ऋषय ऊचुः 001
समन्तपञ्चकमिति यदुक्तं सूतनन्दन 001a
एतत्सर्वं यथान्यायं श्रोतुमिच्छामहे वयम् 001c
सूत उवाच 002
शुश्रूषा यदि वो विप्रा ब्रुवतश्च कथाः शुभाः 002a
समन्तपञ्चकाख्यं च श्रोतुमर्हथ सत्तमाः 002c
त्रेताद्वापरयोः सन्धौ रामः शस्त्रभृतां वरः 003a
असकृत्पार्थिवं क्षत्रं जघानामर्षचोदितः 003c
स सर्वं क्षत्रमुत्साद्य स्ववीर्येणानलद्युतिः 004a
समन्तपञ्चके पञ्च चकार रुधिरह्रदान् 004c
स तेषु रुधिराम्भस्सु ह्रदेषु क्रोधमूर्च्छितः 005a
पितॄन्सन्तर्पयामास रुधिरेणेति नः श्रुतम् 005c
अथर्चीकादयोऽभ्येत्य पितरो ब्राह्मणर्षभम् 006a
तं क्षमस्वेति सिषिधुस्ततः स विरराम ह 006c
तेषां समीपे यो देशो ह्रदानां रुधिराम्भसाम् 007a
समन्तपञ्चकमिति पुण्यं तत्परिकीर्तितम् 007c
येन लिङ्गेन यो देशो युक्तः समुपलक्ष्यते 008a
तेनैव नाम्ना तं देशं वाच्यमाहुर्मनीषिणः 008c
अन्तरे चैव सम्प्राप्ते कलिद्वापरयोरभूत् 009a
समन्तपञ्चके युद्धं कुरुपाण्डवसेनयोः 009c
तस्मिन्परमधर्मिष्ठे देशे भूदोषवर्जिते 010a
अष्टादश समाजग्मुरक्षौहिण्यो युयुत्सया 010c
एवं नामाभिनिर्वृत्तं तस्य देशस्य वै द्विजाः 011a
पुण्यश्च रमणीयश्च स देशो वः प्रकीर्तितः 011c
तदेतत्कथितं सर्वं मया वो मुनिसत्तमाः 012a
यथा देशः स विख्यातस्त्रिषु लोकेषु विश्रुतः 012c
ऋषय ऊचुः 013
अक्षौहिण्य इति प्रोक्तं यत्त्वया सूतनन्दन 013a
एतदिच्छामहे श्रोतुं सर्वमेव यथातथम् 013c
अक्षौहिण्याः परीमाणं रथाश्वनरदन्तिनाम् 014a
यथावच्चैव नो ब्रूहि सर्वं हि विदितं तव 014c
सूत उवाच 015
एको रथो गजश्चैको नराः पञ्च पदातयः 015a
त्रयश्च तुरगास्तज्ज्ञैः पत्तिरित्यभिधीयते 015c
पत्तिं तु त्रिगुणामेतामाहुः सेनामुखं बुधाः 016a
त्रीणि सेनामुखान्येको गुल्म इत्यभिधीयते 016c
त्रयो गुल्मा गणो नाम वाहिनी तु गणास्त्रयः 017a
स्मृतास्तिस्रस्तु वाहिन्यः पृतनेति विचक्षणैः 017c
चमूस्तु पृतनास्तिस्रस्तिस्रश्चम्वस्त्वनीकिनी 018a
अनीकिनीं दशगुणां प्राहुरक्षौहिणीं बुधाः 018c
अक्षौहिण्याः प्रसङ्ख्यानं रथानां द्विजसत्तमाः 019a
सङ्ख्यागणिततत्त्वज्ञैः सहस्राण्येकविंशतिः 019c
शतान्युपरि चैवाष्टौ तथा भूयश्च सप्ततिः 020a
गजानां तु परीमाणमेतदेवात्र निर्दिशेत् 020c
ज्ञेयं शतसहस्रं तु सहस्राणि तथा नव 021a
नराणामपि पञ्चाशच्छतानि त्रीणि चानघाः 021c
पञ्चषष्टिसहस्राणि तथाश्वानां शतानि च 022a
दशोत्तराणि षट्प्राहुर्यथावदिह सङ्ख्यया 022c
एतामक्षौहिणीं प्राहुः सङ्ख्यातत्त्वविदो जनाः 023a
यां वः कथितवानस्मि विस्तरेण द्विजोत्तमाः 023c
एतया सङ्यया ह्यासन्कुरुपाण्डवसेनयोः 024a
अक्षौहिण्यो द्विजश्रेष्ठाः पिण्डेनाष्टादशैव ताः 024c
समेतास्तत्र वै देशे तत्रैव निधनं गताः 025a
कौरवान्कारणं कृत्वा कालेनाद्भुतकर्मणा 025c
अहानि युयुधे भीष्मो दशैव परमास्त्रवित् 026a
अहानि पञ्च द्रोणस्तु ररक्ष कुरुवाहिनीम् 026c
अहनी युयुधे द्वे तु कर्णः परबलार्दनः 027a
शल्योऽर्धदिवसं त्वासीद्गदायुद्धमतः परम् 027c
तस्यैव तु दिनस्यान्ते हार्दिक्यद्रौणिगौतमाः 028a
प्रसुप्तं निशि विश्वस्तं जघ्नुर्यौधिष्ठिरं बलम् 028c
यत्तु शौनकसत्रे ते भारताख्यानविस्तरम् 029a
आख्यास्ये तत्र पौलोममाख्यानं चादितः परम् 029c
विचित्रार्थपदाख्यानमनेकसमयान्वितम् 030a
अभिपन्नं नरैः प्राज्ञैर्वैराग्यमिव मोक्षिभिः 030c
आत्मेव वेदितव्येषु प्रियेष्विव च जीवितम् 031a
इतिहासः प्रधानार्थः श्रेष्ठः सर्वागमेष्वयम् 031c
इतिहासोत्तमे ह्यस्मिन्नर्पिता बुद्धिरुत्तमा 032a
स्वरव्यञ्जनयोः कृत्स्ना लोकवेदाश्रयेव वाक् 032c
अस्य प्रज्ञाभिपन्नस्य विचित्रपदपर्वणः 033a
भारतस्येतिहासस्य श्रूयतां पर्वसङ्ग्रहः 033c
पर्वानुक्रमणी पूर्वं द्वितीयं पर्वसङ्ग्रहः 034a
पौष्यं पौलोममास्तीकमादिवंशावतारणम् 034c
ततः सम्भवपर्वोक्तमद्भुतं देवनिर्मितम् 035a
दाहो जतुगृहस्यात्र हैडिम्बं पर्व चोच्यते 035c
ततो बकवधः पर्व पर्व चैत्ररथं ततः 036a
ततः स्वयंवरं देव्याः पाञ्चाल्याः पर्व चोच्यते 036c
क्षत्रधर्मेण निर्जित्य ततो वैवाहिकं स्मृतम् 037a
विदुरागमनं पर्व राज्यलम्भस्तथैव च 037c
अर्जुनस्य वने वासः सुभद्राहरणं ततः 038a
सुभद्राहरणादूर्ध्वं ज्ञेयं हरणहारिकम् 038c
ततः खाण्डवदाहाख्यं तत्रैव मयदर्शनम् 039a
सभापर्व ततः प्रोक्तं मन्त्रपर्व ततः परम् 039c
जरासन्धवधः पर्व पर्व दिग्विजयस्तथा 040a
पर्व दिग्विजयादूर्ध्वं राजसूयिकमुच्यते 040c
ततश्चार्घाभिहरणं शिशुपालवधस्ततः 041a
द्यूतपर्व ततः प्रोक्तमनुद्यूतमतः परम् 041c
तत आरण्यकं पर्व किर्मीरवध एव च 042a
ईश्वरार्जुनयोर्युद्धं पर्व कैरातसञ्ज्ञितम् 042c
इन्द्रलोकाभिगमनं पर्व ज्ञेयमतः परम् 043a
तीर्थयात्रा ततः पर्व कुरुराजस्य धीमतः 043c
जटासुरवधः पर्व यक्षयुद्धमतः परम् 044a
तथैवाजगरं पर्व विज्ञेयं तदनन्तरम् 044c
मार्कण्डेयसमस्या च पर्वोक्तं तदनन्तरम् 045a
संवादश्च ततः पर्व द्रौपदीसत्यभामयोः 045c
घोषयात्रा ततः पर्व मृगस्वप्नभयं ततः 046a
व्रीहिद्रौणिकमाख्यानं ततोऽनन्तरमुच्यते 046c
द्रौपदीहरणं पर्व सैन्धवेन वनात्ततः 047a
कुण्डलाहरणं पर्व ततः परमिहोच्यते 047c
आरणेयं ततः पर्व वैराटं तदनन्तरम् 048a
कीचकानां वधः पर्व पर्व गोग्रहणं ततः 048c
अभिमन्युना च वैराट्याः पर्व वैवाहिकं स्मृतम् 049a
उद्योगपर्व विज्ञेयमत ऊर्ध्वं महाद्भुतम् 049c
ततः सञ्जययानाख्यं पर्व ज्ञेयमतः परम् 050a
प्रजागरं ततः पर्व धृतराष्ट्रस्य चिन्तया 050c
पर्व सानत्सुजातं च गुह्यमध्यात्मदर्शनम् 051a
यानसन्धिस्ततः पर्व भगवद्यानमेव च 051c
ज्ञेयं विवादपर्वात्र कर्णस्यापि महात्मनः 052a
निर्याणं पर्व च ततः कुरुपाण्डवसेनयोः 052c
रथातिरथसङ्ख्या च पर्वोक्तं तदनन्तरम् 053a
उलूकदूतागमनं पर्वामर्षविवर्धनम् 053c
अम्बोपाख्यानमपि च पर्व ज्ञेयमतः परम् 054a
भीष्माभिषेचनं पर्व ज्ञेयमद्भुतकारणम् 054c
जम्बूखण्डविनिर्माणं पर्वोक्तं तदनन्तरम् 055a
भूमिपर्व ततो ज्ञेयं द्वीपविस्तरकीर्तनम् 055c
पर्वोक्तं भगवद्गीता पर्व भीष्मवधस्ततः 056a
द्रोणाभिषेकः पर्वोक्तं संशप्तकवधस्ततः 056c
अभिमन्युवधः पर्व प्रतिज्ञापर्व चोच्यते 057a
जयद्रथवधः पर्व घटोत्कचवधस्ततः 057c
ततो द्रोणवधः पर्व विज्ञेयं लोमहर्षणम् 058a
मोक्षो नारायणास्त्रस्य पर्वानन्तरमुच्यते 058c
कर्णपर्व ततो ज्ञेयं शल्यपर्व ततः परम् 059a
ह्रदप्रवेशनं पर्व गदायुद्धमतः परम् 059c
सारस्वतं ततः पर्व तीर्थवंशगुणान्वितम् 060a
अत ऊर्ध्वं तु बीभत्सं पर्व सौप्तिकमुच्यते 060c
ऐषीकं पर्व निर्दिष्टमत ऊर्ध्वं सुदारुणम् 061a
जलप्रदानिकं पर्व स्त्रीपर्व च ततः परम् 061c
श्राद्धपर्व ततो ज्ञेयं कुरूणामौर्ध्वदेहिकम् 062a
आभिषेचनिकं पर्व धर्मराजस्य धीमतः 062c
चार्वाकनिग्रहः पर्व रक्षसो ब्रह्मरूपिणः 063a
प्रविभागो गृहाणां च पर्वोक्तं तदनन्तरम् 063c
शान्तिपर्व ततो यत्र राजधर्मानुकीर्तनम् 064a
आपद्धर्मश्च पर्वोक्तं मोक्षधर्मस्ततः परम् 064c
ततः पर्व परिज्ञेयमानुशासनिकं परम् 065a
स्वर्गारोहणिकं पर्व ततो भीष्मस्य धीमतः 065c
ततोऽश्वमेधिकं पर्व सर्वपापप्रणाशनम् 066a
अनुगीता ततः पर्व ज्ञेयमध्यात्मवाचकम् 066c
पर्व चाश्रमवासाख्यं पुत्रदर्शनमेव च 067a
नारदागमनं पर्व ततः परमिहोच्यते 067c
मौसलं पर्व च ततो घोरं समनुवर्ण्यते 068a
महाप्रस्थानिकं पर्व स्वर्गारोहणिकं ततः 068c
हरिवंशस्ततः पर्व पुराणं खिलसञ्ज्ञितम् 069a
भविष्यत्पर्व चाप्युक्तं खिलेष्वेवाद्भुतं महत् 069c
एतत्पर्वशतं पूर्णं व्यासेनोक्तं महात्मना 070a
यथावत्सूतपुत्रेण लोमहर्षणिना पुनः 070c
कथितं नैमिषारण्ये पर्वाण्यष्टादशैव तु 071a
समासो भारतस्यायं तत्रोक्तः पर्वसङ्ग्रहः 071c
पौष्ये पर्वणि माहात्म्यमुत्तङ्कस्योपवर्णितम् 072a
पौलोमे भृगुवंशस्य विस्तारः परिकीर्तितः 072c
आस्तीके सर्वनागानां गरुडस्य च सम्भवः 073a
क्षीरोदमथनं चैव जन्मोच्छैःश्रवसस्तथा 073c
यजतः सर्पसत्रेण राज्ञः पारिक्षितस्य च 074a
कथेयमभिनिर्वृत्ता भारतानां महात्मनाम् 074c
विविधाः सम्भवा राज्ञामुक्ताः सम्भवपर्वणि 075a
अन्येषां चैव विप्राणामृषेर्द्वैपायनस्य च 075c
अंशावतरणं चात्र देवानां परिकीर्तितम् 076a
दैत्यानां दानवानां च यक्षाणां च महौजसाम् 076c
नागानामथ सर्पाणां गन्धर्वाणां पतत्रिणाम् 077a
अन्येषां चैव भूतानां विविधानां समुद्भवः 077c
वसूनां पुनरुत्पत्तिर्भागीरथ्यां महात्मनाम् 078a
शन्तनोर्वेश्मनि पुनस्तेषां चारोहणं दिवि 078c
तेजोंऽशानां च सङ्घाताद्भीष्मस्याप्यत्र सम्भवः 079a
राज्यान्निवर्तनं चैव ब्रह्मचर्यव्रते स्थितिः 079c
प्रतिज्ञापालनं चैव रक्षा चित्राङ्गदस्य च 080a
हते चित्राङ्गदे चैव रक्षा भ्रातुर्यवीयसः 080c
विचित्रवीर्यस्य तथा राज्ये सम्प्रतिपादनम् 081a
धर्मस्य नृषु सम्भूतिरणीमाण्डव्यशापजा 081c
कृष्णद्वैपायनाच्चैव प्रसूतिर्वरदानजा 082a
धृतराष्ट्रस्य पाण्डोश्च पाण्डवानां च सम्भवः 082c
वारणावतयात्रा च मन्त्रो दुर्योधनस्य च 083a
विदुरस्य च वाक्येन सुरुङ्गोपक्रमक्रिया 083c
पाण्डवानां वने घोरे हिडिम्बायाश्च दर्शनम् 084a
घटोत्कचस्य चोत्पत्तिरत्रैव परिकीर्तिता 084c
अज्ञातचर्या पाण्डूनां वासो ब्राह्मणवेश्मनि 085a
बकस्य निधनं चैव नागराणां च विस्मयः 085c
अङ्गारपर्णं निर्जित्य गङ्गाकूलेऽर्जुनस्तदा 086a
भ्रातृभिः सहितः सर्वैः पाञ्चालानभितो ययौ 086c
तापत्यमथ वासिष्ठमौर्वं चाख्यानमुत्तमम् 087a
पञ्चेन्द्राणामुपाख्यानमत्रैवाद्भुतमुच्यते 087c
पञ्चानामेकपत्नीत्वे विमर्शो द्रुपदस्य च 088a
द्रौपद्या देवविहितो विवाहश्चाप्यमानुषः 088c
विदुरस्य च सम्प्राप्तिर्दर्शनं केशवस्य च 089a
खाण्डवप्रस्थवासश्च तथा राज्यार्धशासनम् 089c
नारदस्याज्ञया चैव द्रौपद्याः समयक्रिया 090a
सुन्दोपसुन्दयोस्तत्र उपाख्यानं प्रकीर्तितम् 090c
पार्थस्य वनवासश्च उलूप्या पथि सङ्गमः 091a
पुण्यतीर्थानुसंयानं बभ्रुवाहनजन्म च 091c
द्वारकायां सुभद्रा च कामयानेन कामिनी 092a
वासुदेवस्यानुमते प्राप्ता चैव किरीटिना 092c
हरणं गृह्य सम्प्राप्ते कृष्णे देवकिनन्दने 093a
सम्प्राप्तिश्चक्रधनुषोः खाण्डवस्य च दाहनम् 093c
अभिमन्योः सुभद्रायां जन्म चोत्तमतेजसः 094a
मयस्य मोक्षो ज्वलनाद्भुजङ्गस्य च मोक्षणम् 094c
महर्षेर्मन्दपालस्य शार्ङ्ग्यां तनयसम्भवः 094e
इत्येतदादिपर्वोक्तं प्रथमं बहुविस्तरम् 095a
अध्यायानां शते द्वे तु सङ्ख्याते परमर्षिणा 095c
अष्टादशैव चाध्याया व्यासेनोत्तमतेजसा 095e
सप्त श्लोकसहस्राणि तथा नव शतानि च 096a
श्लोकाश्च चतुराशीतिर्दृष्टो ग्रन्थो महात्मना 096c
द्वितीयं तु सभापर्व बहुवृत्तान्तमुच्यते 097a
सभाक्रिया पाण्डवानां किङ्कराणां च दर्शनम् 097c
लोकपालसभाख्यानं नारदाद्देवदर्शनात् 098a
राजसूयस्य चारम्भो जरासन्धवधस्तथा 098c
गिरिव्रजे निरुद्धानां राज्ञां कृष्णेन मोक्षणम् 099a
राजसूयेऽर्घसंवादे शिशुपालवधस्तथा 099c
यज्ञे विभूतिं तां दृष्ट्वा दुःखामर्षान्वितस्य च 100a
दुर्योधनस्यावहासो भीमेन च सभातले 100c
यत्रास्य मन्युरुद्भूतो येन द्यूतमकारयत् 101a
यत्र धर्मसुतं द्यूते शकुनिः कितवोऽजयत् 101c
यत्र द्यूतार्णवे मग्नान्द्रौपदी नौरिवार्णवात् 102a
तारयामास तांस्तीर्णाञ्ज्ञात्वा दुर्योधनो नृपः 102c
पुनरेव ततो द्यूते समाह्वयत पाण्डवान् 102e
एतत्सर्वं सभापर्व समाख्यातं महात्मना 103a
अध्यायाः सप्ततिर्ज्ञेयास्तथा द्वौ चात्र सङ्यया 103c
श्लोकानां द्वे सहस्रे तु पञ्च श्लोकशतानि च 104a
श्लोकाश्चैकादश ज्ञेयाः पर्वण्यस्मिन्प्रकीर्तिताः 104c
अतः परं तृतीयं तु ज्ञेयमारण्यकं महत् 105a
पौरानुगमनं चैव धर्मपुत्रस्य धीमतः 105c
वृष्णीनामागमो यत्र पाञ्चालानां च सर्वशः 106a
यत्र सौभवधाख्यानं किर्मीरवध एव च 106c
अस्त्रहेतोर्विवासश्च पार्थस्यामिततेजसः 106e
महादेवेन युद्धं च किरातवपुषा सह 107a
दर्शनं लोकपालानां स्वर्गारोहणमेव च 107c
दर्शनं बृहदश्वस्य महर्षेर्भावितात्मनः 108a
युधिष्ठिरस्य चार्तस्य व्यसने परिदेवनम् 108c
नलोपाख्यानमत्रैव धर्मिष्ठं करुणोदयम् 109a
दमयन्त्याः स्थितिर्यत्र नलस्य व्यसनागमे 109c
वनवासगतानां च पाण्डवानां महात्मनाम् 110a
स्वर्गे प्रवृत्तिराख्याता लोमशेनार्जुनस्य वै 110c
तीर्थयात्रा तथैवात्र पाण्डवानां महात्मनाम् 111a
जटासुरस्य तत्रैव वधः समुपवर्ण्यते 111c
नियुक्तो भीमसेनश्च द्रौपद्या गन्धमादने 112a
यत्र मन्दारपुष्पार्थं नलिनीं तामधर्षयत् 112c
यत्रास्य सुमहद्युद्धमभवत्सह राक्षसैः 113a
यक्षैश्चापि महावीर्यैर्मणिमत्प्रमुखैस्तथा 113c
आगस्त्यमपि चाख्यानं यत्र वातापिभक्षणम् 114a
लोपामुद्राभिगमनमपत्यार्थमृषेरपि 114c
ततः श्येनकपोतीयमुपाख्यानमनन्तरम् 115a
इन्द्रोऽग्निर्यत्र धर्मश्च अजिज्ञासञ्छिबिं नृपम् 115c
ऋश्यशृङ्गस्य चरितं कौमारब्रह्मचारिणः 116a
जामदग्न्यस्य रामस्य चरितं भूरितेजसः 116c
कार्तवीर्यवधो यत्र हैहयानां च वर्ण्यते 117a
सौकन्यमपि चाख्यानं च्यवनो यत्र भार्गवः 117c
शर्यातियज्ञे नासत्यौ कृतवान्सोमपीथिनौ 118a
ताभ्यां च यत्र स मुनिर्यौवनं प्रतिपादितः 118c
जन्तूपाख्यानमत्रैव यत्र पुत्रेण सोमकः 119a
पुत्रार्थमयजद्राजा लेभे पुत्रशतं च सः 119c
अष्टावक्रीयमत्रैव विवादे यत्र बन्दिनम् 120a
विजित्य सागरं प्राप्तं पितरं लब्धवानृषिः 120c
अवाप्य दिव्यान्यस्त्राणि गुर्वर्थे सव्यसाचिना 121a
निवातकवचैर्युद्धं हिरण्यपुरवासिभिः 121c
समागमश्च पार्थस्य भ्रातृभिर्गन्धमादने 122a
घोषयात्रा च गन्धर्वैर्यत्र युद्धं किरीटिनः 122c
पुनरागमनं चैव तेषां द्वैतवनं सरः 123a
जयद्रथेनापहारो द्रौपद्याश्चाश्रमान्तरात् 123c
यत्रैनमन्वयाद्भीमो वायुवेगसमो जवे 124a
मार्कण्डेयसमस्यायामुपाख्यानानि भागशः 124c
सन्दर्शनं च कृष्णस्य संवादश्चैव सत्यया 125a
व्रीहिद्रौणिकमाख्यानमैन्द्रद्युम्नं तथैव च 125c
सावित्र्यौद्दालकीयं च वैन्योपाख्यानमेव च 126a
रामायणमुपाख्यानमत्रैव बहुविस्तरम् 126c
कर्णस्य परिमोषोऽत्र कुण्डलाभ्यां पुरन्दरात् 127a
आरणेयमुपाख्यानं यत्र धर्मोऽन्वशात्सुतम् 127c
जग्मुर्लब्धवरा यत्र पाण्डवाः पश्चिमां दिशम् 127e
एतदारण्यकं पर्व तृतीयं परिकीर्तितम् 128a
अत्राध्यायशते द्वे तु सङ्ख्याते परमर्षिणा 128c
एकोनसप्ततिश्चैव तथाध्यायाः प्रकीर्तिताः 128e
एकादश सहस्राणि श्लोकानां षट्शतानि च 129a
चतुःषष्टिस्तथा श्लोकाः पर्वैतत्परिकीर्तितम् 129c
अतः परं निबोधेदं वैराटं पर्वविस्तरम् 130a
विराटनगरं गत्वा श्मशाने विपुलां शमीम् 130c
दृष्ट्वा सन्निदधुस्तत्र पाण्डवा आयुधान्युत 130e
यत्र प्रविश्य नगरं छद्मभिर्न्यवसन्त ते 131a
दुरात्मनो वधो यत्र कीचकस्य वृकोदरात् 131c
गोग्रहे यत्र पार्थेन निर्जिताः कुरवो युधि 132a
गोधनं च विराटस्य मोक्षितं यत्र पाण्डवैः 132c
विराटेनोत्तरा दत्ता स्नुषा यत्र किरीटिनः 133a
अभिमन्युं समुद्दिश्य सौभद्रमरिघातिनम् 133c
चतुर्थमेतद्विपुलं वैराटं पर्व वर्णितम् 134a
अत्रापि परिसङ्ख्यातमध्यायानां महात्मना 134c
सप्तषष्टिरथो पूर्णा श्लोकाग्रमपि मे शृणु 135a
श्लोकानां द्वे सहस्रे तु श्लोकाः पञ्चाशदेव तु 135c
पर्वण्यस्मिन्समाख्याताः सङ्यया परमर्षिणा 135e
उद्योगपर्व विज्ञेयं पञ्चमं शृण्वतः परम् 136a
उपप्लव्ये निविष्टेषु पाण्डवेषु जिगीषया 136c
दुर्योधनोऽर्जुनश्चैव वासुदेवमुपस्थितौ 136e
साहाय्यमस्मिन्समरे भवान्नौ कर्तुमर्हति 137a
इत्युक्ते वचने कृष्णो यत्रोवाच महामतिः 137c
अयुध्यमानमात्मानं मन्त्रिणं पुरुषर्षभौ 138a
अक्षौहिणीं वा सैन्यस्य कस्य वा किं ददाम्यहम् 138c
वव्रे दुर्योधनः सैन्यं मन्दात्मा यत्र दुर्मतिः 139a
अयुध्यमानं सचिवं वव्रे कृष्णं धनञ्जयः 139c
सञ्जयं प्रेषयामास शमार्थं पाण्डवान्प्रति 140a
यत्र दूतं महाराजो धृतराष्ट्रः प्रतापवान् 140c
श्रुत्वा च पाण्डवान्यत्र वासुदेवपुरोगमान् 141a
प्रजागरः सम्प्रजज्ञे धृतराष्ट्रस्य चिन्तया 141c
विदुरो यत्र वाक्यानि विचित्राणि हितानि च 142a
श्रावयामास राजानं धृतराष्ट्रं मनीषिणम् 142c
तथा सनत्सुजातेन यत्राध्यात्ममनुत्तमम् 143a
मनस्तापान्वितो राजा श्रावितः शोकलालसः 143c
प्रभाते राजसमितौ सञ्जयो यत्र चाभिभोः 144a
ऐकात्म्यं वासुदेवस्य प्रोक्तवानर्जुनस्य च 144c
यत्र कृष्णो दयापन्नः सन्धिमिच्छन्महायशाः 145a
स्वयमागाच्छमं कर्तुं नगरं नागसाह्वयम् 145c
प्रत्याख्यानं च कृष्णस्य राज्ञा दुर्योधनेन वै 146a
शमार्थं याचमानस्य पक्षयोरुभयोर्हितम् 146c
कर्णदुर्योधनादीनां दुष्टं विज्ञाय मन्त्रितम् 147a
योगेश्वरत्वं कृष्णेन यत्र राजसु दर्शितम् 147c
रथमारोप्य कृष्णेन यत्र कर्णोऽनुमन्त्रितः 148a
उपायपूर्वं शौण्डीर्यात्प्रत्याख्यातश्च तेन सः 148c
ततश्चाप्यभिनिर्यात्रा रथाश्वनरदन्तिनाम् 149a
नगराद्धास्तिनपुराद्बलसङ्ख्यानमेव च 149c
यत्र राज्ञा उलूकस्य प्रेषणं पाण्डवान्प्रति 150a
श्वोभाविनि महायुद्धे दूत्येन क्रूरवादिना 150c
रथातिरथसङ्ख्यानमम्बोपाख्यानमेव च 150e
एतत्सुबहुवृत्तान्तं पञ्चमं पर्व भारते 151a
उद्योगपर्व निर्दिष्टं सन्धिविग्रहसंश्रितम् 151c
अध्यायाः सङ्यया त्वत्र षडशीतिशतं स्मृतम् 152a
श्लोकानां षट्सहस्राणि तावन्त्येव शतानि च 152c
श्लोकाश्च नवतिः प्रोक्तास्तथैवाष्टौ महात्मना 153a
व्यासेनोदारमतिना पर्वण्यस्मिंस्तपोधनाः 153c
अत ऊर्ध्वं विचित्रार्थं भीष्मपर्व प्रचक्षते 154a
जम्बूखण्डविनिर्माणं यत्रोक्तं सञ्जयेन ह 154c
यत्र युद्धमभूद्घोरं दशाहान्यतिदारुणम् 155a
यत्र यौधिष्ठिरं सैन्यं विषादमगमत्परम् 155c
कश्मलं यत्र पार्थस्य वासुदेवो महामतिः 156a
मोहजं नाशयामास हेतुभिर्मोक्षदर्शनैः 156c
शिखण्डिनं पुरस्कृत्य यत्र पार्थो महाधनुः 157a
विनिघ्नन्निशितैर्बाणै रथाद्भीष्ममपातयत् 157c
षष्ठमेतन्महापर्व भारते परिकीर्तितम् 158a
अध्यायानां शतं प्रोक्तं सप्तदश तथापरे 158c
पञ्च श्लोकसहस्राणि सङ्ययाष्टौ शतानि च 159a
श्लोकाश्च चतुराशीतिः पर्वण्यस्मिन्प्रकीर्तिताः 159c
व्यासेन वेदविदुषा सङ्ख्याता भीष्मपर्वणि 159e
द्रोणपर्व ततश्चित्रं बहुवृत्तान्तमुच्यते 160a
यत्र संशप्तकाः पार्थमपनिन्यू रणाजिरात् 160c
भगदत्तो महाराजो यत्र शक्रसमो युधि 161a
सुप्रतीकेन नागेन सह शस्तः किरीटिना 161c
यत्राभिमन्युं बहवो जघ्नुर्लोकमहारथाः 162a
जयद्रथमुखा बालं शूरमप्राप्तयौवनम् 162c
हतेऽभिमन्यौ क्रुद्धेन यत्र पार्थेन संयुगे 163a
अक्षौहिणीः सप्त हत्वा हतो राजा जयद्रथः 163c
संशप्तकावशेषं च कृतं निःशेषमाहवे 163e
अलम्बुसः श्रुतायुश्च जलसन्धश्च वीर्यवान् 164a
सौमदत्तिर्विराटश्च द्रुपदश्च महारथः 164c
घटोत्कचादयश्चान्ये निहता द्रोणपर्वणि 164e
अश्वत्थामापि चात्रैव द्रोणे युधि निपातिते 165a
अस्त्रं प्रादुश्चकारोग्रं नारायणममर्षितः 165c
सप्तमं भारते पर्व महदेतदुदाहृतम् 166a
अत्र ते पृथिवीपालाः प्रायशो निधनं गताः 166c
द्रोणपर्वणि ये शूरा निर्दिष्टाः पुरुषर्षभाः 166e
अध्यायानां शतं प्रोक्तमध्यायाः सप्ततिस्तथा 167a
अष्टौ श्लोकसहस्राणि तथा नव शतानि च 167c
श्लोका नव तथैवात्र सङ्ख्यातास्तत्त्वदर्शिना 168a
पाराशर्येण मुनिना सञ्चिन्त्य द्रोणपर्वणि 168c
अतः परं कर्णपर्व प्रोच्यते परमाद्भुतम् 169a
सारथ्ये विनियोगश्च मद्रराजस्य धीमतः 169c
आख्यातं यत्र पौराणं त्रिपुरस्य निपातनम् 169e
प्रयाणे परुषश्चात्र संवादः कर्णशल्ययोः 170a
हंसकाकीयमाख्यानमत्रैवाक्षेपसंहितम् 170c
अन्योन्यं प्रति च क्रोधो युधिष्ठिरकिरीटिनोः 171a
द्वैरथे यत्र पार्थेन हतः कर्णो महारथः 171c
अष्टमं पर्व निर्दिष्टमेतद्भारतचिन्तकैः 172a
एकोनसप्ततिः प्रोक्ता अध्यायाः कर्णपर्वणि 172c
चत्वार्येव सहस्राणि नव श्लोकशतानि च 172e
अतः परं विचित्रार्थं शल्यपर्व प्रकीर्तितम् 173a
हतप्रवीरे सैन्ये तु नेता मद्रेश्वरोऽभवत् 173c
वृत्तानि रथयुद्धानि कीर्त्यन्ते यत्र भागशः 174a
विनाशः कुरुमुख्यानां शल्यपर्वणि कीर्त्यते 174c
शल्यस्य निधनं चात्र धर्मराजान्महारथात् 175a
गदायुद्धं तु तुमुलमत्रैव परिकीर्तितम् 175c
सरस्वत्याश्च तीर्थानां पुण्यता परिकीर्तिता 175e
नवमं पर्व निर्दिष्टमेतदद्भुतमर्थवत् 176a
एकोनषष्टिरध्यायास्तत्र सङ्ख्याविशारदैः 176c
सङ्ख्याता बहुवृत्तान्ताः श्लोकाग्रं चात्र शस्यते 177a
त्रीणि श्लोकसहस्राणि द्वे शते विंशतिस्तथा 177c
मुनिना सम्प्रणीतानि कौरवाणां यशोभृताम् 177e
अतः परं प्रवक्ष्यामि सौप्तिकं पर्व दारुणम् 178a
भग्नोरुं यत्र राजानं दुर्योधनममर्षणम् 178c
व्यपयातेषु पार्थेषु त्रयस्तेऽभ्याययू रथाः 179a
कृतवर्मा कृपो द्रौणिः सायाह्ने रुधिरोक्षिताः 179c
प्रतिजज्ञे दृढक्रोधो द्रौणिर्यत्र महारथः 180a
अहत्वा सर्वपाञ्चालान्धृष्टद्युम्नपुरोगमान् 180c
पाण्डवांश्च सहामात्यान्न विमोक्ष्यामि दंशनम् 180e
प्रसुप्तान्निशि विश्वस्तान्यत्र ते पुरुषर्षभाः 181a
पाञ्चालान्सपरीवाराञ्जघ्नुर्द्रौणिपुरोगमाः 181c
यत्रामुच्यन्त पार्थास्ते पञ्च कृष्णबलाश्रयात् 182a
सात्यकिश्च महेष्वासः शेषाश्च निधनं गताः 182c
द्रौपदी पुत्रशोकार्ता पितृभ्रातृवधार्दिता 183a
कृतानशनसङ्कल्पा यत्र भर्तॄनुपाविशत् 183c
द्रौपदीवचनाद्यत्र भीमो भीमपराक्रमः 184a
अन्वधावत सङ्क्रुद्धो भारद्वाजं गुरोः सुतम् 184c
भीमसेनभयाद्यत्र दैवेनाभिप्रचोदितः 185a
अपाण्डवायेति रुषा द्रौणिरस्त्रमवासृजत् 185c
मैवमित्यब्रवीत्कृष्णः शमयंस्तस्य तद्वचः 186a
यत्रास्त्रमस्त्रेण च तच्छमयामास फाल्गुनः 186c
द्रौणिद्वैपायनादीनां शापाश्चान्योन्यकारिताः 187a
तोयकर्मणि सर्वेषां राज्ञामुदकदानिके 187c
गूढोत्पन्नस्य चाख्यानं कर्णस्य पृथयात्मनः 188a
सुतस्यैतदिह प्रोक्तं दशमं पर्व सौप्तिकम् 188c
अष्टादशास्मिन्नध्यायाः पर्वण्युक्ता महात्मना 189a
श्लोकाग्रमत्र कथितं शतान्यष्टौ तथैव च 189c
श्लोकाश्च सप्ततिः प्रोक्ता यथावदभिसङ्यया 190a
सौप्तिकैषीकसम्बन्धे पर्वण्यमितबुद्धिना 190c
अत ऊर्ध्वमिदं प्राहुः स्त्रीपर्व करुणोदयम् 191a
विलापो वीरपत्नीनां यत्रातिकरुणः स्मृतः 191c
क्रोधावेशः प्रसादश्च गान्धारीधृतराष्ट्रयोः 191e
यत्र तान्क्षत्रियाञ्छूरान्दिष्टान्ताननिवर्तिनः 192a
पुत्रान्भ्रातॄन्पितॄंश्चैव ददृशुर्निहतान्रणे 192c
यत्र राजा महाप्राज्ञः सर्वधर्मभृतां वरः 193a
राज्ञां तानि शरीराणि दाहयामास शास्त्रतः 193c
एतदेकादशं प्रोक्तं पर्वातिकरुणं महत् 194a
सप्तविंशतिरध्यायाः पर्वण्यस्मिन्नुदाहृताः 194c
श्लोकाः सप्तशतं चात्र पञ्चसप्ततिरुच्यते 195a
सङ्यया भारताख्यानं कर्त्रा ह्यत्र महात्मना 195c
प्रणीतं सज्जनमनोवैक्लव्याश्रुप्रवर्तकम् 195e
अतः परं शान्तिपर्व द्वादशं बुद्धिवर्धनम् 196a
यत्र निर्वेदमापन्नो धर्मराजो युधिष्ठिरः 196c
घातयित्वा पितॄन्भ्रातॄन्पुत्रान्सम्बन्धिबान्धवान् 196e
शान्तिपर्वणि धर्माश्च व्याख्याताः शरतल्पिकाः 197a
राजभिर्वेदितव्या ये सम्यङ्नयबुभुत्सुभिः 197c
आपद्धर्माश्च तत्रैव कालहेतुप्रदर्शकाः 198a
यान्बुद्ध्वा पुरुषः सम्यक्सर्वज्ञत्वमवाप्नुयात् 198c
मोक्षधर्माश्च कथिता विचित्रा बहुविस्तराः 198e
द्वादशं पर्व निर्दिष्टमेतत्प्राज्ञजनप्रियम् 199a
पर्वण्यत्र परिज्ञेयमध्यायानां शतत्रयम् 199c
त्रिंशच्चैव तथाध्याया नव चैव तपोधनाः 199e
श्लोकानां तु सहस्राणि कीर्तितानि चतुर्दश 200a
पञ्च चैव शतान्याहुः पञ्चविंशतिसङ्यया 200c
अत ऊर्ध्वं तु विज्ञेयमानुशासनमुत्तमम् 201a
यत्र प्रकृतिमापन्नः श्रुत्वा धर्मविनिश्चयम् 201c
भीष्माद्भागीरथीपुत्रात्कुरुराजो युधिष्ठिरः 201e
व्यवहारोऽत्र कार्त्स्न्येन धर्मार्थीयो निदर्शितः 202a
विविधानां च दानानां फलयोगाः पृथग्विधाः 202c
तथा पात्रविशेषाश्च दानानां च परो विधिः 203a
आचारविधियोगश्च सत्यस्य च परा गतिः 203c
एतत्सुबहुवृत्तान्तमुत्तमं चानुशासनम् 204a
भीष्मस्यात्रैव सम्प्राप्तिः स्वर्गस्य परिकीर्तिता 204c
एतत्त्रयोदशं पर्व धर्मनिश्चयकारकम् 205a
अध्यायानां शतं चात्र षट्चत्वारिंशदेव च 205c
श्लोकानां तु सहस्राणि षट्सप्तैव शतानि च 205e
ततोऽश्वमेधिकं नाम पर्व प्रोक्तं चतुर्दशम् 206a
तत्संवर्तमरुत्तीयं यत्राख्यानमनुत्तमम् 206c
सुवर्णकोशसम्प्राप्तिर्जन्म चोक्तं परिक्षितः 207a
दग्धस्यास्त्राग्निना पूर्वं कृष्णात्सञ्जीवनं पुनः 207c
चर्यायां हयमुत्सृष्टं पाण्डवस्यानुगच्छतः 208a
तत्र तत्र च युद्धानि राजपुत्रैरमर्षणैः 208c
चित्राङ्गदायाः पुत्रेण पुत्रिकाया धनञ्जयः 209a
सङ्ग्रामे बभ्रुवाहेन संशयं चात्र दर्शितः 209c
अश्वमेधे महायज्ञे नकुलाख्यानमेव च 209e
इत्याश्वमेधिकं पर्व प्रोक्तमेतन्महाद्भुतम् 210a
अत्राध्यायशतं त्रिंशत्त्रयोऽध्यायाश्च शब्दिताः 210c
त्रीणि श्लोकसहस्राणि तावन्त्येव शतानि च 211a
विंशतिश्च तथा श्लोकाः सङ्ख्यातास्तत्त्वदर्शिना 211c
तत आश्रमवासाख्यं पर्व पञ्चदशं स्मृतम् 212a
यत्र राज्यं परित्यज्य गान्धारीसहितो नृपः 212c
धृतराष्ट्राश्रमपदं विदुरश्च जगाम ह 212e
यं दृष्ट्वा प्रस्थितं साध्वी पृथाप्यनुययौ तदा 213a
पुत्रराज्यं परित्यज्य गुरुशुश्रूषणे रता 213c
यत्र राजा हतान्पुत्रान्पौत्रानन्यांश्च पार्थिवान् 214a
लोकान्तरगतान्वीरानपश्यत्पुनरागतान् 214c
ऋषेः प्रसादात्कृष्णस्य दृष्ट्वाश्चर्यमनुत्तमम् 215a
त्यक्त्वा शोकं सदारश्च सिद्धिं परमिकां गतः 215c
यत्र धर्मं समाश्रित्य विदुरः सुगतिं गतः 216a
सञ्जयश्च महामात्रो विद्वान्गावल्गणिर्वशी 216c
ददर्श नारदं यत्र धर्मराजो युधिष्ठिरः 217a
नारदाच्चैव शुश्राव वृष्णीनां कदनं महत् 217c
एतदाश्रमवासाख्यं पूर्वोक्तं सुमहाद्भुतम् 218a
द्विचत्वारिंशदध्यायाः पर्वैतदभिसङ्यया 218c
सहस्रमेकं श्लोकानां पञ्च श्लोकशतानि च 219a
षडेव च तथा श्लोकाः सङ्ख्यातास्तत्त्वदर्शिना 219c
अतः परं निबोधेदं मौसलं पर्व दारुणम् 220a
यत्र ते पुरुषव्याघ्राः शस्त्रस्पर्शसहा युधि 220c
ब्रह्मदण्डविनिष्पिष्टाः समीपे लवणाम्भसः 220e
आपाने पानगलिता दैवेनाभिप्रचोदिताः 221a
एरकारूपिभिर्वज्रैर्निजघ्नुरितरेतरम् 221c
यत्र सर्वक्षयं कृत्वा तावुभौ रामकेशवौ 222a
नातिचक्रमतुः कालं प्राप्तं सर्वहरं समम् 222c
यत्रार्जुनो द्वारवतीमेत्य वृष्णिविनाकृताम् 223a
दृष्ट्वा विषादमगमत्परां चार्तिं नरर्षभः 223c
स सत्कृत्य यदुश्रेष्ठं मातुलं शौरिमात्मनः 224a
ददर्श यदुवीराणामापाने वैशसं महत् 224c
शरीरं वासुदेवस्य रामस्य च महात्मनः 225a
संस्कारं लम्भयामास वृष्णीनां च प्रधानतः 225c
स वृद्धबालमादाय द्वारवत्यास्ततो जनम् 226a
ददर्शापदि कष्टायां गाण्डीवस्य पराभवम् 226c
सर्वेषां चैव दिव्यानामस्त्राणामप्रसन्नताम् 227a
नाशं वृष्णिकलत्राणां प्रभावानामनित्यताम् 227c
दृष्ट्वा निर्वेदमापन्नो व्यासवाक्यप्रचोदितः 228a
धर्मराजं समासाद्य सन्न्यासं समरोचयेत् 228c
इत्येतन्मौसलं पर्व षोडशं परिकीर्तितम् 229a
अध्यायाष्टौ समाख्याताः श्लोकानां च शतत्रयम् 229c
महाप्रस्थानिकं तस्मादूर्ध्वं सप्तदशं स्मृतम् 230a
यत्र राज्यं परित्यज्य पाण्डवाः पुरुषर्षभाः 230c
द्रौपद्या सहिता देव्या सिद्धिं परमिकां गताः 230e
अत्राध्यायास्त्रयः प्रोक्ताः श्लोकानां च शतं तथा 231a
विंशतिश्च तथा श्लोकाः सङ्ख्यातास्तत्त्वदर्शिना 231c
स्वर्गपर्व ततो ज्ञेयं दिव्यं यत्तदमानुषम् 232a
अध्यायाः पञ्च सङ्ख्याताः पर्वैतदभिसङ्यया 232c
श्लोकानां द्वे शते चैव प्रसङ्ख्याते तपोधनाः 232e
अष्टादशैवमेतानि पर्वाण्युक्तान्यशेषतः 233a
खिलेषु हरिवंशश्च भविष्यच्च प्रकीर्तितम् 233c
एतदखिलमाख्यातं भारतं पर्वसङ्ग्रहात् 234a
अष्टादश समाजग्मुरक्षौहिण्यो युयुत्सया 234c
तन्महद्दारुणं युद्धमहान्यष्टादशाभवत् 234e
यो विद्याच्चतुरो वेदान्साङ्गोपनिषदान्द्विजः 235a
न चाख्यानमिदं विद्यान्नैव स स्याद्विचक्षणः 235c
श्रुत्वा त्विदमुपाख्यानं श्राव्यमन्यन्न रोचते 236a
पुंस्कोकिलरुतं श्रुत्वा रूक्षा ध्वाङ्क्षस्य वागिव 236c
इतिहासोत्तमादस्माज्जायन्ते कविबुद्धयः 237a
पञ्चभ्य इव भूतेभ्यो लोकसंविधयस्त्रयः 237c
अस्याख्यानस्य विषये पुराणं वर्तते द्विजाः 238a
अन्तरिक्षस्य विषये प्रजा इव चतुर्विधाः 238c
क्रियागुणानां सर्वेषामिदमाख्यानमाश्रयः 239a
इन्द्रियाणां समस्तानां चित्रा इव मनःक्रियाः 239c
अनाश्रित्यैतदाख्यानं कथा भुवि न विद्यते 240a
आहारमनपाश्रित्य शरीरस्येव धारणम् 240c
इदं सर्वैः कविवरैराख्यानमुपजीव्यते 241a
उदयप्रेप्सुभिर्भृत्यैरभिजात इवेश्वरः 241c
द्वैपायनोष्ठपुटनिःसृतमप्रमेयं; पुण्यं पवित्रमथ पापहरं शिवं च 242a
यो भारतं समधिगच्छति वाच्यमानं; किं तस्य पुष्करजलैरभिषेचनेन 242c
आख्यानं तदिदमनुत्तमं महार्थं; विन्यस्तं महदिह पर्वसङ्ग्रहेण 243a
श्रुत्वादौ भवति नृणां सुखावगाहं; विस्तीर्णं लवणजलं यथा प्लवेन 243c