नारायणं नमस्कृत्य नरं चैव नरोत्तमम् 000a
देवीं सरस्वतीं चैव ततो जयमुदीरयेत् 000c
लोमहर्षणपुत्र उग्रश्रवाः सूतः पौराणिको नैमिषारण्ये शौनकस्य कुलपतेर्द्वादशवार्षिके सत्रे 001A
समासीनानभ्यगच्छद्ब्रह्मर्षीन्संशितव्रतान् 002a
विनयावनतो भूत्वा कदाचित्सूतनन्दनः 002c
तमाश्रममनुप्राप्तं नैमिषारण्यवासिनः 003a
चित्राः श्रोतुं कथास्तत्र परिवव्रुस्तपस्विनः 003c
अभिवाद्य मुनींस्तांस्तु सर्वानेव कृताञ्जलिः 004a
अपृच्छत्स तपोवृद्धिं सद्भिश्चैवाभिनन्दितः 004c
अथ तेषूपविष्टेषु सर्वेष्वेव तपस्विषु 005a
निर्दिष्टमासनं भेजे विनयाल्लोमहर्षणिः 005c
सुखासीनं ततस्तं तु विश्रान्तमुपलक्ष्य च 006a
अथापृच्छदृषिस्तत्र कश्चित्प्रस्तावयन्कथाः 006c
कुत आगम्यते सौते क्व चायं विहृतस्त्वया 007a
कालः कमलपत्राक्ष शंसैतत्पृच्छतो मम 007c
सूत उवाच 008
जनमेजयस्य राजर्षेः सर्पसत्रे महात्मनः 008a
समीपे पार्थिवेन्द्रस्य सम्यक्पारिक्षितस्य च 008c
कृष्णद्वैपायनप्रोक्ताः सुपुण्या विविधाः कथाः 009a
कथिताश्चापि विधिवद्या वैशम्पायनेन वै 009c
श्रुत्वाहं ता विचित्रार्था महाभारतसंश्रिताः 010a
बहूनि सम्परिक्रम्य तीर्थान्यायतनानि च 010c
समन्तपञ्चकं नाम पुण्यं द्विजनिषेवितम् 011a
गतवानस्मि तं देशं युद्धं यत्राभवत्पुरा 011c
पाण्डवानां कुरूणां च सर्वेषां च महीक्षिताम् 011e
दिदृक्षुरागतस्तस्मात्समीपं भवतामिह 012a
आयुष्मन्तः सर्व एव ब्रह्मभूता हि मे मताः 012c
अस्मिन्यज्ञे महाभागाः सूर्यपावकवर्चसः 013a
कृताभिषेकाः शुचयः कृतजप्या हुताग्नयः 013c
भवन्त आसते स्वस्था ब्रवीमि किमहं द्विजाः 013e
पुराणसंश्रिताः पुण्याः कथा वा धर्मसंश्रिताः 014a
इतिवृत्तं नरेन्द्राणामृषीणां च महात्मनाम् 014c
ऋषय ऊचुः 015
द्वैपायनेन यत्प्रोक्तं पुराणं परमर्षिणा 015a
सुरैर्ब्रह्मर्षिभिश्चैव श्रुत्वा यदभिपूजितम् 015c
तस्याख्यानवरिष्ठस्य विचित्रपदपर्वणः 016a
सूक्ष्मार्थन्याययुक्तस्य वेदार्थैर्भूषितस्य च 016c
भारतस्येतिहासस्य पुण्यां ग्रन्थार्थसंयुताम् 017a
संस्कारोपगतां ब्राह्मीं नानाशास्त्रोपबृंहिताम् 017c
जनमेजयस्य यां राज्ञो वैशम्पायन उक्तवान् 018a
यथावत्स ऋषिस्तुष्ट्या सत्रे द्वैपायनाज्ञया 018c
वेदैश्चतुर्भिः समितां व्यासस्याद्भुतकर्मणः 019a
संहितां श्रोतुमिच्छामो धर्म्यां पापभयापहाम् 019c
सूत उवाच 020
आद्यं पुरुषमीशानं पुरुहूतं पुरुष्टुतम् 020a
ऋतमेकाक्षरं ब्रह्म व्यक्ताव्यक्तं सनातनम् 020c
असच्च सच्चैव च यद्विश्वं सदसतः परम् 021a
परावराणां स्रष्टारं पुराणं परमव्ययम् 021c
मङ्गल्यं मङ्गलं विष्णुं वरेण्यमनघं शुचिम् 022a
नमस्कृत्य हृषीकेशं चराचरगुरुं हरिम् 022c
महर्षेः पूजितस्येह सर्वलोके महात्मनः 023a
प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः 023c
आचख्युः कवयः केचित्सम्प्रत्याचक्षते परे 024a
आख्यास्यन्ति तथैवान्ये इतिहासमिमं भुवि 024c
इदं तु त्रिषु लोकेषु महज्ज्ञानं प्रतिष्ठितम् 025a
विस्तरैश्च समासैश्च धार्यते यद्द्विजातिभिः 025c
अलङ्कृतं शुभैः शब्दैः समयैर्दिव्यमानुषैः 026a
छन्दोवृत्तैश्च विविधैरन्वितं विदुषां प्रियम् 026c
निष्प्रभेऽस्मिन्निरालोके सर्वतस्तमसावृते 027a
बृहदण्डमभूदेकं प्रजानां बीजमक्षयम् 027c
युगस्यादौ निमित्तं तन्महद्दिव्यं प्रचक्षते 028a
यस्मिंस्तच्छ्रूयते सत्यं ज्योतिर्ब्रह्म सनातनम् 028c
अद्भुतं चाप्यचिन्त्यं च सर्वत्र समतां गतम् 029a
अव्यक्तं कारणं सूक्ष्मं यत्तत्सदसदात्मकम् 029c
यस्मात्पितामहो जज्ञे प्रभुरेकः प्रजापतिः 030a
ब्रह्मा सुरगुरुः स्थाणुर्मनुः कः परमेष्ठ्यथ 030c
प्राचेतसस्तथा दक्षो दक्षपुत्राश्च सप्त ये 031a
ततः प्रजानां पतयः प्राभवन्नेकविंशतिः 031c
पुरुषश्चाप्रमेयात्मा यं सर्वमृषयो विदुः 032a
विश्वेदेवास्तथादित्या वसवोऽथाश्विनावपि 032c
यक्षाः साध्याः पिशाचाश्च गुह्यकाः पितरस्तथा 033a
ततः प्रसूता विद्वांसः शिष्टा ब्रह्मर्षयोऽमलाः 033c
राजर्षयश्च बहवः सर्वैः समुदिता गुणैः 034a
आपो द्यौः पृथिवी वायुरन्तरिक्षं दिशस्तथा 034c
संवत्सरर्तवो मासाः पक्षाहोरात्रयः क्रमात् 035a
यच्चान्यदपि तत्सर्वं सम्भूतं लोकसाक्षिकम् 035c
यदिदं दृश्यते किञ्चिद्भूतं स्थावरजङ्गमम् 036a
पुनः सङ्क्षिप्यते सर्वं जगत्प्राप्ते युगक्षये 036c
यथर्तावृतुलिङ्गानि नानारूपाणि पर्यये 037a
दृश्यन्ते तानि तान्येव तथा भावा युगादिषु 037c
एवमेतदनाद्यन्तं भूतसंहारकारकम् 038a
अनादिनिधनं लोके चक्रं सम्परिवर्तते 038c
त्रयस्त्रिंशत्सहस्राणि त्रयस्त्रिंशच्छतानि च 039a
त्रयस्त्रिंशच्च देवानां सृष्टिः सङ्क्षेपलक्षणा 039c
दिवस्पुत्रो बृहद्भानुश्चक्षुरात्मा विभावसुः 040a
सविता च ऋचीकोऽर्को भानुराशावहो रविः 040c
पुत्रा विवस्वतः सर्वे मह्यस्तेषां तथावरः 041a
देवभ्राट्तनयस्तस्य तस्मात्सुभ्राडिति स्मृतः 041c
सुभ्राजस्तु त्रयः पुत्राः प्रजावन्तो बहुश्रुताः 042a
दशज्योतिः शतज्योतिः सहस्रज्योतिरात्मवान् 042c
दश पुत्रसहस्राणि दशज्योतेर्महात्मनः 043a
ततो दशगुणाश्चान्ये शतज्योतेरिहात्मजाः 043c
भूयस्ततो दशगुणाः सहस्रज्योतिषः सुताः 044a
तेभ्योऽयं कुरुवंशश्च यदूनां भरतस्य च 044c
ययातीक्ष्वाकुवंशश्च राजर्षीणां च सर्वशः 045a
सम्भूता बहवो वंशा भूतसर्गाः सविस्तराः 045c
भूतस्थानानि सर्वाणि रहस्यं त्रिविधं च यत् 046a
वेदयोगं सविज्ञानं धर्मोऽर्थः काम एव च 046c
धर्मकामार्थशास्त्राणि शास्त्राणि विविधानि च 047a
लोकयात्राविधानं च सम्भूतं दृष्टवानृषिः 047c
इतिहासाः सवैयाख्या विविधाः श्रुतयोऽपि च 048a
इह सर्वमनुक्रान्तमुक्तं ग्रन्थस्य लक्षणम् 048c
विस्तीर्यैतन्महज्ज्ञानमृषिः सङ्क्षेपमब्रवीत् 049a
इष्टं हि विदुषां लोके समासव्यासधारणम् 049c
मन्वादि भारतं केचिदास्तीकादि तथापरे 050a
तथोपरिचराद्यन्ये विप्राः सम्यगधीयते 050c
विविधं संहिताज्ञानं दीपयन्ति मनीषिणः 051a
व्याख्यातुं कुशलाः केचिद्ग्रन्थं धारयितुं परे 051c
तपसा ब्रह्मचर्येण व्यस्य वेदं सनातनम् 052a
इतिहासमिमं चक्रे पुण्यं सत्यवतीसुतः 052c
पराशरात्मजो विद्वान्ब्रह्मर्षिः संशितव्रतः 053a
मातुर्नियोगाद्धर्मात्मा गाङ्गेयस्य च धीमतः 053c
क्षेत्रे विचित्रवीर्यस्य कृष्णद्वैपायनः पुरा 054a
त्रीनग्नीनिव कौरव्याञ्जनयामास वीर्यवान् 054c
उत्पाद्य धृतराष्ट्रं च पाण्डुं विदुरमेव च 055a
जगाम तपसे धीमान्पुनरेवाश्रमं प्रति 055c
तेषु जातेषु वृद्धेषु गतेषु परमां गतिम् 056a
अब्रवीद्भारतं लोके मानुषेऽस्मिन्महानृषिः 056c
जनमेजयेन पृष्टः सन्ब्राह्मणैश्च सहस्रशः 057a
शशास शिष्यमासीनं वैशम्पायनमन्तिके 057c
स सदस्यैः सहासीनः श्रावयामास भारतम् 058a
कर्मान्तरेषु यज्ञस्य चोद्यमानः पुनः पुनः 058c
विस्तरं कुरुवंशस्य गान्धार्या धर्मशीलताम् 059a
क्षत्तुः प्रज्ञां धृतिं कुन्त्याः सम्यग्द्वैपायनोऽब्रवीत् 059c
वासुदेवस्य माहात्म्यं पाण्डवानां च सत्यताम् 060a
दुर्वृत्तं धार्तराष्ट्राणामुक्तवान्भगवानृषिः 060c
चतुर्विंशतिसाहस्रीं चक्रे भारतसंहिताम् 061a
उपाख्यानैर्विना तावद्भारतं प्रोच्यते बुधैः 061c
ततोऽध्यर्धशतं भूयः सङ्क्षेपं कृतवानृषिः 062a
अनुक्रमणिमध्यायं वृत्तान्तानां सपर्वणाम् 062c
इदं द्वैपायनः पूर्वं पुत्रमध्यापयच्छुकम् 063a
ततोऽन्येभ्योऽनुरूपेभ्यः शिष्येभ्यः प्रददौ प्रभुः 063c
नारदोऽश्रावयद्देवानसितो देवलः पितॄन् 064a
गन्धर्वयक्षरक्षांसि श्रावयामास वै शुकः 064c
दुर्योधनो मन्युमयो महाद्रुमः; स्कन्धः कर्णः शकुनिस्तस्य शाखाः 065a
दुःशासनः पुष्पफले समृद्धे; मूलं राजा धृतराष्ट्रोऽमनीषी 065c
युधिष्ठिरो धर्ममयो महाद्रुमः; स्कन्धोऽर्जुनो भीमसेनोऽस्य शाखाः 066a
माद्रीसुतौ पुष्पफले समृद्धे; मूलं कृष्णो ब्रह्म च ब्राह्मणाश्च 066c
पाण्डुर्जित्वा बहून्देशान्युधा विक्रमणेन च 067a
अरण्ये मृगयाशीलो न्यवसत्सजनस्तदा 067c
मृगव्यवायनिधने कृच्छ्रां प्राप स आपदम् 068a
जन्मप्रभृति पार्थानां तत्राचारविधिक्रमः 068c
मात्रोरभ्युपपत्तिश्च धर्मोपनिषदं प्रति 069a
धर्मस्य वायोः शक्रस्य देवयोश्च तथाश्विनोः 069c
तापसैः सह संवृद्धा मातृभ्यां परिरक्षिताः 070a
मेध्यारण्येषु पुण्येषु महतामाश्रमेषु च 070c
ऋषिभिश्च तदानीता धार्तराष्ट्रान्प्रति स्वयम् 071a
शिशवश्चाभिरूपाश्च जटिला ब्रह्मचारिणः 071c
पुत्राश्च भ्रातरश्चेमे शिष्याश्च सुहृदश्च वः 072a
पाण्डवा एत इत्युक्त्वा मुनयोऽन्तर्हितास्ततः 072c
तांस्तैर्निवेदितान्दृष्ट्वा पाण्डवान्कौरवास्तदा 073a
शिष्टाश्च वर्णाः पौरा ये ते हर्षाच्चुक्रुशुर्भृशम् 073c
आहुः केचिन्न तस्यैते तस्यैत इति चापरे 074a
यदा चिरमृतः पाण्डुः कथं तस्येति चापरे 074c
स्वागतं सर्वथा दिष्ट्या पाण्डोः पश्याम सन्ततिम् 075a
उच्यतां स्वागतमिति वाचोऽश्रूयन्त सर्वशः 075c
तस्मिन्नुपरते शब्दे दिशः सर्वा विनादयन् 076a
अन्तर्हितानां भूतानां निस्वनस्तुमुलोऽभवत् 076c
पुष्पवृष्टिः शुभा गन्धाः शङ्खदुन्दुभिनिस्वनाः 077a
आसन्प्रवेशे पार्थानां तदद्भुतमिवाभवत् 077c
तत्प्रीत्या चैव सर्वेषां पौराणां हर्षसम्भवः 078a
शब्द आसीन्महांस्तत्र दिवस्पृक्कीर्तिवर्धनः 078c
तेऽप्यधीत्याखिलान्वेदाञ्शास्त्राणि विविधानि च 079a
न्यवसन्पाण्डवास्तत्र पूजिता अकुतोभयाः 079c
युधिष्ठिरस्य शौचेन प्रीताः प्रकृतयोऽभवन् 080a
धृत्या च भीमसेनस्य विक्रमेणार्जुनस्य च 080c
गुरुशुश्रूषया कुन्त्या यमयोर्विनयेन च 081a
तुतोष लोकः सकलस्तेषां शौर्यगुणेन च 081c
समवाये ततो राज्ञां कन्यां भर्तृस्वयंवराम् 082a
प्राप्तवानर्जुनः कृष्णां कृत्वा कर्म सुदुष्करम् 082c
ततः प्रभृति लोकेऽस्मिन्पूज्यः सर्वधनुष्मताम् 083a
आदित्य इव दुष्प्रेक्ष्यः समरेष्वपि चाभवत् 083c
स सर्वान्पार्थिवाञ्जित्वा सर्वांश्च महतो गणान् 084a
आजहारार्जुनो राज्ञे राजसूयं महाक्रतुम् 084c
अन्नवान्दक्षिणावांश्च सर्वैः समुदितो गुणैः 085a
युधिष्ठिरेण सम्प्राप्तो राजसूयो महाक्रतुः 085c
सुनयाद्वासुदेवस्य भीमार्जुनबलेन च 086a
घातयित्वा जरासन्धं चैद्यं च बलगर्वितम् 086c
दुर्योधनमुपागच्छन्नर्हणानि ततस्ततः 087a
मणिकाञ्चनरत्नानि गोहस्त्यश्वधनानि च 087c
समृद्धां तां तथा दृष्ट्वा पाण्डवानां तदा श्रियम् 088a
ईर्ष्यासमुत्थः सुमहांस्तस्य मन्युरजायत 088c
विमानप्रतिमां चापि मयेन सुकृतां सभाम् 089a
पाण्डवानामुपहृतां स दृष्ट्वा पर्यतप्यत 089c
यत्रावहसितश्चासीत्प्रस्कन्दन्निव सम्भ्रमात् 090a
प्रत्यक्षं वासुदेवस्य भीमेनानभिजातवत् 090c
स भोगान्विविधान्भुञ्जन्रत्नानि विविधानि च 091a
कथितो धृतराष्ट्रस्य विवर्णो हरिणः कृशः 091c
अन्वजानात्ततो द्यूतं धृतराष्ट्रः सुतप्रियः 092a
तच्छ्रुत्वा वासुदेवस्य कोपः समभवन्महान् 092c
नातिप्रीतमनाश्चासीद्विवादांश्चान्वमोदत 093a
द्यूतादीननयान्घोरान्प्रवृद्धांश्चाप्युपैक्षत 093c
निरस्य विदुरं द्रोणं भीष्मं शारद्वतं कृपम् 094a
विग्रहे तुमुले तस्मिन्नहन्क्षत्रं परस्परम् 094c
जयत्सु पाण्डुपुत्रेषु श्रुत्वा सुमहदप्रियम् 095a
दुर्योधनमतं ज्ञात्वा कर्णस्य शकुनेस्तथा 095c
धृतराष्ट्रश्चिरं ध्यात्वा सञ्जयं वाक्यमब्रवीत् 095e
शृणु सञ्जय मे सर्वं न मेऽसूयितुमर्हसि 096a
श्रुतवानसि मेधावी बुद्धिमान्प्राज्ञसम्मतः 096c
न विग्रहे मम मतिर्न च प्रीये कुरुक्षये 097a
न मे विशेषः पुत्रेषु स्वेषु पाण्डुसुतेषु च 097c
वृद्धं मामभ्यसूयन्ति पुत्रा मन्युपरायणाः 098a
अहं त्वचक्षुः कार्पण्यात्पुत्रप्रीत्या सहामि तत् 098c
मुह्यन्तं चानुमुह्यामि दुर्योधनमचेतनम् 098e
राजसूये श्रियं दृष्ट्वा पाण्डवस्य महौजसः 099a
तच्चावहसनं प्राप्य सभारोहणदर्शने 099c
अमर्षितः स्वयं जेतुमशक्तः पाण्डवान्रणे 100a
निरुत्साहश्च सम्प्राप्तुं श्रियमक्षत्रियो यथा 100c
गान्धारराजसहितश्छद्मद्यूतममन्त्रयत् 100e
तत्र यद्यद्यथा ज्ञातं मया सञ्जय तच्छृणु 101a
श्रुत्वा हि मम वाक्यानि बुद्ध्या युक्तानि तत्त्वतः 101c
ततो ज्ञास्यसि मां सौते प्रज्ञाचक्षुषमित्युत 101e
यदाश्रौषं धनुरायम्य चित्रं; विद्धं लक्ष्यं पातितं वै पृथिव्याम् 102a
कृष्णां हृतां पश्यतां सर्वराज्ञां; तदा नाशंसे विजयाय सञ्जय 102c
यदाश्रौषं द्वारकायां सुभद्रां; प्रसह्योढां माधवीमर्जुनेन 103a
इन्द्रप्रस्थं वृष्णिवीरौ च यातौ; तदा नाशंसे विजयाय सञ्जय 103c
यदाश्रौषं देवराजं प्रवृष्टं; शरैर्दिव्यैर्वारितं चार्जुनेन 104a
अग्निं तथा तर्पितं खाण्डवे च; तदा नाशंसे विजयाय सञ्जय 104c
यदाश्रौषं हृतराज्यं युधिष्ठिरं; पराजितं सौबलेनाक्षवत्याम् 105a
अन्वागतं भ्रातृभिरप्रमेयै;स्तदा नाशंसे विजयाय सञ्जय 105c
यदाश्रौषं द्रौपदीमश्रुकण्ठीं; सभां नीतां दुःखितामेकवस्त्राम् 106a
रजस्वलां नाथवतीमनाथव;त्तदा नाशंसे विजयाय सञ्जय 106c
यदाश्रौषं विविधास्तात चेष्टा; धर्मात्मनां प्रस्थितानां वनाय 107a
ज्येष्ठप्रीत्या क्लिश्यतां पाण्डवानां; तदा नाशंसे विजयाय सञ्जय 107c
यदाश्रौषं स्नातकानां सहस्रै;रन्वागतं धर्मराजं वनस्थम् 108a
भिक्षाभुजां ब्राह्मणानां महात्मनां; तदा नाशंसे विजयाय सञ्जय 108c
यदाश्रौषमर्जुनो देवदेवं; किरातरूपं त्र्यम्बकं तोष्य युद्धे 109a
अवाप तत्पाशुपतं महास्त्रं; तदा नाशंसे विजयाय सञ्जय 109c
यदाश्रौषं त्रिदिवस्थं धनञ्जयं; शक्रात्साक्षाद्दिव्यमस्त्रं यथावत् 110a
अधीयानं शंसितं सत्यसन्धं; तदा नाशंसे विजयाय सञ्जय 110c
यदाश्रौषं वैश्रवणेन सार्धं; समागतं भीममन्यांश्च पार्थान् 111a
तस्मिन्देशे मानुषाणामगम्ये; तदा नाशंसे विजयाय सञ्जय 111c
यदाश्रौषं घोषयात्रागतानां; बन्धं गन्धर्वैर्मोक्षणं चार्जुनेन 112a
स्वेषां सुतानां कर्णबुद्धौ रतानां; तदा नाशंसे विजयाय सञ्जय 112c
यदाश्रौषं यक्षरूपेण धर्मं; समागतं धर्मराजेन सूत 113a
प्रश्नानुक्तान्विब्रुवन्तं च सम्य;क्तदा नाशंसे विजयाय सञ्जय 113c
यदाश्रौषं मामकानां वरिष्ठा;न्धनञ्जयेनैकरथेन भग्नान् 114a
विराटराष्ट्रे वसता महात्मना; तदा नाशंसे विजयाय सञ्जय 114c
यदाश्रौषं सत्कृतां मत्स्यराज्ञा; सुतां दत्तामुत्तरामर्जुनाय 115a
तां चार्जुनः प्रत्यगृह्णात्सुतार्थे; तदा नाशंसे विजयाय सञ्जय 115c
यदाश्रौषं निर्जितस्याधनस्य; प्रव्राजितस्य स्वजनात्प्रच्युतस्य 116a
अक्षौहिणीः सप्त युधिष्ठिरस्य; तदा नाशंसे विजयाय सञ्जय 116c
यदाश्रौषं नरनारायणौ तौ; कृष्णार्जुनौ वदतो नारदस्य 117a
अहं द्रष्टा ब्रह्मलोके सदेति; तदा नाशंसे विजयाय सञ्जय 117c
यदाश्रौषं माधवं वासुदेवं; सर्वात्मना पाण्डवार्थे निविष्टम् 118a
यस्येमां गां विक्रममेकमाहु;स्तदा नाशंसे विजयाय सञ्जय 118c
यदाश्रौषं कर्णदुर्योधनाभ्यां; बुद्धिं कृतां निग्रहे केशवस्य 119a
तं चात्मानं बहुधा दर्शयानं; तदा नाशंसे विजयाय सञ्जय 119c
यदाश्रौषं वासुदेवे प्रयाते; रथस्यैकामग्रतस्तिष्ठमानाम् 120a
आर्तां पृथां सान्त्वितां केशवेन; तदा नाशंसे विजयाय सञ्जय 120c
यदाश्रौषं मन्त्रिणं वासुदेवं; तथा भीष्मं शान्तनवं च तेषाम् 121a
भारद्वाजं चाशिषोऽनुब्रुवाणं; तदा नाशंसे विजयाय सञ्जय 121c
यदाश्रौषं कर्ण उवाच भीष्मं; नाहं योत्स्ये युध्यमाने त्वयीति 122a
हित्वा सेनामपचक्राम चैव; तदा नाशंसे विजयाय सञ्जय 122c
यदाश्रौषं वासुदेवार्जुनौ तौ; तथा धनुर्गाण्डिवमप्रमेयम् 123a
त्रीण्युग्रवीर्याणि समागतानि; तदा नाशंसे विजयाय सञ्जय 123c
यदाश्रौषं कश्मलेनाभिपन्ने; रथोपस्थे सीदमानेऽर्जुने वै 124a
कृष्णं लोकान्दर्शयानं शरीरे; तदा नाशंसे विजयाय सञ्जय 124c
यदाश्रौषं भीष्मममित्रकर्शनं; निघ्नन्तमाजावयुतं रथानाम् 125a
नैषां कश्चिद्वध्यते दृश्यरूप;स्तदा नाशंसे विजयाय सञ्जय 125c
यदाश्रौषं भीष्ममत्यन्तशूरं; हतं पार्थेनाहवेष्वप्रधृष्यम् 126a
शिखण्डिनं पुरतः स्थापयित्वा; तदा नाशंसे विजयाय सञ्जय 126c
यदाश्रौषं शरतल्पे शयानं; वृद्धं वीरं सादितं चित्रपुङ्खैः 127a
भीष्मं कृत्वा सोमकानल्पशेषां;स्तदा नाशंसे विजयाय सञ्जय 127c
यदाश्रौषं शान्तनवे शयाने; पानीयार्थे चोदितेनार्जुनेन 128a
भूमिं भित्त्वा तर्पितं तत्र भीष्मं; तदा नाशंसे विजयाय सञ्जय 128c
यदाश्रौषं शुक्रसूर्यौ च युक्तौ; कौन्तेयानामनुलोमौ जयाय 129a
नित्यं चास्माञ्श्वापदा व्याभषन्त;स्तदा नाशंसे विजयाय सञ्जय 129c
यदा द्रोणो विविधानस्त्रमार्गा;न्विदर्शयन्समरे चित्रयोधी 130a
न पाण्डवाञ्श्रेष्ठतमान्निहन्ति; तदा नाशंसे विजयाय सञ्जय 130c
यदाश्रौषं चास्मदीयान्महारथा;न्व्यवस्थितानर्जुनस्यान्तकाय 131a
संशप्तकान्निहतानर्जुनेन; तदा नाशंसे विजयाय सञ्जय 131c
यदाश्रौषं व्यूहमभेद्यमन्यै;र्भारद्वाजेनात्तशस्त्रेण गुप्तम् 132a
भित्त्वा सौभद्रं वीरमेकं प्रविष्टं; तदा नाशंसे विजयाय सञ्जय 132c
यदाभिमन्युं परिवार्य बालं; सर्वे हत्वा हृष्टरूपा बभूवुः 133a
महारथाः पार्थमशक्नुवन्त;स्तदा नाशंसे विजयाय सञ्जय 133c
यदाश्रौषमभिमन्युं निहत्य; हर्षान्मूढान्क्रोशतो धार्तराष्ट्रान् 134a
क्रोधं मुक्तं सैन्धवे चार्जुनेन; तदा नाशंसे विजयाय सञ्जय 134c
यदाश्रौषं सैन्धवार्थे प्रतिज्ञां; प्रतिज्ञातां तद्वधायार्जुनेन 135a
सत्यां निस्तीर्णां शत्रुमध्ये च तेन; तदा नाशंसे विजयाय सञ्जय 135c
यदाश्रौषं श्रान्तहये धनञ्जये; मुक्त्वा हयान्पाययित्वोपवृत्तान् 136a
पुनर्युक्त्वा वासुदेवं प्रयातं; तदा नाशंसे विजयाय सञ्जय 136c
यदाश्रौषं वाहनेष्वाश्वसत्सु; रथोपस्थे तिष्ठता गाण्डिवेन 137a
सर्वान्योधान्वारितानर्जुनेन; तदा नाशंसे विजयाय सञ्जय 137c
यदाश्रौषं नागबलैर्दुरुत्सहं; द्रोणानीकं युयुधानं प्रमथ्य 138a
यातं वार्ष्णेयं यत्र तौ कृष्णपार्थौ; तदा नाशंसे विजयाय सञ्जय 138c
यदाश्रौषं कर्णमासाद्य मुक्तं; वधाद्भीमं कुत्सयित्वा वचोभिः 139a
धनुष्कोट्या तुद्य कर्णेन वीरं; तदा नाशंसे विजयाय सञ्जय 139c
यदा द्रोणः कृतवर्मा कृपश्च; कर्णो द्रौणिर्मद्रराजश्च शूरः 140a
अमर्षयन्सैन्धवं वध्यमानं; तदा नाशंसे विजयाय सञ्जय 140c
यदाश्रौषं देवराजेन दत्तां; दिव्यां शक्तिं व्यंसितां माधवेन 141a
घटोत्कचे राक्षसे घोररूपे; तदा नाशंसे विजयाय सञ्जय 141c
यदाश्रौषं कर्णघटोत्कचाभ्यां; युद्धे मुक्तां सूतपुत्रेण शक्तिम् 142a
यया वध्यः समरे सव्यसाची; तदा नाशंसे विजयाय सञ्जय 142c
यदाश्रौषं द्रोणमाचार्यमेकं; धृष्टद्युम्नेनाभ्यतिक्रम्य धर्मम् 143a
रथोपस्थे प्रायगतं विशस्तं; तदा नाशंसे विजयाय सञ्जय 143c
यदाश्रौषं द्रौणिना द्वैरथस्थं; माद्रीपुत्रं नकुलं लोकमध्ये 144a
समं युद्धे पाण्डवं युध्यमानं; तदा नाशंसे विजयाय सञ्जय 144c
यदा द्रोणे निहते द्रोणपुत्रो; नारायणं दिव्यमस्त्रं विकुर्वन् 145a
नैषामन्तं गतवान्पाण्डवानां; तदा नाशंसे विजयाय सञ्जय 145c
यदाश्रौषं कर्णमत्यन्तशूरं; हतं पार्थेनाहवेष्वप्रधृष्यम् 146a
तस्मिन्भ्रातॄणां विग्रहे देवगुह्ये; तदा नाशंसे विजयाय सञ्जय 146c
यदाश्रौषं द्रोणपुत्रं कृपं च; दुःशासनं कृतवर्माणमुग्रम् 147a
युधिष्ठिरं शून्यमधर्षयन्तं; तदा नाशंसे विजयाय सञ्जय 147c
यदाश्रौषं निहतं मद्रराजं; रणे शूरं धर्मराजेन सूत 148a
सदा सङ्ग्रामे स्पर्धते यः स कृष्णं; तदा नाशंसे विजयाय सञ्जय 148
यदाश्रौषं कलहद्यूतमूलं; मायाबलं सौबलं पाण्डवेन 149a
हतं सङ्ग्रामे सहदेवेन पापं; तदा नाशंसे विजयाय सञ्जय 149c
यदाश्रौषं श्रान्तमेकं शयानं; ह्रदं गत्वा स्तम्भयित्वा तदम्भः 150a
दुर्योधनं विरथं भग्नदर्पं; तदा नाशंसे विजयाय सञ्जय 150c
यदाश्रौषं पाण्डवांस्तिष्ठमाना;न्गङ्गाह्रदे वासुदेवेन सार्धम् 151a
अमर्षणं धर्षयतः सुतं मे; तदा नाशंसे विजयाय सञ्जय 151c
यदाश्रौषं विविधांस्तात मार्गा;न्गदायुद्धे मण्डलं सञ्चरन्तम् 152a
मिथ्या हतं वासुदेवस्य बुद्ध्या; तदा नाशंसे विजयाय सञ्जय 152c
यदाश्रौषं द्रोणपुत्रादिभिस्तै;र्हतान्पाञ्चालान्द्रौपदेयांश्च सुप्तान् 153a
कृतं बीभत्समयशस्यं च कर्म; तदा नाशंसे विजयाय सञ्जय 153c
यदाश्रौषं भीमसेनानुयातेन; अश्वत्थाम्ना परमास्त्रं प्रयुक्तम् 154a
क्रुद्धेनैषीकमवधीद्येन गर्भं; तदा नाशंसे विजयाय सञ्जय 154c
यदाश्रौषं ब्रह्मशिरोऽर्जुनेन; मुक्तं स्वस्तीत्यस्त्रमस्त्रेण शान्तम् 155a
अश्वत्थाम्ना मणिरत्नं च दत्तं; तदा नाशंसे विजयाय सञ्जय 155c
यदाश्रौषं द्रोणपुत्रेण गर्भे; वैराट्या वै पात्यमाने महास्त्रे 156a
द्वैपायनः केशवो द्रोणपुत्रं; परस्परेणाभिशापैः शशाप 156c
शोच्या गान्धारी पुत्रपौत्रैर्विहीना; तथा वध्वः पितृभिर्भ्रातृभिश्च 157a
कृतं कार्यं दुष्करं पाण्डवेयैः; प्राप्तं राज्यमसपत्नं पुनस्तैः 157c
कष्टं युद्धे दश शेषाः श्रुता मे; त्रयोऽस्माकं पाण्डवानां च सप्त 158a
द्व्यूना विंशतिराहताक्षौहिणीनां; तस्मिन्सङ्ग्रामे विग्रहे क्षत्रियाणाम् 158c
तमसा त्वभ्यवस्तीर्णो मोह आविशतीव माम् 159a
सञ्ज्ञां नोपलभे सूत मनो विह्वलतीव मे 159c
इत्युक्त्वा धृतराष्ट्रोऽथ विलप्य बहुदुःखितः 160a
मूर्च्छितः पुनराश्वस्तः सञ्जयं वाक्यमब्रवीत् 160c
सञ्जयैवङ्गते प्राणांस्त्यक्तुमिच्छामि माचिरम् 161a
स्तोकं ह्यपि न पश्यामि फलं जीवितधारणे 161c
तं तथावादिनं दीनं विलपन्तं महीपतिम् 162a
गावल्गणिरिदं धीमान्महार्थं वाक्यमब्रवीत् 162c
श्रुतवानसि वै राज्ञो महोत्साहान्महाबलान् 163a
द्वैपायनस्य वदतो नारदस्य च धीमतः 163c
महत्सु राजवंशेषु गुणैः समुदितेषु च 164a
जातान्दिव्यास्त्रविदुषः शक्रप्रतिमतेजसः 164c
धर्मेण पृथिवीं जित्वा यज्ञैरिष्ट्वाप्तदक्षिणैः 165a
अस्मिल्ँलोके यशः प्राप्य ततः कालवशं गताः 165c
वैन्यं महारथं वीरं सृञ्जयं जयतां वरम् 166a
सुहोत्रं रन्तिदेवं च कक्षीवन्तं तथौशिजम् 166c
बाह्लीकं दमनं शैब्यं शर्यातिमजितं जितम् 167a
विश्वामित्रममित्रघ्नमम्बरीषं महाबलम् 167c
मरुत्तं मनुमिक्ष्वाकुं गयं भरतमेव च 168a
रामं दाशरथिं चैव शशबिन्दुं भगीरथम् 168c
ययातिं शुभकर्माणं देवैर्यो याजितः स्वयम् 169a
चैत्ययूपाङ्किता भूमिर्यस्येयं सवनाकरा 169c
इति राज्ञां चतुर्विंशन्नारदेन सुरर्षिणा 170a
पुत्रशोकाभितप्ताय पुरा शैब्याय कीर्तिताः 170c
तेभ्यश्चान्ये गताः पूर्वं राजानो बलवत्तराः 171a
महारथा महात्मानः सर्वैः समुदिता गुणैः 171c
पूरुः कुरुर्यदुः शूरो विष्वगश्वो महाधृतिः 172a
अनेना युवनाश्वश्च ककुत्स्थो विक्रमी रघुः 172c
विजिती वीतिहोत्रश्च भवः श्वेतो बृहद्गुरुः 173a
उशीनरः शतरथः कङ्को दुलिदुहो द्रुमः 173c
दम्भोद्भवः परो वेनः सगरः सङ्कृतिर्निमिः 174a
अजेयः परशुः पुण्ड्रः शम्भुर्देवावृधोऽनघः 174c
देवाह्वयः सुप्रतिमः सुप्रतीको बृहद्रथः 175a
महोत्साहो विनीतात्मा सुक्रतुर्नैषधो नलः 175c
सत्यव्रतः शान्तभयः सुमित्रः सुबलः प्रभुः 176a
जानुजङ्घोऽनरण्योऽर्कः प्रियभृत्यः शुभव्रतः 176c
बलबन्धुर्निरामर्दः केतुशृङ्गो बृहद्बलः 177a
धृष्टकेतुर्बृहत्केतुर्दीप्तकेतुर्निरामयः 177c
अविक्षित्प्रबलो धूर्तः कृतबन्धुर्दृढेषुधिः 178a
महापुराणः सम्भाव्यः प्रत्यङ्गः परहा श्रुतिः 178c
एते चान्ये च बहवः शतशोऽथ सहस्रशः 179a
श्रूयन्तेऽयुतशश्चान्ये सङ्ख्याताश्चापि पद्मशः 179c
हित्वा सुविपुलान्भोगान्बुद्धिमन्तो महाबलाः 180a
राजानो निधनं प्राप्तास्तव पुत्रैर्महत्तमाः 180c
येषां दिव्यानि कर्माणि विक्रमस्त्याग एव च 181a
माहात्म्यमपि चास्तिक्यं सत्यता शौचमार्जवम् 181c
विद्वद्भिः कथ्यते लोके पुराणैः कविसत्तमैः 182a
सर्वर्द्धिगुणसम्पन्नास्ते चापि निधनं गताः 182c
तव पुत्रा दुरात्मानः प्रतप्ताश्चैव मन्युना 183a
लुब्धा दुर्वृत्तभूयिष्ठा न ताञ्शोचितुमर्हसि 183c
श्रुतवानसि मेधावी बुद्धिमान्प्राज्ञसम्मतः 184a
येषां शास्त्रानुगा बुद्धिर्न ते मुह्यन्ति भारत 184c
निग्रहानुग्रहौ चापि विदितौ ते नराधिप 185a
नात्यन्तमेवानुवृत्तिः श्रूयते पुत्ररक्षणे 185c
भवितव्यं तथा तच्च नातः शोचितुमर्हसि 186a
दैवं प्रज्ञाविशेषेण को निवर्तितुमर्हति 186c
विधातृविहितं मार्गं न कश्चिदतिवर्तते 187a
कालमूलमिदं सर्वं भावाभावौ सुखासुखे 187c
कालः पचति भूतानि कालः संहरति प्रजाः 188a
निर्दहन्तं प्रजाः कालं कालः शमयते पुनः 188c
कालो विकुरुते भावान्सर्वाल्ँलोके शुभाशुभान् 189a
कालः सङ्क्षिपते सर्वाः प्रजा विसृजते पुनः 189c
कालः सर्वेषु भूतेषु चरत्यविधृतः समः 189e
अतीतानागता भावा ये च वर्तन्ति साम्प्रतम् 190a
तान्कालनिर्मितान्बुद्ध्वा न सञ्ज्ञां हातुमर्हसि 190c
सूत उवाच 191
अत्रोपनिषदं पुण्यां कृष्णद्वैपायनोऽब्रवीत् 191a
भारताध्ययनात्पुण्यादपि पादमधीयतः 191c
श्रद्दधानस्य पूयन्ते सर्वपापान्यशेषतः 191e
देवर्षयो ह्यत्र पुण्या ब्रह्मराजर्षयस्तथा 192a
कीर्त्यन्ते शुभकर्माणस्तथा यक्षमहोरगाः 192c
भगवान्वासुदेवश्च कीर्त्यतेऽत्र सनातनः 193a
स हि सत्यमृतं चैव पवित्रं पुण्यमेव च 193c
शाश्वतं ब्रह्म परमं ध्रुवं ज्योतिः सनातनम् 194a
यस्य दिव्यानि कर्माणि कथयन्ति मनीषिणः 194c
असत्सत्सदसच्चैव यस्माद्देवात्प्रवर्तते 195a
सन्ततिश्च प्रवृत्तिश्च जन्म मृत्युः पुनर्भवः 195c
अध्यात्मं श्रूयते यच्च पञ्चभूतगुणात्मकम् 196a
अव्यक्तादि परं यच्च स एव परिगीयते 196c
यत्तद्यतिवरा युक्ता ध्यानयोगबलान्विताः 197a
प्रतिबिम्बमिवादर्शे पश्यन्त्यात्मन्यवस्थितम् 197c
श्रद्दधानः सदोद्युक्तः सत्यधर्मपरायणः 198a
आसेवन्निममध्यायं नरः पापात्प्रमुच्यते 198c
अनुक्रमणिमध्यायं भारतस्येममादितः 199a
आस्तिकः सततं शृण्वन्न कृच्छ्रेष्ववसीदति 199c
उभे सन्ध्ये जपन्किञ्चित्सद्यो मुच्येत किल्बिषात् 200a
अनुक्रमण्या यावत्स्यादह्ना रात्र्या च सञ्चितम् 200c
भारतस्य वपुर्ह्येतत्सत्यं चामृतमेव च 201a
नवनीतं यथा दध्नो द्विपदां ब्राह्मणो यथा 201c
ह्रदानामुदधिः श्रेष्ठो गौर्वरिष्ठा चतुष्पदाम् 202a
यथैतानि वरिष्ठानि तथा भारतमुच्यते 202c
यश्चैनं श्रावयेच्छ्राद्धे ब्राह्मणान्पादमन्ततः 203a
अक्षय्यमन्नपानं तत्पितॄंस्तस्योपतिष्ठति 203c
इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् 204a
बिभेत्यल्पश्रुताद्वेदो मामयं प्रतरिष्यति 204c
कार्ष्णं वेदमिमं विद्वाञ्श्रावयित्वार्थमश्नुते 205a
भ्रूणहत्याकृतं चापि पापं जह्यान्न संशयः 205c
य इमं शुचिरध्यायं पठेत्पर्वणि पर्वणि 206a
अधीतं भारतं तेन कृत्स्नं स्यादिति मे मतिः 206c
यश्चेमं शृणुयान्नित्यमार्षं श्रद्धासमन्वितः 207a
स दीर्घमायुः कीर्तिं च स्वर्गतिं चाप्नुयान्नरः 207c
चत्वार एकतो वेदा भारतं चैकमेकतः 208a
समागतैः सुरर्षिभिस्तुलामारोपितं पुरा 208c
महत्त्वे च गुरुत्वे च ध्रियमाणं ततोऽधिकम् 208e
महत्त्वाद्भारवत्त्वाच्च महाभारतमुच्यते 209a
निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते 209c
तपो न कल्कोऽध्ययनं न कल्कः; स्वाभाविको वेदविधिर्न कल्कः 210a
प्रसह्य वित्ताहरणं न कल्क;स्तान्येव भावोपहतानि कल्कः 210c