16 द्वाविमौ पुरुषौ

विश्वास-प्रस्तुतिः …{Loading}…

द्वाव् इमौ पुरुषौ लोके
क्षरश् चाक्षर एव च।
क्षरः सर्वाणि भूतानि +++(→ सूक्ष्म-शरीराणि + कारण-शरीराणि)+++,
कूट-स्थो ऽक्षर +++(→साक्षि-चेत)+++ उच्यते॥15.16॥

रामानुजः …{Loading}…

रामानुजः - मूलम्

॥15.16॥क्षरश् च अक्षर एव च इति द्वौ इमौ पुरुषौ लोके प्रथितौ। तत्र क्षरशब्दनिर्दिष्टः पुरुषो जीवशब्दाभिलपनीय ब्रह्मादिस्तम्बपर्यन्तक्षरणस्वभावाचित्संसृष्ट सर्वभूतानि अत्र अचित्सङ्गरूपैकोपाधिना पुरुष इत्य् एकत्वनिर्देशः।अक्षरशब्दनिर्दिष्टः कूटस्थः; अचित्संसर्गवियुक्तः; स्वेन रूपेण अवस्थितो मुक्तात्मा। स त्व् अचित्संसर्गाभावाद् अचित्परिणामविशेषब्रह्मादिदेहसाधारणो न भवति इति कूटस्थ इति **उच्यते।

अत्र अप्य् एकत्वनिर्देशो ऽचिद्वियोगरूपैकोपाधिना अभिहितः। न हि इतः पूर्वम् अनादौ काले मुक्त एक एव। यथा उक्तम् – बहवो ज्ञानतपसा पूता मद्भावमागताः॥ (गीता 4।10)मम साधर्म्यमागताः। सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च॥ (गीता 14।2) इति।**

वेदान्तदेशिकः

॥15.16॥ सर्ववेदसाररूपपुरुषोत्तमयाथात्म्यप्रतिपादनमुक्तेन सङ्गमयन्नवतारयति – अतो मत्त एवेति। लोक्यतेऽनेनेति व्युत्पत्त्या प्रमाणपरत्वमभिप्रेत्यप्रथितः इत्येतदनुषज्य वचनविपरिणामेन योजयति – लोके प्रथिताविति। प्रमाणं च अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः [श्वे.उ.4।5] इत्यादिकमभिप्रेतम्। पुरुषशब्दनिर्दिष्टात्मनः स्वरूपेण क्षरत्वायोगाच्छरीरद्वारा तदित्यभिप्रेत्य तृतीयपादं व्याचष्टेतत्र क्षरशब्दनिर्दिष्ट इत्यादिना। क्षरः इत्येकत्वनिर्देशेनभूतानि इति बहुत्वनिर्देशस्तूपाधिकृत इति शङ्काव्युदासायाऽऽह – अत्राचित्संसर्गेति। बद्धात्मनां स्वरूपतो भेदाभावे सर्वदुःखसुखप्रतिसन्धानं सर्वेषां स्यादिति भावः। कूटस्थशब्दोऽनेकसन्ततिमूलपुरुषे प्रसिद्धः स चात्र न परमपुरुषः;उत्तमः पुरुषस्त्वन्यः [15।17] इति तस्य पृथग्वक्ष्यमाणत्वात्। नापि हिरण्यगर्भादिः; तस्य देहसम्बन्धित्वेन क्षरशब्दनिर्दिष्टत्वात् नापि मुक्तात्मा; रूढ्याद्यविषयत्वादित्यतस्तत्र योगवृत्तिमभिप्रेत्य मुक्तात्मपर इत्याह – अचित्संसर्गवियुक्त इति। योगवृत्तिमुपपादयति – स त्विति। ब्रह्मादिदेहेति – ब्रह्मादिदेहसम्बन्धायत्तविचित्रसुखदुःखाद्यसाधारणाकारो न भवतीत्यर्थः। एतेन स्वेन रूपेणाभिनिष्पद्यते [छा.उ.8।12।2] इति श्रुत्युक्तासङ्कुचितज्ञानैकाकारत्वलक्षणसाधारणाकारो भवतीत्युक्तं भवति। तथाच कूटवत्तिष्ठतीति कूटस्थ इति व्युत्पत्तिरपि सूचिता। साधारणाकारत्वमेवात्र कूटसादृश्यमिति भावः। अत्राप्येकत्वनिर्देश एकोपाधिक्रोडीकारनिबन्धन एवेत्याह – अत्रापीति। निर्देश৷৷.अभिहित इत्येतत्पाकं पचति इतिवत् द्रष्टव्यम्। उक्तार्थे हेत्वभिप्रायेण मुक्तात्मबहुत्वं सप्रमाणमाह – पूर्वमनादौ काल इति।

आदिदेवानन्दः

15.16 There are, the Sastras say, ’two kinds of Persons (Purusas)’ well known in the world - ’the perishable and the imperishable.’ Of the two, the Persons designated by the term ‘perishable’ (Ksara) are beings conjoint with non-conscient matter of modifiable nature, from Brahma down to a blade of grass,who can be signified also by the term Jivas (individual selves). Here the term Purusa (Person) is used in singular to indicate the common single condition of being conjoined with non-conscient matter. That which is the ‘imperishable’ (Aksara) is called ‘unchanging’ (Kutastha), this is the released self, devoid of association with non-conscient matter, remaining in its own form. It is called ‘unchangeable’ inasmuch as when free from non-conscient matter, It has no specific connection with particular transformations of non-conscient matter like the bodies of Brahma etc. Here also the designation of the term in singular (as expressing a generic class) denoting the totality of liberated selves, is used on account of the single condition of dissociation from non-conscient matter. It does not mean that before this, in time without beginning, there existed but a single liberated self. So it is stated: ‘Purified by the austerity of knowledge, many have attained My state’ (4.10); and ‘They are not born at the time of creation, nor do they suffer at the time of dissolution’ (14.2).

शङ्करः …{Loading}…

शङ्करः - मूलम्

॥15.16॥ –,द्वौ इमौ पृथग्राशीकृतौ पुरुषौ इति उच्येते लोके संसारे – क्षरश्च क्षरतीति क्षरः विनाशी इति एको राशिः अपरः पुरुषः अक्षरः तद्विपरीतः; भगवतः मायाशक्तिः; क्षराख्यस्य पुरुषस्य उत्पत्तिबीजम् अनेकसंसारिजन्तुकामकर्मादिसंस्काराश्रयः; अक्षरः पुरुषः उच्यते। कौ तौ पुरुषौ इति आह स्वयमेव भगवान् – क्षरः सर्वाणि भूतानि; समस्तं विकारजातम् इत्यर्थः। कूटस्थः कूटः राशी राशिरिव स्थितः। अथवा; कूटः माया वञ्चना जिह्मता कुटिलता इति पर्यायाः; अनेकमायावञ्चनादिप्रकारेण स्थितः कूटस्थः; संसारबीजानन्त्यात् न क्षरति इति अक्षरः उच्यते॥ आभ्यां क्षराक्षराभ्यां अन्यः विलक्षणः क्षराक्षरोपाधिद्वयदोषेण अस्पृष्टः नित्यशुद्धबुद्धमुक्तस्वभावः –,

गम्भीरानन्दः

15.16 There are imau, these; dvau, two-grouped separately; purusau, persons, so called [Persons-so called only figuratively, since they are the limiting adjuncts of the supreme Person.]; loke in the world; the ksarah, mutable-one group consists of the perishable; the other person is the aksarah, immutable, opposite of the former, the power of God called Maya, which is the seed of the origin of the person called the mutable. That which is the receptacle of the impressions of desires, actions, etc. of countless transmigrating creatures is called the immutable person. Who are those persons; The Lord Himself gives the answer: Ksarah, the mutable; consists of sarvani, all; bhutani, things, i.e. the totality of all mutable things. Kutasthah is the one existing as Maya: Kuta means a heap; kutasthah, is that which exists like a heap. Or, kuta is maya, deception, falsehood, crookedness, which are synonymous; that which exists in the diverse forms of maya etc. is the kutasthah. It is ucyate, called; the aksarah, immutable, because, owing to the countless seeds of worldly existence, it does not perish.

हरिकृष्णदासः

॥15.16॥ अब; क्षर और अक्षर – इन दोनों उपाधियोंसे अलग बतलाकर; उसी उपाधिरहित शुद्ध परमात्माके स्वरूपका निश्चय करनेकी इच्छासे; अगले श्लोकोंका आरम्भ किया जाता है। उनमें पहलेके और आगे आनेवाले सभी अध्यायोंके समस्त अभिप्रायको तीन भेदोंमें विभक्त करके कहते हैं –, समुदायरूपसे पृथक् किये हुए ये दो भाव; संसारमें पुरुष नामसे कहे जाते हैं। इनमेंसे एक समुदाय क्षीण होनेवाला – नाशवान् क्षर पुरुष है और दूसरा उससे विपरीत अक्षर पुरुष है; जो कि भगवान्की मायाशक्ति है; क्षर पुरुषकी उत्पत्तिका बीज है; तथा अनेक संसारी जीवोंकी कामना और कर्म आदिके संस्कारोंका आश्रय है; वह अक्षर पुरुष कहलाता है। वे दोनों पुरुष कौन हैं सो भगवान् स्वयं ही बतलाते हैं – समस्त भूत अर्थात् प्रकृतिका सारा विकार तो क्षर पुरुष है और कूटस्थ अर्थात् जो कूट – राशिकी भाँति स्थित है अथवा कूट नाम मायाका है जिसके वञ्चना; छल; कुटिलता आदि पर्याय हैं; उपर्युक्त माया आदि अनेक प्रकारसे जो स्थित है; वह कूटस्थ है। संसारका बीज; अन्तरहित होनेके कारण वह कूटस्थ नष्ट नहीं होता; अतः अक्षर कहा जाता है।

आनन्दगिरिः

॥15.16॥ उत्तरश्लोकानां तात्पर्यं वक्तुं वृत्तं कीर्तयति – भगवत इति। विशिष्टोपाधिराहित्यादिः। संप्रत्यध्यायसमाप्तेरुत्तरसंदर्भस्य तात्पर्यमाह – अथेति। न केवलं निरुपाधिकात्मस्वरूपनिर्धारणायोत्तरग्रन्थः किंतु सर्वस्यैव गीताशास्त्रस्यार्थनिर्णयार्थमित्याह – तत्रेति। क्षराक्षरोपाधिभ्यां परमात्मना च राशित्रयमुक्तेन सर्वात्मत्वेनाशुद्ध्यादिदोषप्रसक्तावुक्तं – द्वाविमाविति। पुरुषोपाधित्वात्पुरुषत्वं न साक्षादिति विवक्षितत्वादाह –,पुरुषाविति। परं पुरुषं व्यावर्तयति – भगवत इति। तत्र कार्यलिङ्गकमनुमानं सूचयति – क्षराख्यस्येति। मायाशक्तिं विना भोक्तॄणां कर्मादिसंस्कारा देवोक्तकार्योत्पत्तिरित्याशङ्क्य तस्य निमित्तत्वेऽपि मायाशक्तिरुपादानमिति मत्वाह – अनेकेति। कामकर्मादीत्यादिशब्देन ज्ञानं गृह्यते। प्रकृतिं पुरुषं चैवेति प्रकृतयोरिह ग्रहणमिति शङ्कामाकाङ्क्षाद्वारा वारयति – कौ ताविति। कूटशब्दार्थमुक्त्वा तेन स्थितस्य कूटस्थतेति संपिण्डितमर्थमाह – अनेकेति। तस्य कथमक्षरत्वं विना ब्रह्मज्ञानमनाशादित्याह – संसारेति।

नीलकण्ठः

॥15.16॥ सर्वशास्त्रहृदयं संगृह्णाति – द्वाविमाविति। लोके प्रसिद्धौ इमौ द्वावेव पुरुषौ। क्षरो विनाशी स च सर्वाणि भूतानि प्राणवन्ति कर्मक्षये सुप्तिप्रलयकैवल्यादावुपाधिनाशमनु विनाशशीलो जीवो ब्रह्मप्रतिबिम्बभूतो जलार्कोपमः। प्रज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति इति श्रुतेः। कूटस्थो निर्विकारो मायोपाधिरक्षरः। तदुपाधेरकर्मत्वेन नाशासंभवात्। उपाधिदोषेणावशीकृतत्वाच्चासौ न क्षरति स्वरूपान्न च्यवत इत्यक्षरः।

धनपतिः

॥15.16॥ एवं यदादित्यगतं तेज इत्यादिना भगवत ईश्वरस्य नारायणाख्यस्य विभूतिसंक्षेपवर्णनेन सोपाधिकं स्वरुपमुक्त्वाथेदानीं तस्यैव परमात्मनः क्षराक्षरोपाधिविभक्त्या निरुपाधिकस्य केवलस्य स्वरुपनिर्धारणाय सर्वमेवातीतानागताध्यायार्थजातं त्रिधा राशीकृत्याह – द्वाविति। क्षरक्षरोपाधिम्यां परमात्मना च राशित्रयं इमौ प्रत्यक्षादिना लोकेऽनुभूयमानौ पुरुषौ। कौ तौ पुरुषाविति तत्राह क्षरश्चाक्षर एव चेति क्षराक्षशब्दार्थं स्वयमेवाह भगवान्। क्षरः सर्वाणि भूतानि सर्वं विकारजातं क्षरतीति क्षरो विनाशी कूटस्थः कूटो राशिरिव स्थितः। यद्वा कूटात्मनाऽनेकमायावञ्चनादिप्रकारेण स्थितः कूटस्थः। संसारबीजानन्त्यान्न क्षरतीत्यक्षरो भगवतो मायाशक्तिः क्षराख्यस्योत्पत्तिबीजमनेकसंसारिजन्तुकामकर्मादिसंस्काराश्रयोऽक्षर उच्यते। यत्त्वपरे कूटः शिलाराशिः पर्वत इव देहेषु,नश्यत्स्वपि निर्विकारतया तिष्ठतीति कूटस्थश्चेतनो भोक्ता स तु अक्षरः पुरुष इत्युच्यते विवेकिभिरिति वर्णयन्ति तन्नोपादेयम् क्षेत्रज्ञस्यैवेह पुरुषोत्तमत्वेन प्रतिपाद्यत्वात्। अन्यथा क्षेत्रज्ञं तापि मां विद्धीत्यनेनोत्तमः पुरुषस्त्वन्य इत्यस्य विरोधापत्तेः।

मधुसूदन-सरस्वती

॥15.16॥ एवं सोपाधिकमात्मानमुक्त्वा क्षराक्षरशब्दवाच्यकार्यकारणोपाधिद्वयवियोगेन निरुपाधिकं शुद्धमात्मानं प्रतिपादयति कृपया भगवानर्जुनाय त्रिभिः श्लोकैः – द्वाविमावित्यादिना। द्वाविमौ पृथग्राशीकृतौ पुरुषो पुरुषोपाधित्वेन पुरुषशब्दव्यपदेश्यौ लोके संसारे। कौ तावित्याह। क्षरश्चाक्षर एव च क्षरतीति क्षरो विनाशी कार्यराशिरेकः पुरुषः। न क्षरतीत्यक्षरो विनाशरहितः। क्षराख्यस्य पुरुषस्योत्पत्तिबीजं भगवतो मायाशक्तिर्द्वितीयः पुरुषः। तौ पुरुषौ व्याचष्टे स्वयमेव भगवान्। क्षरः सर्वाणि भूतानि समस्तं कार्यजातमित्यर्थः। कूटस्थः कूटो यथार्थवस्त्वाच्छादनेनायथार्थवस्तुप्रकाशनं वञ्चनं मायेत्यनर्थान्तरं। तेनावरणविक्षेपशक्तिद्वयरूपेण स्थितः कूटस्थः भगवान्मायाशक्तिरूपः कारणोपाधिः संसारबीजत्वेनानन्त्यादक्षर उच्यते। केचित्तु क्षरशब्देनाचेतनवर्गमुक्त्वा कूटस्थोऽक्षर उच्यत इत्यनेन जीवमाहुस्तत्र सम्यक् क्षेत्रज्ञस्यैवेह पुरुषोत्तमत्वेन प्रतिपाद्यत्वात् तस्मात्क्षराक्षरशब्दाभ्यां कार्यकारणोपाधी उभावपि जडावेवोच्येते इत्येवमुक्तम्।

रामरायः - १६

द्वाविति। विशिष्टोपाधयः तेजोबलादयः तत्तदुपाधयः परस्परं भिन्नाः। तत्कृतो भगवतो विभूतिसङ्क्षेपो ‘यदादित्यगतं तेजः’ इत्यादिना ग्रन्थेनोक्तः। प्रकर्षेण विभक्तः प्रविभक्तः प्रविविक्तस्तद्भावेन प्रविभक्ततया क्षराक्षरोपाधिद्वयाद् विविच्येत्यर्थः। निरुपाधिकस्य उपाधिरहितस्य, निर्विशेषस्येति यावत्। अत एव केवलस्य एकस्यात्मनश्चिन्मात्रस्येति वा। तत्त्वं याथार्थ्यं, स्वरूपमिति यावत्। तस्य निर्धारयितुमिच्छया निर्दिधारयिषया । त्रिधा राशीकृत्येति। राशित्रयीकृत्येत्यर्थः।

लोके क्षरश्चाक्षर एव चेति इमौ द्वौ पुरुषावित्युच्येते। सर्वाणि भूतानि क्षर इत्युच्यन्ते। कूटस्थोऽक्षर इत्युच्यते। संसारः सुखदुःखसम्भोगः, तस्मिन् , तदाश्रयभूतावित्यर्थः। अथवा संसारो व्यवहारः, तस्मिन् विषये, व्यवहारगोचरावित्यर्थः। पुरुषोत्तमो ह्यव्यवहार्यः, ‘यत्तदद्रेश्यमग्राह्य’मित्यादिश्रुतेः। लोके जगतीति तु नोक्तमाचार्यैः, क्षराक्षरयोरेव जगत्पदार्थत्वेन क्षराक्षरातिरिक्त- जगत्पदार्थाभावात्। क्षरति नश्यतीति क्षरः। एको राशिरेका कोटिरित्यर्थः। तद्विपरीतः क्षराद् विलक्षणोऽविनाशित्वादिति भावः। भगवन्मायाशक्तिरेवाक्षरः पुरुष इत्युच्यते। अनेकेषां संसारिणां जन्तूनां प्राणिनां ये कामकर्मादिसंस्कारास्तेषामाश्रयः। प्रलयदशायां सुषुप्तौ च संस्काररूपेण हि तत्तज्जीवोपाध्यन्तःकरणानि प्रकृतौ निलीय वर्तन्ते। तानि च प्रलयावसाने पुनः प्रादुर्भवन्ति प्रकृतेः सकाशादिति प्रकृतिर्भूतोत्पत्तिबीजम्। वृक्षोत्पत्तिं प्रति बीजस्येव भूतोत्पत्तिं प्रति प्रकृतेः कारणत्वेन बीजत्वात्। विकारजातं कार्यवर्गं [वर्गः]ब्रह्मादिस्तम्बपर्यन्तश्चेतनवर्गः, मृत्पाषाणाद्यचेतनवर्गश्चेत्यर्थः। भवन्तीति भूतानीति व्युत्पत्त्या भूतशब्दस्य कार्यमात्रपरत्वादिति भावः।

[[७९९]]

अन्यथा रामानुजोक्तविधया चेतनवर्गमात्रग्रहणेऽचेतनवर्गस्य राशित्रयाद् बहिर्भूतत्वं स्यात्। न चेष्टापत्तिः, भगवता राशि- चतुष्टयस्याप्रतिपादितत्वात्। क्षराक्षरपुरुषोत्तमाख्यं राशित्रयं हीह प्रतिपादितम्। क्षराक्षराभ्यामन्यस्य पुरुषोत्तमस्याचेतनत्वं च स्यात्। चेतनवर्गात् कूटस्थाच्चाचेतनवर्गो ह्यन्य इति। राशिरिवेति। अप्रकम्प्यस्वभाव इत्यर्थः। कूट इव तिष्ठतीति कूटस्थः। कूटरूपेण तिष्ठतीति च कूटस्थ इति व्युत्पत्त्यन्तरमाश्रित्याह— अथवेति। एकमेवाज्ञानं मायावञ्चनाजिह्मताकुटिलताशब्दैरुच्यत इति मायादि- प्रकारेण स्थितमित्यर्थः। माया इन्द्रजालादिः। वञ्चना प्रतारणम् , पश्यतो हरणादिकम्। जिह्मता कपटस्वभावः। कुटिलता कौटिल्यमित्येतेषामवान्तरस्वरूपभेदसत्त्वान्मायावञ्चनादिप्रकारेणेत्युक्तम्। चतुर्णामप्यज्ञानपदार्थत्वात् पर्याया इत्युक्तम्। ननु ज्ञान- नाश्यायाः प्रकृतेः कथमक्षरकूटस्थत्वम्? अत आह— संसारेति। संसारबीजानां कामकर्माविद्यानामानन्त्याद् बीजाङ्कुरन्यायेना- नन्तत्वात् तदाश्रया प्रकृतिरप्यनन्तैव। न ह्याश्रयस्य सान्तत्वे तदाधेयस्यानन्तत्वं स्यात्। एवमनन्तत्वात् प्रकृतिर्न क्षरति न नश्यतीत्यक्षर इत्युच्यते। यावज्ज्ञानोदयमक्षरत्वस्य विवक्षितत्वात् सापेक्षं नित्यत्वमस्ति मायाया इति भावः। एवं सर्वं कार्यजातमेकः पुरुषो विनाशिस्वभावात् , कारणं माया त्वन्यः पुरुषोऽविनाशिस्वभावात्। अतः कार्यं जगत् क्षरपदार्थः, कारणमज्ञानं माया त्वक्षरपदार्थः इति राशिद्वयमनेन श्लोकेन प्रतिपादितम्। तृतीयराशिं तु पुरुषोत्तमाख्यमुत्तरश्लोकेन प्रतिपादयिष्यति।

[[८००]]

यत्तु रामानुजः - तत्र क्षरशब्दनिर्दिष्टः पुरुषो जीवशब्दाभिलपनीयब्रह्मादिस्तम्बपर्यन्तक्षरणस्वभावाचित्संसृष्टसर्वभूतानि, अचित्संसर्गवियुक्तः स्वेन रूपेणावस्थितो मुक्तात्मा अक्षरः पुरुषः, एकत्वनिर्देशस्तु अचिद्वियोगरूपैकोपाधिनाऽभिहित इति, तत् तुच्छम्। किमिह जीव ईश्वरश्च विविच्य प्रदर्श्यते, उताविविच्य? आद्ये, अचित्संसृष्टो जीवः क्षर इत्ययुक्तम्। द्वितीये, ईश्वरोऽप्यचिद्विशिष्ट एवेति क्षर एव स्यादिति कथं तस्य क्षरादन्यत्वम्? तथाऽचिद्विशिष्ट एवेति कथमक्षरादन्यत्वं च तस्य? अचिद्विविक्तचित्प्रदर्शनं च कूटस्थोऽक्षर इति कथम्? न च जीवः प्रकृतेर्विविच्याविविच्य च द्वेधा प्रदर्श्यते, ईश्वरस्तु विविच्यैव प्रदर्श्यत इति न दोष इति वाच्यम् ; किं बद्धजीवो विविच्याविविच्य च प्रदर्श्यते, उत मुक्तजीवः? नाद्यः, तस्य विविच्य प्रदर्शनायोगात्। विवेचिते सति बद्धत्वस्यैवापायात्। नान्त्यः, तस्याविविच्य प्रदर्शनायोगात्। विविक्त एव हि मुक्तः। तथा किं विशिष्टेश्वरो विविच्य प्रदर्श्यते? उत शुद्धचिन्मात्रः? नाद्यः, विशिष्टस्य विवेचनायोगात्। नान्त्यः, तव मते निर्विशेषचिन्मात्रेश्वरानभ्युपगमात्। न च जीवो बन्धदशायां क्षरणस्वभावाचिद्वैशिष्ट्यात् क्षरः; मुक्तिदशायां तद्वियोगादक्षर इति; प्रकृतिपुरुषविशिष्टोऽपीश्वरः प्रकृतिपुरुषाभ्यामन्य एव, दण्डविशिष्टः पुरुषो दण्डादिवेति चोच्यत इति वाच्यम् ; किं जीवस्य स्वभावतः क्षरणं धर्मः? उताक्षरणम्? आद्ये, कथमक्षरत्वं तस्य? द्वितीये, कथं क्षरत्वम्? न च स्वभावतोऽक्षरोऽपि जीवोऽचिद्वैशिष्ट्यात् क्षर इति वाच्यम् ; स्वभावसिद्धस्य धर्मस्य स्वरूपनाशं विना विनिमयायोगात्। न ह्यग्निरुष्णस्वभावः शीतस्वभावो भवति विना स्वरूपनाशम्। न चाचिद्विशिष्टे जीवेऽचिद्गतं क्षरणमारोप्यत इति वाच्यम् ; स्वसिद्धान्तभङ्गप्रसङ्गात्। न च ‘विशेष्यस्य बाधे सति विधिनिषेधौ विशेषणमुपसङ्क्रामत’ इति न्यायेनाचिद्विशिष्टो जीवः क्षर इत्युक्तेऽचित एव विशेषणांशस्य क्षरत्वमापततीति वाच्यम् ; तथा सत्यचित्पदार्थः क्षरः, चित्पदार्थोऽक्षर इत्येव वक्तव्यम् , किमनया अचिद्विशिष्टो जीवः क्षर इति कुकल्पनया? न च मूलकर्तुरेवायं दोषः, न ममेति वाच्यम् ; अहो! तव पाण्डित्यप्रकर्षः! येन भगवत्यपि पराशरसूनौ दोषमासञ्जयसि।

सर्वाणि भूतानीत्यस्य सर्वमचिद्द्रव्यमित्यर्थवर्णने सति किं तव रसना विदीर्यते? अपि च तव मते प्रकृतेरपि नित्यत्वेन कथं क्षरणस्वभावमचिद्द्रव्यं भवेत्? न च कारणप्रकृतिरेव नित्या, तत्परिणामास्तु देहादयोऽनित्या एवेति वाच्यम् ; तथा सति सर्वं कार्यजातं क्षर इति श्रीशङ्करभगवत्पादाचार्यप्रोक्तार्थ एव घट्टकुटीप्रभातन्यायेन तवापि पर्यवसानात्। एवं क्षरशब्देन विनाश्यचिद्द्रव्यप्रतिपादने सत्यविनाश्यचिद्द्रव्यप्रतिपादनस्याप्यावश्यकत्वादिह केन वाक् येन पुनस्तदविनाश्यचिद्द्रव्यं प्रतिपादितम्। न च ‘कूटस्थोऽक्षर उच्यत’ इति वाक् येनेति वाच्यम् ; अन्यथा व्याख्यातत्वात्तद्वचनस्य त्वया। न च तत्प्रतिपादनमनावश्यकमिति वाच्यम् ; विनाशी अविनाशी चेति द्वावेव हि पदार्थौ। तदतिरिक्तपदार्थाभावात्। न हि विनाशाविनाशावेकस्मिन् स्तः, येन तदुभयात्मकं पदार्थान्तरं स्यात्। तत्र कार्यजातं सर्वं विनाशिपदार्थः। स क्षरः सर्वाणि भूतानीत्यनेनोक्तः। अविनाशी तु द्विविधः- चिदचिद्भेदात्। न हि चेतनादचेतनाच्चान्यद् वस्त्वस्ति, तदुभयात्मकं तदुभयविलक्षणं वा। न च तदुभयविलक्षण ईश्वरोऽस्तीति वाच्यम् ; चेतनत्वेनेश्वरस्य तद्विलक्षणत्वासम्भवात्। द्रष्टा हीश्वरस्त्वयाऽप्यभ्युपगतः। कथमचेतनस्य द्रष्टृत्वम्? तस्मादविनाशी द्विविध एव, चिदचिद्भेदात्। तत्र च ‘उत्तमः’ इति श्लोकेन चित् प्रतिपाद्यते। अचित्तु न केनापीति कृत्वा प्रतिपाद्यस्याप्रतिपादनं दोष एव।

तथा एक एव चित्पदार्थः ‘कूटस्थ’ इति वाक् येनापि प्रतिपाद्येत चेत् पुनरुक्तिदोषश्च। न च न पुनरुक्तिदोषः, यथा अविनाशी पदार्थो द्विविधः तथा चित्पदार्थोऽपि द्विविध एव, जीवेश्वरभेदात्। तत्र जीवः कूटस्थवाक् येनेश्वरः परमात्मवाक् येन च प्रतिपाद्यत इति वाच्यम् ; ‘परमात्मेति चाप्युक्तो देहेऽस्मिन् पुरुषः परः’ इति परमात्मवाक् यस्यापि जीवप्रतिपादकत्वात्। कूटस्थवाक् यस्यापि निर्विकारेश्वरप्रतिपादकत्वाच्च। ‘एतस्य वा अक्षरस्ये’ति श्रुतिर्ह्यक्षरशब्दमीश्वरं परं ब्रूते। न च तत्तत्प्रकरणादिवशात् तत्तच्छब्दानां तत्तदर्थविशेषवाचकत्वमिति प्रकृतेऽक्षरशब्दः कूटस्थशब्दश्च जीवपर एव। परमात्मशब्दस्तु ईश्वरपर एवेति वाच्यम् ; चित्पदार्थस्ये- श्वरस्याचित्पदार्थाद् वैलक्षण्यसत्त्वेऽपि चित्पदार्थाज्जीवाद्वैलक्षण्यस्य दुर्वचत्वेन ‘उत्तमः पुरुषस्त्वन्यः’ इति कथनस्यासङ्गतत्वापत्तेः। न च ज्ञानैकाकारयोरपि जीवेश्वरयोर्धर्मतो भेदोऽस्तीति वाच्यम् ; निर्धर्मकत्वाच्चैतन्यस्य जीवेश्वरस्वरूपभूतस्य। प्रकृतिवियुक्तं हि मुक्तप्राप्यमात्मस्वरूपं सच्चिदानन्दं सुखादिसंसाररहितं सर्वज्ञं चेति तवाप्यभ्युपगमः। तस्मान्न सर्वज्ञत्वकिञ्चिज्ज्ञत्वप्रयुक्तोऽपि जीवेश्वरभेदोऽस्ति। न च सर्वज्ञं यदि चैतन्यं तर्हि सधर्मकमेवेति वाच्यम् ; सर्वज्ञत्वं सर्वावभासनम् , तच्चानुभवमात्रं चैतन्यमेवेत्यभ्युपगमात्। तस्मादिह कूटस्थवाक् यमविनाश्यचिद्द्रव्यमेव प्रतिपादयति, न त्वात्मानम् , तस्योत्तरवाक् येन प्रतिपादयिष्य- माणत्वादिति नात्र जीवेश्वरभेदकल्पनं न्याय्यमिति स्थितमद्वैतम्॥१६॥

[[८०१]]

मध्वः …{Loading}…

मध्वः - मूलम्

॥15.16 – 15.17॥ क्षरः भूतानि ब्रह्मादीनि। कूटस्था प्रकृतिः। तथा च शार्कराक्षश्रुतिः – प्रजापतिप्रमुखाः सर्वजीवाः क्षरोऽक्षरः पुरुषो वै प्रधानम्। तदुत्तमं चान्यमुदाहरन्ति जालाजालं मातरिश्वानमेकम् इति।

जयतीर्थः

॥15.16 – 15.17॥ क्षराक्षरशब्दौ जडजीवार्थावित्यपव्याख्याननिरासार्थमाह – क्षर इति। भूतग्रहणं युक्तिसूचनार्थम्। न हि जडमात्रे भूतशब्दो रूढः; किन्तु जीवेष्वपि। पुरुषशब्दस्य चैतदुपलक्षणम्। प्रकृतिश्चेतना। अक्षरं इति वक्तव्येकूटस्थः इति वचनमपि युक्तिसूचनार्थमेव। न हि जीवानां कूटस्थत्वमस्ति; सुखादिमत्त्वेन विकारित्वात्। श्रुतिसम्मत्याऽयमेवार्थ इत्याह – तथा चेति। क्षरः इत्यनुवादेन प्रजापतीत्यादि व्याख्यानम्। अन्यं परमात्मानम्। क्षरान्तर्भूतोऽपि मातरिश्वा विवक्षाविशेषेणाक्षरोऽपि भवतीत्युच्यते – जालेति। जालं संसारबन्धः सोऽस्यास्तीति जालःअर्श आदिभ्योऽच् [अष्टा.5।2।127] इति। तद्रहितश्चाजालः अभिमानाभावात्।

अभिनव-गुप्तः …{Loading}…

अभिनवगुप्तः - मूलम्
अभिनवगुप्तः - मूलम्

॥15.16 – 15.18॥ द्वावित्यादि पुरुषोत्तम इत्यन्तम्।

द्वाविमौ पुरुषौ इति ग्रन्थेनेदम् उच्यते –
लोके तावद् अप्रबुद्ध-स्वभावोऽपि सर्वः पृथिव्य्-आदि-भूतारब्ध-शरीरम् आत्मानं चेतनं क्षर-रूपं जानाति
इति लोकस्य मूढत्वात् द्वैत-धीर् न निवर्तते।

अहं तु सकलानुग्राही द्वैत-ग्रन्थिं विभिद्य सकल-लोक-व्यापकतया वेद्य इति।

क्षरम् अतीतः; भूतानां जडत्वात्।
अक्षरमतीतः; आत्मनो ऽप्रबुद्धत्वे सर्वव्यापकत्व-खण्डनात्।

पुरुषोत्तमो लोके वेदेऽपि सः उत्तमः पुरुषः इत्य्-आदिभिर् वाक्यैः स एव परमात्मा अद्वयः एवमुच्यते।

शङ्करनारायणः

15.16-18 Dvav imau etc. upto Purusottamah. What has been stated in the passage ‘There are two persons in the world etc.’, is this : The body organism is made of the earth and other elements. In the world every person, unitelligent by nature, takes the body for the Self and [hence] views the Soul to be of perishing nature. Hence, the sense of duality does not come to an end with regard to the worldly persons, because of their delusion. But I am (the I-consciousness is) the One favouring all, and by cutting the daulity-knot I am to be realised as the One pervading all. (I) have transcended the perishing : Since the elements are insentient. (I) have transcended the nonperishing : Since the omnipresence [of the Self] is cut off (not comprehended) when the Self is not properly realised. In the world and in the Veda too I am acclaimed as the Highest of Persons : The Self same Supreme Self, admitting no duality, is described in this manner with the sentences ‘He is he Highest Person’ and the like.

शङ्करनारायणः

15.16 See Comment under 15.18

वल्लभः …{Loading}…

वल्लभः - मूलम्

॥15.16॥ द्वाविमाविति। लोके क्षरश्चाक्षर एव चेति पुरुषौ प्रथितौ; न स्त्रीप्रकृतिकौ; नाप्यत्रान्यतरो स्त्रीप्रकृतिकः; केवलजडप्रकृतिकश्च पुरुषत्वेनैवोभयोर्निर्देशात्। एतेनाव्यक्तपदवाच्यस्याक्षरस्य स्त्रीरूपप्रकृतित्वं परोक्तमपास्तंएव च इत्यनेन स्वरूपतः क्षरोऽक्षर एवेति सूच्यते। क्षरत्वं च भगवदिच्छया प्रकृतिसंसर्गोपाधिकृतमेव; अतो जायते म्रियते इति प्रवाहः न वस्तुतः। तदेतत्स्वयं व्याचष्टेक्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते इति। सर्वाणि ब्रह्मादीनि स्तम्बपर्यन्तानि व्यष्टिभूतानि जीवशब्दाभिलपनीयानि भगवत्सदंशभूताचित्प्रकृतिसंसृष्टानि भवनादिक्रियाविषयत्वेन व्यपदिश्यमानानि क्षरः पुरुषः। अत्रैकत्वनिर्देशो व्यष्टीनां समष्ट्यैक्याशयेन अचित्संसर्गैकोपाधिना वेति केचित्। कूटस्थो मूलभूतः शुद्धः सच्चिदानन्दकः भगवद्धामादिपदवाच्योऽपि स महदादिषष्ठः कूटे भूतसमुदाये तिष्ठतीति वा। मूर्द्धन्यमणिरिव अविनाशी वाऽरेऽयमात्मा [बृ.उ.4।5।14] आत्मा वाऽरे द्रष्टव्यः श्रोतव्यो निदिध्यासितव्यः [बृ.उ.2।4।54।5।6] इत्याद्यौपनिषज्ज्ञानेन साक्षात्कृतो योऽक्षरः पुरुष इत्युच्यते अत्रैकत्वनिर्देशो विराट्समष्टिमूलभूताभिप्रायेण (धामत्वाभिप्रायेण)। तद्वियोगरूपैकोपाधिना वेति केचित्। अयमप्युक्तः पूर्वं मुक्त्याधिगम्यः। बहवो ज्ञानतपसा पूता मद्भावमागताः [4।10] इत्यत्राध्यात्मरूपः। वस्तुतस्तुचैत्यस्य तत्त्वममलं मणिमस्य कण्ठे [भाग.3।28।28] इति वाक्यात् कौस्तुभैक्यरूपेण मुख्यस्थितिरूप एवमुक्तिर्हित्वाऽन्यथारूपं स्वरूपेण व्यवस्थितिः इत्युच्यते इत्थं चावस्थानं भगवति दशमस्कन्धे भागवतेवीक्ष्यालकावृतमुखं [भाग.10।29।39] इत्यत्र श्रीमदाचार्यैर्दर्शितम्। एतेनैव क्षराक्षरस्वरूपनिरूपेण मतान्तरमपि प्रत्युक्तम्।

पुरुषोत्तमः

॥15.16॥ अथ स्वज्ञापितस्वरूपज्ञानार्थं सपरिकरं स्वस्वरूपमाह – द्वाविमाविति त्रिभिः। लोके प्रपञ्चस्थिते सर्वत्र द्वाविमावेव पुरुषौ सर्वपदार्थभोक्तारौ आधिभौतिकाध्यात्मरूपौ क्षरः अक्षरश्च। उभयोः स्वरूपमाह – क्षरः पुरुषः सर्वाणि भूतानि ब्रह्मादिस्थावरान्तानि शरीराणि नानाविधानि लीलौपयिकलीलात्मकत्वेनानेकरूपाणि; क्षरशब्दवाच्यः पुरुषांशरूपः पुरुष इत्यर्थः। कूटः शिलासमूहः पर्वतस्तद्वत् सर्वपदार्थेषु शरीरादिषु विनश्यत्स्वपि तत्समूहस्थः अविनाशी भोक्ता मच्चरणात्मको यः; स अक्षरः पुरुष इत्यर्थः।

श्रीधर-स्वामी …{Loading}…

॥15.16॥ इदानींतद्धाम परमं मम इति यदुक्तं तत्स्वकीयं सर्वोत्तमत्वं दर्शयति – द्वाविमाविति त्रिभिः। क्षरश्चाक्षरश्चेति द्वाविमौ पुरुषौ लोके प्रसिद्धौ। तावेवाह। तत्र क्षरः पुरुषो नाम सर्वाणि भूतानि ब्रह्मादिस्थावरान्तानि शरीराणि; अविवेकिलोकस्य शरीरेष्वेव पुरुषत्वप्रसिद्धेः। कूटः शिलाराशिः पर्वत इव देहेषु नश्यत्स्वपि निर्विकारतया तिष्ठतीति कूटस्थश्चेतनो भोक्ता। स तु अक्षरः पुरुष इत्युच्यते विवेकिभिः।

English …{Loading}…

आदिदेवानन्दः

15.16 There are two kinds of Persons (Purusas) spoken of in the Sastra - the perishable (Ksara) and the imperishable (Aksara). The perishable is all beings and the imperishable is called the unchanging (Kutastha).

गम्भीरानन्दः

15.16 There are these two persons in the world-the mutable and the immutable. The mutable consists of all things; the one existing as Maya is called the immutable.

पुरोहितस्वामी

15.16 There are two aspects in Nature: the perishable and the imperishable. All life in this world belongs to the former, the unchanging element belongs to the latter.

शङ्करनारायणः

15.16. There are two persons in the world, the perishing and the nonperishing : the perishing is all elements [and] the speak-like One is called the nonperishing.

शिवानन्दः - अनुवादः

15.16 Two Purushas there are in this world, the perishable and the imperishable. All beings are the perishable and the Kutastha the unchanging is called the imperishable.

शिवानन्दः - टीका

15.16 द्वौ two; इमौ these; पुरुषौ Purushas (beings); लोके in the world; क्षरः the perishable; च and; अक्षरः the imperishable; एव even; च and; क्षरः the perishable; सर्वाणि all; भूतानि beings; कूटस्थः the immutable (unchanging); अक्षरः the imperishable; उच्यते is called.Commentary Now the Lord describes the three aspects of the divine existence. One is the individual soul called the perishable; the second is the imperishable or the Maya Sakti of the Lord and the third is the Purushottama or the Supreme Being.The perishable comprises the whole world of changing forms. From Brahma down to the tiny blade of grass; all movable and immovable objects; all that can be thought of by the mind; all that is made up of the five elements; all that is changing; all that has names and forms; all that appears to the naked eye and what is described as the body and the modifications of the field; in the thirteenth chapter; are Kshara or the perishable. Kshara is the changing one. It is the everchanging form of matter which is inert or insentient. Akshara is the changeless.In Samsara there are two categories arranged in two separate groups of beings; called Purushas; as they are the limiting adjuncts of the Purusha. Maya Sakti; the illusory power of the Lord; is the seed from which the perishable being takes its birth. It is the seat of all the latent impressions of desires; actions; etc.; of various perishable creatures. Maya Sakti is the Akshara Purusha. The unmanifest condition is generally described as deep ignorance or sleep for there is neither consciousness nor unconsciousness. It is only a potential state. It is the condition in which all forms of life with its accompanying limitations lie latent; just as the tree lies latent in the seed of the fruit. In this state matter and energy are one. In this state sound; matter and energy exist in an undifferentiated state. In this state the Gunas exist in a state of eilibrium.The imperishable is known as the Kutastha; i.e.; that which remains immovable like a heap. That which is at the root (Kuta) of all these beings is the Kutastha. Or; Kuta also means illusion; and Kutastha means that which manifests itself in diverse forms of illusion. That which conceals the Truth and shows the false thing and deceives the worldyminded people is Maya or Kuta. That which is of the form of the AvaranaVikshepa Sakti (veiling and vacillating power) is Kutastha. As this Maya Sakti cannot be destroyed except by the knowledge of the Self; it is said to be endless. That is the reason why this is called Akshara. That seed of Samsara has no end. Therefore; it is said to be imperishable in the sense that it is not destroyed in the absence of knowledge of the Self. But the seed is scorched or destroyed in toto when one gets the knowledge of Brahman. The,illusion vanishes and everything is realised as the one Cosmic Consciousness. Only the illusory perception of matter is destroyed.Purushottama or the highest Purusha is distinct from these two – the perishable and the imperishable. He is not affected by the evils of the two vehicles or limiting adjuncts of the perishable and the imperishable. He is eternal; pure; intelligent and free by nature.

हिन्दी …{Loading}…

रामसुखदासः - अनुवादः

।।15.16।। इस संसारमें क्षर (नाशवान्) और अक्षर (अविनाशी) – ये दो प्रकारके पुरुष हैं। सम्पूर्ण प्राणियोंके शरीर नाशवान् और कूटस्थ (जीवात्मा) अविनाशी कहा जाता है।

रामसुखदासः - टीका

।।15.16।।व्याख्या – द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च – यहाँ लोके पदको सम्पूर्ण संसारका वाचक समझना चाहिये। इसी अध्यायके सातवें श्लोकमें जीवलोके पद भी इसी अर्थमें आया है। इस जगत्में दो विभाग जाननेमें आते हैं – शरीरादि नाशवान् पदार्थ (जड) और अविनाशी जीवात्मा (चेतन)। जैसे; विचार करनेसे स्पष्ट प्रतीत होता है कि एक तो प्रत्यक्ष दीखनेवाला शरीर है और एक उसमें रहनेवाला जीवात्मा है। जीवात्माके रहनेसे ही प्राण कार्य करते हैं और शरीरका संचालन होता है। जीवात्माके साथ प्राणोंके निकलते ही शरीरका संचालन बंद हो जाता है और शरीर सड़ने लगता है। लोग उस शरीरको जला देते हैं। कारण कि महत्त्व नाशवान् शरीरका नहीं; प्रत्युत उसमें रहनेवाले अविनाशी जीवात्माका है। पञ्चमहाभूतों(आकाश; वायु; अग्नि; जल और पृथ्वी) से बने हुए शरीरादि जितने पदार्थ हैं; वे सभी जड और नाशवान् हैं। प्राणियोंके (प्रत्यक्ष देखनेमें आनेवाले) स्थूलशरीर स्थूल समष्टिजगत्के साथ एक हैं दस इन्द्रियाँ; पाँच प्राण; मन और बुद्धि – इन सत्रह तत्त्वोंसे युक्त सूक्ष्मशरीर सूक्ष्म समष्टिजगत्के साथ एक हैं और कारणशरीर (स्वभाव; कर्मसंस्कार; अज्ञान) कारण समष्टिजगत्(मूल प्रकृति) के साथ एक हैं। ये सब क्षरणशील (नाशवान्) होनेके कारण क्षर नामसे कहे गये हैं।

वास्तवमें व्यष्टि नामसे कोई वस्तु है ही नहीं केवल समष्टिसंसारके थोड़े अंशकी वस्तुको अपनी माननेके कारण उसको व्यष्टि कह देते हैं। संसारके साथ शरीर आदि वस्तुओंकी भिन्नता केवल (रागममता आदिके कारण) मानी हुई है; वास्तवमें है नहीं। मात्र पदार्थ; और क्रियाएँ प्रकृतिकी ही हैं (टिप्पणी प₀ 781.1)। इसलिये स्थूल; सूक्ष्म और कारणशरीरकी समस्त क्रियाएँ क्रमशः स्थूल; सूक्ष्म और कारण समष्टिसंसारके हितके लिये ही करनी हैं; अपने लिये नहीं।

जिस तत्त्वका कभी विनाश नहीं होता और जो सदा निर्विकार रहता है; उस जीवात्माका वाचक यहाँ अक्षरः पद है (टिप्पणी प₀ 781.2)। प्रकृति जड है और जीवात्मा (चेतन परमात्माका अंश होनेसे) चेतन है। इसी अध्यायके तीसरे श्लोकमें भगवान्ने जिसका छेदन करनेके लिये कहा था; उस संसारको यहाँ क्षरः पदसे और सातवें श्लोकमें भगवान्ने जिसको अपना अंश बताया था; उस जीवात्माको यहाँ अक्षरः पदसे कहा गया है।

यहाँ आये क्षर; अक्षर; और पुरुषोत्तम शब्द क्रमशः पुल्ँलिङ्ग; स्त्रीलिङ्ग और नपुंसकलिङ्ग हैं। इससे यह समझना चाहिये कि प्रकृति; जीवात्मा और परमात्मा न तो स्त्री हैं; न पुरुष हैं और न नपुंसक ही हैं। वास्तवमें लिङ्ग भी शब्दकी दृष्टिसे है; तत्त्वसे कोई लिङ्ग नहीं है (टिप्पणी प₀ 781.3)। क्षर और अक्षर – दोनोंसे उत्तम पुरुषोत्तम नामकी सिद्धिके लिये यहाँ भगवान्ने क्षर और अक्षर – दोनोंको पुरुष नामसे कहा है।क्षरः सर्वाणि भूतानि – इसी अध्यायके आरम्भमें जिस संसारवृक्षका स्वरूप बताकर उसका छेदन करनेकी प्रेरणा की गयी थी; उसी संसारवृक्षको यहाँ क्षर नामसे कहा गया है। यहाँ भूतानि पद प्राणियोंके स्थूल; सूक्ष्म और कारणशरीरोंका ही वाचक समझना चाहिये। कारण कि यहाँ भूतोंको नाशवान् बताया गया है। प्राणियोंके शरीर ही नाशवान् होते हैं; प्राणी स्वयं नहीं। अतः यहाँ,भूतानि पद जड शरीरोंके लिये ही आया है।कूटस्थोऽक्षर उच्यते – इसी अध्यायके सातवें श्लोकमें भगवान्ने जिसको अपना सनातन अंश बताया है; उसी जीवात्माको यहाँ अक्षर नामसे कहा गया है।

जीवात्मा चाहे जितने शरीर धारण करे; चाहे जितने लोकोंमें जाय; उसमें कभी कोई विकार उत्पन्न नहीं होता वह सदा ज्योंकात्यों रहता है (गीता 8। 19 13। 31)। इसीलिये यहाँ उसको कूटस्थ कहा गया है। ,गीतामें परमात्मा और जीवात्मा दोनोंके स्वरूपका वर्णन प्रायः समान ही मिलता है। जैसे परमात्माको (12। 3 में) कूटस्थ तथा (8। 4 में) अक्षर कहा गया है; ऐसे ही यहाँ (15। 16 में) जीवात्माको भी,कूटस्थ और अक्षर कहा गया है। जीवात्मा और परमात्मा – दोनोंमें ही परस्पर तात्त्विक एवं स्वरूपगत एकता है। स्वरूपसे जीवात्मा सदासर्वदा निर्विकार ही है परन्तु भूलसे प्रकृति और उसके कार्य शरीरादिसे अपनी एकता मान लेनेके कारण उसकी जीव संज्ञा हो जाती है; नहीं तो (अद्वैतसिद्धान्तके अनुसार) वह साक्षात् परमात्मतत्त्व ही है।

चिन्मयानन्दः

।।15.16।। इस अध्याय के अब तक किये गये विवेचन से सिद्ध हो जाता है कि जिसे पूर्व के त्रयोदश अध्याय में क्षेत्र कहा गया था वह वस्तुत परमात्मा से भिन्न वस्तु नहीं है। जब वह परमात्मा सूर्य का प्रकाश और ताप; चन्द्रमा का शीतल प्रकाश; पृथ्वी की उर्वरा शक्ति; मनुष्य में ज्ञान; समृति और विस्मृति की क्षमता आदि के रूप में व्यक्त होता है; वस्तुत तब ये सब परमात्मस्वरूप ही सिद्ध होते हैं। परन्तु; इस प्रकार अभिव्यक्त होने में अन्तर केवल इतना होता है कि परमात्मा क्षेत्र के रूप में ऐसा प्रतीत होता है; मानो वह विकारी और विनाशी है। उदाहरणार्थ; स्वर्ण से बने सभी आभूषण स्वर्ण रूप ही होते हैं; परन्तु आभूषणों के रूप में वह स्वर्ण परिच्छिन्न और परिवर्तनशील प्रतीत होता है। इस प्रकार; सम्पूर्ण क्षेत्र को इस श्लोक में क्षर पुरुष कहा गया है। क्षेत्र को जानने वाले क्षेत्रज्ञ आत्मा को यहाँ अक्षर पुरुष कहा गया है। उसका अक्षरत्व इस चर जगत् की अपेक्षा से ही है। जैसे कोई व्यक्ति अपनी पत्नी की दृष्टि से पति और पुत्र की दृष्टि से पिता कहलाता है। इसी प्रकार; शरीर; मन और बुद्धि की परिवर्तनशील क्षर उपाधियों की अपेक्षा से इन सब के ज्ञाता आत्मा को अक्षर पुरुष कहते हैं। पुरुष शब्द का अर्थ है पूर्ण। केवल निरुपाधिक परमात्मा ही पूर्ण है। उपर्युक्त क्षर और अक्षर तत्त्व उसी पूर्ण पुरुष के ही दो व्यक्त रूप होने के कारण उन्हें भी पुरुष की संज्ञा दी गयी है। इस अव्यय और अक्षर आत्मा को वेदान्त में कूटस्थ कहते हैं। कूट का अर्थ है निहाई; जिसके ऊपर स्वर्ण को रखकर एक स्वर्णकार नवीन आकार प्रदान करता है। इस प्रक्रिया में स्वर्ण तो परिवर्तित होता है; परन्तु निहाई अविकारी ही रहती है। इसी प्रकार; उपाधियों के समस्त विकारों में यह आत्मा अविकारी ही रहता है; इसलिये उसे कूटस्थ कहते है। पूर्ण पुरुष; इन क्षर और अक्षर पुरुषों से भिन्न तथा इनके दोषों से असंस्पृष्ट नित्य शुद्ध बुद्ध मुक्त स्वभाव का है। भगवान् कहते है

तेजोमयानन्दः - अनुवादः

।।15.16।। इस लोक में क्षर (नश्वर) और अक्षर (अनश्वर) ये दो पुरुष हैं, समस्त भूत क्षर हैं और ‘कूटस्थ’ अक्षर कहलाता है।।