सूत उवाच 001
अग्नेरथ वचः श्रुत्वा तद्रक्षः प्रजहार ताम् 001a
ब्रह्मन्वराहरूपेण मनोमारुतरंहसा 001c
ततः स गर्भो निवसन्कुक्षौ भृगुकुलोद्वह 002a
रोषान्मातुश्च्युतः कुक्षेश्च्यवनस्तेन सोऽभवत् 002c
तं दृष्ट्वा मातुरुदराच्च्युतमादित्यवर्चसम् 003a
तद्रक्षो भस्मसाद्भूतं पपात परिमुच्य ताम् 003c
सा तमादाय सुश्रोणी ससार भृगुनन्दनम् 004a
च्यवनं भार्गवं ब्रह्मन्पुलोमा दुःखमूर्च्छिता 004c
तां ददर्श स्वयं ब्रह्मा सर्वलोकपितामहः 005a
रुदतीं बाष्पपूर्णाक्षीं भृगोर्भार्यामनिन्दिताम् 005c
सान्त्वयामास भगवान्वधूं ब्रह्मा पितामहः 005e
अश्रुबिन्दूद्भवा तस्याः प्रावर्तत महानदी 006a
अनुवर्तती सृतिं तस्या भृगोः पत्न्या यशस्विनः 006c
तस्या मार्गं सृतवतीं दृष्ट्वा तु सरितं तदा 007a
नाम तस्यास्तदा नद्याश्चक्रे लोकपितामहः 007c
वधूसरेति भगवांश्च्यवनस्याश्रमं प्रति 007e
स एवं च्यवनो जज्ञे भृगोः पुत्रः प्रतापवान् 008a
तं ददर्श पिता तत्र च्यवनं तां च भामिनीम् 008c
स पुलोमां ततो भार्यां पप्रच्छ कुपितो भृगुः 009a
केनासि रक्षसे तस्मै कथितेह जिहीर्षवे 009c
न हि त्वां वेद तद्रक्षो मद्भार्यां चारुहासिनीम् 009e
तत्त्वमाख्याहि तं ह्यद्य शप्तुमिच्छाम्यहं रुषा 010a
बिभेति को न शापान्मे कस्य चायं व्यतिक्रमः 010c
पुलोमोवाच 011
अग्निना भगवंस्तस्मै रक्षसेऽहं निवेदिता 011a
ततो मामनयद्रक्षः क्रोशन्तीं कुररीमिव 011c
साहं तव सुतस्यास्य तेजसा परिमोक्षिता 012a
भस्मीभूतं च तद्रक्षो मामुत्सृज्य पपात वै 012c
सूत उवाच 013
इति श्रुत्वा पुलोमाया भृगुः परममन्युमान् 013a
शशापाग्निमभिक्रुद्धः सर्वभक्षो भविष्यसि 013c