सूत उवाच 001
जनमेजयः पारिक्षितः सह भ्रातृभिः कुरुक्षेत्रे दीर्घसत्रमुपास्ते 001A
तस्य भ्रातरस्त्रयः श्रुतसेन उग्रसेनो भीमसेन इति 001B
तेषु तत्सत्रमुपासीनेषु तत्र श्वाभ्यागच्छत्सारमेयः 002A
स जनमेजयस्य भ्रातृभिरभिहतो रोरूयमाणो मातुः समीपमुपागच्छत् 002B
तं माता रोरूयमाणमुवाच 003A
किं रोदिषि 003B
केनास्यभिहत इति 003C
स एवमुक्तो मातरं प्रत्युवाच 004A
जनमेजयस्य भ्रातृभिरभिहतोऽस्मीति 004B
तं माता प्रत्युवाच 005A
व्यक्तं त्वया तत्रापराद्धं येनास्यभिहत इति 005B
स तां पुनरुवाच 006A
नापराध्यामि किञ्चित् 006B
नावेक्षे हवींषि नावलिह इति 006C
तच्छ्रुत्वा तस्य माता सरमा पुत्रशोकार्ता तत्सत्रमुपागच्छद्यत्र स जनमेजयः सह भ्रातृभिर्दीर्घसत्रमुपास्ते 007A
स तया क्रुद्धया तत्रोक्तः 008A
अयं मे पुत्रो न किञ्चिदपराध्यति 008B
किमर्थमभिहत इति 008C
यस्माच्चायमभिहतोऽनपकारी तस्माददृष्टं त्वां भयमागमिष्यतीति 008D
स जनमेजय एवमुक्तो देवशुन्या सरमया दृढं सम्भ्रान्तो विषण्णश्चासीत् 009A
स तस्मिन्सत्रे समाप्ते हास्तिनपुरं प्रत्येत्य पुरोहितमनुरूपमन्विच्छमानः परं यत्नमकरोद्यो मे पापकृत्यां शमयेदिति 010A
स कदाचिन्मृगयां यातः पारिक्षितो जनमेजयः कस्मिंश्चित्स्वविषयोद्देशे आश्रममपश्यत् 011A
तत्र कश्चिदृषिरासां चक्रे श्रुतश्रवा नाम 012A
तस्याभिमतः पुत्र आस्ते सोमश्रवा नाम 012B
तस्य तं पुत्रमभिगम्य जनमेजयः पारिक्षितः पौरोहित्याय वव्रे 013A
स नमस्कृत्य तमृषिमुवाच 014A
भगवन्नयं तव पुत्रो मम पुरोहितोऽस्त्विति 014B
स एवमुक्तः प्रत्युवाच 015A
भो जनमेजय पुत्रोऽयं मम सर्प्यां जातः 015B
महातपस्वी स्वाध्यायसम्पन्नो मत्तपोवीर्यसम्भृतो मच्छुक्रं पीतवत्यास्तस्याः कुक्षौ संवृद्धः 015C
समर्थोऽयं भवतः सर्वाः पापकृत्याः शमयितुमन्तरेण महादेवकृत्याम् 015D
अस्य त्वेकमुपांशुव्रतम् 015E
यदेनं कश्चिद्ब्राह्मणः कञ्चिदर्थमभियाचेत्तं तस्मै दद्यादयम् 015F
यद्येतदुत्सहसे ततो नयस्वैनमिति 015G
तेनैवमुत्को जनमेजयस्तं प्रत्युवाच 016A
भगवंस्तथा भविष्यतीति 016B
स तं पुरोहितमुपादायोपावृत्तो भ्रातॄनुवाच 017A
मयायं वृत उपाध्यायः 017B
यदयं ब्रूयात्तत्कार्यमविचारयद्भिरिति 017C
तेनैवमुक्ता भ्रातरस्तस्य तथा चक्रुः 018A
स तथा भ्रातॄन्सन्दिश्य तक्षशिलां प्रत्यभिप्रतस्थे 018B
तं च देशं वशे स्थापयामास 018C
एतस्मिन्नन्तरे कश्चिदृषिर्धौम्यो नामायोदः 019A
तस्य शिष्यास्त्रयो बभूवुरुपमन्युरारुणिर्वेदश्चेति 019B
स एकं शिष्यमारुणिं पाञ्चाल्यं प्रेषयामास 020A
गच्छ केदारखण्डं बधानेति 020B
स उपाध्यायेन सन्दिष्ट आरुणिः पाञ्चाल्यस्तत्र गत्वा तत्केदारखण्डं बद्धुं नाशक्नोत् 021A
स क्लिश्यमानोऽपश्यदुपायम् 022A
भवत्वेवं करिष्यामीति 022B
स तत्र संविवेश केदारखण्डे 023A
शयाने तस्मिंस्तदुदकं तस्थौ 023B
ततः कदाचिदुपाध्याय आयोदो धौम्यः शिष्यानपृच्छत् 024A
क्व आरुणिः पाञ्चाल्यो गत इति 024B
ते प्रत्यूचुः 025A
भगवतैव प्रेषितो गच्छ केदारखण्डं बधानेति 025B
स एवमुक्तस्ताञ्शिष्यान्प्रत्युवाच 026A
तस्मात्सर्वे तत्र गच्छामो यत्र स इति 026B
स तत्र गत्वा तस्याह्वानाय शब्दं चकार 027A
भो आरुणे पाञ्चाल्य क्वासि 027B
वत्सैहीति 027C
स तच्छ्रुत्वा आरुणिरुपाध्यायवाक्यं तस्मात्केदारखण्डात्सहसोत्थाय तमुपाध्यायमुपतस्थे 028A
प्रोवाच चैनम् 028B
अयमस्म्यत्र केदारखण्डे निःसरमाणमुदकमवारणीयं संरोद्धुं संविष्टो भगवच्छब्दं श्रुत्वैव सहसा विदार्य केदारखण्डं भवन्तमुपस्थितः 028C
तदभिवादये भगवन्तम् 028D
आज्ञापयतु भवान् 028E
किं करवाणीति 028F
तमुपाध्यायोऽब्रवीत् 029A
यस्माद्भवान्केदारखण्डमवदार्योत्थितस्तस्माद्भवानुद्दालक एव नाम्ना भविष्यतीति 029B
स उपाध्यायेनानुगृहीतः 030A
यस्मात्त्वया मद्वचोऽनुष्ठितं तस्माच्छ्रेयोऽवाप्स्यसीति 030B
सर्वे च ते वेदाः प्रतिभास्यन्ति सर्वाणि च धर्मशास्त्राणीति 030C
स एवमुक्त उपाध्यायेनेष्टं देशं जगाम 031A
अथापरः शिष्यस्तस्यैवायोदस्य धौम्यस्योपमन्युर्नाम 032A
तमुपाध्यायः प्रेषयामास 033A
वत्सोपमन्यो गा रक्षस्वेति 033B
स उपाध्यायवचनादरक्षद्गाः 034A
स चाहनि गा रक्षित्वा दिवसक्षयेऽभ्यागम्योपाध्यायस्याग्रतः स्थित्वा नमश्चक्रे 034B
तमुपाध्यायः पीवानमपश्यत् 035A
उवाच चैनम् 035B
वत्सोपमन्यो केन वृत्तिं कल्पयसि 035C
पीवानसि दृढमिति 035D
स उपाध्यायं प्रत्युवाच 036A
भैक्षेण वृत्तिं कल्पयामीति 036B
तमुपाध्यायः प्रत्युवाच 037A
ममानिवेद्य भैक्षं नोपयोक्तव्यमिति 037B
स तथेत्युक्त्वा पुनररक्षद्गाः 038A
रक्षित्वा चागम्य तथैवोपाध्यायस्याग्रतः स्थित्वा नमश्चक्रे 038B
तमुपाध्यायस्तथापि पीवानमेव दृष्ट्वोवाच 039A
वत्सोपमन्यो सर्वमशेषतस्ते भैक्षं गृह्णामि 039B
केनेदानीं वृत्तिं कल्पयसीति 039C
स एवमुक्त उपाध्यायेन प्रत्युवाच 040A
भगवते निवेद्य पूर्वमपरं चरामि 040B
तेन वृत्तिं कल्पयामीति 040C
तमुपाध्यायः प्रत्युवाच 041A
नैषा न्याय्या गुरुवृत्तिः 041B
अन्येषामपि वृत्त्युपरोधं करोष्येवं वर्तमानः 041C
लुब्धोऽसीति 041D
स तथेत्युक्त्वा गा अरक्षत् 042A
रक्षित्वा च पुनरुपाध्यायगृहमागम्योपाध्यायस्याग्रतः स्थित्वा नमश्चक्रे 042B
तमुपाध्यायस्तथापि पीवानमेव दृष्ट्वा पुनरुवाच 043A
अहं ते सर्वं भैक्षं गृह्णामि न चान्यच्चरसि 043B
पीवानसि 043C
केन वृत्तिं कल्पयसीति 043D
स उपाध्यायं प्रत्युवाच 044A
भो एतासां गवां पयसा वृत्तिं कल्पयामीति 044B
तमुपाध्यायः प्रत्युवाच 045A
नैतन्न्याय्यं पय उपयोक्तुं भवतो मयाननुज्ञातमिति 045B
स तथेति प्रतिज्ञाय गा रक्षित्वा पुनरुपाध्यायगृहानेत्य गुरोरग्रतः स्थित्वा नमश्चक्रे 046A
तमुपाध्यायः पीवानमेवापश्यत् 047A
उवाच चैनम् 047B
भैक्षं नाश्नासि न चान्यच्चरसि 047C
पयो न पिबसि 047D
पीवानसि 047E
केन वृत्तिं कल्पयसीति 047F
स एवमुक्त उपाध्यायं प्रत्युवाच 048A
भोः फेनं पिबामि यमिमे वत्सा मातॄणां स्तनं पिबन्त उद्गिरन्तीति 048B
तमुपाध्यायः प्रत्युवाच 049A
एते त्वदनुकम्पया गुणवन्तो वत्साः प्रभूततरं फेनमुद्गिरन्ति 049B
तदेवमपि वत्सानां वृत्त्युपरोधं करोष्येवं वर्तमानः 049C
फेनमपि भवान्न पातुमर्हतीति 049D
स तथेति प्रतिज्ञाय निराहारस्ता गा अरक्षत् 050A
तथा प्रतिषिद्धो भैक्षं नाश्नाति न चान्यच्चरति 050B
पयो न पिबति 050C
फेनं नोपयुङ्क्ते 050D
स कदाचिदरण्ये क्षुधार्तोऽर्कपत्राण्यभक्षयत् 051A
स तैरर्कपत्रैर्भक्षितैः क्षारकटूष्णविपाकिभिश्चक्षुष्युपहतोऽन्धोऽभवत् 052A
सोऽन्धोऽपि चङ्क्रम्यमाणः कूपेऽपतत् 052B
अथ तस्मिन्ननागच्छत्युपाध्यायः शिष्यानवोचत् 053A
मयोपमन्युः सर्वतः प्रतिषिद्धः 053B
स नियतं कुपितः 053C
ततो नागच्छति चिरगतश्चेति 053D
स एवमुक्त्वा गत्वारण्यमुपमन्योराह्वानं चक्रे 054A
भो उपमन्यो क्वासि 054B
वत्सैहीति 054C
स तदाह्वानमुपाध्यायाच्छ्रुत्वा प्रत्युवाचोच्चैः 055A
अयमस्मि भो उपाध्याय कूपे पतित इति 055B
तमुपाध्यायः प्रत्युवाच 056A
कथमसि कूपे पतित इति 056B
स तं प्रत्युवाच 057A
अर्कपत्राणि भक्षयित्वान्धीभूतोऽस्मि 057B
अतः कूपे पतित इति 057C
तमुपाध्यायः प्रत्युवाच 058A
अश्विनौ स्तुहि 058B
तौ त्वां चक्षुष्मन्तं करिष्यतो देवभिषजाविति 058C
स एवमुक्त उपाध्यायेन स्तोतुं प्रचक्रमे देवावश्विनौ वाग्भिर्ऋग्भिः 059A
प्र पूर्वगौ पूर्वजौ चित्रभानू; गिरा वा शंसामि तपनावनन्तौ 060a
दिव्यौ सुपर्णौ विरजौ विमाना;वधिक्षियन्तौ भुवनानि विश्वा 060c
हिरण्मयौ शकुनी साम्परायौ; नासत्यदस्रौ सुनसौ वैजयन्तौ 061a
शुक्रं वयन्तौ तरसा सुवेमा;वभि व्ययन्तावसितं विवस्वत् 061c
ग्रस्तां सुपर्णस्य बलेन वर्तिका;ममुञ्चतामश्विनौ सौभगाय 062a
तावत्सुवृत्तावनमन्त मायया; सत्तमा गा अरुणा उदावहन् 062c
षष्टिश्च गावस्त्रिशताश्च धेनव; एकं वत्सं सुवते तं दुहन्ति 063a
नानागोष्ठा विहिता एकदोहना;स्तावश्विनौ दुहतो घर्ममुक्थ्यम् 063c
एकां नाभिं सप्तशता अराः श्रिताः; प्रधिष्वन्या विंशतिरर्पिता अराः 064a
अनेमि चक्रं परिवर्ततेऽजरं; मायाश्विनौ समनक्ति चर्षणी 064c
एकं चक्रं वर्तते द्वादशारं प्रधि;षण्णाभिमेकाक्षममृतस्य धारणम् 065a
यस्मिन्देवा अधि विश्वे विषक्ता;स्तावश्विनौ मुञ्चतो मा विषीदतम् 065c
अश्विनाविन्द्रममृतं वृत्तभूयौ; तिरोधत्तामश्विनौ दासपत्नी 066a
भित्त्वा गिरिमश्विनौ गामुदाचरन्तौ; तद्वृष्टमह्ना प्रथिता वलस्य 066c
युवां दिशो जनयथो दशाग्रे; समानं मूर्ध्नि रथया वियन्ति 067a
तासां यातमृषयोऽनुप्रयान्ति; देवा मनुष्याः क्षितिमाचरन्ति 067c
युवां वर्णान्विकुरुथो विश्वरूपां;स्तेऽधिक्षियन्ति भुवनानि विश्वा 068a
ते भानवोऽप्यनुसृताश्चरन्ति; देवा मनुष्याः क्षितिमाचरन्ति 068c
तौ नासत्यावश्विनावामहे वां; स्रजं च यां बिभृथः पुष्करस्य 069a
तौ नासत्यावमृतावृतावृधा;वृते देवास्तत्प्रपदेन सूते 069c
मुखेन गर्भं लभतां युवानौ; गतासुरेतत्प्रपदेन सूते 070a
सद्यो जातो मातरमत्ति गर्भ;स्तावश्विनौ मुञ्चथो जीवसे गाः 070c
एवं तेनाभिष्टुतावश्विनावाजग्मतुः 071A
आहतुश्चैनम् 071B
प्रीतौ स्वः 071C
एष तेऽपूपः 071D
अशानैनमिति 071E
स एवमुक्तः प्रत्युवाच 072A
नानृतमूचतुर्भवन्तौ 072B
न त्वहमेतमपूपमुपयोक्तुमुत्सहे अनिवेद्य गुरव इति 072C
ततस्तमश्विनावूचतुः 073A
आवाभ्यां पुरस्ताद्भवत उपाध्यायेनैवमेवाभिष्टुताभ्यामपूपः प्रीताभ्यां दत्तः 073B
उपयुक्तश्च स तेनानिवेद्य गुरवे 073C
त्वमपि तथैव कुरुष्व यथा कृतमुपाध्यायेनेति 073D
स एवमुक्तः पुनरेव प्रत्युवाचैतौ 074A
प्रत्यनुनये भवन्तावश्विनौ 074B
नोत्सहेऽहमनिवेद्योपाध्यायायोपयोक्तुमिति 074C
तमश्विनावाहतुः 075A
प्रीतौ स्वस्तवानया गुरुवृत्त्या 075B
उपाध्यायस्य ते कार्ष्णायसा दन्ताः 075C
भवतो हिरण्मया भविष्यन्ति 075D
चक्षुष्मांश्च भविष्यसि 075E
श्रेयश्चावाप्स्यसीति 075F
स एवमुक्तोऽश्विभ्यां लब्धचक्षुरुपाध्यायसकाशमागम्योपाध्यायमभिवाद्याचचक्षे 076A
स चास्य प्रीतिमानभूत् 076B
आह चैनम् 077A
यथाश्विनावाहतुस्तथा त्वं श्रेयोऽवाप्स्यसीति 077B
सर्वे च ते वेदाः प्रतिभास्यन्तीति 077C
एषा तस्यापि परीक्षोपमन्योः 078A
अथापरः शिष्यस्तस्यैवायोदस्य धौम्यस्य वेदो नाम 079A
तमुपाध्यायः सन्दिदेश 080A
वत्स वेद इहास्यताम् 080B
भवता मद्गृहे कञ्चित्कालं शुश्रूषमाणेन भवितव्यम् 080C
श्रेयस्ते भविष्यतीति 080D
स तथेत्युक्त्वा गुरुकुले दीर्घकालं गुरुशुश्रूषणपरोऽवसत् 081A
गौरिव नित्यं गुरुषु धूर्षु नियुज्यमानः शीतोष्णक्षुत्तृष्णादुःखसहः सर्वत्राप्रतिकूलः 081B
तस्य महता कालेन गुरुः परितोषं जगाम 082A
तत्परितोषाच्च श्रेयः सर्वज्ञतां चावाप 082B
एषा तस्यापि परीक्षा वेदस्य 082C
स उपाध्यायेनानुज्ञातः समावृत्तस्तस्माद्गुरुकुलवासाद्गृहाश्रमं प्रत्यपद्यत 083A
तस्यापि स्वगृहे वसतस्त्रयः शिष्या बभूवुः 083B
स शिष्यान्न किञ्चिदुवाच 084A
कर्म वा क्रियतां गुरुशुश्रूषा वेति 084B
दुःखाभिज्ञो हि गुरुकुलवासस्य शिष्यान्परिक्लेशेन योजयितुं नेयेष 084C
अथ कस्यचित्कालस्य वेदं ब्राह्मणं जनमेजयः पौष्यश्च क्षत्रियावुपेत्योपाध्यायं वरयां चक्रतुः 085A
स कदाचिद्याज्यकार्येणाभिप्रस्थित उत्तङ्कं नाम शिष्यं नियोजयामास 086A
भो उत्तङ्क यत्किञ्चिदस्मद्गृहे परिहीयते तदिच्छाम्यहमपरिहीणं भवता क्रियमाणमिति 086B
स एवं प्रतिसमादिश्योत्तङ्कं वेदः प्रवासं जगाम 087A
अथोत्तङ्को गुरुशुश्रूषुर्गुरुनियोगमनुतिष्ठमानस्तत्र गुरुकुले वसति स्म 088A
स वसंस्तत्रोपाध्यायस्त्रीभिः सहिताभिराहूयोक्तः 089A
उपाध्यायिनी ते ऋतुमती 089B
उपाध्यायश्च प्रोषितः 089C
अस्या यथायमृतुर्वन्ध्यो न भवति तथा क्रियताम् 089D
एतद्विषीदतीति 089E
स एवमुक्तस्ताः स्त्रियः प्रत्युवाच 090A
न मया स्त्रीणां वचनादिदमकार्यं कार्यम् 090B
न ह्यहमुपाध्यायेन सन्दिष्टः 090C
अकार्यमपि त्वया कार्यमिति 090D
तस्य पुनरुपाध्यायः कालान्तरेण गृहानुपजगाम तस्मात्प्रवासात् 091A
स तद्वृत्तं तस्याशेषमुपलभ्य प्रीतिमानभूत् 091B
उवाच चैनम् 092A
वत्सोत्तङ्क किं ते प्रियं करवाणीति 092B
धर्मतो हि शुश्रूषितोऽस्मि भवता 092C
तेन प्रीतिः परस्परेण नौ संवृद्धा 092D
तदनुजाने भवन्तम् 092E
सर्वामेव सिद्धिं प्राप्स्यसि 092F
गम्यतामिति 092G
स एवमुक्तः प्रत्युवाच 093A
किं ते प्रियं करवाणीति 093B
एवं ह्याहुः 093C
यश्चाधर्मेण विब्रूयाद्यश्चाधर्मेण पृच्छति 094A
तयोरन्यतरः प्रैति विद्वेषं चाधिगच्छति 095A
सोऽहमनुज्ञातो भवता इच्छामीष्टं ते गुर्वर्थमुपहर्तुमिति 095B
तेनैवमुक्त उपाध्यायः प्रत्युवाच 096A
वत्सोत्तङ्क उष्यतां तावदिति 096B
स कदाचित्तमुपाध्यायमाहोत्तङ्कः 097A
आज्ञापयतु भवान् 097B
किं ते प्रियमुपहरामि गुर्वर्थमिति 097C
तमुपाध्यायः प्रत्युवाच 098A
वत्सोत्तङ्क बहुशो मां चोदयसि गुर्वर्थमुपहरेयमिति 098B
तद्गच्छ 098C
एनां प्रविश्योपाध्यायिनीं पृच्छ किमुपहरामीति 098D
एषा यद्ब्रवीति तदुपहरस्वेति 098E
स एवमुक्त उपाध्यायेनोपाध्यायिनीमपृच्छत् 099A
भवत्युपाध्यायेनास्म्यनुज्ञातो गृहं गन्तुम् 099B
तदिच्छामीष्टं ते गुर्वर्थमुपहृत्यानृणो गन्तुम् 099C
तदाज्ञापयतु भवती 099D
किमुपहरामि गुर्वर्थमिति 099E
सैवमुक्तोपाध्यायिन्युत्तङ्कं प्रत्युवाच 100A
गच्छ पौष्यं राजानम् 100B
भिक्षस्व तस्य क्षत्रियया पिनद्धे कुण्डले 100C
ते आनयस्व 100D
इतश्चतुर्थेऽहनि पुण्यकं भविता 100E
ताभ्यामाबद्धाभ्यां ब्राह्मणान्परिवेष्टुमिच्छामि 100F
शोभमाना यथा ताभ्यां कुण्डलाभ्यां तस्मिन्नहनि सम्पादयस्व 100G
श्रेयो हि ते स्यात्क्षणं कुर्वत इति 100H
स एवमुक्त उपाध्यायिन्या प्रातिष्ठतोत्तङ्कः 101A
स पथि गच्छन्नपश्यदृषभमतिप्रमाणं तमधिरूढं च पुरुषमतिप्रमाणमेव 101B
स पुरुष उत्तङ्कमभ्यभाषत 102A
उत्तङ्कैतत्पुरीषमस्य ऋषभस्य भक्षयस्वेति 102B
स एवमुक्तो नैच्छत् 103A
तमाह पुरुषो भूयः 104A
भक्षयस्वोत्तङ्क 104B
मा विचारय 104C
उपाध्यायेनापि ते भक्षितं पूर्वमिति 104D
स एवमुक्तो बाढमित्युक्त्वा तदा तदृषभस्य पुरीषं मूत्रं च भक्षयित्वोत्तङ्कः प्रतस्थे यत्र स क्षत्रियः पौष्यः 105A
तमुपेत्यापश्यदुत्तङ्क आसीनम् 106A
स तमुपेत्याशीर्भिरभिनन्द्योवाच 106B
अर्थी भवन्तमुपगतोऽस्मीति 106C
स एनमभिवाद्योवाच 107A
भगवन्पौष्यः खल्वहम् 107B
किं करवाणीति 107C
तमुवाचोत्तङ्कः 108A
गुर्वर्थे कुण्डलाभ्यामर्थ्यागतोऽस्मीति ये ते क्षत्रियया पिनद्धे कुण्डले ते भवान्दातुमर्हतीति 108B
तं पौष्यः प्रत्युवाच 109A
प्रविश्यान्तःपुरं क्षत्रिया याच्यतामिति 109B
स तेनैवमुक्तः प्रविश्यान्तःपुरं क्षत्रियां नापश्यत् 110A
स पौष्यं पुनरुवाच 111A
न युक्तं भवता वयमनृतेनोपचरितुम् 111B
न हि ते क्षत्रियान्तःपुरे सन्निहिता 111C
नैनां पश्यामीति 111D
स एवमुक्तः पौष्यस्तं प्रत्युवाच 112A
सम्प्रति भवानुच्छिष्टः 112B
स्मर तावत् 112C
न हि सा क्षत्रिया उच्छिष्टेनाशुचिना वा शक्या द्रष्टुम् 112D
पतिव्रतात्वादेषा नाशुचेर्दर्शनमुपैतीति 112E
अथैवमुक्त उत्तङ्कः स्मृत्वोवाच 113A
अस्ति खलु मयोच्छिष्टेनोपस्पृष्टं शीघ्रं गच्छता चेति 113B
तं पौष्यः प्रत्युवाच 114A
एतत्तदेवं हि 114B
न गच्छतोपस्पृष्टं भवति न स्थितेनेति 114C
अथोत्तङ्कस्तथेत्युक्त्वा प्राङ्मुख उपविश्य सुप्रक्षालितपाणिपादवदनोऽशब्दाभिर्हृदयङ्गमाभिरद्भिरुपस्पृश्य त्रिः पीत्वा द्विः परिमृज्य खान्यद्भिरुपस्पृश्यान्तःपुरं प्रविश्य तां क्षत्रियामपश्यत् 115A
सा च दृष्ट्वैवोत्तङ्कमभ्युत्थायाभिवाद्योवाच 116A
स्वागतं ते भगवन् 116B
आज्ञापय किं करवाणीति 116C
स तामुवाच 117A
एते कुण्डले गुर्वर्थं मे भिक्षिते दातुमर्हसीति 117B
सा प्रीता तेन तस्य सद्भावेन पात्रमयमनतिक्रमणीयश्चेति मत्वा ते कुण्डले अवमुच्यास्मै प्रायच्छत् 118A
आह चैनम् 119A
एते कुण्डले तक्षको नागराजः प्रार्थयति 119B
अप्रमत्तो नेतुमर्हसीति 119C
स एवमुक्तस्तां क्षत्रियां प्रत्युवाच 120A
भवति सुनिर्वृता भव 120B
न मां शक्तस्तक्षको नागराजो धर्षयितुमिति 120C
स एवमुक्त्वा तां क्षत्रियामामन्त्र्य पौष्यसकाशमागच्छत् 121A
स तं दृष्ट्वोवाच 122A
भोः पौष्य प्रीतोऽस्मीति 122B
तं पौष्यः प्रत्युवाच 123A
भगवंश्चिरस्य पात्रमासाद्यते 123B
भवांश्च गुणवानतिथिः 123C
तत्करिष्ये श्राद्धम् 123D
क्षणः क्रियतामिति 123E
तमुत्तङ्कः प्रत्युवाच 124A
कृतक्षण एवास्मि 124B
शीघ्रमिच्छामि यथोपपन्नमन्नमुपहृतं भवतेति 124C
स तथेत्युक्त्वा यथोपपन्नेनान्नेनैनं भोजयामास 125A
अथोत्तङ्कः शीतमन्नं सकेशं दृष्ट्वा अशुच्येतदिति मत्वा पौष्यमुवाच 126A
यस्मान्मे अशुच्यन्नं ददासि तस्मदन्धो भविष्यसीति 126B
तं पौष्यः प्रत्युवाच 127A
यस्मात्त्वमप्यदुष्टमन्नं दूषयसि तस्मादनपत्यो भविष्यसीति 127B
सोऽथ पौष्यस्तस्याशुचिभावमन्नस्यागमयामास 128A
अथ तदन्नं मुक्तकेश्या स्त्रियोपहृतं सकेशमशुचि मत्वोत्तङ्कं प्रसादयामास 129A
भगवन्नज्ञानादेतदन्नं सकेशमुपहृतं शीतं च 129B
तत्क्षामये भवन्तम् 129C
न भवेयमन्ध इति 129D
तमुत्तङ्कः प्रत्युवाच 130A
न मृषा ब्रवीमि 130B
भूत्वा त्वमन्धो नचिरादनन्धो भविष्यसीति 130C
ममापि शापो न भवेद्भवता दत्त इति 130D
तं पौष्यः प्रत्युवाच 131A
नाहं शक्तः शापं प्रत्यादातुम् 131B
न हि मे मन्युरद्याप्युपशमं गच्छति 131C
किं चैतद्भवता न ज्ञायते यथा 131D
नावनीतं हृदयं ब्राह्मणस्य; वाचि क्षुरो निहितस्तीक्ष्णधारः 132a
विपरीतमेतदुभयं क्षत्रियस्य; वाङ्नावनीती हृदयं तीक्ष्णधारम् 132c
इति 133A
तदेवं गते न शक्तोऽहं तीक्ष्णहृदयत्वात्तं शापमन्यथा कर्तुम् 133B
गम्यतामिति 133C
तमुत्तङ्कः प्रत्युवाच 134A
भवताहमन्नस्याशुचिभावमागमय्य प्रत्यनुनीतः 134B
प्राक्च तेऽभिहितम् 134C
यस्माददुष्टमन्नं दूषयसि तस्मादनपत्यो भविष्यसीति 134D
दुष्टे चान्ने नैष मम शापो भविष्यतीति 134E
साधयामस्तावदित्युक्त्वा प्रातिष्ठतोत्तङ्कस्ते कुण्डले गृहीत्वा 135A
सोऽपश्यत्पथि नग्नं श्रमणमागच्छन्तं मुहुर्मुहुर्दृश्यमानमदृश्यमानं च 136A
अथोत्तङ्कस्ते कुण्डले भूमौ निक्षिप्योदकार्थं प्रचक्रमे 136B
एतस्मिन्नन्तरे स श्रमणस्त्वरमाण उपसृत्य ते कुण्डले गृहीत्वा प्राद्रवत् 137A
तमुत्तङ्कोऽभिसृत्य जग्राह 137B
स तद्रूपं विहाय तक्षकरूपं कृत्वा सहसा धरण्यां विवृतं महाबिलं विवेश 137C
प्रविश्य च नागलोकं स्वभवनमगच्छत् 138A
तमुत्तङ्कोऽन्वाविवेश तेनैव बिलेन 138B
प्रविश्य च नागानस्तुवदेभिः श्लोकैः 138C
य ऐरावतराजानः सर्पाः समितिशोभनाः 139a
वर्षन्त इव जीमूताः सविद्युत्पवनेरिताः 139c
सुरूपाश्च विरूपाश्च तथा कल्माषकुण्डलाः 140a
आदित्यवन्नाकपृष्ठे रेजुरैरावतोद्भवाः 140c
बहूनि नागवर्त्मानि गङ्गायास्तीर उत्तरे 141a
इच्छेत्कोऽर्कांशुसेनायां चर्तुमैरावतं विना 141c
शतान्यशीतिरष्टौ च सहस्राणि च विंशतिः 142a
सर्पाणां प्रग्रहा यान्ति धृतराष्ट्रो यदेजति 142c
ये चैनमुपसर्पन्ति ये च दूरं परं गताः 143a
अहमैरावतज्येष्ठभ्रातृभ्योऽकरवं नमः 143c
यस्य वासः कुरुक्षेत्रे खाण्डवे चाभवत्सदा 144a
तं काद्रवेयमस्तौषं कुण्डलार्थाय तक्षकम् 144c
तक्षकश्चाश्वसेनश्च नित्यं सहचरावुभौ 145a
कुरुक्षेत्रे निवसतां नदीमिक्षुमतीमनु 145c
जघन्यजस्तक्षकस्य श्रुतसेनेति यः श्रुतः 146a
अवसद्यो महद्द्युम्नि प्रार्थयन्नागमुख्यताम् 146c
करवाणि सदा चाहं नमस्तस्मै महात्मने 146e
एवं स्तुवन्नपि नागान्यदा ते कुण्डले नालभदथापश्यत्स्त्रियौ तन्त्रे अधिरोप्य पटं वयन्त्यौ 147A
तस्मिंश्च तन्त्रे कृष्णाः सिताश्च तन्तवः 148A
चक्रं चापश्यत्षड्भिः कुमारैः परिवर्त्यमानम् 148B
पुरुषं चापश्यद्दर्शनीयम् 148C
स तान्सर्वांस्तुष्टाव एभिर्मन्त्रवादश्लोकैः 149A
त्रीण्यर्पितान्यत्र शतानि मध्ये; षष्टिश्च नित्यं चरति ध्रुवेऽस्मिन् 150a
चक्रे चतुर्विंशतिपर्वयोगे; षड्यत्कुमाराः परिवर्तयन्ति 150c
तन्त्रं चेदं विश्वरूपं युवत्यौ; वयतस्तन्तून्सततं वर्तयन्त्यौ 151a
कृष्णान्सितांश्चैव विवर्तयन्त्यौ; भूतान्यजस्रं भुवनानि चैव 151c
वज्रस्य भर्ता भुवनस्य गोप्ता; वृत्रस्य हन्ता नमुचेर्निहन्ता 152a
कृष्णे वसानो वसने महात्मा; सत्यानृते यो विविनक्ति लोके 152c
यो वाजिनं गर्भमपां पुराणं; वैश्वानरं वाहनमभ्युपेतः 153a
नमः सदास्मै जगदीश्वराय; लोकत्रयेशाय पुरन्दराय 153c
ततः स एनं पुरुषः प्राह 154A
प्रीतोऽस्मि तेऽहमनेन स्तोत्रेण 154B
किं ते प्रियं करवाणीति 154C
स तमुवाच 155A
नागा मे वशमीयुरिति 155B
स एनं पुरुषः पुनरुवाच 156A
एतमश्वमपाने धमस्वेति 156B
स तमश्वमपानेऽधमत् 157A
अथाश्वाद्धम्यमानात्सर्वस्रोतोभ्यः सधूमा अर्चिषोऽग्नेर्निष्पेतुः 157B
ताभिर्नागलोको धूपितः 158A
अथ ससम्भ्रमस्तक्षकोऽग्नितेजोभयविषण्णस्ते कुण्डले गृहीत्वा सहसा स्वभवनान्निष्क्रम्योत्तङ्कमुवाच 159A
एते कुण्डले प्रतिगृह्णातु भवानिति 159B
स ते प्रतिजग्राहोत्तङ्कः 160A
कुण्डले प्रतिगृह्याचिन्तयत् 160B
अद्य तत्पुण्यकमुपाध्यायिन्याः 160C
दूरं चाहमभ्यागतः 160D
कथं नु खलु सम्भावयेयमिति 160E
तत एनं चिन्तयानमेव स पुरुष उवाच 161A
उत्तङ्क एनमश्वमधिरोह 161B
एष त्वां क्षणादेवोपाध्यायकुलं प्रापयिष्यतीति 161C
स तथेत्युक्त्वा तमश्वमधिरुह्य प्रत्याजगामोपाध्यायकुलम् 162A
उपाध्यायिनी च स्नाता केशानावपयन्त्युपविष्टोत्तङ्को नागच्छतीति शापायास्य मनो दधे 162B
अथोत्तङ्कः प्रविश्य उपाध्यायिनीमभ्यवादयत् 163A
ते चास्यै कुण्डले प्रायच्छत् 163B
सा चैनं प्रत्युवाच 164A
उत्तङ्क देशे कालेऽभ्यागतः 164B
स्वागतं ते वत्स 164C
मनागसि मया न शप्तः 164D
श्रेयस्तवोपस्थितम् 164E
सिद्धिमाप्नुहीति 164F
अथोत्तङ्क उपाध्यायमभ्यवादयत् 165A
तमुपाध्यायः प्रत्युवाच 165B
वत्सोत्तङ्क स्वागतं ते 165C
किं चिरं कृतमिति 165D
तमुत्तङ्क उपाध्यायं प्रत्युवाच 166A
भोस्तक्षकेण नागराजेन विघ्नः कृतोऽस्मिन्कर्मणि 166B
तेनास्मि नागलोकं नीतः 166C
तत्र च मया दृष्टे स्त्रियौ तन्त्रेऽधिरोप्य पटं वयन्त्यौ 167A
तस्मिंश्च तन्त्रे कृष्णाः सिताश्च तन्तवः 167B
किं तत् 167C
तत्र च मया चक्रं दृष्टं द्वादशारम् 168A
षट्चैनं कुमाराः परिवर्तयन्ति 168B
तदपि किम् 168C
पुरुषश्चापि मया दृष्टः 169A
स पुनः कः 169B
अश्वश्चातिप्रमाणयुक्तः 170A
स चापि कः 170B
पथि गच्छता मया ऋषभो दृष्टः 171A
तं च पुरुषोऽधिरूढः 171B
तेनास्मि सोपचारमुक्तः 171C
उत्तङ्कास्य ऋषभस्य पुरीषं भक्षय 171D
उपाध्यायेनापि ते भक्षितमिति 171E
ततस्तद्वचनान्मया तदृषभस्य पुरीषमुपयुक्तम् 171F
तदिच्छामि भवतोपदिष्टं किं तदिति 171G
तेनैवमुक्त उपाध्यायः प्रत्युवाच 172A
ये ते स्त्रियौ धाता विधाता च 172B
ये च ते कृष्णाः सिताश्च तन्तवस्ते रात्र्यहनी 172C
यदपि तच्चक्रं द्वादशारं षट्कुमाराः परिवर्तयन्ति ते ऋतवः षट्संवत्सरश्चक्रम् 173A
यः पुरुषः स पर्जन्यः 173B
योऽश्वः सोऽग्निः 173C
य ऋषभस्त्वया पथि गच्छता दृष्टः स ऐरावतो नागराजः 174A
यश्चैनमधिरूढः स इन्द्रः 174B
यदपि ते पुरीषं भक्षितं तस्य ऋषभस्य तदमृतम् 174C
तेन खल्वसि न व्यापन्नस्तस्मिन्नागभवने 175A
स चापि मम सखा इन्द्रः 175B
तदनुग्रहात्कुण्डले गृहीत्वा पुनरभ्यागतोऽसि 176A
तत्सौम्य गम्यताम् 176B
अनुजाने भवन्तम् 176C
श्रेयोऽवाप्स्यसीति 176D
स उपाध्यायेनानुज्ञात उत्तङ्कः क्रुद्धस्तक्षकस्य प्रतिचिकीर्षमाणो हास्तिनपुरं प्रतस्थे 177A
स हास्तिनपुरं प्राप्य नचिराद्द्विजसत्तमः 178a
समागच्छत राजानमुत्तङ्को जनमेजयम् 178c
पुरा तक्षशिलातस्तं निवृत्तमपराजितम् 179a
सम्यग्विजयिनं दृष्ट्वा समन्तान्मन्त्रिभिर्वृतम् 179c
तस्मै जयाशिषः पूर्वं यथान्यायं प्रयुज्य सः 180a
उवाचैनं वचः काले शब्दसम्पन्नया गिरा 180c
अन्यस्मिन्करणीये त्वं कार्ये पार्थिवसत्तम 181a
बाल्यादिवान्यदेव त्वं कुरुषे नृपसत्तम 181c
एवमुक्तस्तु विप्रेण स राजा प्रत्युवाच ह 182a
जनमेजयः प्रसन्नात्मा सम्यक्सम्पूज्य तं मुनिम् 182c
आसां प्रजानां परिपालनेन; स्वं क्षत्रधर्मं परिपालयामि 183a
प्रब्रूहि वा किं क्रियतां द्विजेन्द्र; शुश्रूषुरस्म्यद्य वचस्त्वदीयम् 183c
स एवमुक्तस्तु नृपोत्तमेन; द्विजोत्तमः पुण्यकृतां वरिष्ठः 184a
उवाच राजानमदीनसत्त्वं; स्वमेव कार्यं नृपतेश्च यत्तत् 184c
तक्षकेण नरेन्द्रेन्द्र येन ते हिंसितः पिता 185a
तस्मै प्रतिकुरुष्व त्वं पन्नगाय दुरात्मने 185c
कार्यकालं च मन्येऽहं विधिदृष्टस्य कर्मणः 186a
तद्गच्छापचितिं राजन्पितुस्तस्य महात्मनः 186c
तेन ह्यनपराधी स दष्टो दुष्टान्तरात्मना 187a
पञ्चत्वमगमद्राजा वज्राहत इव द्रुमः 187c
बलदर्पसमुत्सिक्तस्तक्षकः पन्नगाधमः 188a
अकार्यं कृतवान्पापो योऽदशत्पितरं तव 188c
राजर्षिवंशगोप्तारममरप्रतिमं नृपम् 189a
जघान काश्यपं चैव न्यवर्तयत पापकृत् 189c
दग्धुमर्हसि तं पापं ज्वलिते हव्यवाहने 190a
सर्पसत्रे महाराज त्वयि तद्धि विधीयते 190c
एवं पितुश्चापचितिं गतवांस्त्वं भविष्यसि 191a
मम प्रियं च सुमहत्कृतं राजन्भविष्यति 191c
कर्मणः पृथिवीपाल मम येन दुरात्मना 192a
विघ्नः कृतो महाराज गुर्वर्थं चरतोऽनघ 192c
एतच्छ्रुत्वा तु नृपतिस्तक्षकस्य चुकोप ह 193a
उत्तङ्कवाक्यहविषा दीप्तोऽग्निर्हविषा यथा 193c
अपृच्छच्च तदा राजा मन्त्रिणः स्वान्सुदुःखितः 194a
उत्तङ्कस्यैव सान्निध्ये पितुः स्वर्गगतिं प्रति 194c
तदैव हि स राजेन्द्रो दुःखशोकाप्लुतोऽभवत् 195a
यदैव पितरं वृत्तमुत्तङ्कादशृणोत्तदा 195c