लोमहर्षणपुत्र उग्रश्रवाः सूतः पौराणिको नैमिषारण्ये शौनकस्य कुलपतेर्द्वादशवार्षिके सत्रे ऋषीनभ्यागतानुपतस्थे 001A
पौराणिकः पुराणे कृतश्रमः स तान्कृताञ्जलिरुवाच 002A
किं भवन्तः श्रोतुमिच्छन्ति 002B
किमहं ब्रुवाणीति 002C
तमृषय ऊचुः 003A
परमं लोमहर्षणे प्रक्ष्यामस्त्वां वक्ष्यसि च नः शुश्रूषतां कथायोगम् 003B
तद्भगवांस्तु तावच्छौनकोऽग्निशरणमध्यास्ते 003C
योऽसौ दिव्याः कथा वेद देवतासुरसङ्कथाः 004a
मनुष्योरगगन्धर्वकथा वेद च सर्वशः 004c
स चाप्यस्मिन्मखे सौते विद्वान्कुलपतिर्द्विजः 005a
दक्षो धृतव्रतो धीमाञ्शास्त्रे चारण्यके गुरुः 005c
सत्यवादी शमपरस्तपस्वी नियतव्रतः 006a
सर्वेषामेव नो मान्यः स तावत्प्रतिपाल्यताम् 006c
तस्मिन्नध्यासति गुरावासनं परमार्चितम् 007a
ततो वक्ष्यसि यत्त्वां स प्रक्ष्यति द्विजसत्तमः 007c
सूत उवाच 008
एवमस्तु गुरौ तस्मिन्नुपविष्टे महात्मनि 008a
तेन पृष्टः कथाः पुण्या वक्ष्यामि विविधाश्रयाः 008c
सोऽथ विप्रर्षभः कार्यं कृत्वा सर्वं यथाक्रमम् 009a
देवान्वाग्भिः पितॄनद्भिस्तर्पयित्वाजगाम ह 009c
यत्र ब्रह्मर्षयः सिद्धास्त आसीना यतव्रताः 010a
यज्ञायतनमाश्रित्य सूतपुत्रपुरःसराः 010c
ऋत्विक्ष्वथ सदस्येषु स वै गृहपतिस्ततः 011a
उपविष्टेषूपविष्टः ससशौनकोऽथाब्रवीदिदम् 011c