सूत उवाच 001
शप्तस्तु भृगुणा वह्निः क्रुद्धो वाक्यमथाब्रवीत् 001a
किमिदं साहसं ब्रह्मन्कृतवानसि साम्प्रतम् 001c
धर्मे प्रयतमानस्य सत्यं च वदतः समम् 002a
पृष्टो यदब्रुवं सत्यं व्यभिचारोऽत्र को मम 002c
पृष्टो हि साक्षी यः साक्ष्यं जानमानोऽन्यथा वदेत् 003a
स पूर्वानात्मनः सप्त कुले हन्यात्तथा परान् 003c
यश्च कार्यार्थतत्त्वज्ञो जानमानो न भाषते 004a
सोऽपि तेनैव पापेन लिप्यते नात्र संशयः 004c
शक्तोऽहमपि शप्तुं त्वां मान्यास्तु ब्राह्मणा मम 005a
जानतोऽपि च ते व्यक्तं कथयिष्ये निबोध तत् 005c
योगेन बहुधात्मानं कृत्वा तिष्ठामि मूर्तिषु 006a
अग्निहोत्रेषु सत्रेषु क्रियास्वथ मखेषु च 006c
वेदोक्तेन विधानेन मयि यद्धूयते हविः 007a
देवताः पितरश्चैव तेन तृप्ता भवन्ति वै 007c
आपो देवगणाः सर्वे आपः पितृगणास्तथा 008a
दर्शश्च पौर्णमासश्च देवानां पितृभिः सह 008c
देवताः पितरस्तस्मात्पितरश्चापि देवताः 009a
एकीभूताश्च पूज्यन्ते पृथक्त्वेन च पर्वसु 009c
देवताः पितरश्चैव जुह्वते मयि यत्सदा 010a
त्रिदशानां पितॄणां च मुखमेवमहं स्मृतः 010c
अमावास्यां च पितरः पौर्णमास्यां च देवताः 011a
मन्मुखेनैव हूयन्ते भुञ्जते च हुतं हविः 011c
सर्वभक्षः कथं तेषां भविष्यामि मुखं त्वहम् 011e
चिन्तयित्वा ततो वह्निश्चक्रे संहारमात्मनः 012a
द्विजानामग्निहोत्रेषु यज्ञसत्रक्रियासु च 012c
निरोङ्कारवषट्काराः स्वधास्वाहाविवर्जिताः 013a
विनाग्निना प्रजाः सर्वास्तत आसन्सुदुःखिताः 013c
अथर्षयः समुद्विग्ना देवान्गत्वाब्रुवन्वचः 014a
अग्निनाशात्क्रियाभ्रंशाद्भ्रान्ता लोकास्त्रयोऽनघाः 014c
विधध्वमत्र यत्कार्यं न स्यात्कालात्ययो यथा 014e
अथर्षयश्च देवाश्च ब्रह्माणमुपगम्य तु 015a
अग्नेरावेदयञ्छापं क्रियासंहारमेव च 015c
भृगुणा वै महाभाग शप्तोऽग्निः कारणान्तरे 016a
कथं देवमुखो भूत्वा यज्ञभागाग्रभुक्तथा 016c
हुतभुक्सर्वलोकेषु सर्वभक्षत्वमेष्यति 016e
श्रुत्वा तु तद्वचस्तेषामग्निमाहूय लोककृत् 017a
उवाच वचनं श्लक्ष्णं भूतभावनमव्ययम् 017c
लोकानामिह सर्वेषां त्वं कर्ता चान्त एव च 018a
त्वं धारयसि लोकांस्त्रीन्क्रियाणां च प्रवर्तकः 018c
स तथा कुरु लोकेश नोच्छिद्येरन्क्रिया यथा 018e
कस्मादेवं विमूढस्त्वमीश्वरः सन्हुताशनः 019a
त्वं पवित्रं यदा लोके सर्वभूतगतश्च ह 019c
न त्वं सर्वशरीरेण सर्वभक्षत्वमेष्यसि 020a
उपादानेऽर्चिषो यास्ते सर्वं धक्ष्यन्ति ताः शिखिन् 020c
यथा सूर्यांशुभिः स्पृष्टं सर्वं शुचि विभाव्यते 021a
तथा त्वदर्चिर्निर्दग्धं सर्वं शुचि भविष्यति 021c
तदग्ने त्वं महत्तेजः स्वप्रभावाद्विनिर्गतम् 022a
स्वतेजसैव तं शापं कुरु सत्यमृषेर्विभो 022c
देवानां चात्मनो भागं गृहाण त्वं मुखे हुतम् 022e
एवमस्त्विति तं वह्निः प्रत्युवाच पितामहम् 023a
जगाम शासनं कर्तुं देवस्य परमेष्ठिनः 023c
देवर्षयश्च मुदितास्ततो जग्मुर्यथागतम् 024a
ऋषयश्च यथापूर्वं क्रियाः सर्वाः प्रचक्रिरे 024c
दिवि देवा मुमुदिरे भूतसङ्घाश्च लौकिकाः 025a
अग्निश्च परमां प्रीतिमवाप हतकल्मषः 025c
एवमेष पुरावृत्त इतिहासोऽग्निशापजः 026a
पुलोमस्य विनाशश्च च्यवनस्य च सम्भवः 026c