शौनक उवाच 001
पुराणमखिलं तात पिता तेऽधीतवान्पुरा 001a
कच्चित्त्वमपि तत्सर्वमधीषे लोमहर्षणे 001c
पुराणे हि कथा दिव्या आदिवंशाश्च धीमताम् 002a
कथ्यन्ते ताः पुरास्माभिः श्रुताः पूर्वं पितुस्तव 002c
तत्र वंशमहं पूर्वं श्रोतुमिच्छामि भार्गवम् 003a
कथयस्व कथामेतां कल्याः स्म श्रवणे तव 003c
सूत उवाच 004
यदधीतं पुरा सम्यग्द्विजश्रेष्ठ महात्मभिः 004a
वैशम्पायनविप्राद्यैस्तैश्चापि कथितं पुरा 004c
यदधीतं च पित्रा मे सम्यक्चैव ततो मया 005a
तत्तावच्छृणु यो देवैः सेन्द्रैः साग्निमरुद्गणैः 005c
पूजितः प्रवरो वंशो भृगूणां भृगुनन्दन 005e
इमं वंशमहं ब्रह्मन्भार्गवं ते महामुने 006a
निगदामि कथायुक्तं पुराणाश्रयसंयुतम् 006c
भृगोः सुदयितः पुत्रश्च्यवनो नाम भार्गवः 007a
च्यवनस्यापि दायादः प्रमतिर्नाम धार्मिकः 007c
प्रमतेरप्यभूत्पुत्रो घृताच्यां रुरुरित्युत 007e
रुरोरपि सुतो जज्ञे शुनको वेदपारगः 008a
प्रमद्वरायां धर्मात्मा तव पूर्वपितामहात् 008c
तपस्वी च यशस्वी च श्रुतवान्ब्रह्मवित्तमः 009a
धर्मिष्ठः सत्यवादी च नियतो नियतेन्द्रियः 009c
शौनक उवाच 010
सूतपुत्र यथा तस्य भार्गवस्य महात्मनः 010a
च्यवनत्वं परिख्यातं तन्ममाचक्ष्व पृच्छतः 010c
सूत उवाच 011
भृगोः सुदयिता भार्या पुलोमेत्यभिविश्रुता 011a
तस्यां गर्भः समभवद्भृगोर्वीर्यसमुद्भवः 011c
तस्मिन्गर्भे सम्भृतेऽथ पुलोमायां भृगूद्वह 012a
समये समशीलिन्यां धर्मपत्न्यां यशस्विनः 012c
अभिषेकाय निष्क्रान्ते भृगौ धर्मभृतां वरे 013a
आश्रमं तस्य रक्षोऽथ पुलोमाभ्याजगाम ह 013c
तं प्रविश्याश्रमं दृष्ट्वा भृगोर्भार्यामनिन्दिताम् 014a
हृच्छयेन समाविष्टो विचेताः समपद्यत 014c
अभ्यागतं तु तद्रक्षः पुलोमा चारुदर्शना 015a
न्यमन्त्रयत वन्येन फलमूलादिना तदा 015c
तां तु रक्षस्ततो ब्रह्मन्हृच्छयेनाभिपीडितम् 016a
दृष्ट्वा हृष्टमभूत्तत्र जिहीर्षुस्तामनिन्दिताम् 016c
अथाग्निशरणेऽपश्यज्ज्वलितं जातवेदसम् 017a
तमपृच्छत्ततो रक्षः पावकं ज्वलितं तदा 017c
शंस मे कस्य भार्येयमग्ने पृष्ट ऋतेन वै 018a
सत्यस्त्वमसि सत्यं मे वद पावक पृच्छते 018c
मया हीयं पूर्ववृता भार्यार्थे वरवर्णिनी 019a
पश्चात्त्विमां पिता प्रादाद्भृगवेऽनृतकारिणे 019c
सेयं यदि वरारोहा भृगोर्भार्या रहोगता 020a
तथा सत्यं समाख्याहि जिहीर्षाम्याश्रमादिमाम् 020c
मन्युर्हि हृदयं मेऽद्य प्रदहन्निव तिष्ठति 021a
मत्पूर्वभार्यां यदिमां भृगुः प्राप सुमध्यमाम् 021c
तद्रक्ष एवमामन्त्र्य ज्वलितं जातवेदसम् 022a
शङ्कमानो भृगोर्भार्यां पुनः पुनरपृच्छत 022c
त्वमग्ने सर्वभूतानामन्तश्चरसि नित्यदा 023a
साक्षिवत्पुण्यपापेषु सत्यं ब्रूहि कवे वचः 023c
मत्पूर्वभार्यापहृता भृगुणानृतकारिणा 024a
सेयं यदि तथा मे त्वं सत्यमाख्यातुमर्हसि 024c
श्रुत्वा त्वत्तो भृगोर्भार्यां हरिष्याम्यहमाश्रमात् 025a
जातवेदः पश्यतस्ते वद सत्यां गिरं मम 025c
तस्य तद्वचनं श्रुत्वा सप्तार्चिर्दुःखितो भृशम् 026a
भीतोऽनृताच्च शापाच्च भृगोरित्यब्रवीच्छनैः 026c