विश्वास-प्रस्तुतिः …{Loading}…
ईश्वरः सर्व-भूतानां
हृद्-देशेऽर्जुन तिष्ठति।
भ्रामयन् सर्वभूतानि
यन्त्रारूढानि मायया॥18.61॥
मूलम् …{Loading}…
ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति।
भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया॥18.61॥
रामानुजः …{Loading}…
रामानुजः - मूलम्
॥18.61॥ईश्वरः सर्वनियमनशीलो वासुदेवः
सर्वभूतानां हृद्देशे सकल-प्रवृत्ति-निवृत्ति-मूल-ज्ञानोदये देशे तिष्ठति।
कथं किं कुर्वन् तिष्ठति?
यन्त्रारूढानि सर्वभूतानि मायया भ्रामयन्
स्वेन एव निर्मितं देहेन्द्रियावस्थप्रकृत्याख्यं यन्त्रम् आरूढानि सर्वभूतानि
स्वकीयया सत्त्वादिगुणमय्या मायया
गुणानुगुणं प्रवर्तयन् तिष्ठति
इत्यर्थः।
पूर्वम् अप्य् एतद् उक्तम् -
सर्वस्य चाहं हृदि सन्निविष्टो
मत्तः स्मृतिर् ज्ञानम् अपोहनं च
(गीता 15।15)
इति
मत्तः सर्वं प्रवर्तते (गीता 10।8)
इति च।
श्रुतिश्च – य आत्मनि तिष्ठन् (शत॰ ब्रा॰ 1।13।1) इत्यादिका। एतन्मायानिवृत्तिहेतुम् आह –
वेदान्तदेशिकः
॥18.61॥ उक्तार्थस्थापनाय त्वय्युदासीने कथमहं प्रवर्तेय तथात्वे वा कथं तव सर्वहेतुत्वम् इति चोद्यम्ईश्वरः इति श्लोकेन परिह्रियत इत्याह – सर्वं हीति। उक्तं स्वभावपारतन्त्र्यमपि मत्प्रयुक्तम् मम च साधारणकारणत्वान्न कश्चिद्विरोध इति भावः। ईश्वरशब्दस्यात्रेन्द्रादिशब्दवत् अर्वाचीनेश्वरविषयरूढिशङ्कापरिहाराय यौगिकमर्थमन्वर्थसमाख्यया स्थापयतिसर्वनियमनशीलो वासुदेव इति। सापेक्षनिरपेक्षयोर्निरपेक्षसम्प्रत्ययः इति न्यायादीश्वरत्वस्य सर्वविषयत्वं सिद्धम्। तस्य च व्याप्तिमूलत्वं वासुदेवशब्देन दर्शितम्। वक्तृविषयत्वज्ञापनाय वासुदेवशब्दः। सर्वेश्वरेणमया इति ह्यधस्ताद्दर्शितम्। सर्वव्याप्तस्य हृद्देशे विशेषस्थितिवचनं किमर्थम् इत्यत आह – सकलप्रवृत्तिनिवृत्तिमूलज्ञानोदयप्रदेश इति। एतेन हृदयस्थितेःभ्रामयन् इत्यत्रोपयोगो दर्शितः। ,कथमित्युपकरणाभिप्रायम्मायया इति हि तदुत्तरम्। किं कुर्वन्निति – ईश्वरशब्देन नियन्तृतैकनिरूपणीयतया प्रतिपन्नोऽसौ कीदृशं नियमनं कुर्वन्नित्यर्थः। यन्त्र इत्यादिभ्रामयन् इत्यन्तमेकं वाक्यं प्रश्नवाक्यादाकृष्टेन तिष्ठतिनाऽन्वेतव्यम्। प्रागुक्तसर्वपरामर्शेन यन्त्रमायादिशब्दानामर्थं विवृणोति – स्वेनैव निर्मितमित्यादिना। भूतशब्देन; हृत्प्रदेशनिर्देशेन; पुरुषप्रवृत्तिविशेषानुगुण्यात्; अर्थस्वभावेन च यन्त्रशब्दोऽत्र देहेन्द्रियसङ्घातविशेषविषयः। महतः परमव्यक्तशब्देन निर्दिष्टम्; तत्रैव च शरीरं रथमेव च [कठो.3।3] इति रथाख्ययन्त्रत्वेन रूपितमिति ज्ञापनाय – देहेन्द्रियावस्थं प्रकृत्याख्यमित्युक्तम्। तथा च श्रूयते – सर्वाजीवे सर्वसंस्थे भ्रमन्ते (बृहन्ते) तस्मिन् हंसो भ्राम्यते ब्रह्मचक्रे। पृथगात्मानं प्रेरितारं च मत्वा जुष्टस्ततस्तेनामृतत्वमेति [श्वे.उ.1।6ना.प.9।5] इति। एतेनयन्त्रारूढानीव(शां.)इतीवशब्दलोपेन व्याकुर्वन्तो निरस्ताः। स्वकीयेति – आदौगुणमयी मम माया [7।14] इति ह्युक्तम्। श्रुतिश्च अस्मान्मायी सृजते विश्वमेतत्तस्मिंश्चान्यो मायया सन्निरुद्धः [श्वेता.4।9] मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् [श्वेता.4।10] इति। जीवस्य कर्तृत्वादिभङ्गपरिहारायगुणानुगुणमित्युक्तम्। नहि जीवमीश्वरो भूतावेशन्यायेन प्रवर्तयति; अपितु सत्त्वादिगुणमयान् भावान् पुरस्कृत्य पूर्वसिद्धवासनाविशेषजनितसङ्गद्वारेणेति न विरोधः। भ्रामयन्; भ्रमयन्नित्यर्थः। तत्र प्रवृत्तिहेतुतया मोहनमन्तर्नीतं; न तु शाब्दमित्याह – प्रवर्तयन्निति। अत्र शब्देन परोक्षव्यपदेशेनापि वक्ता वासुदेवो निर्दिष्ट इतीममर्थं प्रागुक्तेन द्रढयितुमाह – पूर्वमपीति। य आत्मनि तिष्ठन् [श.ब्रा.14।5।30] इत्यादिनिर्दिष्टोऽन्तर्यामी सौबालिक्यामुपनिषदि नारायण इति विशेषितः स एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः [सुबालो.7] इति।
आदिदेवानन्दः
18.61 Lord Vasudeva, who is the ruler over all, lives in ’the heart of all beings,’ i.e., in the region from which arises all knowledge which is at the root of all secular and spiritual activities. How and doing what does He exist; He exists enabling, by His Maya (power), ‘all beings who are mounted, as it were, on the machine Prakrti’ in the form of body and senses created by Himself, to act in accordance with their Gunas of Sattva and others. It was already expressed in ‘And I am seated in the hearts of all. From Me are memory, knowledge and their removal also’ (15.15) and in ‘From Me proceed everything’ (10.8). The Srutis also proclaim ‘He who, dwelling in the self’ (Br. U. Madh., 3.7.22). He now explains the way to get rid of the Maya:
शङ्करः …{Loading}…
शङ्करः - मूलम्
॥18.61॥ – ईश्वरः ईशनशीलः नारायणः सर्वभूतानां सर्वप्राणिनां हृद्देशे हृदयदेशे अर्जुन शुक्लान्तरात्मस्वभावः विशुद्धान्तःकरणः – अहश्च कृष्णमहरर्जुनं च (ऋ. सं. 6।9।1) इति दर्शनात् – तिष्ठति स्थितिं लभते। तेषु सः कथं तिष्ठतीति; आह – भ्रामयन् भ्रमणं कारयन् सर्वभूतानि यन्त्रारूढानि यन्त्राणि आरूढानि अधिष्ठितानि इव – इति इवशब्दः अत्र द्रष्टव्यः – यथा दारुकृतपुरुषादीनि यन्त्रारूढानि। मायया च्छद्मना भ्रामयन् तिष्ठति इति संबन्धः॥
गम्भीरानन्दः
18.61 Arjuna, O Arjuna-one whose self is naturally white (pure), i.e. one possessing a pure internal organ. This follows from the Vedic text, ‘The day is dark and the day is arjuna (white) (Rg. 6.9.1). Isvarah, the Lord , Narayana the Ruler; tisthati, resides, remains seated; hrd-dese, in the region of the heart; sarva-bhutanam, of all creatures, of all living beings. How does He reside; In answer the Lord says: bhramayan, revolving; mayaya, through Maya, through delusion; sarva-bhutani, all the creatures; as though yantra-arudhani, mounted on a machine-like man’ etc., made of wood, mounted on a machine. The word iva (as though) has to be thus understood here. Bhramayan, revolving, is to be connected with tisthati, resides (conveying the idea, ‘resides৷৷.while revolving’).
हरिकृष्णदासः
॥18.61॥ क्योंकि –, हे अर्जुन ईश्वर अर्थात् सबका शासन करनेवाला नारायण समस्त प्राणियोंके हृदयदेशमें स्थित है। जो शुक्ल स्वच्छशुद्ध अन्तरात्मास्वभाववाला हो अर्थात् पवित्र अन्तःकरणयुक्त हो उसका नाम अर्जुन है क्योंकि,अहश्च कृष्णमहरर्जुनं च इस कथनमें अर्जुनशब्द शुद्धताका वाचक देखा गया है। वह ( ईश्वर ) कैसे स्थित है सो कहते हैं – समस्त प्राणियोंको; यन्त्रपर आरूढ़ हुईचढ़ी हुई कठपुतलियोंकी भाँति; भ्रमाता हुआ – भ्रमण कराता हुआ स्थित है। यहाँ इव ( भाँति ) शब्द अधिक समझना चाहिये; अर्थात् जैसे यन्त्रपर आरूढ़ कठपुतली आदिको ( खिलाड़ी ) मायासे भ्रमाता हुआ स्थित रहता है; उसी तरह ईश्वर सबके हृदयमें स्थित है; इस प्रकार इसका सम्बन्ध है।
आनन्दगिरिः
॥18.61॥ इतोऽपि त्वया युद्धं कर्तव्यमेवेत्याह – यस्मादिति। अर्जुनशब्दस्योक्तार्थत्वे श्रुतिमुदाहरति – **अहश्चेति।**अहश्च कृष्णमहरर्जुनं च विवर्तेते रजसी वेद्याभिः इत्यत्र किंचिदहस्तावत्कृष्णमस्वच्छं कलुषितमिव लक्ष्यते किंचित्पुनरहरर्जुनमतिस्वच्छं शुद्धस्वभावमुपलभ्यते। एवमर्जुनशब्दस्य शुक्लशब्दपर्यायतया प्रयोगदर्शनादुक्तार्थत्वमुचितमित्यर्थः। यन्त्रारूढानीवेति कथमुच्यते तत्राह – इवशब्द इति। तदेव प्रपञ्चयति – यथेति। दारुमयानि यन्त्राणि यथा लौकिको मायावी मायया भ्रामयन्वर्तते तथेश्वरोऽपि सर्वाणि भूतानि भ्रामयन्नेव हृदये तिष्ठतीत्यर्थः।
नीलकण्ठः
॥18.61॥ कोऽसौ परो यद्वशेऽहमस्मीत्यत आह – ईश्वर इति। ईश्वर ईशनशीलोऽन्तर्यामी पृथिव्यादीनामस्माकं च सर्वभूतानां सर्वप्राणिनां हृद्देशे बुद्धिगुहायां सर्वप्राणिप्रवर्तकस्तिष्ठति। कीदृशः। सर्वभूतानि भ्रामयन्नूर्ध्वाधोमार्गेषु संचारयन् काष्ठपुत्तिका इव सूत्रधारः यन्त्रारूढानि यन्त्रमिव यन्त्रं उत्क्रमणादिसाधनं सर्वप्राणाद्यात्मकं लिङ्गं तदारूढानि मायया स्वशक्त्या भ्रामयन्निति संबन्धः। हे अर्जुन शुक्ल विशुद्धान्तःकरण; सेश्वरोऽसीति भावः। अत्राहंकारपूर्वकं यः कर्म करोति यश्च ईश्वरपरवशोऽहंकरोमीति बुद्ध्या करोति तयोरत्यन्तवैलक्षण्यप्रदर्शनार्थो मन्त्रो भाष्ये उदाहृतःअहश्च कृष्णमहरर्जुनं च विवर्तेते रजसी वेद्याभिः इति भारद्वाजार्षंअहश्च कृष्णमहरर्जुनं चइत्याग्निमारुतस्य प्रतिपत् इति ब्राह्मणेन आग्निमारुते शस्त्रे विनियुक्ता प्रथमेयमृक्। यस्मिन् दिवसे सोमः सूयते यागार्थं तदेव जन्मसाफल्यदिनं मुख्यमहःशब्दवाच्यम्। अन्यत्तु दिनमदिनमेव निष्फलत्वात्। तथा च स्मृतिःदशभिर्जन्मभिर्वेदा आधानं शतजन्मभिः। सहस्रैर्जन्मभिः सोमं ब्राह्मण्यं पातुमर्हति इति सोमयागस्य दौर्लभ्यं दर्शयति। तदयमहःशब्दः कालवचनोऽपि सौम्ये कर्मणि वर्तते। यथा दर्शपौर्णमासशब्दौ। तत्रैवं सति अहः यागः कृष्णं अविदुषा कृतं अप्रकाशमिव भवति। तथाऽहरर्जुनं स्वच्छं तदेव विदुषा कृतं प्रकाशरूपमिव भवति। ते एते उभे अपि विद्वदविद्वत्कृते अहनी रजसी प्रवृत्तिरूपत्वात् रजोगुणकार्ये अपि वेद्याभिर्विद्याभिः कर्माङ्गावबद्धोपासनारूपा वा परमेश्वरे सर्वकर्मार्पणरूपा वा अहंकरोमीत्यभिमानरूपा वा विद्या विज्ञानानि ताभिर्विवर्तेते वैपरीत्येन वर्तेते। सोपासनं कर्म श्वेतं परमात्मतत्त्वप्रकाशकं बन्धविच्छेदहेतुः; मूढकृतं कर्म कृष्णं स्वरूपावरकं बन्धहेतुरित्यर्थः। तदेवं भगवान् पार्थं अर्जुनेति संबोधयन् एतस्य स्वच्छान्तःकरणत्वद्योतनेन शुक्ले धर्मेऽधिकारं दर्शयति।
धनपतिः
॥18.61॥ स्वभावपारातन्त्र्यमुक्त्वेदानीमन्तर्यामिपारतन्त्र्यमाह। ईश्वर ईशनशीलः नारायणः सर्वभूतानां सर्वप्राणिनां हृद्देशे तिष्ठति सर्वत्र स्थितोऽपि हृदयेऽभिवक्ततया तिष्ठति। अहश्च कृष्णमहरर्जुनं च इति श्रुतौ अर्जुनशब्दस्य शुक्लशब्दापर्यायताय प्रयोगदर्शनात् शुक्लान्तरात्मस्वभावो विशुद्धन्तःकरणोऽर्जुनस्तं संबोधयन्नर्जुनस्य तवाविवेकेन निबन्धनं स्वस्वातन्त्र्याध्यारोफणं नोचतम्; किंतु ईश्वरप्रेरितः सर्वं करोमीति परिज्ञानमिति सूचयति। किं कुर्वन् तिष्ठतीत्याकाङ्क्षायामाह – भ्रामयन् भ्रमणं कारयन् सर्वभूतानि यन्त्रारुढानि यन्त्राण्यारुढान्यधिष्ठितानीव यथा मायावी दारुकृतपुरुषादीनि यन्त्रारुढानि मायया छद्मना भ्रामयंस्तिष्ठति तद्वदीश्वरो यन्त्रसदृश शरीरारुढानि भूतानीत्यर्थः।
मधुसूदन-सरस्वती
॥18.61॥ स्वभावाधीनतामुक्त्वेश्वराधीनतां विवृणोति – ईश्वर इति। ईश्वर ईशनशीलो नारायणः सर्वान्तर्यामीयः पृथिव्यां तिष्ठन्पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयति। यच्च किंचिज्जगत्सर्वं दृश्यते श्रूयतेऽपि वा। अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः इत्यादिश्रुतिसिद्धः सर्वभूतानां सर्वेषां प्राणिनां हृद्देशेऽन्तःकरणे तिष्ठति सर्वव्यापकोऽपि तत्राभिव्यज्यते सप्तद्वीपाधिपतिरिव राम उत्तरकोसलेषु। हेऽर्जुन हे शुक्ल शुद्धान्तःकरण; एतादृशमीश्वरं त्वं ज्ञातुं योग्योसीति द्योत्यते। किं कुर्वंस्तिष्ठति भ्रामयन्नितस्ततश्चालयन् सर्वभूतानि परतन्त्राणि मायया छद्मना यन्त्रारूढानीव सूत्रसंचारादियन्त्रमारूढानि दारुनिर्मितपुरुषादीन्यत्यन्तपरतन्त्राणि यथा मायावी भ्रामयति तद्वदित्यर्थशेषः।
रामरायः - ६१
ईश्वर इति। न केवलं प्रकृतिरेव त्वां नियोक्ष्यति, किन्त्वीश्वरोऽपीत्याह—ईश्वर इति। यद्वा ‘अवशः’ इत्यनेन न केवलं प्रकृतिपरवशत्वं तवोच्यते, किन्त्वीश्वरपरवशत्वमपीत्याह—ईश्वर इति। अथवा कुतो मां स्वतन्त्रमीश्वरं प्रकृतिर्नियोक्ष्यतीत्यत आह— ईश्वर इति। हे अर्जुन, यन्त्रारूढानि माययेव सर्वभूतानि भ्रामयन् सन्नीश्वरः सर्वभूतानां हृद्देशे तिष्ठति। अर्जुनशब्दार्थमाह—शुक्लेति। शुक्लः परिशुद्धोऽन्तरात्मस्वभावो यस्य स शुक्लान्तरात्मस्वभावः। अस्यैवार्थमाह—विशुद्धान्तःकरण इति। नन्वर्जुनशब्दः श्वेतवाची- त्यत आह—अहश्चेति। कृष्णमपरिशुद्धं मेघाच्छादनादिनेति भावः। अर्जुनं परिशुद्धं मेघाभावादिनेति भावः। मेघच्छन्नेऽह्नि दुर्दिनशब्द- व्यवहारात्। न ह्यह्नि शुक्लकृष्णरूपयोगः। तस्मादर्जुनशब्दः परिशुद्धवाची। इदं च सम्बोधनं वेदान्तशास्त्रोपदेशार्हत्वसूचनाय, परिशुद्धान्तःकरणस्य तव मदुक्तार्थग्रहणमुचितमिति सूचनाय वा; परिशुद्धान्तःकरणस्य तवोच्छास्त्रप्रवृत्तिरयुक्तेति सूचनाय वा; परिशुद्धान्तःकरणस्त्वं समाहितेन मनसा हृद्देशस्थमीश्वरं साक्षात्कर्तुं क्षमसे इति सूचनाय वा।
कानि तानि यन्त्रारूढानीत्यत आह—दारुकृतपुरुषादीनि यन्त्राणीति। दारुकृतानि पुरुषादीन्येव यन्त्राणि यन्त्रारूढानीत्युच्यन्त इत्यर्थः। अवयवावयविभावेन यन्त्रे पुरुषादिपुत्रिकाणां सत्त्वाद् यन्त्रावयवानां पुत्रिकाणां यन्त्रत्वं यन्त्रारूढत्वं चेति भावः। यद्वा कानि तानि यन्त्राणीत्यत आह—दारुकृतेति। तदारूढानि तु मनुष्यसत्त्वानि। पुरुषाश्वगवादिरूपासु यन्त्रस्थासु पुत्रिकासु बालानारोप्य केनचित् कपटेन भ्रामयति हि पुरुषः। अथवा आरूढानि स्वेनाधिष्ठितानि च तानि यन्त्राणि यन्त्रारूढानि; आहिताग्न्यादित्वान्निष्ठान्तस्य परनिपातः। कानि तानीत्यत आह—दारुकृतेति। पुरुषाकारामश्वाकारां वृषभाकारां वा काञ्चित् पुत्रिकां दारुमयीं निर्माय यन्त्रभूतां तां स्वयमधिष्ठाय केनचिन्मिषेण तद् यन्त्रं भ्रामयति कुशलः। ‘दारुकृतपुरुषादीनि यन्त्रारूढानी’ति भाष्यपाठस्तु नागरपुस्तकेषु दृश्यते। तद्वदीश्वरो ब्रह्मादिस्तम्बपर्यन्तं सचेतनं कार्यकरणसंघातात्मकं चराचरभूतजातं निर्माय तस्य हृद्देशे स्थितःसन् तद् यथास्वभावं तत्रतत्र प्रवर्तयतीत्यर्थः।
नन्वपरिच्छिन्नस्य महतो महीयसः परिपूर्णस्य परमेश्वरस्य कथं भूतहृद्देशे स्थितिः? परिमितो हि हृत्पुण्डरीकप्रदेश इति चेत्? नैष दोषः; ‘हृत्पुण्डरीके विमले प्रविष्टः शास्ता जनाना’मिति, ‘अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठती’ति च श्रुतेः। मायया रामकृष्णादिसप्तवितस्तिपरिमितकायवदङ्गुष्ठपरिमितकायोऽपि भवेदीश्वरस्य; तेन च रूपेण हृत्पुण्डरीकस्थितिरुपपद्यत इति।
ननु यदि तु पुण्डरीके अङ्गुष्ठमात्रपरिमित ईश्वरः साकारोऽस्ति, तर्हि स दृश्येतैवेति चेत्? नैष दोषः; चक्षुषो बहिःकरणस्या- न्तःस्थवस्तुस्वरूपग्रहणासामर्थ्यात्। किं घटादिरिवान्तःस्थमांसादिकं चक्षुषा गृह्यते? नन्वेवं मृतभूतशरीरे ईश्वरः सोऽस्ति वा न वा? आद्ये, प्रकृतशरीरदाहेन सप्राणस्यापीश्वरस्य दाहः; तेन चेश्वरस्य महत् कष्टम्। द्वितीये, कस्माद्धेतोर्नास्ति? न च बहिर्निर्गमनादिति वाच्यम् ; बहिर्निर्गतस्य तस्य कुतोऽचाक्षुषत्वम्? किं मृतशरीराद् बहिर्निर्गतोऽङ्गुष्ठमात्रपुरुषः केनापि दृश्यते पार्श्वस्थेन? न च प्राकृत- चक्षुरगोचर इति वाच्यम् ; सन्निपातदोषेण दन्तपङ्क्तिद्वयसङ्घट्टने सति वक्त्रमार्गाभावात् केन मार्गेण स पुरुषो निर्गतः स्यात्? न हि नेत्रादिमार्गा अङ्गुष्ठपरिमिताः। न च गुदद्वारेण निर्गत इति कल्पयितुं शक् यम् , अश्लीलत्वात्। किञ्च दर्पणमयनीरन्ध्रकरण्डे निक्षिप्ताद् म्रियमाणाद् मनुष्यान्निर्गतस्य परमेश्वरस्य तस्य कथं दर्पणाद् बहिर्गमनम् , रन्ध्राभावात्।
अपि च अतिसूक्ष्मेषु कीटादिशरीरेषु हृद्देशस्यात्यल्पत्वात् कथं तत्र तादृशेश्वरस्थितिः? तस्मादिह हृद्देशे स्थितः पुरुषो नाङ्गुष्ठमात्र इति वक्तुं शक् यते। न च श्रुतेः का गतिरिति वाच्यम् ; मनुष्यहृद्देशस्याङ्गुष्ठपरिमितत्वात् तत्स्थस्येश्वरस्यापि तत्परिमितत्वं कल्प्यत एवोपासनार्थम् , न तु तात्त्विकमिति।
[[९४५]]
नन्वेवञ्चेत् मायावच्छिन्नचैतन्यलक्षणः सत्त्वादिगुणभेदेन विष्णुब्रह्मरुद्ररूपश्चेश्वरो भूतहृद्देशे तिष्ठतीति ब्रूमः। इदं च न युक्तम्। किं हृद्देशे विष्ण्वादिमूर्तित्रयमस्ति, उत तत्रैका मूर्तिः? उभयथाऽपि शङ्खचक्रकमण्डलुत्रिशूलादिधराणां गरुडहंसवृषभध्वजानां लक्ष्मीसरस्वतीपार्वतीसहितानां महतां तेषां त्रयाणां देवोत्तमानां स्वल्पे हृत्पुण्डरीके स्थितिर्न घटते। नापि त्रयाणां तेषाम् अनेककोटि- भूतजातहृदयस्थितिरुपपद्यते। अनेककोटिविष्ण्वादिमूर्तयः सन्तीति कल्पनं चायुक्तम् , अप्रमाणत्वात्। नापि विशस्यमानपश्वादि- हृत्पुण्डरीके काऽपि मूर्तिरुपलभ्यते। तस्मात् सत्त्वगुणावच्छिन्नं चैतन्यं विष्णुरिति, रजोगुणावच्छिन्नं ब्रह्मेति, तमोगुणावच्छिन्नं रुद्र इति च नामभिरुच्यते। न तु चैतन्यस्य कोऽप्याकारः। अत एव विष्ण्वादिशरीरा अस्मदादिशरीरवद् देवादिशरीरवच्च दृश्यत्वा- ज्जडत्वात्परिच्छिन्नत्वाच्च नैवेश्वरभूताः; किं तर्हि? मायावच्छिन्नं चैतन्यमेवापरिच्छिन्नत्वादीश्वर इति।
नन्वेवमपि मायावच्छिन्नचैतन्यलक्षणेश्वरस्य परिपूर्णस्यापरिच्छिन्नस्य कथं हृद्देशे स्थितिरिति चेत् , मायापरिणामत्वात् सर्वस्य घटाकारपरिणतमृदि गन्ध इव हृदाकारपरिणतमायायामीश्वरोऽस्तीति। एतदपि न युक्तम् , हृद्देशे तिष्ठतीति विशेषवादस्या- युक्तत्वात्। सर्वभूतानां करचरणनखलोमादिष्वपि मायापरिणामेषु दर्शितविधया सत्त्वादीश्वरस्य। किञ्चानया विधयाऽन्तःकरणस्यापि मायापरिणामत्वेन तत्रापीश्वरचैतन्यस्यैव सत्त्वाद् , अन्तःकरणावच्छिन्नचैतन्यं जीव इति वेदान्तसिद्धान्तविरोधाच्च। तस्मादीश्वरः सर्वभूतानां हृद्देशे तिष्ठतीत्येतदनुपपन्नमेवेति पूर्वपक्षः।
अत्रोच्यते— ‘सत्यं ज्ञानमनन्तं ब्रह्मे’त्युक्तसत्यज्ञानानन्दलक्षणः परिपूर्णः सर्वव्यापी परमात्मा नारायणः परमेश्वरः सर्वभूतानां हृद्देशे प्रत्यग्रूपेण तिष्ठतीति। अन्तःकरणावच्छिन्नं चैतन्यं प्रत्यगित्युच्यते। यद्यपि परिपूर्णं चैतन्यं निरुपाधिकं सर्वत्रास्ति, तथापि तदेव चैतन्यमन्तःकरणावच्छिन्नं सद् भूतानां हृदि तिष्ठतीति न कोऽपि दोषः। न च सर्वान्तरस्य प्रत्यक् चैतन्यस्यापि सर्व- शरीरावयवव्यापित्वेन कथं हृद्देशे स्थितिरिति वाच्यम् ; अन्तःकरणस्य हृत्पुण्डरीके स्थितत्वात् तदवच्छिन्नचैतन्यस्य तत्रैवोपलभ्यमानत्वाद् हृद्देशे स्थितिरुक्तेति। यद्वा मायोपाधिको महेश्वर एव हृद्देशे प्रत्यग्रूपेण तिष्ठति। न च मायोपाधिकस्य कथ- मन्तःकरणोपाधिकत्वमिति वाच्यम् ; वस्त्रावृतायाः क्षुरिकायाः पेटिकावृतत्ववत् तदुपपत्तेः। अविद्यावच्छिन्नमेव चैतन्यं पुनरन्तःकर- णावच्छिन्नमपि भवतीति वेदान्तशास्त्रे दृश्यते हि। अन्तःकरणावच्छिन्नस्यापि प्रतीचो जीवस्येन्द्रियावच्छिन्नत्वं देहावच्छिन्नत्वं च दृश्यते हि , ‘पश्याम्यहम्’ ‘मनुष्योऽह’मित्यादिव्यवहारात्। न चेश्वरस्यैव कथं जीवत्वमिति वाच्यम् ; निर्विशेषस्य ब्रह्मणो यथेश्वरत्वं तथैवेश्वरस्यापि जीवत्वमिति शास्त्रैकप्रमाणा वयमभ्युपगच्छामः। तथाहि शास्त्रम् – ‘तत्सृष्ट्वा तदेवानुप्राविशत्’ , ‘अनेन जीवेनात्मना- नुप्रविश्य’ इत्यादिश्रुतिः; ‘ममैवांशो जीवलोके जीवभूतः सनातनः’, ‘क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत’, ‘ईश्वरो जीवकलया प्रविष्टो भगवानि’त्येवमादिस्मृतयः; ‘भगवानेक एवैष सर्वक्षेत्रेष्ववस्थितः’ इति पुराणम्। न च शास्त्रादपि कथमीश्वरस्यानीश्वर- जीवत्वमिति वाच्यम् ; रज्जोरपि सर्पत्वमिव स्थाणोरपि चोरत्वमिव गगनस्यापि नैल्यमिव सशिरसोऽपि स्वप्ने भिन्नशिरस्कत्वमिव स्थिरस्यापि जलसूर्यकस्य चलनमिवाविद्यावशादीश्वरस्यापि जीवस्यानीश्वरत्वसम्भवात्। न ह्यनुभवसिद्धं जीवगतमनीश्वरत्वं शास्त्र- सिद्धमीश्वरत्वं वा प्रत्याख्यातुं शक् यते केनाप्यास्तिकेन। न चैवं जीवे ईश्वरत्वानीश्वरत्वयोरनन्यतरस्य निश्चेतुमशक् यत्वेनोभयासिद्धिरिति वाच्यम् ; शास्त्राद् विद्वदनुभवात् सुषुप्त्यादिदृष्टान्ताच्च जीवे ईश्वरत्वस्य, लोकादविद्वदनुभवाज्जागराच्च तस्मिन्ननीश्वरत्वस्य च निश्चेतुं शक् यत्वात्। एकस्यापि नटस्य दशाभेदात् स्त्रीपुरुषाकारद्वयपरिग्रहवद् एकस्यापि जीवस्य विद्याऽविद्यादशाभेदेनेश्वरत्वानीश्वरत्व- सम्भवाच्च। तस्मादुपपन्नं जीवेश्वराद्वैतं तत्त्वमस्यादिमहावाक् योपदिष्टम्।
तथाहि—तदित्यस्येश्वरोऽर्थः; त्वमित्यस्य जीवोऽर्थः; असीत्यस्य तयोरैक् यमर्थः। मायावच्छिन्नचैतन्यलक्षणेश्वरस्यैव पुन- रन्तःकरणावच्छिन्नत्वाज्जीवेश्वराभेदः। तथा अविद्यादशायां यः संसारी जीवः स एव विद्यावस्थायामसंसारीश्वर इति जीवेश्वराभेदः। महाकाशस्य घटाकाश इव जीव ईश्वरस्यांश इति कृत्वा अंशांशिनोर्जीवेश्वरयोर्घटाकाशमहाकाशयोरिवाभेदः। बिम्बभूतं मुखं प्रति- बिम्बरूपेण यथा दर्पणे तिष्ठति, तथा बिम्बभूत ईश्वरः प्रतिबिम्बजीवरूपेणान्तःकरणे तिष्ठति; तच्चान्तःकरणं हृद्देशे तिष्ठतीतीश्वरस्यैव जीवरूपेण भूतहृद्देशे स्थितत्वाद् बिम्बप्रतिबिम्बयोर्मुखप्रतिमुखयोरिव जीवेश्वरयोरभेदः। बाह्यचैतन्यमीश्वरः, आन्तरचैतन्यं जीवः। तथा च बाह्याकाशदहराकाशयोरिव जीवेश्वरयोरभेदः। सोपाधिकचैतन्यं जीवः, निरुपाधिकचैतन्यमीश्वरः। तथा च घटाकाशमहा- काशयोरिव जीवेश्वरयोरभेदः। यथा भोग्यो बाह्यो वायुर्भोक्तृप्राणरूपेणान्तस्तिष्ठति, तथा ज्ञेयं बाह्यं ब्रह्म ज्ञातृजीवरूपेण हृद्देशे तिष्ठतीति वायुप्राणयोरिव जीवेश्वरयोरभेदः। न च वायोः प्राणभोग्यत्वं कथमिति वाच्यम् ; सर्पाणामृषीणां च वाताहारत्वात् प्राणस्यैवाहारभोक्तृ- त्वाच्चेति। लक्षणापक्षे त्वन्तःकरणावच्छिन्नत्वमायावच्छिन्नत्वबिम्बत्वप्रतिबिम्बत्वज्ञातृत्वज्ञेयत्वसर्वज्ञत्वकिञ्चिज्ज्ञत्वेश्वरत्वानीश्वरत्व- संसारित्वासंसारित्वसोपाधिकत्वनिरुपाधिकत्वादिविशेषणांशत्यागेन शुद्धचैतन्यमेकमेवाद्वितीयं ब्रह्म तत्त्वमसीति वाक् येन लक्ष्यत इति बोध्यम्।
[[९४६]]
ननु यद्येवमीश्वरो जीवरूपेण भूतानां हृदि तिष्ठेत् तर्हि नियाम्यनियामकभावासिद्धिर्जीवेश्वरद्वयाभावादिति चेत् , मैवम् ; नेश्वरेण जीवो नियम्यते , ईश्वरस्यैव जीवत्वात्। किन्तु जीवरूपेणेश्वरेण कार्यकरणसंघातो नियम्यते। जीवेऽस्मिन् देहे सत्येव संघा- तस्य प्रवृत्तिः, अस्माद् देहादुत्क्रान्ते त्वप्रवृत्तिरिति दर्शनात्। लौकिकास्तार्किकादयश्च जीवस्वरूपमविदित्वा, कार्यकरणसंघातं चरा- चरात्मकं ब्रह्मादिस्तम्बपर्यन्तं दृश्यमेव सचेतनं सर्वं जीवत्वेन प्रतिपद्य, जीवा ईश्वरेण नियम्यन्त इत्याहुः। एतत्कार्यकरणसंघातेऽहम- भिमानादेव वयं केनापि नियमिता इवावशाः प्रवर्तामह इति मन्यन्ते – ‘केनापि देवेन हृदि स्थितेन यथा नियुक्तोऽस्मि तथा करोमी’ति स्मरणात्। जन्ममरणसुखदुःखादिलक्षणं संसारं चानुभवन्ति।
वस्तुतस्तु न जीवस्याविक्रियस्य काऽपि प्रवृत्तिः सम्भाव्यते, ‘अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते’ इति ह्युक्तम्। एवं कार्यकरणसंघातस्य नानात्वादेव तदभिमानाज्जीवा अप्यनेके इति भ्रान्त्या ब्रुवन्ति तार्किकादयः। वस्तुतस्तु जीव एक एव, ‘एको देवः’ इति मन्त्रवर्णात् ; ईश्वरैकत्वस्य तार्किकादिसम्प्रतिपन्नत्वादीश्वरस्यैव जीवत्वाच्च। तस्मात् कार्यकरणसंघातात्मकाः प्राणिनो जीवा ईश्वरेण प्रत्यगात्मना नियम्यन्त एव। सर्वान्तरात्मा प्रत्यक्पुरुषस्तु नेश्वरेण नियम्यते, तस्यैवेश्वरत्वादिति स्थितम्।
नन्वेवं प्रकृते ईश्वरः सर्वभूतानि भ्रामयतीत्यस्य किमीश्वरो जीवान् नियमयतीत्यर्थः? उत प्रत्यगात्मा कार्यकरणसंघातजातं नियमयतीत्यर्थः इति चेत् , उभयथाऽप्येक एवाभिप्रायः पर्यवस्यति। अविद्वद्दृष्ट्येश्वरो जीवान् नियमयतीत्युक्तेऽपि विद्वद्दृष्ट्या प्रत्यगात्मा कार्यकरणसंघातजातं नियमयतीत्येव सिद्धत्वात्। विद्वद्दृष्ट्या प्रत्यगात्मा कार्यकरणसंघातजातं नियमयतीत्युक्तेऽपि, अविद्वद्दृष्ट्या जीवानीश्वरो नियमयतीत्येव सिद्धत्वात्। विदुषा हीश्वर आत्मत्वेनाभिमतः, अविदुषा च कार्यकरणसंघातः आत्मत्वेनाभिमतः। न चैक एवात्मा कुत एकेश्वरत्वेन नानासंघातत्वेन च गृहीत इति वाच्यम् ; एकस्यैव चन्द्रस्य तैमिरिकेण नानाचन्द्रत्वेन निर्मलचक्षुषा एक- चन्द्रत्वेन च गृह्यमाणत्वात्। एकस्यैव सूर्यस्यास्मदादिभिः प्रकाशरूपत्वेन, उलूकैस्तिमिररूपत्वेन च गृह्यमाणत्वात्। तस्माद् विद्यया एकस्यैवात्मन ईश्वरत्वेन, अविद्यया नानाजीवत्वेन च ग्रहणमुपपद्यते।
ननु यः आत्मानं विद्यया ईश्वरत्वेन गृह्णाति, यश्चाविद्यया नानाजीवत्वेन गृह्णाति, सोऽसौ कः इति चेद्? उच्यते—प्रमातेति। स हि वस्तुत आत्माऽपि सन्नन्तःकरणतादात्म्याध्यासात् प्रमाता भवति। अयं चान्तःकरणभेदान्नानैवेति ग्रहीतृभेदाद् ग्रहणभेदोप- पत्तिः। इम एव प्रमातारः कार्यकरणसंघाताहमभिमाना जीवा इति व्यवह्रियन्ते अविद्यावशात्। विद्यया त्वीश्वरात्मका एव, चैतन्यात्म- कत्वादिति स्थितं जीवेश्वराद्वैतम्। अविद्यादशामधिकृत्य प्रोक्तोऽयं श्लोको भगवता, न तु विद्यादशायाम् , तत्र सर्वभूतानामेवाभावात्। तथाच यान्यविद्यादशायामुपलभ्यमानानि सर्वाणि चराण्यचराणि च ब्रह्मादिस्तम्बपर्यन्तानि भूतानि, तेषां हृद्देशे प्रत्यग्रूपेणावस्थित आत्मेश्वरो भ्रामयतीति पर्यवसन्नः श्लोकार्थः।
यत्तु रामानुजः—ईश्वरोऽन्तर्यामिरूपेण हृद्देशे तिष्ठन् जीवान् भ्रामयतीति, तदयुक्तम् ; यद्यन्तर्यामिरूपं प्रसिद्धं स्यात् , तर्हीश्वरोऽन्तर्यामिरूपेण तिष्ठतीति वक्तुमुचितम्। न तु तत् प्रसिद्धम्। न हि कस्याप्यन्तर्यामी प्रत्यक्षः। किन्त्वनुमेय एव जीवपार- तन्त्यलिङ्गात्। तस्मात् तस्यान्तर्यामिण ईश्वरस्य रूपं वक्तव्यम्। न च रुक् मवर्णोऽङ्गुष्ठमात्रः पुरुषोऽन्तर्यामीति वाच्यम् ; दूषितत्वादेत- द्वादस्य; ‘अशब्दमस्पर्शमरूपमव्यय’मितीश्वरस्य रूपवत्त्वनिषेधाच्च। जीवस्यैव नीरूपत्वे किं पुनरीश्वरस्य नीरूपत्वं वक्तव्यम्? न च जीवः कृष्णवर्णः, ईश्वरः शुक्लवर्ण इति वाच्यम् ; सपापनिष्पापपरत्वात् कृष्णशुक्लशब्दयोः। न हि देहे देहाद् गच्छन् वा नीलो जीवः कैरपि दृश्यते। तथा श्वेतोऽपीश्वरः। तस्मात् सत्यज्ञानानन्दरूप एवान्तर्यामीश्वर इत्यभ्युपेयम्। अभ्युपेते च तथा तदेव सत्यं ज्ञानं जीवस्यापि स्वरूपमिति प्रत्यगात्मन एवान्तर्यामीश्वरत्वं सम्भवतीति कृत्वा तदतिरिक्तान्तर्यामिकल्पनमप्रमाणम् , अनुभवविरुद्धमनुप- पन्नं च। न चान्तर्यामिब्राह्मणं प्रमाणम् , 1तस्यापि प्रत्यगात्मपरत्वात्। नापि जीवपारतन्त्यानुभवः प्रमाणम् , संघातगतत्वात् पार- तन्त्यस्य। तस्मात् प्रत्यगात्मैवान्तर्यामी।
[[९४७]]
अस्य श्लोकस्य श्रीविद्यारण्यस्वामिभिः− यन्त्रारूढानि सर्वभूतानि मायया भ्रामयन् सन्नीश्वरः सर्वभूतानां हृद्देशे तिष्ठती- त्यन्वयमाश्रित्य देहादिपञ्जरं यन्त्रं तदारूढानि अभिमानित्वरूपमारोहं प्राप्तानि कार्यकरणसंघातेऽहमिति ममेति चाभिमानयुक्तानि इत्यर्थः। सर्वभूतानि सर्वजीवान् मायया त्रिगुणात्मिकया भ्रामयन्नित्यर्थः उपवर्णितः पञ्चदश्याम् – ‘देहादिपञ्जरं यन्त्रं तदारोहोऽभि- मानिता’ इत्यादिना। रामानुजेनापि देहेन्द्रियावस्थं प्रकृत्याख्यं यन्त्रमारूढानीत्ययमेवार्थ उक्तः। अस्मिन्नर्थेऽपि कार्यकरणसंघाता- भिमानिनां सर्वेषां जीवानां प्रमातॄणां यत् स्थानं हृत्पुण्डरीकदेशः, तस्मिन् प्रत्यगात्मरूपेणेश्वरस्तिष्ठन् सन् कार्यकरणसंघातं प्रवर्तयति। तथा प्रवर्तिते संघातेऽहमित्यभिमानसत्त्वाज्जीवास्ते स्वयमीश्वरेण प्रवर्तिता इव मन्यन्त इति तात्पर्यं बोध्यम्।
अस्मिन्नन्वये तु केन साधनेनेश्वरः सर्वभूतानि भ्रामयतीत्याकाङ्क्षा पूरिता, माययेत्युक्तत्वात्। कथं भ्रामयतीत्याशङ्का तु न पूरिता। श्रीशङ्करोक्तान्वये तु कथमित्याशङ्का पूरिता, यन्त्रारूढानि माययेवेत्युक्तत्वात्। न च भाष्यकृदन्वयेऽपि करणाकाङ्क्षापूर्त्यभावो न्यूनतावह एवेति वाच्यम् ; मायाया ईश्वरशक्तित्वात्। ईश्वरो भूतानि भ्रामयतीत्यनेनैवाग्निः काष्ठानि दहतीतिवच्छक्त्या भ्रामयतीति सिद्धत्वाद् , अशक्तस्य भ्रामणासम्भवाच्च। न च यन्त्रारूढानीत्यस्य सर्वभूतपदाविशेषणीकरणे देहादिपञ्जराभिमानित्वं सर्वभूतानां न सिध्यतीति वाच्यम् ; अचेतनानां कार्यकरणसंघातानां प्रवर्तकत्वानुपपत्तेः सर्वभूतशब्देन सचेतनान्येव कार्यकरणसंघातानि ग्रहीत- व्यानि। तथा च सति सचेतनानि सर्वभूतानि नाम प्रमातृभिरहमित्यभिमन्यमानाः कार्यकरणसंघाता एव। ततश्च कार्यकरणसंघाताभि- मानिनः प्रमातार एव सर्वभूतशब्दार्थ इति सिद्धमेव। तस्माद् यन्त्रारूढानीति विशेषणं व्यर्थमेव सर्वभूतानीत्यस्य। किञ्च अजो नित्यः शाश्वतश्च प्रमाता। भवन्तीति भूतानीति व्युत्पत्त्या भूतशब्दः कार्यवाची न प्रमातारमजमभिधातुं क्षमते। एवं च सति देहादिपञ्जर- यन्त्रारूढानि तानि भूतानि कानीत्युक्ते किमुत्तरं श्रीविद्यारण्यस्वामिनाम्? न किमपि। ततश्च सर्वभूतानीत्यस्य कार्यकरणसंघाताः सचेतना इत्येवार्थो न्याय्यः। अत एव प्राणिनः इत्युक्तमाचार्यैः। एवं कार्यकरणसंघातानामेव भ्रामणकथनेन जीवस्य वस्तुतस्तदभाव इति च प्रतीयत इति महान् गुणः। तस्माच्छाङ्करमेव भाष्यं शङ्करम्।
वस्तुतस्तु कुशलो यन्त्रारूढानि माययेव ईश्वरः सर्वभूतानि मायया भ्रामयन् सन् सर्वभूतानां हृद्देशे तिष्ठतीति माययेति पदमावर्त्य अन्वेतव्यम्। तथा सति करणाकाङ्क्षापूर्तिरपि भवति। न च इवशब्दाध्याहारः कुशलशब्दाध्याहारश्च दुष्ट इति वाच्यम् ; सति गुणेऽध्याहारस्यादोषात्। अन्यथा एकवाक् यत्वे यन्त्रारूढानीति पदवैयर्थ्यप्रसङ्गादिति सङ्क्षेपः॥६१॥
[[९४८]]
मध्वः …{Loading}…
मध्वः - मूलम्
॥18.61॥ Sri Madhvacharya did not comment on this sloka.
जयतीर्थः
॥18.61॥ Sri Jayatirtha did not comment on this sloka.
अभिनव-गुप्तः …{Loading}…
अभिनवगुप्तः - मूलम्
॥18.61 – 18.62॥ ईश्वर इति। तमेवेति। एष ईश्वरः परमात्मा अवश्यं शरणत्वेन ग्राह्यः। तत्र हि अधिष्ठातरि कर्तरि +++(omits कर्तरि )+++ बोद्धरि स्वात्ममये विमृष्टे +++(;N विस्पष्टे )+++ ; न कर्माणि स्थतिभाञ्जि भवन्ति। न हि निशिततरनखरकोटिविदारितसमदकरिकरटगलितमुक्ताफलनिकरपरिकरप्रकाशितप्रतापमहसि ( omits – परिकर – ) सिंहकिशोरके गुहामधितिष्ठति चपलमनसो विद्रवणमात्रबलशालिनो हरिणपोतकाः +++(K हिरण – )+++ स्वैरं स्वव्यापारपरिशीलनापटुभावमवलंबन्ते इति। तमेव शरणं गच्च्छइत्युपक्रम्य मत्प्रसादात् इति निर्वाहवाक्यमभिदधत् भगवान् परमात्मानम् ईश्वरं वासुदेवं च एकतया योजयति इति।
शङ्करनारायणः
18.61 See Comment under 18.62
वल्लभः …{Loading}…
वल्लभः - मूलम्
॥18.61॥ इदानीं प्राकृतभूतजातनियन्तृरूपेण मया सर्वं भूतजातं प्राकृतकर्मानुगुणलीलया प्रकृत्यनुवर्त्तने नियमितं भवतीति ब्रह्मसूत्रसिद्धान्तमाह – ईश्वर इति। ईश्वरः सर्वनियमनशीलो वासुदेवः सर्वेषां प्राकृतानां भूतानां लीलयोच्चनीचभावेन स्वात्मना सृष्टानां प्रकृत्या संसृष्टानां आब्रह्मस्तम्बपर्यन्तानां हृद्देशे हृदयाकाशे तिष्ठति। तत्रान्तर्यामिस्वरूपेण स्थितोऽपि निर्लेप इत्याशयेनेश्वर इत्युक्तम्। उपाधिस्थाने स्थितस्य तदसंस्पृष्टत्वमीश्वरत्वादित्यर्थः। अतएव आकाशवत्सर्वगतः [शां.उ.2।1।3] एको देवः सर्वभूतेषु गूढः ৷৷. साक्षी चेता केवलो निर्गुणश्च [श्वेता.6।11ब्रह्मो.3गोपालो.3।19राधो.4।1] इति श्रूयते। स च चेताः स्वयम्प्रकाशकः स्वप्रकाशश्च प्रदीपवत् यन्त्रारूढानि यन्त्रे इवारूढानि मायया भ्रामयन् भवति। भ्रामणं हि प्रेरणं; यन्त्रं च स्वनिर्मितं देहेन्द्रियादिरूपं; तत्रारूढांश्चेतनांस्तद्गुणानुगुण्येन प्रवर्त्तयंस्तिष्ठति। इदं चसर्वस्य चाऽहं हृदि सन्निविष्टः [15।15] इत्यस्य भाष्यरूपम्।
पुरुषोत्तमः
॥18.61॥ नन्वीश्वराज्ञाव्यतिरेकेण प्रकृतिकर्मणोः कथं तथात्वं इत्यत आह – ईश्वर इति। हे अर्जुन वृक्षजातीयनामत्वेन ज्ञानानर्ह ईश्वरो नियामकस्तत्त्वेन सर्वभूतानां हृद्देशे हृदयमध्ये तिष्ठति मायया सर्वभूतानि यन्त्रारूढानि शरीरारूढानि भ्रामयँस्तिष्ठति यथा दारुयन्त्रारूढानि कृत्रिमभूतानि सूत्रधारश्चालयति तथा मायया भ्रामयंस्तिष्ठतीति वाऽर्थः। अत ईश्वरप्रेरितानेव प्रकृतिः कर्म च साधकतया प्रेरयतीत्यर्थः।
श्रीधर-स्वामी …{Loading}…
॥18.61॥ तदेवं श्लोकद्वयेन साङ्ख्यादिमतेन प्रकृतिपारतन्त्र्यं स्वभावपारतन्त्र्यं कर्मपारतन्त्र्यं चोक्तम्। इदानीं स्वमतमाह – ईश्वर इति द्वाभ्याम्। सर्वभूतानां हृदयमध्ये ईश्वरोऽन्तर्यामी तिष्ठति। किं कुर्वन् सर्वाणि भूतानि मायया निजशक्त्या भ्रामयन् तत्तत्कर्मसु प्रवर्तयन् यथा दारुयन्त्रमारूढानि कृत्रिमाणि भूतानि सूत्रधारो लोके भ्रामयति तद्वदित्यर्थः। यद्वा यन्त्राणि शरीराणि आरूढानि भूतानि देहाभिमानिनो जीवान् भ्रामयन्नित्यर्थः। तथाच श्वेताश्वतराणां मन्त्रःएको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा। कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च इति। अन्तर्यामिब्राह्मणं चय आत्मनि तिष्ठन्नात्मानमन्तरो यमयति यमात्मा न वेद यस्यात्मा शरीरं एष त आत्मान्तर्याम्यमृतः इत्यादि।
English …{Loading}…
आदिदेवानन्दः
18.61 The Lord, O Arjuna, abides in the heart of every being, spinning them round and round, mounted on a wheel as it were, by His power.
गम्भीरानन्दः
18.61 O Arjuna, the Lord resides in the region of the heart of all creatures, revolving through Maya all the creatures (as though) mounted on a machine!
पुरोहितस्वामी
18.61 God dwells in the hearts of all beings, O Arjuna! He causes them to revolve as it were on a wheel by His mystic power.
शङ्करनारायणः
18.61. O Arjuna ! This Lord dwells in the heart of all beings, causing, by His trick-of-Illusion, all beings to whirl round [as if they are] mounted on a [revolving] mechanical contrivance.
शिवानन्दः - अनुवादः
18.61 The Lord dwells in the hearts of all beings, O Arjuna, causing all beings, by His illusive power, to revolve as if mounted on a machine.
शिवानन्दः - टीका
18.61 ईश्वरः the Lord; सर्वभूतानाम् of all beings; हृद्देशे in the hearts; अर्जुन O Arjuna; तिष्ठति dwells; भ्रामयन् causing to revolve; सर्वभूतानि all beings; यन्त्रारूढानि mounted on a machine; मायया by illusion.Commentary Isvara The Lord the Ruler of the universe Narayana.The Lord abides in the hearts of all beings. It is He Who has given a gift of this marvellous machine to you. It is by His power that all bodies move. The Lord is the real Actor within.By Maya By causing illusion.He causes all beings to revolve like wooden dolls mounted on a machine. (Cf.X.20.XIII.18)
हिन्दी …{Loading}…
रामसुखदासः - अनुवादः
।।18.61।। हे अर्जुन ! ईश्वर सम्पूर्ण प्राणियोंके हृदयमें रहता है और अपनी मायासे शरीररूपी यन्त्रपर आरूढ़ हुए सम्पूर्ण प्राणियोंको (उनके स्वभावके अनुसार) भ्रमण कराता रहता है।
रामसुखदासः - टीका
।।18.61।।व्याख्या – ईश्वरः सर्वभूतानां ৷৷. यन्त्रारूढानि मायया – इसका तात्पर्य यह है कि जो ईश्वर सबका शासक; नियामक; सबका भरणपोषण करनेवाला और निरपेक्षरूपसे सबका संचालक है; वह अपनी,शक्तिसे उन प्राणियोंको घुमाता है; जिन्होंने शरीरको मैं औरमेरा मान रखा है।
जैसे; विद्युत्शक्तिसे संचालित यन्त्र – रेलपर कोई आरूढ़ हो जाता है; चढ़ जाता है तो उसको परवशतासे रेलके अनुसार ही जाना पड़ता है। परन्तु जब वह रेलपर आरूढ़ नहीं रहता; नीचे उतर जाता है; तब उसको रेलके अनुसार नहीं जाना पड़ता। ऐसे ही जबतक मनुष्य शरीररूपी यन्त्रके साथ मैं और मेरेपनका समबन्ध रखता है; तबतक ईश्वर उसको उसके स्वभाव (टिप्पणी प₀ 962) के अनुसार संचालित करता रहता है और वह मनुष्य जन्ममरणरूप संसारके चक्रमें घूमता रहता है। शरीरके साथ मैंमेरेपनका सम्बन्ध होनेसे ही रागद्वेष पैदा होते हैं; जिससे स्वभाव अशुद्ध हो जाता है। स्वभावके अशुद्ध होनेपर मनुष्य प्रकृति अर्थात् स्वभावके परवश हो जाता है। परन्तु शरीरसे सर्वथा सम्बन्धविच्छेद होनेपर जब स्वभाव रागद्वेषसे रहित अर्थात् शुद्ध हो जाता है; तब प्रकृतिकी परवशता नहीं रहती। प्रकृति(स्वभाव)की परवशता न रहनेसे ईश्वरकी माया उसको संचालित नहीं करती। अब यहाँ यह शङ्का होती है कि जब ईश्वर ही हमारेको भ्रमण करवाता है; क्रिया करवाता है; तब यह काम करना चाहिये और यह काम नहीं करना चाहिये – ऐसी स्वतंन्त्रता कहाँ रही क्योंकि यन्त्रारूढ़ होनेके कारण हम यन्त्रके और यन्त्रके संचालक ईश्वरके अधीन हो गये; परतन्त्र हो गये; फिर यन्त्रका संचालक (प्रेरक) जैसा करायेगा; वैसा ही होगा इसका समाधान इस प्रकार इस प्रकार है – जैसे; बिजलीसे संचालित होनेवाले यन्त्र अनेक तरहके होते हैं। एक ही बिजलीसे संचालित होनेपर भी किसी यन्त्रमें बर्फ जम जाती है और किसी यन्त्रमें अग्नि जल जाती है अर्थात् उनमें एकदूसरेसे बिलकुल विरुद्ध काम होता है। परन्तु बिजलीका यह आग्रह नहीं रहता कि मैं तो केवल बर्फ ही जमाऊँगी अथवा केवल अग्नि ही जलाऊँगी। यन्त्रोंका भी ऐसा आग्रह नहीं रहता कि हम तो केवल बर्फ ही जमायेंगे अथवा केवल अग्नि ही जलायेंगे; प्रत्युत यन्त्र बनानेवाले कारीगरने यन्त्रोंको जैसा बना दिया है; उसके अनुसार उनमें स्वाभाविक ही बर्फ जमती है और अग्नि जलती है। ऐसे ही मनुष्य; पशु; पक्षी; देवता; यक्ष राक्षस आदि जितने भी प्राणी हैं; सब शरीररूपी यन्त्रोंपर चढ़े हुए हैं और उन सभी यन्त्रोंको ईश्वर संचालित करता है। उन अलगअलग शरीरोँमें भी जिस शरीरमें जैसा स्वभाव है; उस स्वभावके अनुसार वे ईश्वरसे प्रेरणा पाते हैं और कार्य करते हैं। तात्पर्य यह है कि उन शरीरोंसे मैंमेरेपनका सम्बन्ध माननेवालेका जैसा (अच्छा या मन्दा) स्वभाव होता है; उससे वैसी ही क्रियाएँ होती हैं। अच्छे स्वभाववाले (सज्जन) मनुष्यके द्वारा श्रेष्ठ क्रियाएँ होती हैं और मन्दे स्वभाववाले (दुष्ट) मनुष्यके द्वारा खराब क्रियाएँ होती हैं। इसलिये अच्छी या मन्दी क्रियाओंको करानेमें ईश्वरका हाथ नहीं है; प्रत्युत खुदके बनाये हुए अच्छे या मन्दे स्वभावका ही हाथ है। जैसे बिजली यन्त्रके स्वभावके अनुसार ही उसका संचालन करती है; ऐसे ही ईश्वर प्राणीके (शरीरमें स्थित) स्वभावके अनुसार उसका संचालन करते हैं। जैसा स्वभाव होगा; वैसे ही कर्म होंगे। इसमें एक बात विशेष ध्यान देनेकी है कि स्वभावको सुधारनेमें और बिगाड़नेमें सभी मनुष्य स्वतन्त्र हैं; कोई भी परतन्त्र नहीं है। परन्तु पशु; पक्षी; देवता आदि जितने भी मनुष्येतर प्राणी हैं; उनमें अपने स्वभावको सुधारनेका न अधिकार है और न स्वतन्त्रता ही है। मनुष्यशरीर अपना उद्धार करनेके लिये ही मिला है; इसलिये इसमें अपने स्वभावको सुधारनेका पूरा अधिकार; पूरी स्वतन्त्रता है। उस स्वतन्त्रताका सदुपयोग करके स्वभाव सुधारनेमें और स्वतन्त्रताका दुरुपयोग करके स्वभाव बिगाड़नेमें मनुष्य स्वयं ही हेतु है। ईश्वर सम्पूर्ण प्राणियोंके हृदयदेशमें रहता है – यह कहनेका तात्पर्य है कि जैसे पृथ्वीमें सब जगह जल रहनेपर भी जहाँ कुआँ होता है; वहींसे जल प्राप्त होता है ऐसे ही परमात्मा सब जगह समान रीतिसे परिपूर्ण होते हुए भी हृदयमें प्राप्त होते हैं अर्थात् हृदय सर्वव्यापी परमात्माकी प्राप्तिका विशेष स्थान है। ऐसे ही तीसरे अध्यायमें सर्वव्यापी परमात्माको यज्ञ(निष्कामकर्म) में स्थित बताया गया है तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् **(गीता 3। 15)।**विशेष बातसाधककी प्रायः यह भूल होती है कि वह भजन; कीर्तन; ध्यान आदि करते हुए भी भगवान् दूर हैं वे अभी नहीं मिलेंगे यहाँ नहीं मिलेंगे अभी मैं योग्य नहीं हूँ भगवान्की कृपा नहीं है आदि भावनाएँ बनाकर भगवान्की दूरीकी मान्यता ही दृढ़ करता रहता है। इस जगह साधकको यह सावधानी रखनी चाहिये कि जब भगवान् सभी प्राणियोंमें मौजूद हैं तो मेरेमें भी हैं। वे सर्वत्र व्यापक हैं तो मैं जो जप करता हूँ उस जपमें भी भगवान् हैं मैं श्वास लेता हूँ तो उस श्वासमें भी भगवान् हैं मेरे मनमें भी भगवान् हैं; बुद्धिमें भी भगवान् हैं मैं जो मैंमैं कहता हूँ; उस मैं में भी भगवान् हैं। उस मैं का जो आधार है; वह अपना स्वरूप भगवान्से अभिन्न है अर्थात् मैंपन तो दूर है; पर भगवान् मैंपनसे भी नजदीक हैं। इस प्रकार अपनेमें भगवान्को मानते हुए ही भजन; जप; ध्यान आदि करने चाहिये। अब शङ्का यह होती है कि अपनेमें परमात्माको माननेसे मैं और परमात्मा दो (अलगअलग) हैं – यह द्वैतापत्ति होगी। इसका समाधान यह है कि परमात्माको अपनेमें माननेसे द्वैतापत्ति नहीं होती; प्रत्युत अहंकार(मैंपन) को स्वीकार करनेसे जो अपनी अलग सत्ता प्रतीत होती है; उसीसे द्वैतापत्ति होती है। परमात्माको अपना और और अपनेमें माननेसे तो परमात्मासे अभिन्नता होती है; जिससे प्रेम प्रकट होता है। जैसे; गङ्गाजीमें बाढ़ आ जानेसे उसका जल बहुत बढ़ जाता है और फिर पीछे वर्षा न होनेसे उसका जल पुनः कम हो जाता है परन्तु उसका जो जल गड्ढेमें रह जाता है अर्थात् गङ्गाजीसे अलग हो जाता है; उसकोगङ्गोज्झ कहते हैं। उस गङ्गोज्झको मदिराके समान महान् अपवित्र माना गया है। गङ्गाजीसे अलग होनेके कारण वह गंदा हो जाता है और उसमें अनेक कीटाणु पैदा हो जाते हैं; जो कि रोगोंके कारण हैं। परन्तु फिर कभी जोरकी बाढ़ आ जाती है; तो वह गङ्गोज्झ वापस गङ्गाजीमें मिल जाता है। गङ्गाजीमें मिलते ही उसकी एकदेशीयता; अपवित्रता; अशुद्धि आदि सभी दोष जाते हैं और वह पुनः महान् पवित्र गङ्गाजल बन जाता है। ऐसे ही यह मनुष्य जब अहंकारको स्वीकार करके परमात्मासे विमुख हो जाता है; तब इसमें परिच्छिन्नता; पराधीनता; जडता; विषमता; अभाव; अशान्ति; अपवित्रता आदि सभी दोष (विकार) आ जाते हैं। परन्तु जब यह अपने अंशी परमात्माके सम्मुख हो जाता है; उन्हींकी शरणमें चला जाता है अर्थात् अपना अलग कोई व्यक्तित्व नहीं रखता; तब उसमें आये हुए भिन्नता; पराधीनता आदि सभी दोष मिट जाते हैं। कारण कि स्वयं (चेतन स्वरूप) में दोष नहीं हैं दोष तो अहंता(मैंपन) को स्वीकार करनेसे ही आते हैं।
सम्बन्ध – अब भगवान् यन्त्रारूढ़ हुए प्राणियोंकी परवशताको मिटानेका उपाय बताते हैं।
चिन्मयानन्दः
।।18.61।। भगवान् श्रीकृष्ण का उपदेश सुस्पष्ट एवं सर्वथा सन्देह रहित है। गीताचार्य कहते हैं; मेरा स्मरण ईश्वर अर्थात् सम्पूर्ण विश्व के शासक के रूप में करो। ईश्वर ही नियामक और नियन्ता है। उसकी उपस्थिति में ही जगत् की समस्त घटनाएं घट सकती हैं; अन्यथा नहीं। जैसै कि वाष्प इंजन का ईश्वर वाष्प है; जिसके बिना इंजन में गति नहीं आ सकती। ईश्वर का स्मरण केवल सगुणसाकार अर्थात् शक्ति के मानवीय रूप में ही नहीं करना चाहिये; जैसे कैलाशपति; शिवजी; या वैकुण्ठवासी विष्णु या स्वर्ग में स्थित पिता के रूप में। ईश्वर तो भूतमात्र के हृदय में निवास कर रहा अंतरयामी है। इसकी पहचान हृदय में ही हो सकती है। जिस प्रकार विशाल महानगरी में किसी व्यक्ति से मिलने के लिये उसके निवासस्थान का पता बताया जाता है; उसी प्रकार; यहाँ; भगवान् श्रीकृष्ण अपना स्थानीय पता बता रहे हैंहृदय शब्द से तात्पर्य शारीरिक अंग रूप हृदय से नहीं है। दर्शनशास्त्र में हृदय का अर्थ लाक्षणिक है; शाब्दिक नहीं। प्रेम; करुणा; धृति; उत्साह; स्नेह; कोमलता; क्षमा; उदारता जैसे दैवी गुणों से सम्पन्न मन ही हृदय कहलाता है। परमेश्वर ही चेतनता और शक्ति का स्रोत है; जो अपनी शक्ति प्राणीमात्र को प्रदान करता है। समस्त प्राणी ईश्वर के ही चारों ओर इस प्रकार घूमते रहते हैं; जैसे कठपुतलियां किसी के हाथों में बन्धी खेल करती है। कठपुतलियों की अपनी कोई सार्मथ्य; शक्ति या भावना नहीं होती; वे जो कुछ खेल करती दिखाई देती हैं; वह सब अदृश्य हाथ की शक्ति है जो उन कठपुतलियों को धारण किये रहता है। पारमर्थिक दृष्टि से; ईश्वर का अर्थ चैतन्यस्वरूप ब्रह्म है। इस चैतन्य के सम्बन्ध से ही शरीर; मन आदि जड़ उपाधियाँ कार्य करने में सक्षम होती हैं। अन्यथा; जड़ पदार्थ में स्वयं न कर्म करने की शक्ति है और न वस्तुओं को जानने की। इस दृष्टि से इस श्लोक का अर्थ यह होगा कि चैतन्यस्वरूप आत्मा की उपस्थिति में प्राणीमात्र अपनेअपने स्वभाव के अनुसार यत्रतत्र भ्रमण करते रहते हैं। इसी तथ्य को यहाँ इस प्रकार कहा गया है कि ईश्वर अपनी माया से भूतमात्र को घुमाता है। इसी श्लोक का दूसरा अर्थ निम्न प्रकार से होगा। समष्टि माया में व्यक्त चैतन्यस्वरूप परमात्मा ही ईश्वर कहलाता है; जो सर्वज्ञसर्वशक्तिमान् है। वह ईश्वर अपनी माया से समस्त जीवों को घुमाता है इसका अर्थ यह हुआ कि वह ईश्वर समस्त जीवों को उनके कर्मानुसार फल प्रदान करता है। ईश्वर के बिना व्यष्टि जीवों का अस्तित्व संभव ही नहीं है। समस्त जीवों को कर्म और ज्ञान की शक्तियां ईश्वर से ही प्राप्त होती हैं। इस प्रकार; वेदान्त के सिद्धांत को समझकर इस श्लोक के अध्ययन से यहाँ प्रयुक्त रूपक का अर्थ स्पष्ट हो जाता है।
तेजोमयानन्दः - अनुवादः
।।18.61।। हे अर्जुन (मानों किसी) यन्त्र पर आरूढ़ समस्त भूतों को ईश्वर अपनी माया से घुमाता हुआ (भ्रामयन्) भूतमात्र के हृदय में स्थित रहता है।।
-
‘एष त आत्माऽन्तर्याम्यमृतः’ इति प्रतिपर्यायं श्रवणात् । न च ‘त आत्मे’ति निर्देशाद् भेदसिद्धिः, ‘ममात्मा भूतभावनः’ इतिवदुपपत्तेः। ↩︎