विश्वास-प्रस्तुतिः …{Loading}…
सिद्धिं प्राप्तो यथा ब्रह्म
तथाप्नोति निबोध मे।
समासेनैव कौन्तेय
निष्ठा ज्ञानस्य या परा॥18.50॥
मूलम् …{Loading}…
सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे।
समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा॥18.50॥
रामानुजः …{Loading}…
रामानुजः - मूलम्
॥18.50॥सिद्धिं प्राप्तः आप्रयाणाद् अहरहो ऽनुष्ठीयमानकर्मयोगनिष्पाद्यध्यानसिद्धिं प्राप्तो यथा येन प्रकारेण वर्तमानो ब्रह्म प्राप्नोति तथा समासेन मे निबोध। तद् एव ब्रह्म विशिष्यते निष्ठा ज्ञानस्य या परा इति। ज्ञानस्य ध्यानात्मकस्य या परा निष्ठा परं प्राप्यम् इत्यर्थः।
वेदान्तदेशिकः
॥18.50॥ सिद्धिं प्राप्तः इत्यस्योक्तानुवादतां सप्रकारहेतुनिर्देशेनाऽऽहआप्रयाणादिति। सिद्धिं प्राप्तस्य ब्रह्मप्राप्त्यभिधानात्तद्व्यतिरिक्तविषयत्वज्ञापनायध्यानसिद्धिमित्युक्तम्। यथा इत्यस्यानन्तरग्रन्थानुसारेण पुरुषव्यापारोपादेयप्रापकप्रकारपरतामाह – येन प्रकारेण वर्तमान इति। मे निबोध मत्तो निश्चयेनावधारयेत्यर्थः। परमे फले ह्युपायो नितिष्ठति अतस्तदेवोपायपर्यवसानभूमितया निष्ठेत्युच्यत इत्यभिप्रायेणाऽऽह – तदेव ब्रह्म विशेष्यत इति। ज्ञानशब्दस्यात्रानन्तरोच्यमानध्यानविश्रान्तिमाह – ध्यानात्मकस्येति।
आदिदेवानन्दः
18.50 One who has attained ‘perfection’, viz., one who has attained perfection in meditation generated by the Karma Yoga performed day after day till death - how, in what way, he attains the brahman, learn this from Me in brief. It is the same Brahman who is described as the supreme consummation of knowledge. The meaning is that the self is the supreme consummation, the supreme end, of knowledge which is of the nature of meditation.
शङ्करः …{Loading}…
शङ्करः - मूलम्
॥18.50॥ –,सिद्धिं प्राप्तः स्वकर्मणा ईश्वरं समभ्यर्च्य तत्प्रसादजां कायेन्द्रियाणां ज्ञाननिष्ठायोग्यतालक्षणां सिद्धिं प्राप्तः – सिद्धिं प्राप्तः इति तदनुवादः उत्तरार्थः। किं तत् उत्तरम्; यदर्थः अनुवादः इति; उच्यते – यथा येन प्रकारेण ज्ञाननिष्ठारूपेण ब्रह्म परमात्मानम् आप्नोति; तथा तं प्रकारं ज्ञाननिष्ठाप्राप्तिक्रमं मे मम वचनात् निबोध त्वं निश्चयेन अवधारय इत्येतत्। किं विस्तरेण न इति आह – समासेनैव संक्षेपेणैव हे कौन्तेय; यथा ब्रह्म प्राप्नोति तथा निबोधेति। अनेन या प्रतिज्ञाता ब्रह्मप्राप्तिः; ताम् इदंतया दर्शयितुम् आह – निष्ठा ज्ञानस्य या परा इति। निष्ठा पर्यवसानं परिसमाप्तिः इत्येतत्। कस्य ब्रह्मज्ञानस्य या परा। कीदृशी सा यादृशम् आत्मज्ञानम्। कीदृक् तत् यादृशः आत्मा। कीदृशः सः यादृशो भगवता उक्तः; उपनिषद्वाक्यैश्च न्यायतश्च॥
ननु विषयाकारं ज्ञानम्। न ज्ञानविषयः; नापि आकारवान् आत्मा इष्यते क्वचित्। ननु आदित्यवर्णम् भारूपः स्वयंज्योतिः इति आकारवत्त्वम् आत्मनः श्रूयते। न तमोरूपत्वप्रतिषेधार्थत्वात् तेषां वाक्यानाम् – द्रव्यगुणाद्याकारप्रतिषेधे आत्मनः तमोरूपत्वे प्राप्ते तत्प्रतिषेधार्थानि आदित्यवर्णम् (गीता 8।9) इत्यादीनि वाक्यानि। अरूपम् इति च विशेषतः रूपप्रतिषेधात्। अविषयत्वाच्च – न संदृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनम् (श्वे0 उ₀ 4।20) अशब्दमस्पर्शम् (क0 उ₀ 1।3।15) इत्यादैः। तस्मात् आत्माकारं ज्ञानम् इति अनुपपन्नम्॥ कथं तर्हि आत्मनः ज्ञानम् सर्वं हि यद्विषयं यत् ज्ञानम्; तत् तदाकारं भवति। निराकारश्च आत्मा इत्युक्तम्। ज्ञानात्मनोश्च उभयोः निराकारत्वे कथं तद्भावनानिष्ठा इति न अत्यन्तनिर्मलत्वातिस्वच्छत्वातिसूक्ष्मत्वोपपत्तेः आत्मनः। बुद्धेश्च आत्मवत् नैर्मल्याद्युपपत्तेः आत्मचैतन्याकाराभासत्वोपपत्तिः। बुद्ध्याभासं मनः; तदाभासानि इन्द्रियाणि; इन्द्रियाभासश्च देहः। अतः लौकिकैः देहमात्रे एव आत्मदृष्टिः क्रियते॥
देहचैतन्यवादिनश्च लोकायतिकाः चैतन्यविशिष्टः कायः पुरुषः इत्याहुः। तथा अन्ये इन्द्रियचैतन्यवादिनः; अन्ये मनश्चैतन्यवादिनः; अन्ये बुद्धिचैतन्यवादिनः। ततोऽपि आन्तरम् अव्यक्तम् अव्याकृताख्यम् अविद्यावस्थम् आत्मत्वेन प्रतिपन्नाः केचित्। सर्वत्र बुद्ध्यादिदेहान्ते आत्मचैतन्याभासता आत्मभ्रान्तिकारणम् इत्यतश्च आत्मविषयं ज्ञानं न विधातव्यम्। किं तर्हि नामरूपाद्यनात्माध्यारोपणनिवृत्तिरेव कार्या; आत्मचैतन्यविज्ञानं कार्यम्; अविद्याध्यारोपितसर्वपदार्थाकारैः विशिष्टतया दृश्यमानत्वात् इति। अत एव हि विज्ञानवादिनो बौद्धाः विज्ञानव्यतिरेकेण वस्त्वेव नास्तीति प्रतिपन्नाः; प्रमाणान्तरनिरपेक्षतां च स्वसंविदि तत्वाभ्युपगमेन। तस्मात् अविद्याध्यारोपितनिराकरणमात्रं ब्रह्मणि कर्तव्यम्; न तु ब्रह्मविज्ञाने यत्नः; अत्यन्तप्रसिद्धत्वात्। अविद्याकल्पितनामरूपविशेषाकारापहृतबुद्धीनाम् अत्यन्तप्रसिद्धं सुविज्ञेयम् आसन्नतरम् आत्मभूतमपि; अप्रसिद्धं दुर्विज्ञेयम् अतिदूरम् अन्यदिव च प्रतिभाति अविवेकिनाम्। बाह्याकारनिवृत्तबुद्धीनां तु लब्धगुर्वात्मप्रसादानां न अतः परं सुखं सुप्रसिद्धं सुविज्ञेयं स्वासन्नतरम् अस्ति। तथा चोक्तम् – प्रत्यक्षावगमं धर्म्यम् (गीता 9।2) इत्यादि॥ केचित्तु पण्डितंमन्याः निराकारत्वात् आत्मवस्तु न उपैति बुद्धिः। अतः दुःसाध्या सम्यग्ज्ञाननिष्ठा इत्याहुः। सत्यम् एवं गुरुसंप्रदायरहितानाम् अश्रुतवेदान्तानाम् अत्यन्तबहिर्विषयासक्तबुद्धीनां सम्यक्प्रमाणेषु अकृतश्रमाणाम्। तद्विपरीतानां तु लौकिकग्राह्यग्राहकद्वैतवस्तुनि सद्बुद्धिः नितरां दुःसंपाधा; आत्मचैतन्यव्यतिरेकेण वस्त्वन्तरस्य अनुपलब्धेः; यथा च एतत् एवमेव; न अन्यथा इति अवोचाम उक्तं च भगवता यस्या जाग्रति भूतानि सा निशा पश्यतो मुनेः (गीता 2।69) इति। तस्मात् बाह्याकारभेदबुद्धिनिवृत्तिरेव आत्मस्वरूपावलम्बनकारणम्। न हि आत्मा नाम कस्यचित् कदाचित् अप्रसिद्धः प्राप्यः हेयः उपादेयो वा अप्रसिद्धे हि तस्मिन् आत्मनि स्वार्थाः सर्वाः प्रवृत्तयः व्यर्थाः प्रसज्येरन्। न च देहाद्यचेतनार्थत्वं शक्यं कल्पयितुम्। न च सुखार्थं सुखम्; दुःखार्थं दुःखम्। आत्मावगत्यवसानार्थत्वाच्च सर्वव्यवहारस्य। तस्मात् यथा स्वदेहस्य परिच्छेदाय न प्रमाणान्तरापेक्षा; ततोऽपि आत्मनः अन्तरतमत्वात् तदवगतिं प्रति न प्रमाणान्तरापेक्षा इति आत्मज्ञाननिष्ठा विवेकिनां सुप्रसिद्धा इति सिद्धम्॥ येषामपि निराकारं ज्ञानम् अप्रत्यक्षम्; तेषामपि ज्ञानवशेनैव ज्ञेयावगतिरिति ज्ञानम् अत्यन्तप्रसिद्धं सुखादिवदेव इति अभ्युपगन्तव्यम्। जिज्ञासानुपपत्तेश्च – अप्रसिद्धं चेत् ज्ञानम्; ज्ञेयवत् जिज्ञास्येत। यथा ज्ञेयं घटादिलक्षणं ज्ञानेन ज्ञाता व्याप्तुम् इच्छति; तथा ज्ञानमपि ज्ञानान्तरेण ज्ञातव्यम् आप्तुम् इच्छेत्। न एतत् अस्ति। अतः अत्यन्तप्रसिद्धं ज्ञानम्; ज्ञातापि अत एव,प्रसिद्धः इति। तस्मात् ज्ञाने यत्नो न कर्तव्यः; किं तु अनात्मनि आत्मबुद्धिनिवृत्तावेव। तस्मात् ज्ञाननिष्ठा सुसंपाद्या॥ सा इयं ज्ञानस्य परा निष्ठा उच्यते; कथं कार्या इति –,
गम्भीरानन्दः
18.50 Nibodha, understand for certain; me, from Me, from My utterance-. Is it elaborately; The Lord says, no, samasena, in brief; eva, indeed, O son of Kunti, how siddhim praptah, one who has achieved success, one who, by worshipping God through one’s duties, has achieved success in the form of fitness of the body and organs for steadfastness in Knowledge, which comes from His grace; (-the reiteration of the phrase siddhim praptah is meant for introducing what follows; what is that succeeding subject for which this reiteration stands is being answered:) yatha tatha, that process by which, that process in the form of steadfastness in Knowledge, by which that process of aciring steadfastness in Knowledge by which; apnoti, attains; brahma, Brahman, th supreme Self-. In order to point out-as ‘It is this’-the realization of Brahman which was promised in, ’that process by which one৷৷.attains Brahman,’ the Lord says; ya, which; is the para, supreme; nistha, consummation, i.e. the supreme culmination; jnanasya, of Knowledge. Of what; Of the knowledge of Brahman. Of what kind is it; It is of the same kind as the realization of the Self. Of what kind is that; As is the Self. Of what nature is It; As has been described by the Lord and the Upanisadic texts, and established through reason. Objection: Is it not that knowledge takes the form of its object; But it is not admitted anywhere that the Self is an object, or even that It has form. Pseudo-Vedantin: Is it not heard of in such texts as, ‘radiant like the sun’ (Sv. 3.8), ‘Of the nature of effulgence’ (Ch. 3.14.2) and ‘Self-effulgent’ (Br. 4.3.9), that the Self has form; Objection: No, because those sentences are meant for refuting the idea that the Self is of the nature of darkness. When the Self is denied of possessing forms of substance, ality, etc., the contingency arises of the Self’s being of the nature of darkness. The sentences, ‘radiant like the sun,’ etc. are meant for ruting this. And this follows from the specific denial of from by saying, ‘Formless’ (Ka. 1.3.15), and from such texts as, ‘His form does not exist within the range of vision; nobody sees Him with the eye’ (Ka. 2.3.9: Sv. 4.20), ‘soundless, touchless’ (ka. 1.3.15), etc. which show that the Self is not an object of perception. Therefore it remains unproved that there can be any knowledge which takes the form of the Self. How, then, can there be the knowledge of the Self; For, all knowledge that there can be with regard to objects assumes their respective forms. And it has been said that the Self has no form. Moreover, if both knowledge and the Self be formless, then how can there be the consummation [Firmness in Self-realization.] of the (repeated) contemplation on that (knowledge of the Self); Vedantin: No. Since it can be established that the Self is supremely taintless, pure and subtle, and it can also be established that the intellect can have taintlessness etc. like the Self, therefore it stands to reason that the intellect can take a form resembling the consciousness of the Self. The mind becomes impressed with the semblance of the intellect; the organs become impressed with the semblance of the mind; and the body becomes impressed with the semblance of hte organs. Hence it is that the idea of the body itself being the Self is held by ordinary people. The Lokayatikas (materialists), who hold that the body is identical with consciousness, say that a person is a body endowed with consciousness; so also there are others who say that the organs are identical with consciousness; there are others who say that the mind is identical with consciousness, and still others who say that the intellect is identical with consciousness. Some accept as the Self the Unmanifest [The inmost Ruler (antaryamin), possessing a semblance of Consciousness.], called the Undifferentiated, which is more internal than that (intellect) and is within the domain of (primordial) ignorance. Indeed, in every case, beginning from the intellect to the body, the cause of mis-conceived Selfhood is the semblance of the Consciousness that is the Self. Hence, knowledge about the Self is not a subject for injunction. What then; Only the eradication of the superimposition of name, form, etc., which are not the Self, is what has to be undertaken, but not the knowledge of the Self that is Consciousness. For it is the Self which is experienced as possessed of the forms of all the various objects that are superimposed (on It) through ignorance. It is evidently because of this that the Buddhists who uphold the view of (momentary) consciousness have concluded that there is no substance at all apart from (momentary) consciousness, and that it is not in need of any other valid proof since they hold that it is self-cognized. Therefore, what is to be undertaken is only the elimination of the superimposition on Brahman through ignorance, but no effort is needed for knowing Brahman (Consciousness), for It is ite self-evident! It is because the intellect is distracted by particular appearances of name and form imagined through ignorance that Brahman, even though self-evident, easily realizable, nearer than all else and identical with oneself, appears to be concealed, difficult to realize, very far and different, But to those whose intellect has become free from external appearances and who have obtained the grace of a teacher and serenity of mind, there is nothing more blissful, manifest, well known, easily realized and nearer to oneself than this Self. And thus it has been declared, ‘directly realizable, righteous,’ etc. (9.2). However, some wiseacres assert that the intellect cannot comprehend the entity called the Self since It is formless; hence, complete steadfastness in Knowledge is impossible. This is truly so for those who have not associated with a traditional line of teachers; who have not heard the Upanisads; whose intellects are too much engrossed with external objects; and who have not applied themselves diligently to the perfect means of knowledge. For those, on the other hand, who are the opposite of these, it is absolutely impossible to have the idea of reality with regard to empirical objects, which are within the realm of duality involving the knower and the known, because in their case there is no perception of any other thing apart from the Consciousness that is the Self. We have already said how this is certainly so and not otherwise. It has been stated by the Lord also, ‘That during which creatures keep awake, it is night to the seeing sage’ (2.69). Therefore, the cessation of the perception of differences in the form of external things is alone the cause of resting in the reality of the Self. For, that which is called the Self is never an object which is not well known, attainable, rejectable or acceptable to anyone at any time. Were that Self to be indeed not self-evident, all activities would become meaningless. [According to Ast. the latter portion of this sentence is: svarthah sarvah pravrttayah vyarthah prasajyeran, all activities meant for one’s own benefit would become meaningless.-Tr.]. For it cannot be imagined that they could be undertaken for unconscious objects like the body etc. Besides, it cannot be that pleasure is for pleasure’s sake, or that sorrow is for sorrow’s sake. Moreover, all empirical dealings are meant for culminating in the realization of the Self. [According to B.S. 3.4.26, ‘On the strength of the Upanisadic sanction of sacrifices etc. all religious activities as well are necessary৷৷.’, sacrifices etc. are meant for leading to the realization of the Self, without which they would become meaningless.] Therefore, just as for knowing one’s own body there is no need of any other (external) means of knowledge so also there is no need of any other means of knowledge, for the realization of the Self which is innermost (in relation to the body etc.). Hence it is established that steadfastness in the knowledge of the Self is a fact very well known to the discriminating people. Even to those who hold that knowledge is formless and not cognized by direct perception, cognition of an object is dependent on knowledge. Hence it has to be admitted that knowledge is as immediate as pleasure etc. And this follows also from the impossibility of a desire to know (knowledge). Had knowledge been not self-evident, it could have been sought for like any object of knowledge. And in that case, as [This is Ast.’s reading; others read tatha.-Tr.] a knower seeks to perceive through knowledge such objects of knowledge as pot etc., similarly the knower would have sought to perceive knowledge through another knowledge! But this is not the case. Therefore knowledge is ite self-revealing, and for the very same reason the knower also is self-revealed. Hence, effort is not needed for knowledge, but only for the removal of the notion of what is not-Self. [In place of anatma-buddhi-nivrttau, Ast. has ‘anatmani atma-buddhi-nivrttau, for the termination of thinking what is not the Self as the Self’.-Tr.] Conseently, steadfastness in Knowledge is easy of accomplishment. It is being stated how this supreme consummation of Knowledge is to be attained:
हरिकृष्णदासः
॥18.50॥ पूर्वोक्त स्वधर्मानुष्ठानद्वारा ईश्वरार्चनरूप साधनसे उत्पन्न हुई; ज्ञाननिष्ठाप्राप्तिकी योग्यतारूप सिद्धिको; जो प्राप्त कर चुका है और जिसमें आत्मविषयक विवेकज्ञान उत्पन्न हो गया है; उस पुरुषको; जिस क्रमसे केवल आत्मज्ञाननिष्ठारूप नैष्कर्म्यसिद्धि मिलती है; वह ( क्रम ) बतलाना है; अतः कहते हैं –, सिद्धिको प्राप्त हुआ; अर्थात् अपने कर्मोंद्वारा ईश्वरकी पूजा करके; उसकी कृपासे उत्पन्न हुई शरीर और इन्द्रियोंकी ज्ञाननिष्ठाप्राप्तिका योग्यतारूप सिद्धिको प्राप्त हुआ पुरुष – यह पुनरुक्ति आगे कहे जानेवाले वचनोंके साथ सम्बन्ध जो़ड़नेके लिये है। वे आगे कहे जानेवाले वचन कौनसे हैं जिनके लिये पुनरुक्ति है सो बतलाते हैं – जिस ज्ञाननिष्ठारूप प्रकारसे ( साधक ब्रह्मको) – परमात्माको पाता है; उस प्रकारको ; यानी ज्ञाननिष्ठाप्राप्तिके क्रमको; तू मेरे वचनोंसे निश्चयपूर्वक समझ। क्या ( उसका ) विस्तारपूर्वक ( वर्णन करेंगे ) इसपर कहते हैं कि नहीं। हे कौन्तेय समाससे अर्थात् संक्षेपसे ही; जिस क्रमसे ब्रह्मको प्राप्त होता है; उसे समझ। इस वाक्यसे जिस ब्रह्मप्राप्तिके लिये प्रतिज्ञा की थी; उसे इदंरूपसे ( स्पष्ट ) दिखानेके लिये कहते हैं कि ज्ञानकी जो परानिष्ठा है उसको सुन। अन्तिम अवधिपरिसमाप्तिका नाम निष्ठा है। ऐसी जो ब्रह्मज्ञानकी परमावधि है ( उसको सुन )। वह ( ब्रह्मज्ञानकी निष्ठा ) कैसी है जैसा कि आत्मज्ञान है। वह कैसा है जैसा आत्मा है। वह,( आत्मा ) कैसा है जैसा भगवान्ने बतलाया है तथा जैसा उपनिषद्वाक्योंद्वारा कहा गया है और जैसा न्यायसे सिद्ध है। पू₀ – ज्ञान विषयाकार होता है; परंतु आत्मा न तो कहीं भी विषय माना जाता है और न आकारवान् ही। उ₀ – किंतु आदित्यवर्ण प्रकाशस्वरूप स्वयंज्योति इस तरह आत्माका आकारवान् होना तो श्रुतिमें कहा है। पू₀ – यह कहना ठीक नहीं क्योंकि वे वाक्य तमःस्वरूपत्वका निषेध करनेके लिये कहे गये हैं। अर्थात् आत्मामें द्रव्यगुण आदिके आकारका प्रतिषेध करनेपर जो आत्माके अन्धकाररूप माने जानेकी आशङ्का होती है; उसका प्रतिषेध करनेके लिये ही आदित्यवर्णम् इत्यादि वाक्य हैं क्योंकि अरूपम् आदि वाक्योंसे विशेषतः रूपका प्रतिषेध किया गया है और इसका ( आत्माका ) रूप इन्द्रियोंके सामने नहीं ठहरता; इसको ( आत्माको ) कोई भी आंखोंसे नहीं देख सकता यह अशब्द है; अस्पर्श है इत्यादि वचनोंसे भी आत्मा किसीका विषय नहीं है; यह बात कही गयी है। सुतरां जैसा आत्मा है वैसा ही ज्ञान है यह कहना युक्तियुक्त नहीं है। तब फिर आत्माका ज्ञान कैसे होता है क्योंकि सभी ज्ञान; जिसको विषय करते हैं उसीके आकारवाले होते हैं और आत्मा निराकार है ऐसा कहा है। फिर ज्ञान और आत्मा दोनों निराकार होनेसे उसमें भावना और निष्ठा कैसे हो सकती है उ₀ – यह कहना ठीक नहीं क्योंकि आत्माका अत्यन्त निर्मलत्व; स्वच्छत्व और सूक्ष्मत्व सिद्ध है और बुद्धिका भी आत्माके सदृश निर्मलत्व आदि सिद्ध है; इसलिये उसका आत्मचैतन्यके आकारसे आभासित होना बन सकता है। बुद्धिसे आभासित मन; मनसे आभासित इन्द्रियाँ और इन्द्रियोंसे आभासित स्थूल शरीर है। इसलिये सांसारिक मनुष्य देहमात्रमें ही आत्मदृष्टि करते हैं। देहात्मवादी लोकायतिक; चेतनाविशिष्ट शरीर ही आत्मा है ऐसा कहते हैं; दूसरे; इन्द्रियोंको चेतन कहनेवाले हैं तथा कोई मनको और कोई बुद्धिको चेतन कहनेवाले हैं। कितने ही; उस बुद्धिके भी भीतर व्याप्त; अव्यक्तकोअव्याकृतसंज्ञक अविद्यावस्थ ( चिदाभास ) को आत्मरूपसे समझनेवाले हैं। बुद्धिसे लेकर शरीरपर्यन्त सभी जगह आत्मचैतन्यका आभास ही उनमें आत्माकी भ्रान्तिका कारण है। अतः ( यह सिद्ध हुआ कि ) आत्मविषयक ज्ञान विधेय नहीं है। तो क्या विधेय है नामरूप आदि अनात्मा वस्तुओंका जो आत्मामें अध्यारोप है उसकी निवृत्ति ही कर्तव्य है। आत्मचैतन्यका विज्ञान प्राप्त करना नहीं है क्योंकि ज्ञान; अविद्याद्वारा आरोपित समस्त पदार्थोंके आकारमें ही विशेषरूपसे ग्रहण किया हुआ है। यही कारण है कि विज्ञानवादी बौद्ध विज्ञानसे अतिरिक्त अन्य कोई वस्तु ही नहीं है इस प्रकार मानते हैं और उस ज्ञानको स्वसंवेद्य माननेके कारण प्रमाणान्तरकी आवश्यकता नहीं मानते। सुतरां ब्रह्ममें जो अविद्याद्वारा अध्यारोप किया गया है; उसका निराकरणमात्र कर्तव्य है। ब्रह्मज्ञानके लिये प्रयत्न कर्तव्य नहीं है क्योंकि ब्रह्म तो अत्यन्त प्रसिद्ध ही है। ब्रह्म यद्यपि अत्यन्त प्रसिद्ध; सुविज्ञेय; अति समीप और आत्मस्वरूप है तो भी वह विवेकरहित मनुष्योंको; अविद्याकल्पित नामरूपके भेदसे उनकी बुद्धि भ्रमित हो जानेके कारण; अप्रसिद्ध; दुर्विज्ञेय; अति दूर और दूसरासा प्रतीत हो रहा है। परंतु जिनकी बाह्याकार बुद्धि निवृत्त हो गयी है; जिन्होंने गुरु और आत्माकी कृपा लाभ कर ली है; उनके लिये इससे अधिक सुप्रसिद्ध; सुविज्ञेय; सुखस्वरूप और अपने समीप कुछ भी नहीं है। प्रत्यक्षउपलब्ध धर्ममय इत्यादि वाक्योंसे भी यही बात कही गयी है। कितने ही अपनेको पण्डित माननेवाले यों कहते हैं कि आत्मतत्त्व निराकार होनेके कारण उसको बुद्धि नहीं पा सकती अतः सम्यक् ज्ञाननिष्ठा दुःसाध्य है। ठीक है; जो गुरुपरम्परासे रहित हैं; जिन्होंने वेदान्तवाक्योंको ( विधिपूर्वक ) नहीं सुना है; जिनकी बुद्धि सांसारिक विषयोंमें अत्यन्त आसक्त हो रही है; जिन्होंने यथार्थ ज्ञान करानेवाले प्रमाणोंमें परिश्रम नहीं किया है; उनके लिये यही बात है। परंतु जो उनसे विपरीत हैं; उनके लिये तो; लौकिक ग्राह्यग्राहक भेदयुक्त,वस्तुओंमें सद्भाव सम्पादन करना ( इनको सत्य समझना ) अत्यन्त कठिन है क्योंकि उनको आत्मचैतन्यसे अतिरिक्त दूसरी वस्तुकी उपलब्धि ही नहीं होती। यह ठीक इसी तरह है; अन्यथा नहीं है। यह बात हम पहले सिद्ध कर आये हैं और भगवान्ने भी कहा है कि जिसमें सब प्राणी जागते हैं; ज्ञानी मुनिकी वही रात्रि है इत्यादि। सुतरां आत्मस्वरूपके अवलम्बनमें; बाह्य नानाकार भेदबुद्धिकी निवृत्ति ही कारण है क्योंकि आत्मा कभी किसीके भी लिये अप्रसिद्ध; प्राप्तव्य; त्याज्य या उपादेय नहीं हो सकता। आत्माको अप्रसिद्ध मान लेनेपर तो सभी प्रवृत्तियोंको निरर्थक मानना सिद्ध होगा। इसके सिवा न तो यह कल्पना की जा सकती है कि अचेतन शरीरादिके लिये ( सब कर्म किये जाते हैं ) और न यही कि सुखके लिये सुख है या दुःखके लिये दुःख है क्योंकि सारे व्यवहारका प्रयोजन अन्तमें आत्माके ज्ञानका विषय बन जाना है। इसलिये; जैसे अपने शरीरको जाननेके लिये अन्य प्रमाणकी अपेक्षा नहीं है; वैसे ही आत्मा उससे भी अधिक अन्तरतम होनेके कारण आत्माको जाननेके लिये प्रमाणान्तरकी आवश्यकता नहीं है अतः यह सिद्ध हुआ कि विवेकियोंके लिये आत्मज्ञाननिष्ठा सुप्रसिद्ध है। जिनके मतमें ज्ञान निराकार और अप्रत्यक्ष है उनको भी; ज्ञेयका बोध ( अनुभव ) ज्ञानके ही अधीन होनेके कारण; सुखादिकी तरह ही ज्ञान अत्यन्त प्रसिद्ध है; यह मान लेना चाहिये। तथा ज्ञानको जाननेके लिये जिज्ञासा नहीं होती इसलिये भी ( यह मान लेना चाहिये कि ज्ञान प्रत्यक्ष है ) यदि ज्ञान अप्रत्यक्ष होता; तो अन्य ज्ञेय वस्तुओंकी तरह उसको भी जाननेके लिये इच्छा की जाती; अर्थात् जैसे ज्ञाता ( पुरुष ) घटादिरूप ज्ञेय पदार्थोंका ज्ञानके द्वारा अनुभव करना चाहता है; उसी तरह उस ज्ञानको भी अन्य ज्ञानके द्वारा जाननेकी इच्छा करता; परंतु यह बात नहीं है।
सुतरां ज्ञान अत्यन्त प्रत्यक्ष है और इसीलिये ज्ञाता भी अत्यन्त ही प्रत्यक्ष है। अतः ज्ञानके लिये प्रयत्न कर्तव्य नहीं है; किंतु अनात्मबुद्धिकी निवृत्तिके लिये ही कर्तव्य है इसीलिये ज्ञाननिष्ठा सुसंपाद्य है॥50॥
आनन्दगिरिः
॥18.50॥ ज्ञानप्राप्तियोग्यतावतो जातसम्यग्धियस्तत्फलप्राप्तौ मुक्तावुक्तायां वक्तव्यशेषो नास्तीत्याशङ्क्याह – पूर्वोक्तेनेति। क्रमाख्यं वस्तु तदित्युच्यते। सिद्धिं प्राप्त इत्युक्तमेव कस्मादनूद्यते तत्राह – तदनुवाद इति। उत्तरमेव प्रश्नपूर्वकं स्फोरयति – किं तदित्यादिना। ज्ञाननिष्ठाप्राप्तिक्रमस्य विस्तरेणोक्तौ दुर्बोधत्वमाशङ्क्य परिहरति – किमिति। चतुर्थपादस्य पूर्वेणासङ्गतिमाशङ्क्याह – यथेति। निष्ठायाः सापेक्षत्वात्प्रतिसंबन्धि प्रतिनिर्देष्टव्यमित्याह – कस्येति। या ब्रह्मज्ञानस्य परा निष्ठा सा प्रकृतस्य ज्ञानस्य निष्ठेत्याह – ब्रह्मेति। तस्य परा निष्ठा न प्रसिद्धेति कृत्वा साधनानुष्ठानाधीनतया साध्येति मत्वा पृच्छति – कीदृशीति। प्रसिद्धमात्मज्ञानमनुरुध्य ब्रह्मज्ञाननिष्ठा सुज्ञानेत्याह – यादृशमिति। तत्रापि प्रसिद्धिरसिद्धेति शङ्कते – कीदृगिति। अर्थेनैव विशेषो हीति न्यायेनोत्तरमाह – यादृश इति। तस्मिन्नपि विप्रतिपत्तेरप्रसिद्धिमभिसंधाय पृच्छति – कीदृश इति। भगवद्वाक्यान्युपनिषद्वाक्यानि चाश्रित्य परिहरति – यादृश इति। न जायते म्रियते वेत्यादीनि वाक्यानि। कूटस्थत्वमसङ्गत्वमित्यादिन्यायः। ज्ञानस्य,विषयाकारत्वादात्मनश्चाविषयत्वादनाकारत्वाच्च तदाकारज्ञानायोगादात्मप्रसिद्धावपि नात्मज्ञानप्रसिद्धिरिति शङ्कते – नन्विति। आकारवत्त्वमात्मनः श्रुतिसिद्धमिति सिद्धान्ती शङ्कते – नन्वादित्येति। उक्तवाक्यानामन्यार्थत्वदर्शनेन पूर्ववादी परिहरति – नेत्यादिना। संग्रहवाक्यं प्रपञ्चयति – द्रव्येति। इतश्चाकारवत्त्वमात्मनो नास्तीत्याह – अरूपमिति। यदात्मनो विषयत्वाभावात्तद्विषयं ज्ञानं न संभवतीत्युक्तं तदुपपादयति – अविषयत्वाच्चेति। आत्मनोऽविषयत्वे श्रुतिमुदाहरति – नेत्यादिना। संदृशे सम्यग्दर्शनविषयत्वायास्यात्मनो रूपं न तिष्ठतीत्यर्थः। तदेव करणागोचरत्वेनोपपादयति – नेति। शब्दादिशून्यत्वाच्चात्मा विषयो न भवतीत्याह – अशब्दमिति। आत्मनो विषयत्वाकारवत्त्वयोरभावे फलितमाह – तस्मादिति। ज्ञानस्यात्माकारत्वाभावे सत्यात्मज्ञानमिति व्यपदेशासिद्धिरित्येकदेशी शङ्कते – कथं तर्हीति। कात्रानुपपत्तिरित्याशङ्क्याह – सर्वं हीति। आत्मनोऽपि तर्हि विषयत्वेन ज्ञानस्य तदाकारत्वं स्यादित्याशङ्क्याह – निराकारश्चेति। आत्मनो विषयत्वराहित्यं चकारार्थः। आत्मवत्तज्ज्ञानस्यापि तर्हि निराकारत्वं भविष्यतीत्यत्राह – ज्ञानेति। तच्छब्देनात्मज्ञानं गृह्यते। तस्य भावना पौनःपुन्येनानुसन्धानं तस्यानिष्ठा समाप्तिरात्मसाक्षात्कारदार्ढ्यं नचैतत्सर्वमात्मनो ज्ञानस्य वा निराकारत्वे सिध्यतीत्यर्थः। ज्ञानात्मनोः साम्योपन्यासेन सिद्धान्ती समाधत्तेनेत्यादिना। यथोक्तसाम्यानुसारादात्मचैतन्याभासव्याप्ता ज्ञानपरिणामवती बुद्धिः साभासबुद्धिव्याप्तं मनः साभासमनोव्याप्तानीन्द्रियाणि साभासेन्द्रियव्याप्तः स्थूलो देहः। तत्र लौकिकभ्रान्तिं प्रमाणयति – अत इति। आत्मदृष्टेर्देहमात्रे दृष्टत्वात्तत्र चैतन्याभासव्याप्तिरिन्द्रियद्वारा कल्प्यत इन्द्रियेषु च तद्दृष्टिदर्शनाच्चैतन्याभासवत्त्वं मनोद्वारा सिध्यति मनसि चात्मदृष्टेश्चैतन्याभासवत्त्वं बुद्धिद्वारा लभ्यते बुद्धौ चात्मदृष्टेरज्ञानद्वारा चैतन्याभाससिद्धिरित्यर्थः। देहे लौकिकमात्मत्वदर्शनं न्यायाभावादुपेक्षितमित्याशङ्क्याह – देहेति। तथापि कथमिन्द्रियाणां न्यायहीनमात्मत्वमिष्टमित्याशङ्क्याह – तथेति। तथापि मनसो यदात्मत्वं तन्न्यायशून्यमित्याशङ्क्याह – अन्य इति। बुद्धेरात्मत्वमपि न्यायोपेतमिति सूचयति – अन्ये बुद्धीति। देहादौ बुध्यन्ते परमात्मत्वबुद्धिर्नान्यत्रेति नियमं वारयति – ततोऽपीति। तत्र हि साभासेऽन्तर्यामिणि कारणोपासकानामात्मत्वधीरस्तीत्यर्थः। बुद्ध्यादौ देहान्ते लौकिकपरीक्षकाणामात्मत्वभ्रान्तौ साघारणं कारणमाह – सर्वत्रेति। आत्मज्ञानस्य लौकिकपरीक्षकप्रसिद्धत्वादेव विधिविषयत्वमपि परेष्टं परास्तमित्याह – इत्यत इति। ज्ञानस्य विधेयत्वाभावे किं कर्तव्यं द्रष्टव्यादिवाक्यैरित्याशङ्क्याह – किंतर्हीति। आत्मज्ञानस्याविधेयत्वे प्रागुक्तमतःशब्दितं हेतुं विवृणोति – अविद्येति। देहेन्द्रियमनोबुद्ध्यव्यक्तैरुपलभ्यमानैः सहोपलभ्यते चैतन्यं नान्यथा तेषामुपलम्भो जडत्वादित्यत्र विज्ञानवादिभ्रान्तिं प्रमाणयति – अतएवेति। सर्वं ज्ञेयं ज्ञानव्याप्तमेव ज्ञायते तेन ज्ञानातिरिक्तं नास्त्येव वस्तु; संमतं हि स्वप्नदृष्टं वस्तु ज्ञानातिरिक्तं नास्तीति ते भ्राम्यन्तीत्यर्थः। ज्ञानस्यापि ज्ञेयत्वाज्ज्ञातृ वस्त्वन्तरमेष्टव्यमित्याशङ्क्याह – प्रमाणान्तरेति। ज्ञानस्य स्वेनैव ज्ञेयत्वोपगमनेनातिरिक्तप्रमाणनिरपेक्षतां च प्रतिपन्ना इति संबन्धः। ब्रह्मात्मनि ज्ञानस्य सिद्धत्वेनाविधेयत्वे फलितमाह – तस्मादिति। यत्नोऽत्र भावना। ब्रह्मणस्तज्ज्ञानस्य चात्यन्तप्रसिद्धत्वे कथं ब्रह्मण्यन्यथा प्रथा लौकिकानामित्यत्राह – अविद्येति। यथाप्रतिभासं दुर्विज्ञेयत्वादिरूपमेव ब्रह्म किं न स्यात्तत्राह – बाह्येति। गुरुप्रसादः शुश्रूषया तोषितबुद्धेराचार्यस्य करुणातिरेकादेव तत्त्वं बुध्यतामिति निरवग्रहोऽनुग्रहः; आत्मप्रसादस्त्वधिगतपदशक्तिवाक्यतात्पर्यस्य श्रौतयुक्त्यनुसंधानादात्मनो मनसो विषयव्यावृत्तस्य प्रत्यगेकाग्रतया तत्प्रावण्यमिति विवेकः। आत्मज्ञानस्यात्मद्वारा प्रसिद्धत्वे वाक्योपक्रमं प्रमाणयति – तथाचेति। आत्मनो निराकारत्वात्तस्मिन्बुद्धेरप्रवृत्तेः सम्यग्ज्ञाननिष्ठा न सुसंपाद्येति मतमुत्थापयति – केचित्त्विति। बहिर्मुखानामन्तर्मुखानां वा ब्रह्मणि सम्यग्ज्ञाननिष्ठा दुःसाध्येति विकल्प्याद्यमनूद्याङ्गीकरोति – सत्यमिति। पूर्वपूर्वविशेषणमुत्तरोत्तरविशेषणे हेतुत्वेन योजनीयम्। द्वितीयं दूषयति – तद्विपरीतानामिति। अद्वैतनिष्ठानां द्वैतविषये सम्यग्बुद्धेरतिशयेन दुःसंपाद्यत्वे हेतुमाह – आत्मेति। तद्व्यतिरेकेण वस्त्वन्तरस्यासत्त्वं कथमित्याशङ्क्याह – तथाचेति। अद्वैतमेव वस्तु द्वैतं त्वाविद्यकं नान्यथा तात्त्विकमित्येतदेवमेव यथा स्यात्तथोक्तवन्तो वयं तत्र तत्राध्यायेष्विति योजना। अन्तर्निष्ठानामद्वैतदर्शिनां द्वैते नास्ति सद्बुद्धिरित्यत्र भगवतोऽपि संमतिमाह – उक्तंचेति। परमतं निराकृत्य प्रकृतमुपसंहरन्नात्मनो निराकारत्वे ज्ञानस्य तदालम्बनत्वे किं कारणमित्याशङ्क्याह – तस्मादिति। नन्वात्मा कथंचित्सम्यग्ज्ञानक्रियासाध्यश्चेत्तस्य हेयोपादेयान्यतरकोटिनिवेशात्प्राप्तं स्वर्गादिवत्कि्रयासाध्यत्वेनाप्रसिद्धत्वं नेत्याह – नहीति। आत्मत्वादेव प्रसिद्धत्वेन प्राप्तत्वादनात्मवत्तस्य हेयोपादेयत्वयोरयोगान्न क्रियासाध्यतेत्यर्थः। आत्मनश्चेदृते क्रियामसिद्धत्वं,तदा सर्वप्रवृत्तीनामभ्युदयनिःश्रेयसार्थानामात्मार्थत्वायोगादर्थिनोऽभावे स्वार्थत्वमप्रामाणिकं स्यादित्याह – अप्रसिद्धे हीति। ननु प्रवृत्तीनां स्वार्थत्वं देहादीनामन्यतमस्यार्थित्वेन तादर्थ्यादित्याशङ्क्य घटादिवदचेतनस्यार्थित्वायोगान्नैवमित्याह – न चेति। ननु प्रवृत्तीनां फलावसायितया सुखदुःखयोरन्यतरार्थत्वान्न स्वार्थत्वं तत्राह – न चेति। प्रवृत्तीनां सुखदुःखार्थत्त्वेऽपि तयोः स्वार्थत्वासिद्धेरर्थित्वेनात्मा सिध्यतीत्यर्थः। किञ्च सर्वापेक्षान्यायादात्मावगत्यवसानः सर्वो व्यवहारः; नचात्मन्यप्रसिद्धे यज्ञादिव्यवहारस्य तज्ज्ञानार्थत्वं तेनात्मप्रसिद्धिरेष्टव्येत्याह – आत्मेति। नन्वात्माप्रसिद्धोऽपि प्रमाणद्वारा प्रसिध्यति यत्सिध्यति तत्प्रमाणादेवेति न्यायात्तत्राह – तस्मादिति। मानमेयादिसर्वव्यवहारस्यात्मावगत्यन्तत्वोपगमात्प्रागेव प्रमाणप्रवृत्तेरात्मप्रसिद्धेरेष्टव्यत्वादित्यर्थः। आत्मावगतेरेवं स्वाभाविकत्वे विवेकवतामारोपनिवृत्त्या ज्ञाननिष्ठा सुप्रसिद्धेत्युपसंहरति – इत्यात्मेति। नन्वनाकारामेवानुमिमीमहे बुद्धिमिति वदतामनाकारमप्रत्यक्षमिच्छतां प्रागर्थावगतेरप्रसिद्धमेव ज्ञानं नेत्याह – येषामिति। सुखादिवन्नित्यानुभवगम्यं ज्ञानं नानुमेयं विषयावगत्या तदनुमितावितरेतराश्रयादिति भावः। इतश्च ज्ञानं प्रसिद्धमन्यथा तत्र जिज्ञासाप्रसङ्गान्नच ज्ञाने जिज्ञासा प्रसिद्धा प्रसिद्धे च तदयोगादित्याह – जिज्ञासेति। तदेव प्रपञ्चयति – अप्रसिद्धं चेदिति। दृष्टान्तमेव व्याचष्टे – यथेति। दार्ष्टान्तिकं विवृणोति – तथेति। इष्टापत्तिं निराचष्टे – नचेति। ज्ञानस्य ज्ञानान्तरेण ज्ञेयत्वमेतच्छब्दार्थः। अनवस्थापत्तेरित्यर्थः। ज्ञाने जिज्ञासानुपपत्तौ फलितमाह – अत इति। प्रसिद्धेऽपि ज्ञाने ज्ञातर्यात्मनि किमायातं तदाह – ज्ञातापीति। ज्ञानस्य विना ज्ञातारमपर्यवसानादित्यर्थः। ज्ञानस्य प्रसिद्धत्वे तत्र भावनापर्यायो विधिर्नास्तीत्याह – तस्मादिति। कुत्र तर्हि प्रयत्नाख्या भावनेत्याशङ्क्याह – किंत्विति। अविषये निराकारे चात्मनि ज्ञाननिष्ठाया दुःसंपाद्यत्वाभावे फलितं निगमयति – तस्मादिति।
नीलकण्ठः
॥18.50॥ स्वकर्मनिरतः सिद्धिं यथा विन्दतीत्येतत्प्रतिज्ञातमुपपादितम्। इदानीं नैष्कर्म्यसिद्धिं प्राप्तोऽपि परिव्राट् वशीकारसंज्ञकवैराग्यवान् यथा ब्रह्म प्राप्नोति तथा वक्तुं प्रतिजानीते – सिद्धिमिति। सिद्धिं नैष्कर्म्यसिद्धिं निबोध बुध्यस्व। मे मद्वचनात्समासेन संक्षेपेणैव हे कौन्तेय; या यत्प्राप्यं ब्रह्म। विधेयापेक्षं स्त्रीत्वम्। ज्ञानस्य परा निष्ठा यदपेक्षयाऽन्यज्ज्ञेयं आन्तरतरं नास्तीत्यर्थः।
धनपतिः
॥18.50॥ पूर्वोक्तेन स्वकर्मानुष्ठानेनेश्वराभ्यर्जनरुपेण जनितां केवलज्ञाननिष्ठायोग्यतालक्षणां सिद्धिं प्राप्तस्योत्पन्नात्मविवेकविज्ञानस्य केवलात्मज्ञाननिष्ठा नैष्कर्म्यलक्षणा प्रकृष्टा सिद्धिर्येन क्रमेण भवति तं श्रावयितुमाह। सिद्धिं स्वकर्मणेश्वरमभ्यर्च्य तत्प्रसादजां कायादीनां ज्ञाननिष्ठायोग्यतालक्षणां सिद्धिं प्राप्तः यथा येन प्रकारेण ज्ञाननिष्ठारुपेण ब्रह्म परमात्मानं प्राप्नोति तथा तं प्रकारं ज्ञाननिष्ठाप्राप्तिक्रमं मे मम वचनान्निबोध त्वं निश्चयेनावधारय। किं विस्तरेण; नेत्याह – समासेनैव संक्षेपेणैव। यं प्रकारमाश्रित्य मातृगर्भेण न संबध्यते तन्निबोधेति द्योतनार्थ कौन्तेयेति संबोधनम्। प्रतिज्ञातां ब्रह्मप्राप्तिमिदन्तया दर्शयितुमाह – निष्ठेति। या ब्रह्माप्राप्तिर्ज्ञानस्यात्मज्ञानस्य परा निष्ठा परा परिसमाप्तिः। अव्यक्तोयमचिन्त्योयमविकार्योयमुच्यते। क्षेत्रज्ञं तापि मां विद्धि सर्वक्षेत्रेषु भारत। न जायते म्रियते वासदेव सोम्येदमग्र आसीदेकमेवाद्वितीयंसत्यं ज्ञानमनन्तं ब्रह्मतत्त्वमसि इत्यादिभगद्वाक्यैरुपनिषद्वाक्यैश्चोक्तः कुटस्थत्वमसङ्गत्वमित्यादिन्यायाच्च प्रदर्शितो य आत्मा तस्य ज्ञानं तु न साकारवस्तुविषयकज्ञानवद्भवितुमर्हति। आत्मन आकारवत्त्वस्यानिष्टत्वात्। न संदृशे तिष्ठति रुपमस्य न चक्षुषा पश्यति कश्चिदेनम्अशब्दमस्पर्शमरुपं इत्यादिश्रुतेः। आदित्यवर्णो भारुपः स्वयंज्योतिः इत्यादिवाक्यानि तु द्रव्यगुणाद्याकारप्रतिषेधे आत्मनस्तमोरुपत्वे प्राप्ते तत्प्रतिषेधार्थानि। नन्वेवं तर्हि कथं निराकारस्यात्मनो ज्ञानं यतो यद्विषयं भवति यज्ज्ञानं तत्तदाकारं ज्ञानात्मनोश्चोभयोर्निराकारत्वेन कथमात्मज्ञानस्य पौनःपुन्येनानुसंधानात्मिका भावना निष्ठेतिचेदुच्यते। आत्मज्ञानमित्यात्मविषयं ज्ञानं न विधीयते;,चैतन्यस्वरुपस्यात्मनः सुप्रसिद्धत्वेनाज्ञातत्वाभावात्। नहि यस्य चैतन्याभासता बुद्य्धादिदेहान्ते आत्मत्वभ्रान्तिकारणं तस्याज्ञातत्वं शक्यं वक्तुम्। तस्मान्नामरुपाद्यनात्माध्यारोपणनिवृत्तिरेव प्रयत्नेन कार्या। बाह्याकारभेदनिवृत्तेरेवात्मस्वरुपावलम्बने कारणत्वात्। नात्मचैतन्यविज्ञानं तस्यात्यन्तप्रसिद्धत्वात्। नन्वत्यन्तप्रसिद्धं सुविज्ञेयमासन्नतममात्मभूतमप्यप्रसिद्धं दुर्विज्ञेयमतिदूरमन्यदिव ब्रह्म सर्वेषां कथं प्रतिभातीतिचेत्। अविद्याकल्पितनामरुपविशेषाकारापहृतबुद्धित्वेनाविवेकित्वात्तेषामिति गृहाण। बाह्याकारनिवृत्तबुद्धीनां विवेकिनां तु लब्धगुर्वात्मप्रसादानां नातःपरं सुप्रसिद्धं सुविज्ञेयं स्वासन्नमस्ति। तथाचोक्तं – प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययं इति। एतेन निराकारत्वादत्मवस्तुनो बुद्धिरुपैत्यतो दुःसाध्या सभ्यग्ज्ञाननिष्ठेति केषांचित्पण्डितंमन्यानामुक्तरपास्ता। गुरुसंप्रदायवतां श्रुतवेदान्तानां बहिर्विषयेष्वनासक्तबुद्धीनां सभ्यक्प्रमाणेषु कृतश्रमाणां चैतन्यात्मव्यतिरेकेण वस्त्वन्तरस्यानुपलब्धेर्लौकिकग्राह्यग्राहकद्वैतवस्तुनि सद्धुरत्यन्तदुःसंपाद्यत्वात्। तदुक्तंयस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः इत ज्ञानमप्यत्यन्तं प्रसिद्धमेव सुखादिवदभ्युपगन्तव्यम्। येषां; निराकारं ज्ञानमप्रत्यक्षं तेषामपि ज्ञानवशेनैव ज्ञेयावगतेर्दर्शनात्। ज्ञेयवज्ज्ञानस्य जिज्ञासानुपपत्तेश्च। तथाच ज्ञानस्य ज्ञातुश्चात्यन्तप्रसिद्धत्वादात्मज्ञाने यत्नो न कर्तव्यः किं त्वनात्मन्यात्मबुद्धिनिवृत्तावेवेति संक्षेपः।
मधुसूदन-सरस्वती
॥18.50॥ प्रागुक्तसाधनसंपन्नस्य सर्वकर्मसंन्यासिनो ब्रह्मज्ञानोत्पत्तौ साधनक्रममाह – सिद्धिमिति। स्वकर्मणेश्वरमाराध्य तत्प्रसादजां सर्वकर्मत्यागपर्यन्तां ज्ञानोत्पत्तियोग्यतारूपां सिद्धिमन्तःकरणशुद्धिं प्राप्तो यथा ब्रह्म प्राप्नोति येन प्रकारेण शुद्धमात्मानं साक्षात्करोति तथा तं प्रकारं निबोध मे मद्वचनादवधारयानुष्ठातुम्। किमतिविस्तरेण नेत्याह समासेन संक्षेपेणैव नतु विस्तरेण हे कौन्तेय; तदवधारणे किं स्यादित्यत आह – निष्ठेति। निष्ठा ज्ञानस्य या परा ज्ञानस्य विचारपरिनिष्पन्नस्य निष्ठा परिसमाप्तिर्यदनन्तरं साधनान्तरं नानुष्ठेयमस्ति। परा श्रेष्ठा सर्वान्त्या वा साक्षान्मोक्षहेतुत्वात्। तां सिद्धिं प्राप्तस्य ब्रह्मप्राप्तिरूपां ज्ञाननिष्ठां परां संक्षेपेण निबोधेत्यर्थः।
रामरायः - ५०
सिद्धिमिति। श्लोकमवतारयति—पूर्वोक्तेनेति। प्रागुक्तलक्षणामिति। चित्तशुद्धिलक्षणामित्यर्थः। ज्ञाननिष्ठाप्राप्तियोग्यतालक्षणा- मिति यावत्। तद्वक्तव्यमिति। स क्रमो वक्तव्य इत्यर्थः। कर्मजसिद्धिं प्राप्तस्य नैष्कर्म्यसिद्धिप्राप्तिर्येन क्रमेण भवति, तं क्रमं वक्ष्यामि शृण्विति प्रतिजानाति ‘सिद्धि’मिति श्लोकेन भगवानिति भावः। तदनुवादः सिद्धिप्राप्त्यनुवादः उत्तरार्थ इत्युक्ते पृच्छति—किं तदुत्तरमिति। प्रत्याह—यथेत्यादि। ब्रह्मप्राप्तिहेतुभूतज्ञाननिष्ठाप्राप्तिक्रमप्रदर्शनम् उत्तरम् , तदर्थः उत्तरार्थ इत्यर्थः। ज्ञाननिष्ठाप्राप्तिक्रम उत्तरमिति वा। तथापि पूर्वोक्त एव पर्यवसन्नोऽर्थः। इदंतयेति। इयं ब्रह्मप्राप्तिरिति बोधयितुमित्यर्थः। या ज्ञानस्य परा निष्ठा सेयमेव ब्रह्मप्राप्तिरित्यर्थः। ब्रह्मज्ञानस्य मोक्षैकफलत्वान्मोक्षस्य च ब्रह्मप्राप्तिरूपत्वाज्ज्ञानस्य पर्यवसानं ब्रह्मप्राप्तिरेव। साधनस्य साध्यं फलमेव हि पर्यवसानमिति भावः। हे कौन्तेय ! सिद्धिं प्राप्तो यथा ब्रह्म प्राप्नोति तथा समासेनैव मे वचनान्निबोध। या ज्ञानस्य परा निष्ठा भवतीति श्लोकस्यान्वयः। कर्मजसिद्धिं प्राप्तस्य पुरुषस्य ब्रह्मज्ञानस्य परा निष्ठा ब्रह्मप्राप्तिः यया ज्ञाननिष्ठया भवति, सा नैष्कर्म्यलक्षणा ज्ञाननिष्ठा येन क्रमेण प्राप्यते, तं ज्ञाननिष्ठाप्राप्तिक्रममहं वक्ष्यामि, हे कौन्तेय ! त्वं सावधानो भवेति श्लोकस्य सारार्थः।
[[९१५]]
ननु या ब्रह्मज्ञानस्य परा निष्ठा सैव ब्रह्मप्राप्तिरित्युक्तम् , सा निष्ठा कीदृशीति पृच्छति—सा कीदृशीति। उत्तरयति—यादृशम् इति। यादृशमात्मज्ञानं तादृशी ब्रह्मज्ञानस्य परा निष्ठा, ब्रह्मज्ञानस्यैव ब्रह्मप्राप्तिरूपत्वादिति भावः। कीदृक् तदिति पृच्छति—कीदृशम् इति। उत्तरयति—यादृश आत्मेति। आत्मा यादृशः, आत्मज्ञानं तादृशमेव, ज्ञानस्य विषयाकारत्वादिति भावः। ननु कीदृश आत्मेति पृच्छति। उत्तरयति—यादृश इति। भगवता गीताभिरुपनिषद्वाक् यैश्चात्मा यादृश इत्युक्तः, न्यायतश्चात्मा यादृश इति निर्णेतुं शक् यः, तादृश एवात्मेत्यर्थः। कूटस्थासङ्गस्वप्रकाशानन्दस्वरूप इति भावः।
ननु ‘न जायते म्रियते’ इत्यादिवाक् यैर्न्यायतश्चात्मनः प्रसिद्धावपि नात्मज्ञानस्य सिद्धिः, आत्मनोऽविषयत्वादनाकारत्वाच्चेति शङ्कते— नन्विति। ज्ञानं विषयाकारं विषयस्य घटादेराकार इवाकारो यस्य तत् तथोक्तं, भवतीति शेषः। विषयाकारपरिणतबुद्धिवृत्ति- प्रतिफलितचैतन्यस्य ज्ञानत्वेन व्यवहारादिति भावः। भवतु , किं ततः? इत्यत्राह—नेति। क्वचिदपि वेदान्तशास्त्रे आत्मा विषय इति नेष्यते, आकारवानित्यपि नेष्यते। आत्मनो विषयत्वाभावे हेतुप्रदर्शनार्थम् ‘आकारवान् ने’त्युक्तमाचार्यैः। आकारविशिष्टं वस्तु ज्ञानस्य विषयो भवति। तद्विषयाकारं च ज्ञानं च भवतीति निराकारस्यात्मनः कथं ज्ञानविषयत्वम्? न कथमपीति नात्मज्ञानसिद्धिरिति भावः।
न च ‘सत्यं ज्ञानमनन्तं ब्रह्मे’ति श्रुतेर्ज्ञानाकारस्यात्मनः कथं निराकारत्वमिति वाच्यम् ; तत्र ज्ञानपदस्य लाक्षणिकत्वेन चैतन्यपरत्वादात्मस्वरूपभूतं चैतन्यं निराकारमेव। वृत्तिज्ञानमेव हि साकारम्। न च निराकारमपि चैतन्यं भवतु ज्ञानस्य विषयः, आकाशादिवदिति वाच्यम् ; आकाशादेरवकाशादिमत्त्वेन साकारत्वात्। न च चैतन्यमपि गुणवत्त्वेन साकारमिति वाच्यम् ; निर्गुण- त्वात्। ‘साक्षी चेता केवलो निर्गुणश्चे’ति हि श्रूयते। न च सुतरां ज्ञानाविषयत्वे कथमात्मनः सिद्धिरिति वाच्यम्। स्वप्रकाशत्वेनैव तत्सिद्धेः। सर्वस्यापि अनात्मवर्गस्य सिद्धेरात्माधीनत्वाच्च। ‘तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति’ इति श्रुतेः। न च – वृत्तिज्ञानमेव स्वप्रकाशं परप्रकाशकं चेति – वाच्यम् ; वृत्तेर्जडत्वात् , तत्प्रतिफलितचैतन्यस्य च बिम्बचैतन्यपरतन्त्रत्वात् ; बिम्ब- प्रतिबिम्बाभेदपक्षे तु वृत्तिज्ञानगतज्ञानांशस्य चैतन्यरूपत्वेन स्वप्रकाशत्वं तस्येष्टमेव।
[[९१६]]
ननु यदि घट इति ज्ञानमपि चैतन्येन भास्यते, तर्हि ज्ञानस्य ज्ञेयत्वमापतितं, तच्चानिष्टम् , अनवस्थादिदोषादिति चेत् , मैवम्। चैतन्यावभासकवस्त्वन्तरानभ्युपगमेनानवस्थादोषाभावात् , चैतन्येतरस्य सर्वस्यापि ज्ञेयत्वाभ्युपगमाच्च, घट इति वृत्तिज्ञानस्यापि वृत्त्यंशे जडत्वेन ज्ञेयत्वसद्भावाच्च। तस्माच्चैतन्यैकस्वरूपत्वादात्मा निराकार एव। एवमात्मनो निराकारत्वमसहमानो द्वैती चोदयति— नन्विति। ‘आदित्यवर्णं तमसः परस्ता’दिति श्रुतिः। आदित्यस्येव वर्णो यस्य तमादित्यवर्णम्। भारूपः तेजोरूपः। स्वयञ्ज्योतिः स्वत एव भासमानः। आकारवत्त्वं तेजोमयाकार इत्यर्थः।
पूर्वपक्षं परिहरति—नेति। नास्त्याकारवत्त्वमात्मन इत्यर्थः। तर्हि का गतिः श्रुतिवाक् यानाम्? अत आह—तम इति। संग्रहवाक् यं विवृणोति—द्रव्येति। तमोऽन्धकारः, अज्ञानं वा। कथमिदं ज्ञायते? अत आह—अरूपमिति। अरूपमिति विशेषतो रूपं प्रतिषिध्यात्मनः सैव श्रुतिः कथं तेजोरूपत्वं ब्रूयात् तस्यैव? रूपवद्द्रव्यं हि तेज इति भावः। हेत्वन्तरमाह—अविषयत्वाच्चेति। यद्यात्मा सरूपः स्यात् तर्हि घटादिवच्चक्षुरादेर्विषय एव स्यात् , न तु तथाऽस्तीति भावः। उक्तार्थे श्रुतिं प्रमाणयति—नेति। अस्यात्मनो रूपं दृशे दृग्विषये न सन्तिष्ठति। सन्दृशे सम्यग्दर्शनविषये इति वा। रूपं सच्चिदानन्दलक्षणं स्वरूपमित्यर्थः। न तु शुक्लकृष्णादि , तस्य दृग्विषयत्वाभावायोगात्। एनमात्मानं कश्चन कोऽपि चक्षुषा न पश्यति नीरूपत्वादिति भावः। कश्चनेत्यनेन मनुष्याणां तददर्शनेऽपि देवानां तद्दर्शनं स्यादित्यपास्तम्। न चैवं रूपाभावेन चक्षुरविषयत्वेऽपि शब्दादिसद्भावाच्छ्रोत्रादिविषयत्वं स्यादात्मन इत्यत आह— अशब्दमिति। ‘अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्धवच्चे’ति श्रुतेः। पूर्वपक्षमुपसंहरति—तस्मादिति। ज्ञानस्याविषयत्वा- न्निराकारत्वाच्चात्मन इति तच्छब्दार्थः। आत्माकारं ज्ञानमिति। आत्मन आकार इवाकारो यस्य तदात्माकारं ज्ञानम् इत्यनुपपन्नम् अयुक्तम् , आत्मन आकाराभावेन ज्ञानस्यात्माकारत्वासम्भवादिति भावः।
[[९१७]]
ननु ज्ञानस्यात्माकारत्वं मास्तु , किं ततः? इत्यत आह—कथमिति। तर्हीत्यस्य ज्ञानस्यात्माकारत्वाभाव इत्यर्थः। आत्मनो ज्ञानं कथम्? ननु ज्ञानस्यात्माकारत्वाभावे आत्मज्ञानसिद्धेः काऽनुपपत्तिः? अत आह—सर्वमिति। हिः प्रसिद्धौ। हि यस्मादिति वा। यज्ज्ञानं यद्विषयं तत् सर्वं तदाकारं भवतीत्यन्वयः। घटविषयज्ञानस्य घटाकारत्वम् , पटविषयज्ञानस्य पटाकारत्वमित्येवं सर्वं ज्ञानं विषयाकारं भवतीत्यर्थः। तर्हि भवत्वेवमात्मविषयज्ञानमात्माकारम् , अत आह—निराकारश्चेति। चकारादविषयत्वमप्यात्मन उक्त- मित्यर्थः। ननु विषयस्य साकारत्वे ज्ञानस्य साकारत्वमिव, विषयस्य निराकारत्वे ज्ञानस्यापि निराकारत्वमिति कृत्वा निराकारमेव स्यादात्मज्ञानमित्यत आह—ज्ञानात्मनोरिति। यद्यात्मा निराकारः, आत्मज्ञानं च निराकारम् , तर्हि तद्भावनानिष्ठा न सिध्येदित्यर्थः। तस्य आत्मज्ञानस्य भावना पौनःपुन्येनानुसन्धानं तस्या निष्ठा समाप्तिरात्मसाक्षात्कारदार्ड्यं तद्भावनानिष्ठा। इतिशब्दः पूर्वपक्ष- समाप्तिवाची।
[[९१८]]
पूर्वपक्षं परिहरति सिद्धान्ती— नेति। आत्मज्ञानस्यासिद्धिरिति न वक्तव्यमित्यर्थः। कुतो न वक्तव्यम्? तत्राह—अत्यन्तेति। अत्यन्तनिर्मलोऽतिस्वच्छोऽतिसूक्ष्मश्चात्मा भवति; तथा बुद्धिरप्यत्यन्तनिर्मलाऽतिस्वच्छा सूक्ष्मा च भवति। आत्मनश्च चैतन्यमाकारः, न तु वृत्तिज्ञानम् ; बुद्धिश्चात्मचैतन्याकारेणाभासते, बुद्ध्यात्मनोः अन्योन्यतादात्म्याध्यासाद् बुद्धावात्मचैतन्याकाराध्यासः। ततश्चात्म- चैतन्याध्यासवशाद् बुद्धिश्चेतनेवाभाति, तथा बुद्धिधर्माध्यासान्मनश्च बुद्धिवदाभासत इति बुद्ध्याभासं भवति। तन्मनोधर्माध्यासा- दिन्द्रियाण्यपि मनोवच्चेतनानीवाभासन्त इति मनआभासानीन्द्रियाणि। तदिन्द्रियधर्माध्यासाद् देहोऽपीन्द्रियवच्चेतन इवाभासत इतीन्द्रियाभासो देहः। अत इति। बुद्ध्यादिषु देहान्तेषु क्रमेण तारतम्येन चात्मचैतन्याकाराभाससत्त्वादित्यर्थः। देह एवात्मेति प्रति- पद्यन्ते लौकिकाः स्थूलोऽहमित्यादिप्रतीतेः। न केवलं लौकिकाः; किन्त्वागमविदोऽपि केचिदित्याह—लोकायतिका इति। बौद्धा इत्यर्थः। के ते? अत आह— देहचैतन्यवादिन इति। यच्चैतन्यमात्माकार इति वेदान्तिनो ब्रुवन्ति, तच्चैतन्यं देहस्यैवेति देहचैतन्य- वादिन एते। तदेव स्फुटयन्नाह—चैतन्येति। चैतन्यविशिष्टो देह एवात्मेत्याहुः। मृतशरीरस्य पुरुषव्यवहाराभावादुक्तं चैतन्यविशिष्ट इति। लौकिकापेक्षया लोकायतिकानामयमेव विशेषः। केवलदेह एवात्मेति लौकिकाः, चैतन्यविशिष्टदेह एवात्मेति लोकायतिका इति। अन्ये पुनरिन्द्रियाण्येवात्मेत्याहुरित्याह—तथा चेति। यदि देह एवात्मा स्यात् , तर्हि काणबधिरादिदेहस्यापि दर्शनश्रवणादिव्यवहारो भवेत्। तस्मान्न देह आत्मा; किन्त्विन्द्रियाण्येवात्मेत्यमीषां भावः। अन्ये तु मन एवात्मेत्याहुरित्याह—अन्य इति। यदीन्द्रियसङ्घ एवात्मा स्यात् तर्हि मनस्यन्याक्रान्ते सत्यपीन्द्रियाणां दर्शनादिव्यवहारः स्यात्। स्वप्नदशायामिन्द्रियाभावाद् रथगजदर्शनादिव्यवहा- रानुपपत्तिश्चेति नेन्द्रियाण्यात्मा, किन्तु मन एवात्मेत्येतेषामाशयः। अन्ये तु बुद्धिरेवात्मेत्याहुरित्याह—अन्ये बुद्धीति। बुद्धेरेव चैतन्य- मिति वदितुं शीलं येषां ते बुद्धिचैतन्यवादिनः। यदि मन एवात्मा स्यात् तर्ह्यध्यवसायदशायामपि सङ्कल्पविकल्पौ स्यातां मनोधर्मत्वात् तयोर्मनस एवात्मत्वाच्च, ततोऽध्यवसायानुपपत्तिश्च। तस्मान्न मन आत्मा, किन्तु बुद्धिरेवात्मा, बुद्धेरेवात्मनः सङ्कल्पविकल्पकारणं करणं तु मनः; यथा रूपाद्युपलब्धिकारणं करणं चक्षुरादिकम् , तद्वदिति भावः। अन्ये त्वव्यक्तमेवात्मेति वदन्तीत्याह—ततोऽपीति। केचिदव्यक्तमात्मत्वेन प्रतिपन्ना इत्यन्वयः। अविद्यावस्थमज्ञानस्वरूपं कारणशरीरभूतकार्याज्ञानावस्थमिति वा। यदि बुद्धिरेवात्मा स्यात् तर्हि सुषुप्त्यनुभवो न स्यादात्मनो बुद्ध्यात्मनस्तदानीमभावादिति भावः।
यद्यपि पूर्वं बुद्धेरेवादावात्मचैतन्याकाराभासत्वमुक्तम् , नाव्यक्तस्य, तथाप्यव्यक्तस्यैवादावात्मचैतन्याध्यासाकारः, तदनन्तरं बुद्धेरिति बोध्यम्। यद्वा आत्मन उपाधिरविद्येति मतमाश्रित्य, केचिदव्यक्तमात्मचैतन्याभासाकारत्वादात्मेत्याहुरित्युक्तम्। आत्मन उपाधिर्बुद्धिरेवेति मतमाश्रित्य तु बुद्धावेवादावात्मचैतन्याकाराभास इत्युक्तमिति न विरोधः; अन्तःकरणावच्छिन्नं चैतन्यमात्मेति, अविद्यावच्छिन्नं चैतन्यमात्मेति च मतद्वयसत्त्वादिति भावः। अन्तःकरणस्यैवावस्थाविशेषौ बुद्धिर्मनश्चेति बोध्यम्।
ननु कस्मादेवं विविधं प्रतिपन्ना एकमेवात्मानं वादिनः? इत्यत आह—सर्वत्रेति। बुद्ध्यादिदेहान्तेषु सर्वेष्वप्यनात्मसु तत्तद्वा- दिनां दर्शिताया आत्मभ्रान्तेः कारणमात्मचैतन्याभासतैव। आभासः प्रतिफलनमध्यासो वा। बुद्ध्यादिषु य आत्मचैतन्याकारस्या- भासः पूर्वं दर्शितः, स एव तेष्वात्मेति भ्रमं जनयत्यविवेकिनामित्यर्थः। आत्मचैतन्यस्याभासो येषामस्ति, येष्वस्तीति वा आत्म- चैतन्याभासाः, तेषां भावस्तत्ता। आत्मचैतन्याभास इति यावत्। ननु भवत्वेवमज्ञानामनात्मस्वात्मभ्रमः, किं तत्कथनेन प्रकृतपूर्व- पक्षस्येति चेत् , उच्यते—भ्रमेण तत्त्वेन वा कश्चिदात्मेति पदार्थः सिद्ध एव ज्ञात इति सिद्धमात्मज्ञानमिति। अन्यथा अज्ञातस्यात्मनः प्रसिद्ध्ययोगादिति। एवमात्मज्ञानस्य प्रसिद्धत्वादेव न विधेयत्वमित्याह—अत इति। विधातव्यमिति। विधातुमर्हं विधातव्यं, विधिविषय इत्यर्थः। न चैवं श्रुत्या ‘आत्मा वा अरे द्रष्टव्यो मन्तव्यो निदिध्यासितव्यः’ इति विधीयत आत्मज्ञानं तव्यप्रत्ययान्तशब्दैरिति वाच्यम् ; 1विधिच्छायावचनत्वात् तेषाम्। ननु यद्येवमात्मज्ञानं न विधीयते, तर्हि किं विधीयते श्रोतव्यादि-वाक् यैः? अत आह—किं तर्हीति। आत्मन्यविद्यया कृतं यन्नामरूपाद्यनात्माध्यारोपणम् , तन्निवृत्तिरेव कार्या। एवकारार्थमाह—नात्मचैतन्यविज्ञानं कार्यमिति। कुतो निवृत्तिरेव कार्येत्यत आह—अविद्येति। अविद्यया आत्मन्यध्यारोपिता ये बुद्ध्यादिसर्वपदार्थाकारास्तैर्विशिष्टतयैव आत्मचैतन्यस्य गृह्य- माणत्वात् ज्ञायमानत्वात्।
[[९१९]]
अयं भावः—लोकायतिकादयः सर्वेऽप्यात्मचैतन्यं देहाद्याकारविशिष्टत्वेन रूपेण प्रतिपद्यन्त इत्यस्त्येव सर्वेषामात्मचैतन्य- प्रतिपत्तिः। सुतरामात्मज्ञानाभावे चैतन्यविशिष्टः काय आत्मेत्येवं वक्तुमशक् यत्वात्। अतः सिद्धमेवात्मज्ञानमिति नात्मज्ञानं साध्यम्। इदं चामीषामात्मज्ञानं भ्रान्तिरूपमेव, न प्रमारूपम् , निर्विशेषे आत्मनि सविशेष आत्मेति ज्ञानस्य भ्रमत्वात्। अयं तु भ्रमो नाशयि- तव्यः, अनर्थहेतुत्वादिति। निर्विशेषोऽप्यात्मा अविद्ययाऽध्यारोपिततत्तदाकारविशिष्टतयैव गृह्यतेऽतत्त्वविद्भिरित्यत्र विज्ञानवादिबौद्ध- भ्रान्तिं प्रमाणयति—अत एवेति। चैतन्यं केवलं केवलत्वादेव नोपलभ्यते। देहेन्द्रियादयस्तु जडत्वादेव नोपलभ्यन्ते, किं तर्हि? देहे- न्द्रियमनोबुद्ध्यव्यक्तैरुपलभ्यमानैः सहैवोपलभ्यते चैतन्यम् , नान्यथेति यस्मात् सिद्धं तस्मादेवेत्यर्थः। प्रतिपन्ना इति। सर्वं ज्ञेयं ज्ञान- व्याप्तमेव गृह्यते, तेन ज्ञानातिरिक्तं नास्त्येव वस्तु, सम्मतं हि ज्ञानातिरिक्तं स्वप्नदृष्टं वस्तु नास्तीत्येवं विज्ञानवादिनो भ्रान्तिं प्रतिपन्ना इत्यर्थः। ननु ज्ञानस्यापि ज्ञेयत्वाज्ज्ञातृ वस्त्वन्तरमेष्टव्यमित्याशङ्क्याह—प्रमाणेति। बौद्धाः ज्ञानस्य प्रमाणान्तरनिरपेक्षतां च प्रतिपन्ना इत्यन्वयः। कथं प्रतिपन्ना इत्यत्राह—स्वेति। ज्ञानस्य स्वसंविदितत्वाभ्युपगमेन स्वेनैव ज्ञेयत्वाङ्गीकारेण। ज्ञानं स्वैकवेद्यम्। अत एव स्वप्रकाशं स्वतः प्रमाणं चेति न प्रमाणान्तरापेक्षाऽस्ति ज्ञानस्येत्यर्थः।
ननु ज्ञानस्य स्वतःप्रमाणत्वादिकं वेदान्तिभिरप्यभ्युपगतम्। ‘तस्मान्न विज्ञानमृतेऽस्ति किञ्चित् क्वचित् कदाचिद् द्विज ! वस्तुजातम्’ इति पराशरमुनिना विज्ञानातिरिक्तवस्त्वभावोऽपीष्ट इति कृत्वा किमिति विज्ञानवादिनो बौद्धा भ्रान्ता इत्युच्यत इति चेत् , उच्यते—शृणु तद्विवेकम्। विज्ञानं नित्यमखण्डमेकरूपं स्वप्रभं ब्रह्म ‘सत्यं ज्ञानमनन्त’मिति श्रुतेः। तस्माच्च चैतन्याद् ब्रह्मणो नास्त्यन्यः पदार्थः कोऽपि ‘सर्वं खल्विदं ब्रह्मे’ति श्रुतेः सर्वस्य ब्रह्मणि कल्पितत्वात् कल्पितस्य चाधिष्ठानानतिरेकादिति पराशरमतम्। नात्र मते बाह्यार्थस्यापलापः, किन्तु प्रतिभासमाने सत्येव बाह्यार्थे घटादौ विज्ञानं चैतन्यं घटाद्याकारपरिणतबुद्धिवृत्तिप्रतिफलितं सद् घटाद्याकारं ज्ञानमित्युच्यते भ्रान्त्या, न तु वस्तुत इति पराशराद्यद्वैतिमतम्। विज्ञानवादिनां बौद्धानां तु क्षणिकमेव विज्ञानं तावद्वासना- वैचित्र्याद् घटाकारमन्तर्जायते, तदेव बहिर्विषयवदवभासते, न तु कोऽपि बाह्यार्थोऽस्ति स्वप्नवज्जागरेऽपीति मतम्।
[[९२०]]
ननु कथमिदं बौद्धमतमवद्यमिति चेत् , उच्यते—क्षणिकस्य विज्ञानस्य स्वसंवेद्यत्वानुपपत्तिः। उत्पत्तेः पूर्वक्षणे नाशादुत्तर- क्षणे च ज्ञानं नास्ति, मध्यक्षण एव वर्तत इति हि क्षणिकं विज्ञानमित्युच्यते। तौ च ज्ञानस्योत्पत्तिनाशौ किं ज्ञानेन वेद्येते, उत न? आद्ये, व्याघातः, स्वोत्पत्तिनाशयोः स्वग्राह्यत्वायोगात्। न हि तत्काले स्वमस्ति। नान्त्यः, अवेद्ययोस्तयोरसाक्षिकत्वेनाभ्युपगमा- योगात्। न च ज्ञानान्तरेण वेद्यत इति वाच्यम् ; स्ववेद्यत्वापायात्। ज्ञानान्तरस्यापि क्षणिकत्वेन प्रकृतज्ञानोदयनाशदर्शनासम्भवाच्च। तस्माद् यदि ज्ञानं क्षणिकमेवेत्यभिनिवेशस्तर्ह्यन्यावभास्यमेव।
न च– अद्वैतमतेऽपि कथं नित्यत्वं ज्ञानस्य? ‘घटज्ञानं मम नष्टम्’ ‘पटज्ञानं जात’मिति व्यवहारसत्त्वादिति– वाच्यम् ; घटादिविषयनाशादिप्रयुक्तत्वात् तद्व्यवहारस्य। एकस्मिन्नेवाखण्डे ज्ञाने एकस्मिन् क्षणे घटो विषयो भवति, क्षणान्तरे तु पट इति कृत्वा यदा घटो विषयस्तदा घटज्ञानं जातमिति,[यदा पटो विषयस्तदा पटज्ञानं जातमिति] च व्यवहार इति भावः।
यद्वा वृत्तेः क्षणिकत्वाद् वृत्तिज्ञानस्य क्षणिकत्वव्यवहारः, वृत्तिप्रतिफलितचैतन्यस्यैव वृत्तिज्ञानत्वात्। सा च वृत्तिः साक्षि- भास्यैवेति वृत्तिज्ञानमपि साक्षिभास्यमेवेति न स्वसंवेद्यम्। विज्ञानं त्वद्वैत्यभिमतं साक्षिभूतं चैतन्यमेवेति तस्य नित्यत्वम् अनन्याव- भास्यत्वं च युक्तमेव। घटं विना तदाकारपरिणामाभावाद् बुद्धेर्वासनायाश्चायोगाद् बाह्यार्थापलापोऽप्ययुक्त इत्यवद्यं बौद्धमतम्।
तस्मादिति। आत्मज्ञानस्य सिद्धत्वेनाविधेयत्वादित्यर्थः। मात्रशब्दार्थमाह—न त्विति। यत्न इति। कर्तव्य इति शेषः। कस्मा- दात्मज्ञाने यत्नो न कर्तव्यः? अत आह—अत्यन्तप्रसिद्धत्वादिति। ब्रह्मणः इति शेषः। आत्मत्वादिति भावः। न हि देहातिरिक्त- कर्तृभोक्त्रात्मवादी आत्मज्ञाने यतते, नापि देहात्मवादी आत्मानं ज्ञातुं यतते, तथा ब्रह्मात्मवाद्यपीति बोध्यम्। ननु यद्यत्यन्तं प्रसिद्धं ब्रह्म तर्हि सर्वैः कुतो न ज्ञायते? किमर्थं च महतो वेदान्तशास्त्रस्याध्ययनादिकम्? अत आह—अविद्येति। अत्यन्तप्रसिद्धं सुविज्ञेय- मासन्नतरमात्मभूतमपि ब्रह्म, अविद्याकल्पितनामरूपविशेषापहृतबुद्धीनामप्रसिद्धं दुर्विज्ञेयमतिदूरस्थमन्यदिव च प्रतिभातीत्यन्वयः। अविद्यया ब्रह्मणि कल्पिता ये नामरूपविशेषाकारास्तैरपहृतबुद्धयः, अविद्यावन्तो मूढा अनात्मनो बुद्ध्यादीनात्मत्वेन प्रतिपन्नाः सन्तः ‘स्थूलोऽहं मनुष्योऽहं काणोऽहं सुख्यहं दुःख्यहमज्ञोऽह’मित्येवं मन्यमानाः स्वात्मभूतमपि सच्चिदानन्दं ब्रह्म न विदुः। अत एवाविदुषां तेषां प्रसिद्धमपि ब्रह्माप्रसिद्धमिव भाति; सुविज्ञेयमपि दुर्विज्ञेयमिव भाति; आसन्नतरमपि दूरस्थमिव भाति; आत्मभूतमप्यनात्मभूत- मन्यदिव भातीत्यर्थः। तर्हि केषां पुनरिदं ब्रह्म सुप्रसिद्धम्? अत आह—बाह्येति। लब्धा गुर्वात्मप्रसादादयो यैस्तेषां लब्धगुर्वात्म- प्रसादादीनाम्। गुरुप्रसादः तत्त्वमस्यादिमहावाक् योपदेशादिरूपः, आत्मप्रसाद ईश्वरानुग्रहश्चित्तपरिशुद्धिर्वा। आदिपदाद् विवेकादि- ग्रहणम्। अत एव बाह्याकारनिवृत्तबुद्धीनां बाह्याकारेभ्य आत्मनि कल्पितेभ्यो बुद्ध्याद्याकारेभ्यो निवृत्ता बुद्धिर्येषां तेषां विदुषां तु। अतोऽस्माद् ब्रह्मणः परम् अन्यत् सुखमानन्दरूपं सुप्रसिद्धं सुविज्ञेयं स्वासन्नतरं च वस्तु नास्ति। तेषां सच्चिदानन्दं ब्रह्मैवाहमस्मीति ज्ञानसत्त्वादिति भावः। अयमेवार्थो भगवताऽप्युक्त इत्याह—तथा चेति। तस्मात् स्वस्यैवात्मत्वाद् आत्मन एव ब्रह्मत्वात् तस्य च स्वप्रकाशत्वात् प्रमाणान्तरानपेक्षत्वाच्च कथमात्मनो ज्ञानमिति न चोदनीयम्। कुतो न चोदनीयमिति चेद्? उच्यते—न वयम् आत्मा ज्ञातव्यः इति ब्रूमः, येन तथा चोद्येत। कुतो न ब्रूथेति चेद्? येनात्मा ज्ञातव्यस्तस्यैव ज्ञातुरात्मत्वात्। तर्हि किं ब्रूथेति चेद्? देहादिष्व- नात्मस्वात्मत्वेन परिगृहीतेष्वात्मबुद्धिनिवृत्तिः कार्येति ब्रूमः। केन कार्येतिचेद्? येनानात्मान आत्मत्वेन परिगृहीतास्तेन। केन परि- गृहीता इति चेद्? अविदुषा। कोऽयमविद्वानिति चेद्? यस्याविद्याऽस्ति सः। कस्याविद्याऽस्तीति चेद्? योऽनात्मानमात्मेति प्रतिपद्यते तस्य। क एवं प्रतिपद्यत इति चेद्? उक्तमेवाविद्यावानिति।
[[९२१]]
नन्वविद्यावतोऽनात्मन्यात्मबुद्धिः, अनात्मन्यात्मबुद्धिमतोऽविद्यावत्त्वमित्यन्योन्याश्रयः प्राप्त इति चेत् , न प्राप्तः, अविद्या- कार्यत्वादनात्मन्यात्मबुद्धेः। अनात्मन्यात्मबुद्धिरूपेण कार्यलिङ्गेनाविद्यावत्त्वरूपकारणस्य गम्यमानत्वात्2।
ननु योऽनात्मानमात्मानं प्रतिपद्यते सोऽविद्यावानिति अहं जानाम्येव। परन्त्वेवं प्रतिपद्यमानोऽविद्यावान् स क इति पृच्छा- मीति चेत् , किं तव तत्प्रश्नेन? न च तज्ज्ञानमेव फलमिति वाच्यम् ; प्रश्नात्प्रागेव त्वया तस्य ज्ञातत्वात्। यदि त्वं तथा प्रतिपद्यमान- मविद्यावन्तं न जानासि, तर्हि कथं मां पृच्छसि—स क इति। तस्माद् अहमज्ञोऽहं मनुष्योऽहं संसारीति व्यवहारबलादविद्यावान् पुरुषः सिद्धः। तेनात्मन्यनात्माध्यारोपणनिवृत्तिः कार्या। न चासङ्गस्य पुरुषस्य कथमविद्यासङ्ग इति वाच्यम् ; नातिशङ्कनीयत्वादविद्या- वैचित्र्यविषये। असङ्गमपि ह्यविद्या ससङ्गं करोति पुरुषम् , यथा रज्जुमपि सर्पम् , गगनमपि नीलमिति।
तस्माज्ज्ञानस्वरूपो ज्ञानाविषयश्चात्मेति स्थितम्। न च ज्ञानस्य साकारत्वात् कथं ज्ञानस्वरूपत्वं निराकारस्यात्मन इति वाच्यम् ; विज्ञानवादिबौद्धाभिमतक्षणिकविज्ञानस्यैव वृत्तिज्ञानरूपस्य साकारत्वम् , न तु चैतन्यस्येति।
ननु यदुक्तमविषयत्वमात्मनः पूर्वपक्षिणा सिद्धान्तिना चाभ्युपेतम् , तदयुक्तम् , बुद्धिविषयत्वादात्मनः ‘दृश्यते त्वग्र्यया बुद्ध्ये’ति श्रुतेश्च। तस्मादात्मनो ज्ञानं सम्भवत्येवेति कोऽयं विपरीतो भाष्यपथ इति चेत् , मैवम् , ‘यत्तदद्रेश्यमग्राह्यं, यतो वाचो निवर्तन्त अप्राप्य मनसा सहे’त्यादिश्रुतिभिरविषयत्वस्यैवात्मन उक्तत्वात्। बुद्धिविषयत्वकथनं तु बुद्धावेकाग्रतया स्थितायामात्मतत्त्वं स्वयमेव स्फुरतीति हेतोरुक्तम्। कथमन्यथा ज्ञातुरात्मनो ज्ञेयत्वं स्यात्? ‘यन्मनसा न मनुते येनाहुर्मनो मतम्’, ‘विज्ञातारमरे केन विजानीया’दिति श्रुतेश्च। ‘यदोपरामो मनसो नामरूपरूपस्य दृष्टस्मृतिसम्प्रमोषात्। य ईयते केवलया स्वसंस्थया हंसाय तस्मै शुचि- षद्मने नमः॥’ इति भागवताच्च। तस्मान्निर्विशेषस्वप्रकाशचिन्मात्रस्यात्मनोऽविषयत्वं युक्तमेव।
नन्वविषये प्रमाणान्तरानपेक्षे ब्रह्मणि कथं शास्त्रं प्रमाणम्? व्यासेनैवोक्तं हि शास्त्रयोनित्वं ब्रह्मणः। एवं शास्त्रप्रमाणत्वा- च्छास्त्रविषयस्य ब्रह्मणोऽविषयत्वकथनमयुक्तमेवेति चेत् , मैवम् ; शास्त्रमपि न ब्रह्मेदन्तया बोधयितुं शक्नोत्यविषयत्वात् , किं तर्हि? अविद्याध्यारोपणनिरासमात्रमेव करोतीति तावतैव शास्त्रप्रमाणत्वोक्तेर्ब्रह्मण इति। अत एवोक्तं श्रुतिगीतासु – ‘श्रुतयस्त्वयि हि फलन्त्यतन्निरसनेन भवन्निधनाः’ इति।
[[९२२]]
ननु वेदान्तानां ब्रह्मणि द्विधा प्रवृत्तिः- साक्षाद्विधिमुखेन, निषेधमुखेन चेति। तत्र सच्चिदानन्दादीनां विधिमुखेन, अस्थूल- मित्यादीनां निषेधमुखेनेति सम्प्रदायात् सच्चिदानन्दादिवाक् यानां कथं ब्रह्मण्यप्रवृत्तिर्येनाविषयत्वं स्याद् ब्रह्मण इति सच्चिदानन्दादिवाक् यानामपि लक्षणयैव ब्रह्मणि प्रवृत्तिर्नाभिधयेति सिद्धान्तात्। ये त्वभिधयैव ब्रह्मणि स्थूलत्वादिनिषेधं कृतवन्तस्तेषां निषेधमुखेन प्रवृत्तिः, ये तु लक्षणया असत्त्वजडत्वदुःखादिनिषेधं कृतवन्तस्तेषां विधिमुखेन प्रवृत्तिरित्यभ्युपगमात्। अत एव तात्पर्य- वृत्त्या ब्रह्मणि पर्यवसानं श्रुतीनामित्युक्तं श्रुतिगीतासु। एवं शब्दगोचरत्वादिविशेषाभावादेव निर्विशेषं ब्रह्मेत्युक्तम्। अन्यथा हि सविशेषमेव स्यात्।
ननु निर्विशेषं (निराकारं) ज्ञानं क्वापि नास्ति, ज्ञानमात्रस्य सविशेषत्वादिति चेत् , मैवम् ; निर्विकल्पज्ञानस्य तार्किकादिभि- रप्यभ्युपगतत्वात्। तस्मान्निर्विशेषमेव चैतन्यरूपं ज्ञानम्। यत्पुनर्विषयाकारं ज्ञानं तद् वृत्तिज्ञानमेव। वस्तुतस्तु विषयाकारपरिणता बुद्धिवृत्तिर्नैव ज्ञानम् , किन्तु तत्प्रतिफलितं चैतन्यमेव। वृत्तेर्ज्ञानत्वं तु चैतन्याभासप्रयुक्तमौपचारिकमेव, बुद्ध्यादीनां चेतनत्ववत्। तस्माज्ज्ञानमात्रं निराकारमेव, यच्चैतन्यमात्मेत्युच्यते। बुद्धिवृत्तिरेव विषयाकारा। इयमेव क्षणिकविज्ञानमिति बौद्धेः, ज्ञानमिति तार्कि- कादिभिश्चोच्यते। एवं चोपासकस्य ‘अहं ब्रह्मास्मी’ति यदावर्त्यमानं ज्ञानं तदपि बुद्धिवृत्तिरेवेति बोध्यम्।
ननु घटाकारा वृत्तिरिव ब्रह्माकारा वृत्तिः कथं जायेत? नीरूपत्वाद् ब्रह्मणो ब्रह्माकारपरिणामासम्भवाद् बुद्धेरिति चेत् , मैवम् , नीरूपस्य गगनस्य सुखस्य च बुद्धिवृत्तिविषयत्वदर्शनात्। तस्माद् गगनाकारेव ब्रह्माकाराऽपि बुद्धिवृत्तिः सम्भवत्येव।
ननु तर्हि बुद्धिवृत्तिविषयत्वमात्मनः सम्पन्नमेवेति कथमविषयत्वमिति चेत् , उच्यते—अयं घटः, इदं गगनमितिवद् ‘इदं ब्रह्मे’ति ज्ञातुमशक् यत्वाद् बुद्धिवृत्त्यविषयमेव ब्रह्म, ‘अहं ब्रह्मास्मी’त्युपासकस्य बुद्धिवृत्तिस्तु ब्रह्माकारपरिणामं विनापि भवत्येव, शब्दाकारपरिणामादेवेष्टसिद्धेः, राममन्त्राकारपरिणतबुद्धिवृत्तिवत्। यथा राममन्त्रमुच्चारयत्यसकृत् तथैव हि ‘अहं ब्रह्मास्मी’त्युच्चार- यत्यसकृदुपासकः। ननूपासकस्य ‘अहं ब्रह्मास्मी’ति वृत्तिर्भवतु शब्दमयी, यद्वा मनोमयी, समाहितस्य ज्ञानिनः कथम् ‘अहं ब्रह्मा- स्मी’ति ब्रह्मसाक्षात्कारः ब्रह्माकारवृत्त्यभावे? इति चेत्, उच्यते—स्वात्मनि वृत्त्ययोगात्। आत्मसाक्षात्कारे वृत्त्यनपेक्षणात्। न हि देवदत्तो घटमिवात्मानं बुद्धिवृत्त्या जानाति, किन्तु स्वत एव। एवं च समाधौ बुद्धेर्ब्रह्माकारवृत्तिर्नाम निर्विकल्पतयैकाग्रत्वेन बुद्धे- रवस्थानमेव; तथा सत्यात्मसाक्षात्कारसम्भवात्। न चैवं सुषुप्तावप्यात्मसाक्षात्कारप्रसङ्ग इति वाच्यम् ; तदानीं बुद्धेरेवासत्त्वात्। जाग्रत्स्वप्नयोस्तु बुद्धेर्विक्षिप्ता[प्तत्वा]न्नैकाग्रतयाऽवस्थानम्। एवं बुद्ध्यैकाग्र्यस्यात्मसाक्षात्कारोपयोगित्वादेव ‘दृश्यते त्वग्र्यया बुद्ध्या’ इत्युक्तम् , न तु बुद्धिवेद्यत्वादिति। अत एव स्वसंवेद्योऽयमात्मा। न हि बुद्धिवेद्यत्वे सति स्वसंवेद्यत्वं सिध्यति, बुद्धेरन्यत्वात्। न च स्वसंवेद्यत्वमपि कथं वेदितरीति वाच्यम् ; अनन्यवेद्यत्वे स्वसंवेद्यत्वस्य तात्पर्यात्। न चानुभवरूपस्यात्मनः कथं वेदितृत्वमिति वाच्यम् ; सर्वप्रकाशकत्वस्यैव वेदितृत्वात्। अनुभवरूपेण ह्यात्मना सर्वं प्रकाश्यते, ‘तस्य भासा सर्वमिदं विभाती’ति श्रुतेः। तस्य भासेति ‘राहोः शिर’ इतिवद्भेदेन निर्देशः। आत्मचैतन्येनेत्यर्थः। तस्माज्ज्ञानस्वरूप एवात्मा ज्ञानाविषयश्च। आत्मत्वादेव स्व- प्रकाशश्चेति नात्मा ज्ञातव्यः केनचित् प्रमाणेन, सर्वप्रमाणानां तेनैव ज्ञायमानत्वादिति सङ्क्षेपः।
[[९२३]]
ज्ञानात्मनोरुभयोश्च निराकारत्वे कथं तद्भावनानिष्ठेति यदुक्तं पूर्वपक्षिणा तन्निराकृतमपि स्थूणानिखननन्यायेन तन्निराकरणं पुनः स्थापयितुं भङ्ग्यन्तरेण तमेव पूर्वपक्षं पुनरुत्थापयति—केचित्त्विति। सगुणब्रह्मोपासनतत्पराः इह केचिच्छब्देनोच्यन्ते। पण्डितम् आत्मानं मन्यन्त इति पण्डितम्मन्याः, न तु वस्तुतः पण्डिता इत्यर्थः। निराकारत्वादिति। आत्मन इति शेषः। आत्मवस्तुनः सकाशाद् बुद्धिः अपैति अपगच्छति; नात्मनि निष्ठां लभत इत्यर्थः। अत इति। एवं बुद्धेरात्मनः सकाशादपगमाद्धेतोरित्यर्थः। सम्यग्ज्ञाननिष्ठा केवलात्मज्ञाननिष्ठा दुःसाध्या दुःसम्पाद्येति केचिदाहुरित्यन्वयः।
अयममीषामाशयः— यद्यप्यनात्माकारनिवृत्त्यात्मज्ञानं सुलभं, तथाप्यात्मज्ञाननिष्ठा दुःसाध्या। कुतः? ज्ञाननिष्ठा नाम ज्ञाने नितरां स्थितिः, सा च बुद्धेरेव धर्मः। ज्ञेये आत्मन्येव बुद्धेरवस्थानं चिरकालमिति यत् सैवात्मज्ञाननिष्ठेत्युच्यते। यथा विष्णुध्याननिष्ठा, ध्येये शङ्खचक्रगदाधरे विष्णौ चिरकालं बुद्धेरवस्थितिर्विष्णुध्याननिष्ठेत्युच्यते, तद्वत्। तथा सति बुद्धेः साकारमेव वस्तु चिरकालमव- लम्बनं भवितुमर्हति, न तु निराकारं वस्तु। निराकारे आत्मवस्तुनि क्षणकालमेव बुद्ध्यवस्थापनस्य दुष्करत्वेन किम्पुनर्बहुकालमिति दुःसाध्यैवात्मज्ञाननिष्ठेति।
एवमात्मनो निराकारत्वादेव तज्ज्ञाननिष्ठाया दुर्लभत्वे, किम्पुनर्ज्ञानस्यापि निराकारत्वे तस्या दुर्लभत्वं वक्तव्यमिति कैमुत्य- न्यायोऽनेन द्योत्यते। शङ्खचक्रगदाधरोऽयं विष्णुरिति साकारज्ञानवन्निराकारज्ञानस्य चिरमवस्थातुमयोगात्। वस्तुतो निराकारज्ञान- स्यैवाप्रत्यक्षत्वेनाप्रमाणत्वात्। न च – ‘अयमात्मे’ति निराकारं ज्ञानमस्तीति – वाच्यम् ; तस्यापि साकारत्वात्। विषयवत्त्वं हि ज्ञानस्य साकारत्वम्। तस्मान्निराकारस्य ज्ञानस्यैवासिद्धेः कथं पुनस्तन्निष्ठासिद्धिः? किञ्च अयं घट इतिवद् अयमात्मेति ज्ञानं भवितुमेव नार्हति घटवदप्रत्यक्षत्वादात्मनः। न ह्यप्रत्यक्षं देशान्तरस्थं वस्तु रजतादिकमिदं रजतमिति ग्रहीतुं शक् यते। तस्मादात्मज्ञाननिष्ठा दुःसाध्येति।
सिद्धान्ती—किं विदुषामात्मज्ञाननिष्ठा दुःसाध्येति ब्रूषे, उताविदुषामिति विकल्प्य द्वितीयमङ्गीकरोति—सत्यमिति। सम्यक्प्र- माणेषु वेदान्तशास्त्रादिष्वित्यर्थः। आद्यं दूषयति—तद्विपरीतानामिति। तेभ्यः पूर्वोक्तेभ्यो विपरीताः तद्विपरीताः, गुरुसम्प्रदायवतां श्रुत- वेदान्तानां 3बहिर्विषयासक्तबुद्धीनां सम्यक्प्रमाणेषु कृतश्रमाणां चेत्यर्थः। लौकिकानि ग्राह्यग्राहकरूपाणि द्वैतवस्तूनि घटपटादीनि चक्षु- रादीनि च, तेषु बुद्धिर्नितरां दुःसम्पाद्या, न त्वद्वैते आत्मनीति भावः। तत्र हेतुमाह—आत्मेति। विदुषां विज्ञानव्यतिरेकेण वस्त्वन्तर- स्यानुपलब्धेः। ‘ऐतदात्म्यमिदं सर्वम्’ , ‘सर्वमात्मैवाभूद्विजानतः’, ‘वासुदेवः सर्व’मिति, ‘मत्तः परतरं नान्यत्किञ्चिदस्ती’ति, ‘यत्र सर्वमात्मैवाभूत्तत्र केन कं पश्ये’दित्यादिश्रुतिस्मृतिभ्यो विदुषां ब्रह्मव्यतिरेकेण किञ्चिदपि द्वैतं न भातीति द्वैतनिष्ठैव विदुषां दुःसम्पाद्या, अनुपलभ्यमानत्वाद् द्वैतस्य। न ह्यनुपलब्धे वन्ध्यापुत्रादौ कस्यापि बुद्धिः स्यात्। अद्वैते आत्मनि तु बुद्धिनिष्ठा सुलभैव, नित्या- परोक्षत्वादात्मनः। आत्मा हि स्वयम्। न हि स्वस्य स्वयं कदाचिदप्यप्रत्यक्षो भवेत्।
ननु यच्चक्षुरादिप्रमाणैरुपलभ्यते तदिदं द्वैतं नास्त्यनुपलब्धेरिति, यत्पुनरिन्द्रियाद्यविषयं तदात्मवस्त्वस्त्युपलब्धेरिति च विरुद्धमिदमुभयमिति चेद्? विरुद्धमेवाज्ञानां, न तु विदुषाम्। गगनं नीलमिति मन्यमानां बालानां नीरूपं गगनमिति वचो विरुद्धमेव, न तु गगनतत्त्वविदाम् , तद्वत्।
[[९२४]]
ननु ‘नाभाव उपलब्धे’रिति सूत्रकारेणैव द्वैताभाववादो निरस्त इति कथं विदुषां न विरुद्धं तव वचनमिति चेत् , मैवम् ; अविद्यादशायां द्वैताभावस्य सूत्रकारेण निन्दितत्वात्। न हि श्रुतिविरुद्धमर्थं सूत्रकारो ब्रूयात्। ‘नेह नानास्ति किञ्चन’, ‘यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति, यत्र तु सर्वमात्मैवाभूत् तत्र केन कं पश्येत्’, ‘मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यती’त्यादिना विद्यादशायां सर्वद्वैताभावस्य, अविद्यादशायां द्वैतसत्त्वस्य, अद्वितीयात्मनि द्वैतज्ञाननिन्दायाश्च श्रुतिभिरुक्तत्वात्। ‘एकमेवाद्वितीयं ब्रह्मे’त्यद्वैतत्वम् अत एव हि ब्रह्मणः सिद्ध्येत्। कथमन्यथा विद्यादशायामपि द्वैतसत्त्वे ब्रह्माद्वितीयं स्यात्?
तस्मादविद्यायामन्तरावर्तमानैर्बौद्धैरुक्तस्य द्वैताभावस्याविद्याविषयत्वेन तदानीं तदभावप्रतिपादनमयुक्तमिति निन्दितं तन्मतं सूत्रकारेणेति कृत्वा विद्वद्दृष्ट्या द्वैताभावः सिद्ध एव, अनुपलब्धेर्द्वैतस्य विद्यादशायाम्। न हि सुषुप्तिमृतिमूर्छासु द्वैतोपलम्भो येन विद्या- दशायां द्वैतोपलम्भः स्याद् विदुषाम्। तस्मादविद्यादशायां द्वैतस्योपलब्धेर्हेतोरभावो न युक्तः; विद्यायामनुपलब्धेर्हेतोरभावो युक्त एव। ततश्च विद्यावतामात्मज्ञाननिष्ठा, अविद्यावतां द्वैतज्ञाननिष्ठेव सुलभैव। यथा चैतदेवमेव भवति, अन्यथा न भवति तथा पूर्वमेवावोचाम। नन्विदं तव कपोलकल्पितमेवेत्यत आह—उक्तं भगवतेति। यस्यामविद्यादशायां भूतानि जाग्रति व्यवहरन्ति, सा पश्यतो मुनेर्विदुषो निशा निशेवाप्रकाशा। द्वैतानुपलब्धेर्विदुष इति भावः। तस्मादिति। विदुषां ज्ञाननिष्ठायाः सुलभत्वादित्यर्थः। बुद्धेरात्मस्वरूपावलम्बनं प्रति बाह्याकारभेदज्ञाननिवृत्तिरेव कारणम् , न त्वात्मनः साकारत्वमित्यर्थः।
अयं भावः—निराकारत्वादात्मन्यालम्बने बुद्धिर्न चिरं तिष्ठतीति यदुक्तम् , तदयुक्तम्। साकारेऽपि विष्णुमूर्त्यालम्बने विषय- लम्पटानां बुद्धिनिष्ठादर्शनात्। तस्मादालम्बनविशेषे बुद्धिनिष्ठां प्रत्यालम्बनगतसाकारत्वं न प्रयोजकम् , किन्तु तदालम्बनातिरिक्त- विषयानवगाहित्वमेव बुद्धेः। तथा चानात्माकारानवगाहित्वे सति बुद्धेरात्मस्वरूपावलम्बने निष्ठा सम्भवत्येव। यथा सगुणोपासकस्य शब्दादिविषयानवगाहित्वे सति बुद्धेर्विष्णुमूर्त्यालम्बने निष्ठा सम्भवति, तद्वत्। ततश्चात्मज्ञाननिष्ठाकामेन पुरुषेण विदुषा बाह्याकार- भेदबुद्धिनिवृत्तिरेव कार्या। तस्यां च कृतायां स्वत एव बुद्धिरात्मनि निष्ठिता भवति। सगुणोपासकस्य तु शब्दादिबाह्यविषयबुद्धिनिवृत्ति- मात्रेण न विष्णुस्वरूपज्ञाननिष्ठा सम्भवति; किन्तु शब्दादिभ्यो बुद्धिं प्रत्यावर्त्य, मनसि विष्णुमूर्त्याकारं कल्पयित्वा, तत्र बुद्धिः बलात्प्रवेशनीयेति श्लोको[क्लेशो]ऽधिकतर एव। तस्य च कल्पिताकारस्य चिरमवस्थापनमपि क्लेशावहमेव। तस्मात् साकारविष्ण्वादि- मूर्तिध्याननिष्ठापेक्षया आत्मज्ञाननिष्ठैव सुलभा। बाह्याकारभेदज्ञानं त्यक्त्वा तूष्णीमवस्थितायां सत्यां बुद्धावात्मस्वरूपस्फुरणात्। न चैवं सकृत्स्फुरितेऽप्यात्मनि बुद्धिश्चिरं न तिष्ठति, गुणाभावादिति वाच्यम् ; परमानन्दरूपत्वादात्मनः, ‘सच्चिदानन्दं ब्रह्मे’ति श्रुतेः, ‘आनन्दो ब्रह्मेति व्यजाना’दिति श्रुतेश्च; सुषुप्तौ सर्वप्राणिनामात्मानन्दानुभवाच्च; अभीष्टविषयसिद्धिवशाद् अन्तर्मुखमनोवृत्तौ प्रतिफलि- तस्यात्मानन्दस्यैव विषयानन्दत्वाच्च। यदि बुद्धिः सकृदात्मानन्दमनुभवेत् तर्हि तं न परित्यजेदेव। किं निद्रासुखमनुभवन्तः पुरुषाः निद्रां स्वेच्छया परित्यजन्तो दृश्यन्ते? अत एव – ‘यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः। आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते॥’ इत्युक्तम्। तस्मादकृतबुद्धेरेवात्मस्वरूपावलम्बनं दुर्लभम् , क्लेशावहं च, न तु कृतबुद्धेः।
[[९२५]]
नन्वविषयो ह्यात्मा कथं बुद्धेर्विषयः स्यादिति चेत् , मैवम् ; असंस्कृतबुद्धेरेवाविषय इत्युक्तत्वात्। संस्कृतबुद्धिरपि नात्मानं विषयीकरोति, बुद्धेरेवात्मना गृह्यमाणत्वात् ; किं तर्हि? एकाग्रा सत्यात्मानन्दं स्वप्रतिफलितमनुभवतीत्येतावतैव बुद्धिविषय आत्मा इत्युच्यते। न च कथं बुद्धेर्जडाया आनन्दानुभवितृत्वमिति वाच्यम् ; आत्मचैतन्यप्रतिफलनेन चेतनत्वाद् बुद्धेः। एतेनात्मनः स्वा- नन्दानुभवे किं बुद्ध्यैकाग्र्येणेति शङ्काऽपि परास्ता। प्रमातुः स्वस्वरूपानन्दानुभवं प्रति बुद्ध्यैकाग्र्यस्य साधनत्वमिति। मोक्षे तु स्वरूप- चैतन्येनैवात्मन आनन्दानुभवः, सुषुप्तौ त्वविद्यावृत्तिभिरिति विवेकः।
नन्वप्रसिद्धमिदं ब्रह्म कथं विदुषाऽप्युपलभ्येत? येन तस्यात्मज्ञाननिष्ठा स्याद् अत आह—न हीति। कस्यचिदपि कदाचिद- प्यात्मा नाप्रसिद्धः। आत्मत्वादेवेति भावः। अत एव प्राप्यो वा न भवति, नित्याप्तत्वादात्मन इति भावः। अत एव हेयो न भवति। हातुं त्यक्तुं शक् यो हेयः। हातुरेवात्मत्वादिति भावः। उपादेयोऽपि न भवति, उपादातुरेवात्मत्वादिति भावः। न चैवं प्रसिद्धमात्मानं कथं सर्वे सच्चिदानन्दं न विदुरिति वाच्यम् ; सर्वेषां सच्चिदानन्दरूपत्वेन न प्रसिद्धः; किन्त्वात्मत्वेन रूपेणैव यो यमात्मत्वेन प्रतिपद्यते तस्य स प्रसिद्धः। यथा देवदत्तो मनुष्यमात्मत्वेन प्रतिपद्यत इति मनुष्यदेहरूप आत्मा देवदत्तस्य प्रसिद्धः। विष्णुमित्रो मन आत्मत्वेन प्रति- पद्यत इति तस्य मन आत्मा प्रसिद्धः—सुख्यहं दुःख्यहमिति। विदुषां तु क्षेत्रज्ञ एवात्मत्वेन प्रसिद्ध इति ते सच्चिदानन्दं ब्रह्मैवात्मानं विदुः। अत एवाविद्वद्भिरात्मत्वेन गृहीतानामनात्मनामन्यत्वेन गृहीतस्य च ब्रह्मणो यथावद्ग्रहणार्थं वेदान्तशास्त्रं प्रवर्तितं कृपालुना भगवता, न त्वप्रसिद्धमात्मानं बोधयितुम्। येनात्मा बोद्धुमिष्टस्तस्यैवात्मत्वात्।
ननु ‘मामहं न जानामी’त्यनुभवादप्रसिद्ध एवात्मेत्यत आह—अप्रसिद्धे हीति। तस्मिन्नात्मन्यप्रसिद्धे सति हि स्वार्थाः सर्वाः प्रवृत्तयो व्यर्थाः प्रसज्येरन्। यद्यप्रसिद्धः स्यादात्मा तर्हि लौकिकैर्वैदिकैश्चात्मार्थं क्रियमाणाः सर्वे व्यवहारा लुप्येरन्नेव। ममेदं सुखमिष्टं स्यान्ममेदमनिष्टं दुःखं माभूत् , अनेन भोजनेन मैथुनेन च मम सन्तोषः स्यात् , अनेन यज्ञेन मम स्वर्गः स्यादित्येवमभिसन्धाय हि पुरुषस्तेषु तेषु कर्मसु प्रवर्तते। स्वस्यैवाप्रसिद्धत्वे कथं तत्प्रवृत्तिः? ननु देहाद्यर्था भोजनादिप्रवृत्तयः। भोजने कृते देहादेर्वृद्धिः, तस्मिन्नकृते नाशश्च भवतीति। अत आह—न चेति। प्रवृत्तीनां देहाद्यचेतनार्थत्वं कल्पयितुं न शक् यम् , देहादीनामचेतनत्वात्। अनेन भोजनेन मम वृद्धिः स्यादिति न देहादीनां ज्ञानसम्भवः, अचेतनत्वात्। एवं ज्ञानाभावादेव देहादीनां भोजनादिषु न प्रवृत्तिः। न च – मम देहाभिवृद्धिः स्यादिति भोजने प्रवर्तते देहीति देहार्थमेव प्रवृत्तिरिति – वाच्यम् ; किं देहादन्यस्यात्मनो देहाभिवृद्ध्या? तस्माद् देहाभिवृद्धिरप्यात्मसुखायैवाकाङ्क्षितेत्यात्मार्थमेव देहाभिवृद्धिकरभोजनादौ प्रवृत्तिरपि, न तु देहार्थम्।
[[९२६]]
ननु प्रवृत्तयो नात्मार्थाः, नापि देहाद्यर्थाः, किन्तु सुखार्था एवेत्यत आह—न च सुखार्थमिति। प्रवृत्तयः सुखार्था भवन्तु नाम, तच्च सुखं किमर्थमाकाङ्क्ष्यते पुरुषेण? किमात्मार्थं? यद्वा सुखार्थम्? आद्ये, सुखस्यात्मार्थत्वात् सुखहेतुप्रवृत्तयोऽप्यात्मार्था एवेति सिद्ध- मात्मार्थत्वम् आत्मसुखार्थत्वात् प्रवृत्तीनाम्। द्वितीये, सुखार्थं सुखं पुरुषेणाकाङ्क्ष्यत इत्यनुपपन्नं, व्याघातात् ; सुखस्याचेतनत्वात्। फलभूतस्य साधनभूतस्य च सुखस्यैकत्वे आत्माश्रयात् ; भिन्नत्वेऽनवस्थानात्। तस्मान्न सुखार्थं सुखमिष्यते। एवं दुःखार्थं च दुःखं नेष्यत इति दुःखहेतुप्रवृत्तयोऽपि न दुःखार्थाः, किन्तु शत्रुशरीराद्यवच्छिन्नात्मार्था एव। तत्र हेतुमाह—आत्मेति। सर्वव्यवहारस्या- त्मावगत्यवसानार्थत्वात्। आत्मावगतिरेव अवसानार्थः चरमार्थः, पर्यवसानमिति यावत्। यस्य तत्त्वाद् , आत्मावगतिपर्यवसा- यित्वादित्यर्थः। आत्मावगतिरवसानं यस्य स आत्मावगत्यवसानः, अर्थः प्रयोजनं यस्य तत्त्वादिति वा। सर्वव्यवहारार्थस्यात्मप्राप्ति- पर्यवसायित्वादित्यर्थः। सर्वस्यापि व्यवहारस्य यो योऽर्थः सुखदुःखसुकृतदुष्कृतादिः स सर्वोऽप्यात्मानमेवासाद्य नश्यति, न त्वन्यत्र गच्छतीत्यर्थः। तस्मादात्मन्यप्रसिद्धे सति कर्तुर्भोक्तुश्चाभावाद् व्यर्था एव स्युः सर्वाः प्रवृत्तयः, लुप्ताश्च। यो हि क्रियासु प्रवर्तते, यश्च क्रियाफलमनुभवति तस्यैवाप्रसिद्धत्वे कथं क्रियाणां सिद्धिः? क्रिया हि कर्तृपरतन्त्रा, न स्वतः सिद्ध्येत्। तस्माद् यः कर्म चिकीर्षति, यश्च तत्फलमनुबुभूषति, स आत्मा सुप्रसिद्ध एव। तस्मादिति। प्रसिद्धत्वादेवात्मन इत्यर्थः। परिच्छेदनाय ज्ञानायेति यावत्। प्रमाणेन चक्षुरादिना प्रमेयं घटादिकं परिच्छिद्यमानं दृश्यते लोके। एवं स्वदेहस्य केनापि प्रमाणेन परिच्छेदो न दृष्टः, प्रमाणव्यवहारात्प्रागेव सर्वस्य स्वदेहज्ञानसम्भवात्। न हि मनुष्यः चक्षुषा मनुष्यमात्मानं जानाति, तथा सति तमसि चक्षुर्व्यापाराभावान्मनुष्योऽहमिति ज्ञानासम्भवप्रसङ्गात्। न च देहस्य स्थौल्यकार्श्यादिपरिच्छेदनाय चक्षुरादिकमावश्यकमिति [वाच्यम्]। स हि न देहपरिच्छेदः, किन्तु गुणपरिच्छेद एवेति। एवं देहपरिच्छेदस्य प्रमाणान्तरानपेक्षत्वं प्रति हेतुरन्तरतमत्वमेव। अन्तरतमत्वं च नित्यसन्निहितत्वम्। न ह्यसन्निहित इवामलके करतलामलकेऽपि प्रमाणापेक्षाऽस्ति पुरुषस्य। तदेव करतलामलकं यदि क्वचित्क्षिप्तं स्यात् तर्हि तत्परिच्छेदनं पुनरावश्यकमेव। एवं च सति सन्निहितत्वासन्निहितत्वे एव वस्तुनः परिच्छेदने प्रमाणापेक्षत्वतदपेक्षत्वयोः प्रयोजके इति सिद्धम्। ततोऽपीति। देहादपीत्यर्थः। तदवगतिमात्मज्ञानं प्रति प्रमाणान्तरापेक्षा नास्ति, प्रमाणव्यापारात्प्रागेवात्मज्ञानसम्भवाद्, यः प्रमाणव्यापारेणात्मानं बोद्धुमिच्छति, तस्यैवात्मत्वात् , प्रमातर्यपि प्रमाणव्यापार इत्यस्य विरुद्धत्वाच्चेति हेतोः विवेकिनामात्मज्ञाननिष्ठा सुप्रसिद्धा। न चात्मज्ञानसम्भवेऽपि तन्निष्ठा न सम्भवतीति वाच्यम् ; स्वस्मिन् कदाचिदपि संशयविपर्ययज्ञानानामसम्भवेन निष्ठाया अपि सुलभत्वात्। न ह्यज्ञोऽपि मनुष्यत्वेनाभिमतमात्मानं कदाचित् किमहं मनुष्यः उत पशुरिति, पशुरेवाहमिति, नाहं मनुष्य इति च प्रत्येति, येन संशयादिभिः अहं मनुष्य इत्यात्मज्ञानस्य निष्ठा दुर्लभा स्यात्। तथा प्राज्ञोऽपि सच्चिदानन्दब्रह्मत्वेनाभिमतमात्मानं कदाचिदपि किमहं ब्रह्म, उत संसारीति, संसार्येवाहमिति, नाहं ब्रह्मेति च प्रत्येति, येन संशयादिभिः अहं ब्रह्मेत्यात्मज्ञाननिष्ठा दुर्लभा स्यात्। न हि यथावज्ज्ञाते घटे वस्तुनि संशयाद्युपपत्तिः, येन घटोऽयमिति ज्ञानं निष्ठितं न भवेत्। न हि कोऽपि यथावज्ज्ञातं घटं पुनर्विस्मरति, येन तदविस्मरणाय घटो घट इत्येवं ज्ञानमभ्यस्येत। तस्मादात्मज्ञानं तन्निष्ठा च सुलभैव।
[[९२७]]
ये तु पुनरात्मानं ब्रह्मेत्यविदित्वा, अन्नादिष्विवात्मनि ब्रह्मबुद्धिमध्यस्य, अहं ब्रह्मेत्युपासते, तेषां भवत्वात्मध्याननिष्ठा दुर्लभा। बुद्धेरेवंविधध्याने चिरावस्थापनस्य दुःशकत्वात्। ‘चञ्चलं हि मनः कृष्ण’ इत्युक्तं प्रागेवार्जुनेन। तस्माद् विवेकिनां लब्धगुर्वादिप्रसादा- नामात्मज्ञाननिष्ठा सुलभैवेति सिद्धम्।
[[९२८]]
ननु निराकारोऽप्यात्मा भवतु प्रसिद्धः, नित्यापरोक्षत्वात्। निराकारं ज्ञानं त्वप्रसिद्धमेवाप्रत्यक्षत्वाद् , अत आह—येषामिति। येषां वादिनां निराकारं ज्ञानमप्रत्यक्षमित्यभिमतं तेषामपि ज्ञानमत्यन्तप्रसिद्धमेवेत्यभ्युपगन्तव्यम्। कुतः? ज्ञानवशेनैव ज्ञेयावगतिरिति हेतोः। घटादयो हि ज्ञेया ज्ञानवशेनैवावगम्यन्ते ज्ञात्रा। न हि घटमानयेति पित्रादिष्टः पुत्रः ‘अयं घटः’ इति ज्ञानाभावे घटमानयेत्। न च ‘अयं घट’ इति ज्ञानस्य साकारत्वात् प्रसिद्धत्वमिति वाच्यम् ; तत्रापि विषयांशो घट एव साकारः, न तु विषय्यंशो ज्ञानमिति। तथाहि— ‘अयं घट’ इति ज्ञानस्य साकारत्वं किं त्वं घटशब्दवत्त्वाद् ब्रूषे, उत घटवत् कम्बुग्रीवाद्याकारवत्त्वात्? नाद्यः, अयं घट इति वाक् य एव शब्दोऽस्ति, न तु तज्ज्ञान इति। अन्यथा अयं रामशब्द इति ज्ञानेऽपि रामशब्दः स्यात्। न चेष्टापत्तिः, 4रामशब्दे रामशब्द इति व्याघातात्। शब्दवतो वाक् यत्वेन ज्ञानस्यापि वाक् यत्वप्रसङ्गात्। ज्ञाने वर्तमानस्य शब्दस्य ग्रहणाय ज्ञानान्तरापेक्षायामनवस्था- प्रसङ्गात्। स्वेनैव स्वधर्मभूतशब्दग्रहणस्यासम्भवात्। यद्ययं घट इति ज्ञाने घटशब्दः स्यात् , तर्हीदं ज्ञानं घटशब्दयुक्तमिति ज्ञानं स्यात् , तच्च न दृश्यतेऽनुभवविरोधात्। न हि कोऽपीदं ज्ञानं घटशब्दवदिति प्रत्येति। तस्मान्न ज्ञाने घटशब्दोऽस्ति, नापि कम्बु- ग्रीवाद्याकारोऽस्ति, ज्ञाने तददर्शनात्। यद्यस्ति तद्ग्रहणार्थं ज्ञानान्तरापेक्षायामनवस्थाप्रसङ्गात् , स्वेनैव स्वाकारग्रहणायोगादिदं कम्बु- ग्रीवाद्याकारवज्ज्ञानमिति प्रतीत्यभावादिति। न च सविषयत्वाद् अयं घट इति ज्ञानं साकारमिति वाच्यम् ; किं सविषये ज्ञाने घटो विषयः, उत निर्विषये? आद्ये, घटस्य ज्ञानविषयत्वापत्तेः प्राक्कथं ज्ञानस्य सविषयत्वम्? द्वितीये, सिद्धमेव निराकारं ज्ञानम्। न चोत्पन्ने ज्ञाने घटो न विषयो भवति, किन्तूत्पद्यमानमेव ज्ञानं सविषयमुत्पद्यत इति वाच्यम् ; ज्ञानस्य जन्मनाशयोरभावात्। भावे वा तद्ग्रहणार्थं ज्ञानान्तरापेक्षायां तस्यापि ज्ञानान्तरस्य जन्मनाशवत्त्वेन तद्ग्रहणार्थं ज्ञानान्तरापेक्षायामनवस्थाप्रसङ्गात् , स्वेनैव स्वनाशोदयग्रहणा- सम्भवाच्च। न च ज्ञात्रा ज्ञानस्य जन्मनाशौ गृह्येते इति वाच्यम् ; ज्ञानस्यैव ज्ञातृत्वात्। न च ज्ञानं न ज्ञाता, किन्तु ज्ञानाश्रयो ज्ञातेति वाच्यम् ; ज्ञानोदयात्प्राग्ज्ञाननाशान्तरं च तस्य ज्ञातृत्वासिद्धेः। न चेष्टापत्तिः, त्वत्समीहितज्ञानोदयतन्नाशयोरेवासिद्धेः। कथम्? असाक्षिकयोर्ज्ञानप्रागभावप्रध्वंसाभावयोरनभ्युपगन्तव्यत्वात्। न चात्मसाक्षिकावेवेति वाच्यम् ; ज्ञानप्रागभाववत्यात्मनि ज्ञानसत्त्वा- योगात्, तत्सत्त्वे वा ज्ञानप्रागभावायोगात्। एवं ज्ञानप्रध्वंसानन्तरं ज्ञानसत्त्वायोगात्, तत्सत्त्वे ज्ञानप्रध्वंसायोगाच्च। तस्माज्ज्ञानप्राग- भाववतो ज्ञानप्रध्वंसाभाववतश्चात्मनो ज्ञातृत्वमसम्भव्येव।
ननु सविषयाण्युत्पद्यमानानि ज्ञानान्यनन्तानि तत्प्रागभावाश्चानन्तास्तत्प्रध्वंसाभावाश्चानेक इति चेत् , मैवम् ; युगपदनन्त- ज्ञानसत्त्वे प्रमाणाभावात्। अयं घट इति ज्ञानसत्त्वे अयं पट इति ज्ञानान्तरानुदयात्। क्षणभेदाज्ज्ञानभेदाभ्युपगमे तु पूर्वोक्तदोष- प्रसक्तिः। पटज्ञाननाशानन्तरं घटज्ञानोदयात्प्राक् च ज्ञानाभावादात्मनः पटज्ञाननाशो घटज्ञानोदयश्चासाक्षिकत्वान्नैव सिध्यत इति। न चायं घटप्रागभाव इति, अयं घटप्रध्वंसाभाव इति च ज्ञानमस्ति तदाप्यात्मन इति वाच्यम् ; तथाऽनुभवाभावात्। न च घटो नास्ती- त्यनुभवोऽस्तीति वाच्यम् ; तज्ज्ञानेन घटज्ञानोदयतन्नाशयोर्ग्रहणायोगात्। घटाभाव एव हि तेन गृह्यते, अयं घटप्रागभावः इत्यनुभवसत्त्वेऽपि न तेन घटज्ञानोदयो गृह्यते। नाप्ययं घटप्रध्वंसाभावः इति ज्ञानेन घटज्ञाननाशः, किन्तु घटाभाव एव गृह्यते। तस्मादयं घटज्ञानोदयः, अयं घटज्ञाननाश इति ज्ञानाभावादसाक्षिकावेव घटज्ञानस्यापि जन्मनाशौ। यदि घटज्ञानोदय इति ज्ञान- मस्तीत्याग्रहः, तर्हि तस्यापि घटज्ञानोदयज्ञानस्य सादित्वेन घटज्ञानोदयज्ञानोदयार्थमन्यस्यापि ज्ञानस्याभ्युपगन्तव्यत्वादनवस्था- दोषप्रसक्तिः।
नन्वनुमानाद् घटज्ञानस्य जन्मनाशौ सिद्ध्यतः, अस्मिन् पक्षे घटज्ञानसत्त्वात् ; क्षणान्तरे तदभावाच्चेति चेत् , मैवम् ; क्षणान्तरे घटज्ञानाभावरूपहेतोरेवासाक्षिकत्वेनानुमानानवतारात्। तस्माद् ‘नोदेति नास्तमेत्येषा संविदेका स्वयम्प्रभा।’ न चैवं सदाऽपि घटज्ञानमेव भवेदिति वाच्यम् ; ज्ञाने सदाऽपि घटस्य विषयत्वाभावात्। तदभावे को हेतुरिति चेदुच्यते। न हि केवल आत्म- स्वरूपभूते ज्ञाने घटादयो विषया भवितुमर्हन्ति, सुषुप्त्यादावपि तत्प्रसङ्गात्। किं तर्हि? बुद्धिवृत्त्यभिव्यक्ते चैतन्य एव। सा च बुद्धिवृत्तिः क्षणिकेति न घटज्ञानस्य सदा सत्त्वप्रसङ्गः। न चैवं विषयाकारपरिणामरूपाया बुद्धिवृत्तेः साकारत्वात् तदभिव्यक्तचैतन्यमपि साकार- मेवेति सिद्धं ज्ञानस्य साकारत्वमिति वाच्यम् ; दर्पणाभिव्यक्तमुखस्य दर्पणाकारेण साकारत्वादर्शनात्। अन्यथाऽन्तःकरणप्रतिफलित आत्माऽप्यन्तःकरणाकारेण साकारः स्यात्। जले प्रतिफलितं गगनमपि जलाकारेण साकारं स्यात्। तस्मात् प्रतिबिम्बस्य बिम्बा- कारत्वमेव, नोपाध्याकारत्वमिति न बुद्धिवृत्त्यभिव्यक्तचैतन्यस्य बुद्धिवृत्त्याकारत्वम् , किन्तु बिम्बभूतचैतन्याकारत्वमेव। तच्च चैतन्यं निराकारमिति प्रतिबिम्बचैतन्यमपि निराकारमेव। बिम्बप्रतिबिम्बयोरौपाधिक एव भेदो न तात्त्विक इति न चैतन्यद्वित्वप्रसङ्गः।
ननु यदा बुद्धिवृत्तिरस्ति तदा तत्प्रतिफलितचैतन्यमस्ति; यदा बुद्धिवृत्तिर्नास्ति तदा प्रतिबिम्बचैतन्यमपि नास्तीति वृत्तिप्रति- फलितचैतन्यं न नित्यमिति चेत् , मैवम् ; यदि वृत्तिप्रतिफलितचैतन्यं बिम्बचैतन्यादतिरिक्तं स्यात् तर्हि भवेदेवानित्यम् , न तु तथा- ऽतिरिक्तम्। किन्तु तदनतिरिक्तमेवेति नित्यमेव, प्रतिफलनांशस्यानित्यत्वेऽपि चैतन्यांशस्य नित्यत्वात्। तस्मान्निराकारमेकं स्वप्रभं नित्यं च ज्ञानमिति स्थितम्। तदेवात्मस्वरूपमिति च। न च न ज्ञानमात्मेति वाच्यम् ; आत्मनो ज्ञानादन्यत्वे घटादिवद्भास्यत्व- प्रसङ्गात्। घटादयो हि ज्ञानेन भास्यन्ते। न च सूर्यस्थानीय आत्मा, प्रकाशस्थानीयं ज्ञानमिति वाच्यम् ; प्रकाशातिरिक्तसूर्यपदार्था- भावात्। न च प्रकाशः चूर्णस्थानीयः, पिण्डस्थानीयस्तु सूर्य इति वाच्यम् ; चूर्णस्यैव पिण्डीभूतत्वेन चूर्णात्मकत्वात् पिण्डस्य। न च घनीभूततेजः परमाणुपुञ्जः सूर्यः, विरलीभूतास्तु तेजःपरमाणवः प्रकाश इति वाच्यम् ; सूर्यस्य सावयवत्वेनैतत्कल्पनाया उपपत्तावपि निरवयवस्य नात्मन एतत्कल्पनोपपद्यते। घनीभूतज्ञानावयवपुञ्ज आत्मेति , विरलीभूतज्ञानावयवा ज्ञानमिति च वक्तुमशक् यत्वात्। तस्माज्ज्ञानमेवात्मा।
[[९२९]]
ननु यदि ज्ञानमेवात्मा तर्ह्यात्मनः सुप्रसिद्धत्ववचनेनैव ज्ञानस्यापि सुप्रसिद्धत्वं सिद्धमिति कुतः पुनर्वचनं ज्ञानमत्यन्तप्रसिद्ध- मिति चेद्? उच्यते—ब्रह्मण आत्मत्वेन रूपेण सुप्रसिद्धिः पूर्वमुक्ता, ज्ञानत्वेन रूपेणाधुनेति। तस्माज्ज्ञानस्याप्रसिद्धत्वे ज्ञानवशेन ज्ञेयावगतिर्नैव स्यादिति सर्वव्यवहारलोपप्रसङ्गः, ज्ञानपूर्वकत्वात् सर्वव्यवहारस्य। तस्माज्ज्ञानमत्यन्तप्रसिद्धम्। किमिवेत्यत आह— सुखादिवदिति। न हि स्वानुभवसिद्धं सुखं केनापि प्रमाणान्तरेण बोद्धुमिच्छति पुरुषः। एवं प्रसिद्धत्वादेव सुखादिवज्ज्ञानस्यापि जिज्ञासानुपपत्तिरित्याह—जिज्ञासानुपपत्तेश्चेति। तदेव विवृणोति—अप्रसिद्धमिति। जिज्ञास्येत ज्ञातुमिष्येत। यथा ज्ञेयं घटादिविषयं ज्ञातुमिच्छति पुरुषः, तथा ज्ञानं ज्ञातुं नेच्छति। कुतः? प्रसिद्धत्वादेव। 5अप्रसिद्धं हि जिज्ञासाविषयम्। ज्ञेयवदित्येतद् विवृणोति— यथेति। ज्ञेयमित्यस्यैवार्थो ज्ञातव्यमिति। घटादिलक्षणं वस्तु यथा ज्ञानेनाप्तुमिच्छति ज्ञातुमिच्छतीत्यर्थः। तथा ज्ञातव्यं ज्ञानमपि ज्ञानान्तरेणाप्तुमिच्छेत् , ज्ञातव्यत्वाविशेषाज्ज्ञानघटयोः।
ननु ज्ञानमपि ज्ञेयमिव ज्ञातुमिच्छेत् को दोषः? तत्राह—न चैतदस्तीति। एतत् ज्ञानस्य जिज्ञास्यमानत्वं नैवास्ति। ज्ञानेन घटमिव ज्ञानमप्याप्तुमिच्छति यदि तर्हि करणभूतं तज्ज्ञानं कर्मभूताज्ज्ञानात् किं भिन्नमुताभिन्नम्? आद्ये, तदपि करणभूतं ज्ञानमाप्तुं ज्ञानान्तरं करणं स्यादित्येवमनवस्था। द्वितीये, स्वस्यैव करणत्वं कर्मत्वं चेति विरुद्धम् । तस्मान्न ज्ञानस्य जिज्ञास्यमानत्वमस्ति। अत इति। ज्ञानस्य जिज्ञास्यत्वाभावादित्यर्थः। ज्ञानमत्यन्तप्रसिद्धं स्वप्रकाशत्वादिति भावः। अत एवेति। ज्ञानस्यातिप्रसिद्धत्वादेव ज्ञाता आत्माऽपि प्रसिद्धः, ज्ञानस्यैवात्मत्वादिति भावः। तस्मादिति। एवमतिप्रसिद्धत्वाज्ज्ञानस्वरूपस्यात्मन इत्यर्थः।
नन्वात्मज्ञाने यदि प्रयत्नो न कर्तव्यस्तर्हि वेदान्तशास्त्रं वृथा, आत्मज्ञानार्थत्वात् तस्येत्यत आह— किन्त्विति। अनात्मनि अव्यक्तादिदेहान्तेष्वित्यर्थः। या आत्मबुद्धिः आत्मेति भ्रम अविदुषामिति भावः। तन्निवृत्तावेव यत्नः कर्तव्यः, मुमुक्षुणेति शेषः। तस्मादिति। अनात्मन्यात्मबुद्धिनिवृत्तौ सत्यां स्वत एवात्मस्वरूपस्य स्फुरणसम्भवादित्यर्थः। ज्ञाननिष्ठेत्यात्मज्ञाननिष्ठेत्यर्थः।
[[९३०]]
ननु आत्मज्ञाननिष्ठायाः सुसम्पाद्यत्वेऽपि न तया किमपि फलम् ; किन्तु ब्रह्मज्ञाननिष्ठैव सम्पादनीया, मोक्षहेतुत्वात्। सा च न सम्भवति, निराकारत्वाद् ब्रह्मणोऽप्रसिद्धत्वाच्चेति चेत् , मैवम् ; ब्रह्मण्यत्यन्ताप्रसिद्धे सति तज्ज्ञाननिष्ठाया एवानाकाङ्क्ष्यत्वात्। ननु नात्यन्तमप्रसिद्धं ब्रह्म, किन्त्वनुमानादिना किञ्चित्प्रसिद्धमेव, तत एव तज्जिज्ञासोपपत्तिरिति चेत् , तर्हि शास्त्रेण तदेव ब्रह्म आत्मेति विदित्वा सुप्रसिद्धे ब्रह्मणि निष्ठां लभस्व। न च – शास्त्रेण ब्रह्मात्माभेदे प्रोक्तेऽप्यनुभवविरोधात् कथं सोऽर्थोऽवसीयते? सुखदुःखजन्म- मरणादिलक्षणसंसारवानहं क्व? सच्चिदानन्दब्रह्माभेदो मम क्व? इति – वाच्यम् ; कथं ज्ञायते संसार्यात्मेति। न च मयैवानुभूयते मम संसार इति वाच्यम् ; यस्त्वयाऽनुभूयते संसारः स नानुभवितुस्तव धर्मः, किन्तु मनआद्यनात्मधर्म एव, स्वधर्मस्य स्वग्राह्यत्वासम्भ- वात् ; जन्ममरणयोर्देहधर्मत्वस्य सुखदुःखयोर्मनोधर्मत्वस्य च दर्शनात्। न च – सुख्यहं दुःख्यहमित्यादिप्रतीतेः का गतिरिति – वाच्यम् ; अज्ञानकृताध्यास एव गतिरिति। यथा नास्तिकोऽनात्मदेहधर्मानात्मन्यध्यस्य जातो मृतः स्थूलो मनुष्यः काणोऽहमिति मन्यते, तथा आस्तिकश्चानात्ममनआदिधर्मानात्मन्यध्यस्य कर्ताऽहं, भोक्ताऽहं, सुख्यहं, दुःख्यहमिति मन्यते। तस्मादविवेककृत एवायं व्यवहारः। यद्यात्मधर्मः संसारः स्यात् , तर्हि सुषुप्तिमृतिमूर्छास्वपि स दृश्येत। न चानुभूयमानस्य ज्वरादितापस्य कथमपलाप इति वाच्यम् ; किं ज्वरादितापो देहादेरुतात्मनः? आद्ये, सिद्धमसंसारित्वमात्मनः। द्वितीये, कथं सुषुप्तौ ज्वरादितापादर्शनम्? कथं वा अनात्मचिकित्सया देहादितापनिवृत्तिः? यद्ययमात्मतापस्तर्ह्यात्मैव चिकित्सितव्यः, न तु देहादिः, रोगभेषजयोर्वैयधिकरण्यायोगात्। अन्यथा पितरि रुग्णे सति पुत्रो भेषजं सेवेत। तस्मादात्मनाऽनुभूयमानत्वादेव ज्वरतापादयो न आत्मधर्माः, किन्त्वनात्मधर्मा एवेत्यनुभवरूपोऽयमात्मा असंसार्येव सच्चिदानन्दं ब्रह्म। एवं ब्रह्मण आत्मत्वादेव ब्रह्मज्ञाननिष्ठा विदुषां सुसंपाद्या। ये त्वविद्वांसः पण्डितम्मन्याश्च नाहं ब्रह्मेति मन्यन्ते तेषां ब्रह्मज्ञाननिष्ठा दुःसम्पाद्यैवेति सगुणब्रह्मोपासने, यद्वा कर्मयोगे ते यावज्जीवं प्रवर्तन्ताम्। ‘अनेकजन्मसंसिद्धस्ततो याति परां गति’मिति गीतावचनादनेकजन्मभिस्ते ज्ञाननिष्ठायोग्यतालक्षणं संसिद्धिं प्राप्य, संन्यस्य ज्ञाननिष्ठां सम्पाद्य, सच्चिदानन्दं ब्रह्माहमिति सम्यग्ज्ञानान्मुच्यन्ते। येषां पुनर्जन्मान्तरानुष्ठितसुकृतप्रयुक्तेश्वरानुग्रहाद् अद्वैतसिद्धिः, त इहैव जन्मनि मुच्यन्ते, अयमेव द्वैतिनामद्वैतिनां च विशेषो यत्परम्परया द्वैतिनां मुक्तिः, साक्षात्पुनरद्वैतिनामिति ॥५०॥
[[९३१]]
मध्वः …{Loading}…
मध्वः - मूलम्
॥18.50॥ यथा येनोपायेन सिद्धिं प्राप्तो ब्रह्माप्नोति तथा निबोध। या सिद्धिर्ज्ञानस्य परा निष्ठा।
जयतीर्थः
॥18.50॥ सिद्धिं प्राप्तः इति योगसिद्धिप्राप्त्यनन्तरं ब्रह्मप्राप्तावुपायकथनं प्रतिज्ञायत इत्यन्यथाप्रतीतिनिरासार्थं व्याचष्टे – यथेति। ब्रह्माप्नोति इत्यनुवादमात्रम्। तथा तमुपायम्। प्रतीत एवार्थः किं न स्यात् इति चेत्; न सिद्धेर्ज्ञाननिष्ठात्मकत्वेनाभिधानात्। ज्ञानस्य च ब्रह्मप्राप्तावनपेक्षत्वादिति भावेन निष्ठेत्येतद्व्याचष्टे – येति।
अभिनव-गुप्तः …{Loading}…
अभिनवगुप्तः - मूलम्
॥18.41 – 18.60॥ एवमियता षण्णां प्रत्येकं त्रिस्वरूपत्वं धृत्यादीनां च प्रतिपादितम्। तन्मध्यात्,सात्त्विके राशौ वर्तमानो दैवीं संपदं प्राप्त इह ज्ञाने योग्यः; त्वं च तथाविधः इत्यर्जुनः प्रोत्साहितः। अधुना तु इदमुच्यते – यदि तावदनया ज्ञानबुद्ध्या कर्मणि भवान् प्रवर्तते तदा स्वधर्मप्रवृत्त्या विज्ञानपूततया च न कर्मसंबन्धस्तव। अथैतन्नानुमन्यसे; तदवश्यं तव प्रवृत्त्या तावत् भाव्यम् जातेरेव तथाभावे स्थितत्वात्। यतः सर्वः स्वभावनियतः +++(S;;N स्वस्वभावनियतः )+++ कुतश्चिद्दोषात् तिरोहिततत्स्वभावः +++(S;;N – हिततत्तत्स्वभावः )+++ कंचित्कालं भूत्वापि; तत्तिरोधायकविगमे स्वभावं व्यक्त्यापन्नं लभत एव। तथाहि एवंविधो वर्णनां स्वभावः। एवमवश्यंभाविन्यां प्रवृत्तौ ततः फलविभागिता भवेत्॥ तदाह – ब्राह्मणेत्यादि अवशोऽपि तत् इत्यन्तम्। ब्राह्मणादीनां कर्मप्रविभागनिरूपणस्य स्वभावोऽश्यं नातिक्रामति,+++(S; ; N omit न and read अतिक्रामति )+++ इति क्षत्रियस्वभावस्य भवतोऽनिच्छतोऽपि प्रकृतिः स्वभावाख्या नियोक्तृताम् अव्यभिचारेण भजते। केवलं तया नियुक्तस्य पुण्यपापसंबन्धः। अतः मदभिहितविज्ञानप्रमाणपुरःसरीकारेण कर्माण्यनुतिष्ठ। तथा सति बन्धो निवर्त्स्यति। इत्यस्यार्थस्य परिकरघटनतात्पर्यं +++(S; ; N – करबन्धघटन – )+++ महावाक्यार्थस्य। अवान्तरवाक्यानां स्पष्टा ( ष्टोऽ ) र्थः। समासेन +++(S omits समासेन )+++ ( श्लो. 50 ) संक्षेपेण। ज्ञानस्य; प्रागुक्तस्य। निष्ठां ( ष्ठा ) वाग्जालपरिहारेण निश्चितामाह। बुद्ध्या विशुद्धया इत्यादि सर्वमेतत् व्याख्यातप्रायमिति न पुनरायस्यते,+++(N – रारभ्यते )+++।
शङ्करनारायणः
18.50 See Comment under 18.60
वल्लभः …{Loading}…
वल्लभः - मूलम्
॥18.50॥ ज्ञानस्य या परा निष्ठा तां सिद्धिं प्राप्तोऽपि जीवन्नेवेह यथाऽऽत्मनाऽक्षरब्रह्मप्राप्तो भवति तथा मत्तो निबोध।
पुरुषोत्तमः
॥18.50॥ अथ सिद्धिप्राप्तेः फलमाह – सिद्धिमिति। सिद्धिं पूर्वोक्तां प्राप्तः सन् यथा येन प्रकारेण ब्रह्म प्राप्नोति तं प्रकारं मे मत्तः समासेनैव सङ्क्षेपेणैव निबोध जानीहि। यां प्राप्तिः ज्ञानस्य परा उत्कृष्टा निष्ठा; स्थितिरित्यर्थः।
श्रीधर-स्वामी …{Loading}…
॥18.50॥ एवंभूतस्य परमहंसस्य ज्ञाननिष्ठया ब्रह्मभावप्रकारमाह – सिद्धिं प्राप्त इति षड्भिः। नैष्कर्म्यसिद्धिं प्राप्तः सन् यथा येन प्रकारेण ब्रह्म प्राप्नोति तथा तं प्रकारं संक्षेपेणैव मे वचनान्निबोध।
English …{Loading}…
आदिदेवानन्दः
18.50 Learn from me in brief, O Arjuna, how, one who has attained perfection, attains the brahman (or the self), who is the supreme consummation of knowledge.
गम्भीरानन्दः
18.50 Understand for certain from Me, in brief indeed, O son of Kunti, that process by which one who has achieved success attains Brahman, which is the supreme consummation of Knowledge.
पुरोहितस्वामी
18.50 I will now state briefly how he, who has reached perfection, finds the Eternal Spirit, the state of Supreme Wisdom.
शङ्करनारायणः
18.50. Having attained the success, how he attains the Brahman, an attainment which is confirmed to be the final beatitude of true knowledge-that you must learn from Me briefly.
शिवानन्दः - अनुवादः
18.50 Learn from Me in brief, O Arjuna, how he who has attained perfection reaches Brahman (the Eternal), that supreme state of knowledge.
शिवानन्दः - टीका
18.50 सिद्धिम् perfection; प्राप्तः attained; यथा as; ब्रह्म Brahman (the Eternal); तथा so; आप्नोति obtains; निबोध learn; मे of Me; समासेन in brief; एव even; कौन्तेय O son of Kunti; निष्ठा state; ज्ञानस्य of knowledge; या or; परा highest.Commentary When a man has the good fortune to hear the words of wisdom from a teacher; dualism and egoism vanish and his mind rests in union with the Supreme Being. The need for action no longer exists for such a man. Nothing further remains for him to do. He has become a Kritakritya (a man of total fulfilment; or one who has done all that there is to be done).The aspirant obtains the grace of the Lord by worshipping Hims with his proper duty. The Lord gives him dispassion; discrimination; devotion to knowledge. The Lord removes his veil of ignorance. To these ever harmonious; worshipping in love; I give the Yoga of discrimination by which they come unto Me. Out of My mere compassion for them; I; dwelling within their Self; destroy the darkness born of ignorance by the luminous lamp of knowledge. (X.10and11)The perfection is JnanaNishtha or devotion to knowledge by which he attains Selfrealisation or becomes identical with the Supreme Being when the veil of ignorance is rent asunder. The way to the attainment of this devotion to knowledge will be described only in a succint manner. The process or method of Selfrealisation will be described only in brief in the following verses.The actual technie has to be learnt direct from a Guna.
हिन्दी …{Loading}…
रामसुखदासः - अनुवादः
।।18.50।। हे कौन्तेय ! सिद्धि-(अन्तःकरणकी शुद्धि-) को प्राप्त हुआ साधक ब्रह्मको, जो कि ज्ञानकी परा निष्ठा है, जिस प्रकारसे प्राप्त होता है, उस प्रकारको तुम मुझसे संक्षेपमें ही समझो।
रामसुखदासः - टीका
।।18.50।।व्याख्या – सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे – यहाँ सिद्धि नाम अन्तःकरणकी शुद्धिका है; जिसका वर्णन पूर्वश्लोकमें आये असक्तबुद्धिः; जितात्मा और विगतस्पृहः पदोंसे हुआ है। जिसका अन्तःकरण इतना शुद्ध हो गया है कि उसमें किञ्चिन्मात्र भी किसी प्रकारकी कामना; ममता और आसक्ति नहीं रही; उसके लिये कभी किञ्चिन्मात्र भी किसी वस्तु; व्यक्ति; परिस्थिति आदिकी जरूरत नहीं पड़ती अर्थात् उसके लिये कुछ भी प्राप्त करना बाकी नहीं रहता। इसलिये इसको सिद्धि कहा है। लोकमें तो ऐसा कहा जाता है कि मनचाही चीज मिल गयी तो सिद्धि हो गयी; अणिमादि सिद्धियाँ मिल गयीं तो सिद्धि हो गयी। पर वास्तवमें यह सिद्धि नहीं है क्योंकि इसमें पराधीनता होती है; किसी बातकी कमी रहती है; और किसी वस्तु; परिस्थिति आदिकी जरूरत पड़ती है। अतः जिस सिद्धिमें किञ्चिन्मात्र भी कामना पैदा न हो; वही वास्तवमें सिद्धि है। जिस सिद्धिके मिलनेपर कामना बढ़ती रहे; वह सिद्धि वास्तवमें सिद्धि नहीं है; प्रत्युत एक बन्धन ही है। अन्तःकरणकी शुद्धिरूप सिद्धिको प्राप्त हुआ साधक ही ब्रह्मको प्राप्त होता है। वह जिस क्रमसे ब्रह्मको प्राप्त होता है; उसको मुझसे समझ – निबोध मे। कारण कि साङ्ख्ययोगकी जो सारसार बातें हैं; वे साङ्ख्ययोगीके लिये अत्यन्त आवश्यक हैं और उन बातोंको समझनेकी बहुत जरूरत है।निबोध पदका तात्पर्य है कि साङ्ख्ययोगमें क्रिया और सामग्रीकी प्रधानता नहीं है। किन्तु उस तत्त्वको समझनेकी प्रधानता है। इसी अध्यायके तेरहवें श्लोकमें भी साङ्ख्ययोगीके विषयमें निबोध पद आया है।समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा – साङ्ख्ययोगीकी जो आखिरी स्थिति है; जिससे बढ़कर साधककी कोई स्थिति नहीं हो सकती; वही ज्ञानकी परा निष्ठा कही जाती है। उस परा निष्ठाको अर्थात् ब्रह्मको साङ्ख्ययोगका साधक जिस प्रकारसे प्राप्त होता है; उसको मैं संक्षेपसे कहूँगा अर्थात् उसकी सारसार बातें,कहूँगा।
सम्बन्ध – ज्ञानकी परा निष्ठा प्राप्त करनेके लिये साधनसामग्रीकी आवश्यकता है; उसको आगेके तीन श्लोकोंमें बताते हैं।
चिन्मयानन्दः
।।18.50।। पूर्व श्लोक में नैर्ष्कम्य सिद्धि के लक्ष्य को इंगित किया गया है। अब उस साधना के विवेचन का प्रकरण प्रारम्भ होता है; जिसके अभ्यास से परमात्मस्वरूप में दृढ़निष्ठा प्राप्त हो सकती है। इस श्लोक में आगे के कथनीय विषय की प्रस्तावना की गयी है। सिद्धि को प्राप्त पुरुष से तात्पर्य उस साधक से है; जिसने स्वधर्माचरण से अन्तकरण की शुद्धि प्राप्त कर ली है। ऐसा ही साधक ब्रह्मप्राप्ति का अधिकारी होता है। आगे के कुछ श्लोक हमें स्थितप्रज्ञ पुरुष के लक्षणों का स्मरण कराते हैं; जिनका वर्णन गीता के द्वितीय अध्याय में किया गया था। ध्यानाभ्यास का विस्तृत विवेचन षष्ठाध्याय में किया जा चुका है। अत यहाँ केवल संक्षेप में ही वर्णन किया जायेगा। भगवान् श्रीकृष्ण आगे कहते हैं
तेजोमयानन्दः - अनुवादः
।।18.50।। सिद्धि को प्राप्त पुरुष किस प्रकार ब्रह्म को प्राप्त होता है, तथा ज्ञान की परा निष्ठा को भी तुम मुझसे संक्षेप में जानो।।
-
विधिसदृश- वचनत्वादित्यर्थः। द्रष्टव्यः इति तव्यप्रत्ययः अर्हार्थे इति भावः। श्रवणमनननिदिध्यासनानां वाचस्पत्युक्तरीत्या ज्ञानरूपत्वे तत्रापि अर्हार्थे तव्यप्रत्ययः। तेषां ज्ञानविजातीयचेतोवृत्तिरूपत्वे तु तत्र विधित्वमेवेति बोध्यम्। ↩︎
-
तथा च वह्निजन्येन धूमेन वह्न्यनुमितौ यथा नान्योन्याश्रयः, एवमत्रापीति भावः। — ‘प्रत्यक्षावगमं धर्म्यम्’ (भ.गी.९.२) इत्यादि। ↩︎
-
बहिर्विषयेऽसक्ता बुद्धिर्येषामित्यर्थः। ↩︎
-
‘राम’ इति ज्ञाने रामशब्दो वर्तत इति रामाकारत्वं चेत् , ‘रामशब्द’ इति ज्ञाने रामशब्दाकारत्वं रामशब्दशब्दवत्त्वाद् वक्तव्यम्। तत्र च रामशब्द इति शब्दे रामशब्दो वर्तत इति आत्माश्रय इत्यर्थः। ↩︎
-
अनिश्चितमित्यर्थः। न तु यथाश्रुतम्। ↩︎