(सं) विश्वास-प्रस्तुतिः ...{Loading}...
मन्-मना भव मद्-भक्तो
मद्-याजी मां नमस्कुरु।
माम् एवैष्यसि सत्यं ते
प्रतिजाने - प्रियोऽसि मे॥18.65॥
(सं) मूलम् ...{Loading}...
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु।
मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे।।18.65।।
रामानुज-सम्प्रदायः
(सं) रामानुजः मूलम् ...{Loading}...
।।18.65।। वेदान्तेषु –
> वेदाहम् एतं पुरुषं महान्तम्
> आदित्यवर्णं तमसः परस्तात्। (श्वे॰ उ॰ 3।8)
> तम् एवं विद्वानमृत इह भवति।
> नान्यः पन्था विद्यतेऽयनाय (श्वे॰ उ॰ 3।8)
इत्यादिषु विहितं
वेदन-ध्यानोपासनादि-शब्द-वाच्यं दर्शन-समानाकारं स्मृति-संन्तानम् अत्यर्थप्रियम्
इह मन्मना भव इति विधीयते।
मद्-भक्तः = अत्यर्थ-मत्प्रियः,
अत्यर्थ-मत्प्रियत्वेन च निरतिशय-प्रियां स्मृति-संततिं कुरुष्व इत्यर्थः।
मद्-याजी तत्रापि मद्भक्त इत्य् अनुषज्यते ।
यजनं पूजनम्; अत्यर्थ-प्रिय-मद्-आराधनपरो भव।
आराधनं हि परिपूर्ण-शेषवृत्तिः।+++(5)+++
मां नमस्कुरु - नमो नमनं,
मयि अतिमात्रप्रह्वीभावम् अत्यर्थप्रियं कुरु इत्यर्थः।
एवं वर्तमानो माम् एव एष्यसि इति एतत्
सत्यं ते प्रतिजाने = तव प्रतिज्ञां करोमि;
न उपच्छन्दमात्रं
यतः त्वं प्रियः असि मे
> प्रियो हि ज्ञानिनोऽत्यर्थम्
> अहं, स च मम प्रियः (गीता 7।17)
इति पूर्वम् एव उक्तम्।
यस्य मयि अतिमात्रप्रीतिः वर्तते
मम अपि तस्मिन् अतिमात्रप्रीतिः भवति इति
तद्-वियोगम् असहमानः
अहं तं मां प्रापयामि;
अतः सत्यम् एव प्रतिज्ञातं -
“माम् एव एष्यसि”
इति।
(सं) रामानुजः वेङ्कटनाथः ...{Loading}...
।।18.65।।
“मन्मना भव” इत्यस्याव्यवहितफलसाधनतया
गुह्यतमाङ्गि-स्वरूप-परत्वं दर्शयितुं
तत्-स्वरूपं तावत्-प्रमाणतः शिक्षयति वेदान्तेष्व् इति।
“वेदाहम्” इत्यादिपुरुषसूक्तवाक्योपादानम्
उपनिषद्-अन्तराणां तद्-अनुवर्तित्व-ज्ञापनार्थम्;
“नान्यः पन्थाः” इति हि तत्-साध्योपायान्तर-व्यवधान-शङ्का-निरासार्थम्।
अत्र च
> अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः [15।18]
इति वक्तुश् च वासुदेवस्य तत्-प्रतिपाद्यत्वात्
“मन्मना भव” इति
विहितस्य महापुरुषोपासनत्व-ज्ञापनार्थं च।
वेदनं ह्य् अत्रोक्तम्; न तु भक्तिर् इत्यत्राऽऽह –
ध्यानोपासनादिशब्दवाच्यम् इति।
आदिशब्देन तत्-तत्-स्मृत्य्-उक्त-भक्ति-सेवादि-शब्द-ग्रहणम्।
समान-प्रकरण-स्थाभ्यां ध्यानोपासन-शब्दाभ्यां वेदनं हि विशेष्यते-
अन्यथा गुरु-लघु-विकल्पाद्य्-अनुपपत्त्या
+++(लघुतर-)+++ध्यानादि-विधि-वैयर्थ्य-प्रसङ्ग इति भावः।
विद्य्-उपास्योर् व्यतिकरेणोपक्रमोपसंहार-दर्शनाच् च
वेदनम् उपासनम् इत्य् एव व्यक्तम् उपपादितं
शारीरक-भाष्यादिषु।
> किञ्च द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः [बृ.उ.2।4।54।5।6]
इत्युक्त्वा
तान्य् एव दर्शनादीन्य् अनुवदन्ती श्रुतिः
विज्ञान-शब्देन निदिध्यासनम् अनुवदति –
> आत्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेन [बृ.उ.2।4।5]
इति।
> एवं तस्मिन् दृष्टे परावरे [मुं.उ.2।2।8]
इति वाक्यैर् दर्शनं न साक्षात् प्रत्यक्ष-रूपं;
गुरु-लघु-विकल्पाद्य्-अनुपपत्तेर् एव।
न चाधिकारि-भेदेन तत्सम्भवः;
व्यवस्थापकाभावात्।
न च द्वारि-द्वार-भावकल्पना शक्या;
ध्रुवानुस्मृतेर् दर्शनस्य चाविशेषेणाव्यवहित-साधनत्व-श्रुतेः।
अत ऐकार्थ्ये ऽत्यवश्यम्-भाविन्य् अन्यतरस्यौपचरिकत्वम् अन्तरेण तद् असम्भवात्;
निष्प्रयोजनस्योपचारस्यायोगात्;
स्मृतिशब्देन च प्रत्यक्षस्योपचारे ऽतिशयासिद्धेः;
विपर्यये तु दर्शनसमानाकारत्वलक्षणवैशद्यविधानेन सप्रयोजनत्वाच्च।
स्वप्नधीगम्यम् इत्याद्य् उपबृंहणाभिप्रेत-वैशद्य-विशिष्ट-स्मृतिरेव
> तस्मिन् दृष्टे निचाय्य तं [कठो.1।3।15]
> द्रष्टव्यः [बृ.उ.2।4।54।5।6]
इत्यादिभिर्विधीयतं इत्य् अभिप्रायेणाऽऽह
दर्शन-समानाकारम् इति।
स्मृति-सन्तानम् इति
– तेन स्मृतिः सन्तन्यते यत्रेति वा
स्मृतेः सन्तानो यत्रेति वा व्युत्पत्त्या।
नपुंसकत्वम् अत्र ज्ञातव्यम्।
ततश् चित्तैकाग्र्य-शब्दार्थः।
तेन तन्-मूल-ज्ञान-लक्षणया तैल-धारावद् अविच्छिन्नत्वं सूचितम्।+++(4)+++
वेदनं वा सामान्य-रूपम् अत्रान्यपदार्थः।
तत्र वेदनम् इति पाठे तद् एव विशेष्यम्।
वेदन-ध्यानोपासनादि इति पाठे तु
स्मृतिसन्तानस्य विशेष्यत्वात्
तस्यैव भक्तिरूपत्वायाऽऽह – अत्यर्थप्रियम् इति।
इह अव्यवहित-मोक्षोपायोपदेश-दशायाम् इत्य् अर्थः।
वेदान्त-विहितस्यापि +अर्जुनेनाविदितत्वात्
तं प्रति “मन्मना भव” इति विधिर् एवेत्याह – विधीयत इति।
मद्-भक्तशब्दार्थम् आह – अत्यर्थमत्प्रिय इति।
अत्यर्थम् अहं प्रीति-विषय-भूतो यस्य सोऽत्रात्यर्थमत्प्रियः।
> प्रियो हि ज्ञानिनोऽत्यर्थमहम् [7।17]
इति ह्युक्तम्।
विधेयस्य कर्तव्यस्य वैशिष्ट्याभिप्रायेण
कर्तरि विशेषणम् इत्याह – अत्यर्थमत्प्रियत्वेन निरतिशयप्रियाम् इति।
मद्याजी मां नमस्कुरु इत्य् उभाभ्यां
अङ्गि-कोटि-निर्देशेनान्तरङ्ग-परिकर-योग उपलक्ष्यत
इति दर्शयितुम् आह – तत्रापीति।
यजिना ऽत्राविवक्षित-ज्योतिष्टोमादि-प्रतीति-व्युदासाय धातु-शक्तिं स्मारयति – यजनं पूजनम् इति।
फलितमाह – अत्यर्थप्रियेति।
भक्त्य्-अनुप्रवेशेन स्वरूपानुरूपत्व-द्योतनाय;
सारतमत्व-सिद्ध्यै
सारार्थ-ग्राहक-भगवच्-छास्त्रादि-चोदितां प्रक्रियां स्मारयति
– आराधनं हीति।
अन्तःकरण-वृत्ति-विशेष-पर्यवसानायाऽऽह नमो नमनम् इति।
एतेन प्रणिपात-मात्र-परत्व-व्युदासः।
त्रिविधा हि प्रणतिः शास्त्रेषु शिष्यते।
मद्-भक्त-पदानुषङ्ग-विशेषितं तद्-अभिप्रेतम् आह – मयीति।
आत्मा ऽऽत्मीयं सर्वं भगवत एवेत्य्
अनुसन्धानाद् अतिमात्र-प्रह्वीभावः।
एवं वर्तमान इति –
एतेनात्यर्थ-प्रियत्वाद्य्-अनुवाद-मात्रत्वं विवक्षितं;
न तद्-व्यतिरेकेण स्वात्माधारत्वम्;
अवधारणेनाव्यवधानं विवक्षितम्।
सत्यम् इति प्रतिज्ञाविशेषणं; न तु प्रतिज्ञातस्योक्तिर् इत्याह – एतद् इति।
“वास्तोष्पते प्रतिजानीह्यस्मान्” [ऋक्सं.5।4।21।1] इत्यादिष्व्
इवोपसर्गस्य गत्यभाव-विषयम् अविवक्षितार्थत्वं निराकरोति –
प्रतिज्ञां करोमीति।
> द्यौः पतेत् पृथिवी शीर्येद्
+धिमवाञ् छकलीभवेत्।
शुष्येत् तोयनिधिः, कृष्णे
न मे मोघं वचो भवेत्॥
इत्यादि-भगवद्-वाक्यानुसारेणाभिप्रेतम् आह
नोपच्छन्दनमात्रम् इति।
“अत्र प्रियवचनेन प्ररोचन-रूपार्थ-वादत्वं
त्वया न शङ्कनीयम्” इत्यर्थः।
एवं वर्तमानस्य स्वप्राप्तौ
स्वप्रीति-लक्षण-द्वारम् उपक्षिप्योपच्छन्दन-शङ्का
ऽपाक्रियते “प्रियोऽसि मे” इत्यनेनेत्य् आह – यतस् त्वम् इति।
साध्यम् अपि ज्ञानित्वं सिद्धवत् कृत्वा
“प्रियोऽसि” इति तत्-फलोक्तिर् इत्य् अभिप्रायेण
> प्रियो हि ज्ञानिनोऽत्यर्थम् [7।17]
इति सामान्येन प्रागुक्त-प्रयोजक-ग्रहणम्। एतेन +++(गतश्लोकोक्त-)+++भूयश्-शब्दस्योक्तार्थपरत्वं दर्शितम्।
उक्तासम्भव-शङ्का-परिहाराय लोक-दृष्टम् ईश्वराभिप्रायं चानुसृत्योपात्त-वचनार्थम् आह – यस्येति।
तत्फलितम् आह – इति तद्वियोगम् इति।
हेतुवाक्यार्थं साध्येन सङ्गमयति – अतः सत्यम् इति।
प्रतिज्ञातम् इति भावे निष्ठा।
(सं) रामानुजः (Eng) आदिदेवानन्दः ...{Loading}...
18.65 What is enjoined in Vedanta texts such as ‘I know the Great Person of the radiance of the sun, who is beyond this Prakrti. Knowing Him thus, one becomes here immortal; there is no path for immortality’ (Sve. U., 3.8); what is designated by words such as knowledge (Vedanta), meditation (Dhyana) and worship (Upasana); what is of the form of direct perception (Darsana) having the character of continuous succession of memory of a surpassingly loving nature to the worshipped - it is this that is enjoined herein by the words ‘Focus your mind on Me,’ ‘Be My devotee.’ It means, be one to whom I am incomparably dear. Since I am the object of superabundant love, meditate on Me, i.e., practise the succession of memory of unsurpassed love of Me. Such is the meaning. Be My worshipper (yaji). Here also the expression, ‘Be My devotee’ is applicable. Yajna is worship. Worship Me as one exceedingly dear to you. Worship (Aradhana) is complete subservience to the Lord. Prostrate before Me. Prostration means bowing down. The meaning is: Bow down humbly before Me with great love. Renouncing thus all ego-centredness, you shall come to Me. I make this solemn promise to you. Do not take it as a mere flattery. For you are dear to Me. It has been already stated, ‘For I am inexpressibly dear to the man of knowledge and dear is he to Me’ (7.17). He in whom there is surpassing love for Me, I hold him also as surpassingly dear to Me. Conseently, not being able to bear separation from him, I myself will enable him to attain Me. It is this truth alone that has been solemnly declared to you in the expression that ‘you shall come to Me alone.’
अभिनवगुप्त-सम्प्रदायः
(सं) अभिनव-गुप्तः मूलम् ...{Loading}...
।।18.64 – 65।। तच्च तात्पर्यं यथावसरम् अस्माभिः श्रृङ्गग्राहिकयैव प्रकाशितं यद्यपि तथापि स्फुटम् अशेषविमर्शनं प्रदर्श्यते। उपादेयतमं ह्यदः। नास्मिन् निरूप्यमाणे श्रूयमाणे वा मतिस्तृप्यति। गुह्यतमं यदत्र निश्चितं तज्ज्ञानमिदानीं श्रृणु इत्याहि – सर्वेति। मन्मना इति। मन्मना भव इत्यादिना शास्त्रे ब्रह्मापर्णे एव सर्वथा प्राधान्यम् इति निश्चितम् ब्रह्मार्पणकारिणः शास्त्रमिदमर्थवत् इत्युक्तम्।
(सं) अभिनव-गुप्तः (Eng) शङ्करनारायणः ...{Loading}...
18.64-65 Sarva - etc. Manmanah etc, By the portion ‘Be with your mind fixed in Me’ etc., it is determined that in the scriptures the importance completely lies only in dedicating [everything] to the Brahman; and it is declared that this present scripture (the Holy Bhagavatgita) is of use [only] in the case of one who cultivates [the attitude of] dedication to the Brahman. Also He says -
माध्व-सम्प्रदायः
(सं) मध्वः मूलम् ...{Loading}...
।।18.65।। Sri Madhvacharya did not comment on this sloka.
(सं) मध्वः जयतीर्थः ...{Loading}...
।।18.65।। Sri Jayatirtha did not comment on this sloka.
शाङ्कर-सम्प्रदायः
(सं) शङ्करः मूलम् ...{Loading}...
।।18.65।। –,मन्मनाः भव मच्चित्तः भव। मद्भक्तः भव मद्भजनो भव। मद्याजी मद्यजनशीलो भव। मां नमस्कुरु नमस्कारम् अपि ममैव कुरु। तत्र एवं वर्तमानः वासुदेवे एव समर्पितसाध्यसाधनप्रयोजनः मामेव एष्यसि आगमिष्यसि। सत्यं ते तव प्रतिजाने; सत्यां प्रतिज्ञां करोमि एतस्मिन् वस्तुनि इत्यर्थः यतः प्रियः असि मे। एवं भगवतः सत्यप्रतिज्ञत्वं बुद्ध्वा भगवद्भक्तेः अवश्यंभावि मोक्षफलम् अवधार्य भगवच्छरणैकपरायणः भवेत् इति वाक्यार्थः।।
(सं) शङ्करः (हि) हरिकृष्णदासः ...{Loading}...
।।18.65।। वे वचन कौनसे हैं सो कहते हैं –, तू मुझमें मनवाला अर्थात् मुझमें चित्तवाला हो; मेरा भक्त अर्थात् मेरा ही भजन करनेवाला हो और मेरा ही पूजन करनेवाला हो; तथा मुझे ही नमस्कार कर; अर्थात् नमस्कार भी मुझे ही किया कर। इस प्रकार करता हुआ; अर्थात् मुझ वासुदेवमें ही ( अपने ) समस्त साध्य; साधन और प्रयोजनको समर्पण करके तू मुझे ही प्राप्त होगा। इस विषयमें मैं तुझसे सत्य प्रतिज्ञा करता हूँ क्योंकि तू मेरा प्रिय है। कहनेका अभिप्राय यह है कि इस प्रकार भगवान्को सत्यप्रतिज्ञ जानकर तथा भगवान्की भक्तिका फल निःसन्देह – ऐकान्तिक मोक्ष है – यह समझकर; मनुष्यको केवल एकमात्र भगवान्की शरणमें ही तत्पर हो जाना चाहिये।
(सं) शङ्करः (Eng) गम्भीरानन्दः ...{Loading}...
18.65 Bhava manmana, have your mind fixed on Me; be mad-bhaktah, My devotee; be a madyaji,sacrificer to Me, be engaged in sacrifices to Me; namaskuru, bow down; mam, to Me. Offer ever your salutations to Me alone. Continuing thus in them, by surrendering all ends, means and needs to Vasudeva only, esyasi, you will come; mam, to Me; eva, alone. (This) satyam, truth: do I pratijane, promise; te, to you, i.e. in this matter I make this true promise. For, asi, you are; priyah, dear; me, to Me. The idea conveyed by the passage is: Having thus understood that the Lord is true in His pormise, and knowing for certain that liberation is the unfailing result of devotion to the Lord, one should have dedication to God as his only supreme goal. Having summed up surrender to God as the highest secret of steadiness in Karma-yoga, there-after, with the idea that complete realization, which is the fruit of adherence to Karma-yoga and which has been enjoined in all the Upanisads, has to be spoken about, the Lord says:
(सं) शङ्करः आनन्दगिरिः ...{Loading}...
।।18.65।। तदेव प्रश्नद्वारा विवृणोति – किं तदित्यादिना। उत्तरार्धं व्याचष्टे – तत्रेति। एवमुक्तया रीत्या वर्तमानस्त्वं तस्मिन्नेव वासुदेवे भगवत्यर्पितसर्वभावो मामेवागमिष्यसीति संबन्धः। सत्यप्रतिज्ञाकरणे हेतुमाह – यत इति। इदानीं वाक्यार्थं श्रेयोऽर्थिनां प्रवृत्त्युपयोगित्वेन संगृह्णाति – एवमिति।
(सं) शङ्करः मधुसूदन-सरस्वती ...{Loading}...
।।18.65।। तदेवाह – मन्मना भवेति। मयि भगवति वासुदेवे मनो यस्य स मन्मना भव सदा मां चिन्तय। द्वेषेण कंसशिशुपालादिरपि तथात आह। मद्भक्तः प्रेम्णा मय्यनुरक्तो मद्विषयेणानुरागेण सदा मद्विषयं मनः कुर्विति विधीयते। त्वद्विषयोऽनुराग एव केन स्यादित्यत आह। मद्याजी मां यष्टुं पूजयितुं शीलं यस्य स सदा मत्पूजापरो भव। पूजोपकरणाभावे तु मां नमस्कुरु कायेन वाचा मनसा च प्रह्वीभवनेनाराधय। इदं चार्चनवन्दनाद्यन्येषामपि भागवतधर्माणामुपलक्षणम्। तथाचोक्तं श्रीभागवतेश्रवणं कीर्तनं विष्णोः स्मरणं पादसेवनम्। अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम्। इति पुंसार्पिता विष्णौ भक्तिश्चेन्नवलक्षणा। क्रियते भगवत्यद्वा तन्मन्येऽधीतमुत्तमम्।। इति। एतच्च भक्तिरसायने व्याख्यातं विस्तरेण। एवं सदा भागवतधर्मानुष्ठानेन मय्यनुरागोत्पत्त्या मन्मनाः सन् मां भगवन्तं वासुदेवमेव एष्यसि प्राप्स्यसि वेदान्तवाक्यजनितेन मद्बोधेन। त्वंचात्र संशयं माकार्षीः। सत्यं यथार्थं तुभ्यं प्रतिजाने सत्यामेव प्रतिज्ञां करोम्यस्मिन्नर्थे। यतः प्रियोऽसि मे। प्रियस्य प्रतारणा नोचितैवेति भावः। सत्यं ते प्रारब्धकर्मणोऽन्ते सति मामेष्यसीति वा। अनुवादापेक्षया विश्वासदार्ढ्यप्रयोजनं प्रथमं व्याख्यातमेव श्रेयः। अनेन यत्पूर्वमुक्तंयतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम्। स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः। इति तद्व्याख्यातं मच्छब्देनेश्वरत्वप्रकटनात्।
(सं) शङ्करः नीलकण्ठः ...{Loading}...
।।18.65।। तदेव गुह्यतमं हितमाह – मन्मना इति। अहं प्रत्यगात्मानन्दैकघनः परिपूर्णस्तदाकारं मनो यस्य स मन्मनाः भव। एतेन ब्राह्मात्माभेदोऽपि साक्षात्करणीय इत्युत्तरषट्कार्थ उक्तः। कथमेवंविधा ज्ञाननिष्ठा लभ्यतेऽत आह – मद्भक्तो भव। एतेन भगवदुपासनात्मको मध्यमषट्कार्थ उक्तः। कथमल्पपुण्यस्य भक्तिरुदेष्यतीत्यत आह – मद्याजी भगवदर्थकर्मकरणशीलो भव। एतेन कर्मप्रधान आद्यषट्कार्थो विवृतः। ननु यस्य भगवद्याजित्वं न संभवति दारिर्द्यात्स्त्र्याद्यभावाद्वा तस्य भगवद्भक्तिदौर्लभ्याद्ब्रह्माकारा चेतोवृत्तिदुर्लभतरेत्याशङ्क्याह – मां नमस्कुरु प्राकृतभक्त्यैव प्रतिमादौ भगवन्तं सर्वोपचारसमर्पणेन नमस्कारादिना सम्यगाराधयेत्यर्थः। तथाचाश्वलायनो नमस्कारस्यैव यज्ञत्वमुदाहरतियो नमसा स्वध्वरः इति यज्ञो वै नम इति हि ब्राह्मणं भवति इति च। एवमुक्तस्य सोपानत्रयारूढस्य फलमाह – मामिति। मामेव तत्पदार्थं सर्वजगत्कारणं सर्वेश्वरं सर्वशक्तिमखण्डैकरसं त्वं एष्यसि प्राप्स्यसि बिम्ब इव प्रतिबिम्बं; घटाकाश इव महाकाशम्। अस्मिन्नर्थे शपथं करोति। ते तव पुरः सत्यं अबाधितार्थभूतं प्रतिजाने प्रतिज्ञां करोमि मामेवैष्यसीति। प्रियोऽसि मे यतस्त्वं मे मम प्रियोऽसि अतः प्रतारणानर्हे त्वयि सत्यमेवाहं ब्रवीमीत्यर्थः।
(सं) शङ्करः धनपतिः ...{Loading}...
।।18.65।। किं तदित्यपेक्षायामाह – मन्मना मयि भवति वासुदेवे मनो यस्य स मच्चित्तो भव सर्वदा मामेव चिन्तय। मद्भक्तो मच्छ्रवणकीर्तनादिमद्भजनो भव। मद्याजी मद्यजनशीलो भव। मां नमस्कुरु नमस्कारमपि मामेव कुरु। तत्रैव वर्तमानो मयि वासुदेव एव समर्पितसाध्यसाधनप्रयोजनो मामेवैष्यसि आगमिष्यसि मदभेदज्ञानं प्राप्यस्यसि। अस्मिन्नर्थे सत्यं ते तव प्रतिजाने सत्यां प्रतिज्ञां करोमि। यतः प्रियोऽसि मे। तथाच मम भगवतः सत्यप्रतिज्ञत्वं बुद्ध्वा मद्भक्तेरवश्भावि मत्प्राप्तिफलत्वमवधार्य मच्छरणैकपरायणो भवेति वाक्यार्थः।
वल्लभ-सम्प्रदायः
(सं) वल्लभः मूलम् ...{Loading}...
।।18.65।। तथाहि – मन्मना इति। हे पार्थ निस्सन्दिग्धतया सर्ववेदान्तवेद्ये स्वाश्रितवात्सल्यजलधौ त्वत्सारथ्यकर्मणि स्थितेमय्येव मन आधत्स्व [12।8] इति पूर्ववाक्यैकार्थतामनुसन्दधानः मन्मना एव; मद्भक्त एव; मद्याजी एवेति त्रिकाण्डार्थभूतमत्परायण एव भव। एवकारोऽप्यत्र प्रत्येकमभिसम्बन्ध्यः; स चान्यभजनादिवारणार्थः पूर्ववदनुषज्जते। एवं सति मामेवैष्यसीत्यहं प्रतिजाने सत्यं यतस्त्वं मे प्रियोऽसि। नहि प्रीतिविषयस्याग्रे वञ्चनमुचितमिति मुख्यभक्तिमार्ग उपदिष्टः पूर्ववत्।
(सं) वल्लभः पुरुषोत्तमः ...{Loading}...
।।18.65।। एवं प्रतिज्ञाय तत्स्वरूपमाह – मन्मना इति। मन्मनाः मय्येव मनो यस्य तादृशो भव; मद्भक्तः मयि स्नेहयुक्तो भव; मद्याजी मत्पूजनशीलो भव; मां नमस्कुरु मयि सर्वाधिक्यज्ञानवान् भवेत्यर्थः। एवम्भूतः सन् सत्यं सत्यरूपं मामेव एष्यसि प्राप्स्यसि; नात्र सन्देहः कर्त्तव्यः यतो मे मम प्रियोऽसि अतस्ते तुभ्यं प्रतिजाने प्रतिज्ञां करोमि।
संस्कृतटीकान्तरम्
(सं) श्रीधर-स्वामी ...{Loading}...
।।18.65।। तदेवाह – मन्मना इति। मन्मना भव; मच्चित्तो भव; ममैव भक्तो भव; मद्याजी मद्यजनशीलो भव; मामेव नमस्कुरु एवं वर्तमानस्त्वं मत्प्रसादाल्लब्धज्ञानेन मामेवैष्यसि प्राप्स्यसि अत्र च संशयं माकार्षीः। त्वं हि मे प्रियोऽसि अतः सत्यं यथाभवत्येवं तुभ्यमहं प्रतिजाने प्रतिज्ञां करोमि।
हिन्दी-टीकाः
(हि) चिन्मयानन्दः ...{Loading}...
।।18.65।। भगवत्प्राप्ति के लिए आवश्यक चार गुणों को बताकर; भगवान् श्रीकृष्ण अर्जुन को आश्वासन देते हैं; तुम मुझे प्राप्त होगे। जब कभी तत्त्वज्ञान के सिद्धांत को संक्षेप में ही कहा जाता है; तब वह इतना सरल प्रतीत होता है कि सामान्य विद्यार्थीगण उसे गम्भीरता से समझने का प्रयत्न नहीं करते अथवा उसकी सर्वथा उपेक्षा कर देते हैं। इस प्रकार की त्रुटि का परिहार करने के लिए भगवान् श्रीकृष्ण पुन विशेष बल देकर कहते हैं; मैं तुम्हें सत्य वचन देता हूँ। बारम्बार उपदेश देने का कारण यह है कि तुम मेरे प्रिय हो। आध्यात्मिक उपदेश देने में प्रेम की भावना ही समीचीन उद्देश्य है। शिष्य के प्रति प्रेम न होने पर; गुरु के उपदेश में न प्रेरणा होती है और न आनन्द। एक व्यावसायिक अध्यापक तो केवल वेतनभोगी होता है। ऐसा अध्यापक न अपने विद्यार्थी वर्ग को न प्रेरणा दे सकता है और न स्वयं अपने हृदय में कृतार्थता का आनन्द अनुभव कर सकता है; जो कि अध्यापन का वास्तविक पुरस्कार है। किंचित परिवर्तन के साथ यह श्लोक इसके पूर्व भी एक अध्याय में आ चुका है। यहाँ भगवान् स्पष्ट घोषणा करते हैं कि वे विशुद्ध सत्य का ही प्रतिपादन कर रहे हैं। मन्मना भव मन का कार्य संकल्प करना है। अत इसका अर्थ है तुम अपने मन के द्वारा मेरी प्राप्ति का ही संकल्प करो। मद्भक्त ईश्वर की प्राप्ति का संकल्प केवल संकल्प की अवस्था में ही नहीं रह जाना चाहिए। इस संकल्प को निश्चयात्मक भक्ति में परिवर्तित करने की आवश्यकता होती है अत तुम मेरे भक्त बनो। मद्याजी भक्ति प्रेमस्वरूप है। और जहाँ प्रेम होता है वहाँ पूजा का होना स्वाभाविक है। ईश्वर जगत् का कारण होने से सम्पूर्ण जगत् में व्याप्त है। इसलिए ईश्वर की पूजा का अर्थ है जगत् की निस्वार्थ भाव से सेवा करना। भगवान् श्रीकृष्ण यही उपदेश देते हुए कहते हैं; तुम मद्याजी अर्थात् मेरे,पूजक बनो। मां नमस्कुरु गर्व और अभिमान से युक्त पुरुष किसी को विनम्र भाव से प्रणाम नहीं कर सकता है। मुझे नमस्कार करो इस उपदेश का अभिप्राय कर्तृत्वादि अहंकार का त्याग करने से है। परमात्मा के गुणों को सम्पादित करने के लिए साधक में नम्रता; श्रद्धा; भक्ति जैसे गुणों का प्रचुरता होनी चाहिए। जल के समान ही ज्ञान का प्रवाह ऊंची सतह से नीची सतह की ओर बढ़ता है। इस श्लोक में वर्णित भक्ति से सम्पन्न कोई भी साधक भगवत्प्राप्ति का अधिकारी बन सकता है। तुम मुझे प्राप्त होगे यह भगवान् श्रीकृष्ण का सत्य आश्वासन है। श्री शंकराचार्य जी कहते हैं; कर्मयोग की साधना का परम रहस्य ईश्वरार्पण बुद्धि है। उस साधना के विषय का उपसंहार करने के पश्चात्; अब कर्मयोग के फलभूत आत्मदर्शन का वर्णन करना शेष है; जो समस्त उपनिषदों का सार है; अत भगवान् कहते हैं
(हि) तेजोमयानन्दः अनुवादः ...{Loading}...
।।18.65।। तुम मच्चित, मद्भक्त और मेरे पूजक (मद्याजी) बनो और मुझे नमस्कार करो; (इस प्रकार) तुम मुझे ही प्राप्त होगे; यह मैं तुम्हे सत्य वचन देता हूँ,(क्योंकि) तुम मेरे प्रिय हो।।
(हि) रामसुखदासः अनुवादः ...{Loading}...
।।18.65।। तू मेरा भक्त हो जा, मेरेमें मनवाला हो जा, मेरा पूजन करनेवाला हो जा और मेरेको नमस्कार कर। ऐसा करनेसे तू मेरेको ही प्राप्त हो जायगा – यह मैं तेरे सामने सत्य प्रतिज्ञा करता हूँ; क्योंकि तू मेरा अत्यन्त प्रिय है।
(हि) रामसुखदासः टीका ...{Loading}...
।।18.65।।व्याख्या – मद्भक्तः – साधकको सबसे पहले मैं भगवान्का हूँ इस प्रकार अपनी अहंता(मैंपन) को बदल देना चाहिये। कारण कि बिना अहंताके बदले साधन सुगमतासे नहीं होता। ,अहंताके बदलनेपर साधन सुगमतासे; स्वाभाविक ही होने लगता है। अतः साधकको सबसे पहले मद्भक्तः होना चाहिये। किसीका शिष्य बननेपर व्यक्ति अपनी अहंताको बदल देता है कि मैं तो गुरु महाराजका ही हूँ। विवाह हो जानेपर कन्या अपनी अहंताको बदल देती है कि मैं तो ससुरालकी ही हूँ ; और पिताके कुलका सम्बन्ध बिलकुल छूट जाता है। ऐसे ही साधकको अपनी अहंता बदल देनी चाहिये कि मैं तो भगवान्का ही हूँ और भगवान् ही मेरे हैं मैं संसारका नहीं हूँ और संसार मेरा नहीं है। [अहंताके बदलनेपर ममता भी अपनेआप बदल जाती है। ]मन्मना भव – उपर्युक्त प्रकारसे अपनेको भगवान्का मान लेनेपर भगवान्में स्वाभाविक ही मन लगने लगता है। कारण कि जो अपना होता है; वह स्वाभाविक ही प्रिय लगता है और जहाँ प्रियता होती है; वहाँ स्वाभाविक ही मन लगता है। अतः भगवान्को अपना माननेसे भगवान् स्वाभाविक ही प्रिय लगते हैं। फिर मनसे स्वाभाविक ही भगवान्के नाम; गुण; प्रभाव; लीला आदिका चिन्तन होता है। भगवान्के नामका जप और स्वरूपका ध्यान बड़ी तत्परतासे और लगनपूर्वक होता है।मद्याजी – अहंता बदल जानेपर अर्थात् अपनेआपको भगवान्का मान लेनेपर संसारका सब काम भगवान्की सेवाके रूपमें बदल जाता है अर्थात् साधक पहले जो संसारका काम करता था; वही काम अब भगवान्का,काम हो जाता है। भगवान्का सम्बन्ध ज्योंज्यों दृढ़ होता जाता है; त्योंहीत्यों उसका सेवाभाव पूजाभावमें परिणत होता जाता है। फिर वह चाहे संसारका काम करे; चाहे घरका काम करे; चाहे शरीरका काम करे; चाहे ऊँचानीचा कोई भी काम करे; उसमें भगवान्की पूजाका ही भाव बना रहता है। उसकी यह दृढ़ धारणा हो जाती है कि भगवान्की पूजाके सिवाय मेरा कुछ भी काम नहीं है।मां नमस्कुरु – भगवान्के चरणोंमें साष्टाङ्ग प्रणाम करके सर्वथा भगवान्के समर्पित हो जाय। मैं प्रभुके चरणोंमें ही पड़ा हुआ हूँ – ऐसा मनमें भाव रखते हुए जो कुछ अनुकूल या प्रतिकूल परिस्थिति सामने आ जाय; उसमें भगवान्का मङ्गलमय विधान मानकर परम प्रसन्न रहे। भगवान्के द्वारा मेरे लिये जो कुछ भी विधान होगा; वह मङ्गलमय ही होगा। पूरी परिस्थिति मेरी समझमें आये या न आये – यह बात दूसरी है; पर भगवान्का विधान तो मेरे लिये कल्याणकारी ही है; इसमें कोई सन्देह नहीं। अतः जो कुछ होता है; वह मेरे कर्मोंका फल नहीं है; प्रत्युत भगवान्के द्वारा कृपा करके केवल मेरे हितके लिये भेजा हुआ विधान है। कारण कि भगवान् प्राणिमात्रके परम सुहृद होनेसे जो कुछ विधान करते हैं; वह जीवोंके कल्याणके लिये ही करते हैं। इसलिये भगवान् अनुकूल या प्रतिकूल परिस्थिति भेजकर प्राणियोंके पुण्यपापोंका नाश करके; उन्हें परम शुद्ध बनाकर अपने चरणोंमें खींच रहे हैं – इस प्रकार दृढ़तासे भाव होना ही भगवान्के चरणोंमें नमस्कार करना है।
मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे – भगवान् कहते हैं कि इस प्रकार मेरा भक्त होनेसे; मेरेमें मनवाला होनेसे; मेरा पूजन करनेवाला होनेसे और मुझे नमस्कार करनेसे तू मेरेको ही प्राप्त होगा अर्थात् मेरेमें ही निवास करेगा (टिप्पणी प₀ 969) – ऐसी मैं सत्य प्रतिज्ञा करता हूँ क्योंकि तू मेरा प्यारा है।प्रियोऽसि मे कहनेका तात्पर्य है कि भगवान्का जीवमात्रपर अत्यधिक स्नेह है। अपना ही अंश होनेसे कोई भी जीव भगवान्को अप्रिय नहीं है। भगवान् जीवोंको चाहे चौरासी लाख योनियोंमें भेंजें; चाहे नरकोंमें भेजें; उनका उद्देश्य जीवोंको पवित्र करनेका ही होता है। जीवोंके प्रति भगवान्का जो यह कृपापूर्ण विधान है; यह भगवान्के प्यारका ही द्योतक है। इसी बातको प्रकट करनेके लिये भगवान् अर्जुनको जीवमात्रका प्रतिनिधि बनाकर प्रियोऽसि मे वचन कहते हैं। जीवमात्र भगवान्को अत्यन्त प्रिय है। केवल जीव ही भगवान्से विमुख होकर प्रतिक्षण वियुक्त होनेवाले संसार(धनसम्पत्ति; कुटुम्बी; शरीर; इन्द्रियाँ; मन; बुद्धि; प्राण आदि) को अपना मानने लगता है; जबकि संसारने कभी जीवको अपना नहीं माना है। जीव ही अपनी तरफसे संसारसे सम्बन्ध जोड़ता है। संसार प्रतिक्षण परिवर्तनशील है और जीव नित्य अपरिवर्तनशील है। जीवसे यही गलती होती है कि वह प्रतिक्षण बदलनेवाले संसारके सम्बन्धको नित्य मान लेता है। यही कारण है कि सम्बन्धीके न रहनेपर भी उससे माना हुआ सम्बन्ध रहता है। यह मान हुआ सम्बन्ध ही अनर्थका हेतु है। इस सम्बन्धको मानने अथवा न माननेमें सभी स्वतन्त्र हैं। अतः इस माने हुए सम्बन्धका त्याग करके; जिनसे हमारा वास्तविक और नित्यसम्बन्ध है; उन भगवान्की शरणमें चले जाना चाहिये।
सम्बन्ध – पीछेके दो श्लोकोंमें अर्जुनको आश्वासन देकर अब भगवान् आगेके श्लोकमें अपने उपदेशकी अत्यन्त गोपनीय सार बात बताते हैं।
आङ्ग्ल-टीकाः
(Eng) शङ्करनारायणः ...{Loading}...
18.65. Be with your mind fixed in Me; be My devotee; offer oblation to Me and render salutation to Me; you shall come to Me alone. Really I promise you, (because) you are dear to Me.
(Eng) गम्भीरानन्दः ...{Loading}...
18.65 Have your mind fixed on Me, be My devotee, be a sacrificer to Me and bow down to Me. (Thus) you will come to Me alone. (This) truth do I pormise to you. (For) you are dear to Me.
(Eng) पुरोहितस्वामी ...{Loading}...
18.65 Dedicate thyself to Me, worship Me, sacrifice all for Me, prostrate thyself before Me, and to Me thou shalt surely come. Truly do I pledge thee; thou art My own beloved.
(Eng) आदिदेवनन्दः ...{Loading}...
18.65 Focus your mind on Me. Be My devotee. Be My worshipper. Prostrate before Me. You shall come to Me alone. I promise you, trully; for you are dear to Me.
(Eng) शिवानन्दः अनुवादः ...{Loading}...
18.65 Fix thy mind on Me, by devoted to Me, sacrifice to Me, bow down to Me. Thou shalt come even to Me; truly do I promise unto thee, (for) thou art dear to Me.
(Eng) शिवानन्दः टीका ...{Loading}...
18.65 मन्मनाः with mind fixed on Me; भव be; मद्भक्तः devoted to Me; मद्याजी sacrifice to Me; माम् to Me; नमस्कुरु bow down; माम् to Me; एव even; एष्यसि (thou) shalt come; सत्यम् truth; ते to thee; प्रतिजाने (I) promise; प्रियः dear; असि (thou) art; मे of Me.Commentary Develop onepointedness of mind. Fix thy thought on Me. If the mind wanders bring it again and again to the centre or point or object of meditation; through constant practice. Offer all thy actions to Me. Let thy tongue utter My name. Let thy hands work for Me. Let thy feet move for Me. Let all thy actions be for Me. Give up hatred towards any living creature. Bow down to Me. Then thou wilt attain Me.The Lord gives Arjuna His definite word of promise or solemn declaration. Having received My grace thou wilt gain complete knowledge of Me and that in itself will indeed lead to thy absorption into My Being.O Arjuna; looking up to Me alone as thy aim and the sole refuge; thou shalt assuredly come to,Me.Have faith in the words of the Lord and make a solemn promise. Take the Lord as your sole refuge. You will attain final emancipation.The secret of devotion is to take the Lord as your sole refuge. In the next verse the Lord proceeds to speak of the gist of selfsurrender. (Cf.IX.34XII.8)