेशाश्रमं प्रति 006c
उत्सृज्य चैव तं गर्भं नद्यास्तीरे जगाम ह 007a
कन्याममरगर्भाभां ज्वलन्तीमिव च श्रिया 007c
तां ददर्श समुत्सृष्टां नदीतीरे महानृषिः 008a
स्थूलकेशः स तेजस्वी विजने बन्धुवर्जिताम् 008c
स तां दृष्ट्वा तदा कन्यां स्थूलकेशो द्विजोत्तमः 009a
जग्राहाथ मुनिश्रेष्ठः कृपाविष्टः पुपोष च 009c
ववृधे सा वरारोहा तस्याश्रमपदे शुभा 009e
प्रमदाभ्यो वरा सा तु सर्वरूपगुणान्विता 010a
ततः प्रमद्वरेत्यस्या नाम चक्रे महानृषिः 010c
तामाश्रमपदे तस्य रुरुर्दृष्ट्वा प्रमद्वराम् 011a
बभूव किल धर्मात्मा मदनानुगतात्मवान् 011c
पितरं सखिभिः सोऽथ वाचयामास भार्गवः 012a
प्रमतिश्चाभ्ययाच्छ्रुत्वा स्थूलकेशं यशस्विनम् 012c
ततः प्रादात्पिता कन्यां रुरवे तां प्रमद्वराम् 013a
विवाहं स्थापयित्वाग्रे नक्षत्रे भगदैवते 013c
ततः कतिपयाहस्य विवाहे समुपस्थिते 014a
सखीभिः क्रीडती सार्धं सा कन्या वरवर्णिनी 014c
नापश्यत प्रसुप्तं वै भुजगं तिर्यगायतम् 015a
पदा चैनं समाक्रामन्मुमूर्षुः कालचोदिता 015c
स तस्याः सम्प्रमत्तायाश्चोदितः कालधर्मणा 016a
विषोपलिप्तान्दशनान्भृशमङ्गे न्यपातयत् 016c
सा दष्टा सहसा भूमौ पतिता गतचेतना 017a
व्यसुरप्रेक्षणीयापि प्रेक्षणीयतमाकृतिः 017c
प्रसुप्तेवाभवच्चापि भुवि सर्पविषार्दिता 018a
भूयो मनोहरतरा बभूव तनुमध्यमा 018c
ददर्श तां पिता चैव ते चैवान्ये तपस्विनः 019a
विचेष्टमानां पतितां भूतले पद्मवर्चसम् 019c
ततः सर्वे द्विजवराः समाजग्मुः कृपान्विताः 020a
स्वस्त्यात्रेयो महाजानुः कुशिकः शङ्खमेखलः 020c
भारद्वाजः कौणकुत्स आर्ष्टिषेणोऽथ गौतमः 021a
प्रमतिः सह पुत्रेण तथान्ये वनवासिनः 021c
तां ते कन्यां व्यसुं दृष्ट्वा भुजगस्य विषार्दिताम् 022a
रुरुदुः कृपयाविष्टा रुरुस्त्वार्तो बहिर्ययौ 022c