विश्वास-प्रस्तुतिः …{Loading}…
सत्त्वं रजस् तम इति
गुणाः प्रकृति-संभवाः।
निबध्नन्ति महाबाहो
देहे देहिनम् अव्ययम् +++(पुरुषम्)+++॥14.5॥ +++(5)+++
मूलम् …{Loading}…
सत्त्वं रजस्तम इति गुणाः प्रकृतिसंभवाः।
निबध्नन्ति महाबाहो देहे देहिनमव्ययम्॥14.5॥
रामानुजः …{Loading}…
रामानुजः - मूलम्
॥14.5॥ सत्त्वरजस्तमांसि त्रयो गुणाः प्रकृतेः स्वरूपानुबन्धिनः स्वभावविशेषाः प्रकाशादिकार्यैकनिरूपणीयाः प्रकृत्यवस्थायाम् अनुद्भूतास् तद्विकारेषु महदादिषु उद्भूता महदादिविशेषान्तैर् आरब्धदेवमनुष्यादिदेहसम्बन्धिनम् एनं देहिनम् अव्ययं स्वतो गुणसम्बन्धानर्हं देहे वर्तमानं निबध्नन्ति देहे,वर्तमानत्वोपाधिना निबध्नन्ति इत्यर्थः। सत्त्वरजस्तमसाम् आकारं बन्धनप्रकारं च आह –
वेदान्तदेशिकः
॥14.5॥ ननु नैमित्तिकसर्गादौ प्राचीनकर्मानुरूपपरमपुरुषसङ्कल्पकृताचित्संसर्गाज्जन्मोपपद्यते; प्राचीनं च कर्म तेनैव दत्तफलं; तदारम्भककर्मावसाने च तच्छरीरं विनश्येत् स्वतश्चात्मा विशुद्धः कुतः पुनरस्य नित्यसृष्टिविषयता इत्यत्र गुणबन्धप्रकरणमवतारयतिएवमिति। एवं समष्टिव्यष्टिविषयश्लोकद्वयोक्तप्रकारेणेत्यर्थः। स्वरूपनिरूपकधर्मा हि धर्मिणं कदाचिदपि न त्यजन्ति; अतः प्रकृतिसम्भवत्वमिह कार्यदशायां विषमतयोद्भवमात्रमित्यभिप्रायेणाहप्रकृतेः स्वरूपानुबन्धिन इति। निरुपधिका इत्यर्थः। कार्यावस्थप्रकृतिगतेभ्यः शब्दादिगुणेभ्यः स्वरूपनिरूपकत्वनित्यानुबन्धित्वलक्षणवैषम्यप्रकाशनाय इतिशब्दः। सत्त्वादीनामेव प्रकृतिद्रव्यतां वदतः साङ्ख्यान् प्रतिक्षिपतिस्वभावविशेषा इति। असाधारणधर्मविशेषा इति यावत्। चेतनासाधारणत्वेऽप्यौपाधिकाः सुखदुःखादयः; स्वाभाविका अपि साधारणाद्रव्यत्वादयः तदुभयव्यवच्छेदायस्वरुपानुबन्धिनः स्वभावविशेषा इति पदद्वयम्। एतेनगुणाः इति पारिभाषिकः शब्दः; न रूपादिवद्द्रव्याश्रिता इत्यादिशङ्करोक्तं निरस्तम्। गुणशब्दप्रसिद्धस्तन्मते विरुद्धेति भावः। ननु शब्दादिवन्न सत्त्वादिसञ्ज्ञा गुणाः प्रत्यक्षेण दृश्यन्ते न च नित्यातीन्द्रियेऽनुमानं क्रमत इति शारीरके स्थापितं नचानुपलब्धेषु प्रकृतिगुणेषु वायसरदनवदुपदेशस्य प्रयोजनं पश्यामः अतो वैशेषिकादिवदन्यपरत्वमिह वक्तुं युक्तमित्यत्राहप्रकाशादीति। अयमभिप्रायः – प्रकाशप्रवृत्तिमोहरूपाणि कार्याणि तावत् प्रत्यक्षाणि तत्कारणविशेषाश्च कार्यभूतैस्तैरेव सामान्यतोऽनुमीयन्ते; कारणविशेषमन्तरेण कस्यापि कार्यस्यानुत्पत्तेः स च विशेषः सत्त्वादिरूप इत्यागमसिद्धं न चात्र निष्प्रयोजनता; अतीन्द्रियविषभेषजशक्तिविशेषोपदेशवद्धानोपादानपर्यवसानात् – इति। कार्यैकनिरूपणीयाश्चेत्प्रतिसर्गदशायां सुखदुःखादिकार्याभावात्सत्त्वादिगुणानामभावः प्राप्नोति अतः कथं स्वरूपानुबन्धित्वम् इत्यत्राह – प्रकृत्यवस्थायामनुद्भूता इति। कार्यहेतुरुद्भवः स्तदानीं नास्तीति भावः। तद्विकारेष्वित्यादिपरिणामवशात्पुष्पफलादिषु गन्धाद्युद्भववदिति भावः। प्रकृतितद्विकारस्था गुणाः स्वतोऽव्ययत्वाद्गुणसम्बन्धानर्हं कथं बध्नन्ति इत्यस्योत्तरन्देहिशब्द इत्याहमहदादिष्विति। अव्ययशब्दोऽत्र गुणसम्बन्धकृतज्ञानसङ्कोचरूपव्ययनिषेधपर इत्यभिप्रायेणाहअव्ययं स्वतो गुणसम्बन्धानर्हमिति। तथापिशरीरस्थोऽपि कौन्तेय न करोति न लिप्यते [13।31] इत्युक्तस्य कथं बन्धाख्यो लेपः इत्यत्र आमोक्षादविच्छिन्नदेहसम्बन्धोपाधिकत्वन्देहे इत्यनेन अभिप्रेतमित्याहदेहे वर्तमानत्वोपाधिनेति। एतेनक्षेत्रज्ञं बध्नन्तीव; तमास्पदीकृत्य आत्मानं प्रति लभन्ते इतिशङ्करदुरुक्तिर्निरस्ता। नह्येष गुणबन्धः प्रकोष्ठबलेन हन्तुं शक्यत इत्यभिप्रायेण महाबाहुशब्दः। दीर्घौ बुद्धिमतो बाहू याभ्यां हिंसति हिंसितः इति भावः। यथा त्वद्भुजबलेन परेषां बन्ध इति वा।
आदिदेवानन्दः
14.5 The three Gunas of Prakrti - Sattva, Rajas and Tamas - are inherent in the essential nature of Prakrti and are particular expressions of it. They can be known only through their effects such as ‘brightness’ etc. They are not apparent in the unevolved state of Prakrti but become apparent in its transformations as Mahat etc. They bind the self, which is conjoined with bodies such as those of divinities, men etc., composed of the modifications of Prakrti beginning with Mahat and ending with the elements. The self is immutable, i.e., It is not in Its pristine nature conjoined with the Gunas. But the Gunas bind It when residing in the body. The meaning is that they bind It by virtue of the limiting conditions of Its living in the body. Sri Krsna proceeds to speak of the nature of Sattva, Rajas and Tamas and their modes of binding (the self):
शङ्करः …{Loading}…
शङ्करः - मूलम्
॥14.5॥ – सत्त्वं रजः तमः इति एवंनामानः। गुणाः इति पारिभाषिकः शब्दः; न रूपादिवत् द्रव्याश्रिताः गुणाः। न च गुणगुणिनोः अन्यत्वमत्र विवक्षितम्। तस्मात् गुणा इव नित्यपरतन्त्राः क्षेत्रज्ञं प्रति अविद्यात्मकत्वात् क्षेत्रज्ञं निबध्नन्तीव। तम् आस्पदीकृत्य आत्मानं प्रतिलभन्ते इति निबध्नन्ति इति उच्यते। ते च प्रकृतिसंभवाः भगवन्मायासंभवाः निबध्नन्ति इव हे महाबाहो; महान्तौ समर्थतरौ आजानुप्रलम्बौ बाहू यस्य सः महाबाहुः; हे महाबाहो देहे शरीरे देहिनं देहवन्तम् अव्ययम्; अव्ययत्वं च उक्तम् अनादित्वात् (गीता 13.31) इत्यादिश्लोकेन। ननु देही न लिप्यते इत्युक्तम्। तत कथम् इह निबध्नन्ति इति अन्यथा उच्यते परिहृतम् अस्माभिः इवशब्देन निबध्नन्ति इव इति॥तत्र सत्त्वादीनां सत्त्वस्यैव तावत् लक्षणम् उच्यते –,
गम्भीरानन्दः
14.5 O mighty-armed one-who are possessed of hands which are great and mighty, and extend upto the knees, gunah, the alities are named sattva, rajas and tamas. And they, prakrti-sambhavah, born of Nature, born of Maya which belongs to God; nibadhnanti, bind, as it were; the avyayam, immutable-the immutability has been spoken of in the verse, ‘Being without beginning৷৷.,’ etc. (13.31); dehinam, embodied being; dehe, to the body. The word guna is a technical term, and is not a ality like colour etc. which inhere in some substance. Nor is it meant here that ality and substance are different. Therefore they are ever dependent on the Knower of the field, just as alities are dependent (on some substance). Being of the nature of ignorance, they bind the Knower of the field, as it were. They come into being, making That (Knower) their sustainer. In this sense it is said that they bind. Objection; Was it not said that the embodied one does not become defiled (see 13.31-2); So, why as it contrarily said here that ’they bind’; Reply: We have rutted this objection by using the word iva (as it were) in ’they bind, as it were’.
हरिकृष्णदासः
॥14.5॥ वे गुण कौनकौनसे हैं और कैसे बाँधते हैं सो कहते हैं –, सत्त्व; रज और तम – ऐसे नामोंवाले ये तीन गुण हैं। गुण शब्द पारिभाषिक है। यहाँ रूप; रस आदिकी भाँति किसी द्रव्यके आश्रित गुणोंका ग्रहण नहीं है; तथा गुण और गुणवान् ( प्रकृति ) का भेद भी यहाँ विवक्षित नहीं है। जैसे रूपादि गुण द्रव्यके अधीन होते हैं वैसे ही ये सत्त्वादि गुण सदा क्षेत्रज्ञके अधीन हुए ही अविद्यात्मक होनेके कारण मानो क्षेत्रज्ञको बाँध लेते हैं। उस ( क्षेत्रज्ञ ) को आश्रय बनाकर ही ( ये गुण ) अपना स्वरूप प्रकट करनेमें समर्थ होते हैं; अतः बाँधते हैं ऐसा कहा जाता है। जिसकी भुजाएँ अतिशय सामर्थ्ययुक्त और जानु ( घुटनों ) तक लंबी हों; उसका नाम महाबाहु है। हे महाबाहो भगवान्की मायासे उत्पन्न ये तीनों गुण इस शरीरमें शरीरधारी अविनाशी क्षेत्रज्ञको मानो बाँध लेते हैं। क्षेत्रज्ञका अविनाशित्व अनादित्वात् इत्यादि श्लोकमें कहा ही है। पू₀ – पहले यह कहा है कि देही – आत्मा लिप्त नहीं होता; फिर यहाँ यह विपरीत बात कैसे कही जाती है कि उसको गुण बाँधते हैं। उ₀ – इव शब्दका अध्याहार करके हमने इस शङ्काका परिहार कर दिया है। अर्थात् वास्तवमें नहीं बाँधते; बाँधते हुएसे प्रतीत होते हैं।
आनन्दगिरिः
॥14.5॥ एवं क्षेत्रक्षेत्रज्ञसंयोगाज्जगदुत्पत्तिं दर्शयता ब्रह्मैवाविद्यया संसरतीत्युक्तमिदानीमध्यायादावुक्तमाकाङ्क्षाद्वयं पूर्वमनूद्यानन्तरश्लोकेनोत्तरमाह – के गुणा इति। सत्त्वादिषु,कथं गुणशब्दप्रवृत्तिरित्याशङ्क्य परतन्त्रत्वादित्याह – गुणा इति। रूपादिष्विव गुणशब्दः सत्त्वादिषु द्रव्याश्रितत्वं निमित्तीकृत्य किं न स्यादित्याशङ्क्य प्रकृत्यात्मकानां तेषां सर्वाश्रयत्वान्नैवमित्याह – न रूपादिवदिति। गुणानां प्रकृतेश्च पृथगुक्तेरन्यत्वे कुतस्तेषां प्रकृत्यात्मत्वमित्याशङ्क्याह – नच गुणेति। अत्यन्तभेदे गवाश्ववत्तद्भावासंभवादित्यर्थः। भेदाभेदे च तद्भावासंभवाद्विशेषात्कुतस्तेषु गुणपरिभाषेत्याशङ्क्याह – तस्मादिति। क्षेत्रज्ञं प्रति नित्यपारतन्त्र्ये हेतुमाह – अविद्येति। के गुणा इत्यस्योत्तरमुक्तं; कथं बध्नन्तीत्यस्योत्तरमाह – क्षेत्रज्ञमिति। तदेवोपपादयति – तमास्पदीकृत्येति। प्राकृतानां गुणानां प्रकृत्यात्मकत्वमाह – ते चेति। संभवत्यस्मादिति संभवः प्रकृतिः संभवो येषां ते तथेति। साङ्ख्यीयां प्रकृतिं प्रधानाख्यां व्यावर्तयति – भगवदिति। इवकारानुबन्धेन नितरां बध्नन्ति स्वविकारवत्तयोपदर्शयन्तीति क्रियापदं व्याख्याय महाबाहुशब्दं व्याचष्टे – महान्ताविति। देहवन्तं देहमात्मानं मन्यमानं देहस्वामिनमित्यर्थः। कूटस्थस्य कथं बध्यमानत्वमित्याशङ्क्यकुर्यान्मेरावणुधियम् इतिन्यायेन मायामाहात्म्यमिदमित्याह – अव्ययमिति। स्वतो धर्मतो वा व्ययराहित्यमित्यपेक्षायामाह – अव्ययत्वं चेति। लिप्यते न स पापेनेत्यनेन विरुद्धमिदं निबध्नन्तीति वचनमिति शङ्कते – नन्विति। इवकारानुबन्धेन क्रियापदं व्याचक्षाणैरस्माभिरस्य चोद्यस्य परिहृतत्वान्नैवमित्याह – परिहृतमिति।
नीलकण्ठः
॥14.5॥ एवं ईश्वराश्रयेण प्रकृतिर्भूतानि सृजतीत्युक्तम्; इदानीं सा कथंभूता निबध्नातीति तदुच्यते – सत्त्वमिति। प्रकृतिः सत्त्वरजस्तमसां साम्यावस्था। ततः सकाशात्परस्पराङ्गाङ्गिभावेन वैषम्येण उद्रिच्यमानाः प्रकृतिसंभवा इत्युच्यन्ते न तु प्रकृतितो वैशेषिकाणामिव द्रव्याद्गुणा अन्ये एते हे महाबाहो; देहे अव्ययमविकारिणमपि देहिनं स्थूणायां वत्समिव रशनाभूता गुणा निबध्नन्ति।
धनपतिः
॥14.5॥ एवं द्वाभ्यां प्रकृतिपुरुषयोरीश्वरपारतन्त्र्यप्रतिपादनेन सांक्याभिमतं तयोः स्वातन्त्र्यं निरस्तम्; इदानीं के गुणाः कथं वा सङ्ग इति निरुपयति – सत्त्वमित्यादि चतुर्दशबिः। सत्त्वं रजस्तम् इत्येवंनामानो गुणाः। इतिशब्दो न रुपादिवत्पारिभाषिकः सत्त्वादीनां द्रव्याश्रितत्वबोधकः। प्रकृत्यात्मकानां तेषां सर्वाश्रयत्वात्। नापि गुणगुणिनोरन्यत्वमत्र विवक्षितम्। अत्यन्तभेद गवाश्ववत्तद्भावासंभवात्। तस्माद्गुणा इव नित्यपरतन्त्राः क्षेत्रज्ञं प्रति तमास्पदीकृत्यैव तेषां प्रतिलम्भात्प्रकृतिसंभवाः त्रयाणां गुणानां साम्यावस्था प्रकृतिर्भगवतो माया संभवोऽभिव्यक्तिकारणं येषां ते देहे देहिनं देहमात्मानं देहवन्तं मन्यमानं जीवं वस्तुतोऽनादित्वादिति श्लोके प्रतिपादितं अव्ययं निर्विकारं निबध्नन्तिकुर्योन्मेरावणुधियम् इति न्यायेन मायामाहात्म्यमिदं; यदव्ययस्य बन्धनं तदपि मायिकत्वान्मिथ्याबूतमेव नतु वास्तवं तेन न करोति न लिप्यते; न स पापेनेत्यादिना देही न लिप्यत इति पूर्वमुक्तं तत्कथमिह निबन्धन्तीत्यन्यथोत्यत इति न शह्कनीयम्। महान्तौ समर्थौ वा जानुप्रलम्भौ बाहू यस्य स महाबाहुस्तस्य संबोधनं हे महाबाहो इति। अहमव्यय इति ज्ञानमेव गणकृतबन्धान्मुक्तिसाधनं नतु महाबाहुरहमिति,बाहुसामर्थ्यस्यात्रानुपयोगात्प्रत्यत देहाभीमानस्य बन्धनसाधनत्वाच्चेति द्योतनार्थम्।
मधुसूदन-सरस्वती
॥14.5॥ तदेवं निरीश्वरसाङ्ख्यनिराकरणेन क्षेत्रक्षेत्रज्ञसंयोगस्येश्वराधीनत्वमुक्तं; इदानीं कस्मिन्गुणे कथं सङ्गः के वा गुणाः कथं वा ते बध्नन्तीत्युच्यते – सत्त्वमित्यादिनान्यमित्यतः प्राक्चतुर्दशभिः – सत्त्वंरजस्तम इत्येवंनामानो गुणा नित्यपरतन्त्राः पुरुषंप्रति सर्वेषामचेतनानां चेतनार्थत्वात् नतु वैशेषिकाणां रूपादिवद्द्रव्याश्रिताः। नच गुणगुणिनोरन्यत्वमत्र विवक्षितम् गुणत्रयात्मकत्वात्प्रकृतेः। तर्हि कथं प्रकृतिसंभवा इत्युच्यन्तेत्रयाणां गुणानां साम्यावस्था प्रकृतिर्माया भगवतस्तस्याः सकाशात्परस्पराङ्गाङ्गिभावेन वैषम्येण परिणताः प्रकृतिसंभवा इत्युच्यन्ते। ते च देहे प्रकृतिकार्ये शरीरेन्द्रियसंघाते देहिनं देहतादात्म्याध्यासापन्नं जीवं परमार्थतः सर्वविकारशून्यत्वेनाव्ययं निबध्नन्ति निर्विकारमेव सन्तं स्वविकारवत्तयोपदर्शयन्तीव भ्रान्त्या जलपात्राणीव दिवि स्थितमादित्यं प्रतिबिम्बाध्यासेन स्वकम्पादिमत्तया। यथाच पारमार्थिको बन्धो नास्ति तथा व्याख्यातं प्राक्शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते इति।
रामरायः - ५
सत्त्वमिति। हे महाबाहो! प्रकृतिसम्भवाः सत्त्वं रजस्तम इति गुणा देहेऽव्ययं देहिनं निबध्नन्तीव। ननु रूपसङ्ख्यापरिमाण- संयोगविभागादिवत् सत्त्वादिगुणत्रयस्येन्द्रियवेद्यत्वाभावाद्, ईश्वरशक्तिभूतायाः प्रकृतेश्चाग्निशक्तेरिव द्रव्यत्वाभावाद्, द्रव्याश्रितत्वस्य च गुणलक्षणत्वात् कथं प्रकृत्याश्रयाणां सत्त्वादीनां गुणत्वव्यवहारः? अत आह— गुणा इति पारिभाषिकः शब्द इति। वेदान्तशास्त्रसङ्केत- सिद्धसत्त्वादीनां गुणाः इति संज्ञेत्यर्थः। एवं सत्त्वादीनां गुणसंज्ञायाः पारिभाषिकत्वादेव रूपादीनामिव द्रव्याश्रितत्वलक्षणं गुणत्वं नास्तीत्याह— नेति। सत्त्वादय इति शेषः। रूपादिवद् द्रव्याश्रिता गुणा न भवन्ति। प्रकृतेरद्रव्यत्वात् , सत्त्वादीनां चातीन्द्रियत्वादिति भावः। तस्मादिति। सत्त्वादीनां रूपादिवद् गुणत्वाभावादित्यर्थः। गुणगुणिनोः सत्त्वादिगुणानां तदाश्रयप्रकृतेश्चेत्यर्थः। अत्र शास्त्रे ऽन्यत्वं न विवक्षितम्। यद्वा गुणगुणिनोः रूपघटयोरिव, सत्त्वादिगुणत्रयप्रकृत्योरन्यत्वमत्र न विवक्षितम्। ‘गुणाः प्रकृतिसम्भवाः’ इति सत्त्वादित्रयप्रकृत्योः कार्यकारणभावस्योच्यमानत्वात् कार्यकारणयोश्चानन्यत्वाद् , द्रव्यगुणयोश्चा(न)न्यत्वादिति भावः। तथाहि1— कारणतन्तुनाशे कार्यपटनाशात् , तन्तुव्यतिरेकेण पटादर्शनाच्च, कारणस्यैव कार्यात्मना परिणामदर्शनाच्च कार्यकारणयोरनन्यत्वं स्फुटम्। अन्धेनापि त्वगिन्द्रियेण रूपव्यतिरेकेण घटस्य गृह्यमाणत्वात् , पृथिवीं विनाऽपि घ्राणेन गन्धस्य गृह्यमाणत्वाच्च, आमचूत- फले समवेतस्य नीलरूपस्य पाकदशायां फलानाशेऽपि नाशसम्भवात् , पीतरूपान्तरस्य फलानुदयेऽप्युत्पत्तिदर्शनाच्च गुणगुणिनोः अन्यत्वं स्फुटम्। तस्माद् घटस्य रूपमिव सत्त्वादयो न प्रकृतेर्गुणाः, किन्तु प्रकृतेः परिणामा एव, मृदः परिणामो घट इव। अमीषु च प्रकृतिपरिणामेषु सत्त्वादिषु गुणव्यवहारः पारिभाषिकः।
[[७४१]]
नन्वेवं गुणवती प्रकृतिरिति कथं भाष्यते तत्र तत्र भाष्यकारैरेवेति चेत् , उच्यते— घटवती मृत्तिकेतिवद् गुणवती प्रकृतिरिति व्यवहारात्। कारणे हि कार्यं वर्तते। कारणद्रव्यस्याकारान्तरस्यैव कार्यत्वात्। यथा मृद्द्रव्यस्य कम्बुग्रीवाद्याकारः कार्यं घट इत्युच्यते। एवं कार्यकारणयोरनन्यत्वादेव कार्यमिथ्यात्वं कारणसत्यत्वं च श्रुत्युक्तमुपपद्यते। कारणव्यतिरेकेण कार्यस्यासत्त्वं हि कार्यमिथ्यात्वम्। तस्मात् प्रकृतेरनन्याः सत्त्वादयः प्रकृतिकार्यभूता न प्रकृतिगुणा इति सत्त्वादिगुणवत्त्वप्रयुक्तं द्रव्यत्वं न प्रकृतेः। प्रकृतिरूपद्रव्याश्रित- त्वप्रयुक्तं गुणत्वं च न सत्त्वादीनामिति स्थितम्। यदि जाड्यादिगुणवत्त्वात् पृथिव्यादिद्रव्योपादानत्वाच्च प्रकृतिर्द्रव्यमेवेत्याग्रहस्तर्हि ज्ञानादिगुणवत्त्वादन्तःकरणाद्युत्पत्तिं प्रति हेतुत्वाच्च सत्त्वादयोऽपि द्रव्याण्येव स्युरिति कथं सत्त्वादीनां गुणत्वम्? न कथमपीत्यर्थः।
नन्वेवं सत्त्वादीनां गुणा इत्येव संज्ञा किमिति कल्पिता? डित्थादिसंज्ञाः किमिति न कल्पिताः? अत आह— गुणा इवेति। यद्वा गुणा इति पारिभाषिकः शब्द इत्येकः पक्ष उक्तः। अथ गुणा इत्यौपचारिकः प्रयोग इति पक्षमन्यमाह— गुणा इवेति। ‘गुणस्त्वावृत्तिशब्दादिज्येन्द्रियामुख्यतन्तुषु’ इति कोशादप्रधाने गुणशब्दो वर्तते। परतन्त्राणां चाप्रधानत्वं प्रसिद्धम्। प्रधानो हि राजादिः स्वतन्त्रः। गृहे स्वतन्त्रो हि यजमानः प्रधान इत्युच्यते। यथा रूपादिगुणा नित्यमपि द्रव्यमेवाश्रित्य वर्तन्ते। न हि घटादिकं विना रूपादिगुणाः पृथगुपलभ्यन्ते। ततस्ते द्रव्यपरतन्त्रा एव, द्रव्यसत्ताभानाधीनसत्ताभानवत्त्वाद् गुणानाम्। तथा सत्तादयोऽपि क्षेत्रज्ञं प्रति नित्यपरतन्त्रा एव, नित्यं क्षेत्रज्ञपरतन्त्रा इत्यर्थः। एवं परतन्त्रत्वात् सत्त्वादयो गुणा इत्युच्यन्त उपचारादिति भावः।
ननु सत्त्वादीनां कुतः क्षेत्रज्ञपरतन्त्रत्वम्? अत आह— अविद्यात्मकत्वादिति। अविद्या प्रकृतिरात्मा स्वरूपं येषां तत्त्वात्। कार्यस्य कारणात्मकत्वादविद्याकार्याणि सत्त्वादीन्यविद्यात्मकान्येव। अविद्या चाचेतनत्वाच्चेतनपरतन्त्रैव, दण्डादिवदित्यविद्यात्मका गुणा अपि चेतनपरतन्त्रा एवेति भावः। यद्वा अविद्यात्मकत्वान्मिथ्याभूतत्वादित्यर्थः। अविद्याया हि मिथ्यात्वं स्वरूपम् , तदात्मकानां सत्त्वादीनां च तदेवेति। एवं मिथ्याभूताः सत्त्वादयः क्षेत्रज्ञे कल्पितत्वेन तत्सत्ताभानाधीनसत्ताभानवत्त्वात् तत्परतन्त्रा एव। यथा रज्जु- कल्पितसर्पाभासो रज्ज्वधीनसत्त्वादिमत्त्वाद् रज्जुपरतन्त्रः, तद्वदिति भावः। एतेन सत्त्वादिपारतन्त्यप्रतिपादनं क्षेत्रज्ञस्याज्ञान- विलसितमेवेति सिद्धम्। न चानुभवसिद्धस्य जीवपारतन्त्यस्य कथमपलाप इति वाच्यम् ; न हि वयमज्ञानुभवसिद्धं जीव- पारतन्त्यमपलपामः, किन्तु विद्वदनुभवसिद्धं जीवपारतन्त्याभावं प्रतिपादयाम इति। ननु यद्येवं स्वतन्त्र ईश्वरः क्षेत्रज्ञस्तत्परतन्त्राश्च गुणाः सत्त्वादयः कथं तर्हि ते तं निबध्नन्तीत्यत आह— तमिति। तं गुणकल्पनाधिष्ठानभूतं क्षेत्रज्ञम् आस्पदीकृत्य आधारीकृत्य आत्मानं स्वरूपं प्रतिलभन्ते प्राप्नुवन्ति। गुणाः इति कर्तृपदम्। निरधिष्ठानभ्रमायोगात्। यथा सर्पाभासो रज्जुमास्पदीकृत्य स्वप्रतिष्ठां लभते, तद्वदिति भावः। अविद्यया क्षेत्रज्ञे कल्पिता गुणास्तेनैव भास्यमानाश्च सन्तः गुणाः सन्तीति भान्तीति च प्रतिष्ठां लभन्ते। कथमन्यथा जडा मिथ्याभूताश्चेमे गुणाः आत्मानं प्रख्यापयेयुः— इमे वयं स्मः इति। तस्माद् गुणानां सत्तास्फुरणे क्षेत्रज्ञाधीने एवेत्यभिसन्धिः।
[[७४२]]
ननु क्षेत्रज्ञमास्पदीकृत्यात्मानं प्रतिलभन्त इति हेतोः कथं निबध्नन्तीत्युच्यत इति चेद् , उच्यते— आत्मनि कल्पितत्वेन गुणानामात्मस्वरूपावरणद्वारा तद्बन्धकत्वमिति। कल्पितेन ह्यधिष्ठानस्वरूपं तिरोधाप्यते, सर्पाभासेन रज्जुस्वरूपवत्। तमास्पदीकृत्या- त्मानं प्रतिलभमानत्वेन तस्मिन् कल्पितास्ते गुणाः सत्स्वरूपावरकत्वात् तं निबध्नन्तीत्युच्यत इति भावः। न चात्मभास्या गुणाः कथमात्मस्वरूपावरका इति वाच्यम् ; सूर्यभास्यस्य राहोर्मेघस्य वा सूर्यस्वरूपावरकत्वदर्शनात्।
ननु यद्यात्मनि कल्पितैर्गुणैरात्मस्वरूपमाव्रियते, तर्हि लिप्त एव गुणैरात्मेति कृत्वा कथमुक्तं ‘शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते’ इत्येवमाक्षिपति— नन्विति। इवशब्देनेति। वस्तुत आत्मानं न निबध्नन्ति, किन्तु निबध्नन्त इव दृश्यन्तेऽज्ञैः। न हि परिपूर्णस्वप्रकाशासङ्गाद्वितीयचिद्रूपात्मनि गुणास्तत्प्रयुक्तावरणादीनि वा भवितुमर्हन्ति। तस्मात् सर्वमिदं मायामयमेव, न तु तात्त्विकमिति भावगर्भेणेवशब्देन परिहृतं तद् यदाक्षिप्तं पूर्ववादिभिरिति भावः। निबध्नन्तीवेतीवशब्देनेत्यन्वयः। न चायं परिहारः आचार्यैः स्वकपोलकल्पितः, किन्तु ‘सेयं भगवतो माया यन्नयेन विरुद्ध्यते, ईश्वरस्य विमुक्तस्य कार्पण्यमुत बन्धनम्॥’ इति भागवते बादरायणेनैव भगवता दर्शित इति बोध्यम्। तस्मात् कालत्रयेऽप्यात्मन्यविद्यागुणसङ्गसंसारादिकं नास्त्येवेति परमार्थः।
यत्तु रामानुजः— सत्त्वरजस्तमांसि त्रयो गुणाः प्रकृतेः स्वरूपानुबन्धिनः स्वभावविशेषाः प्रकाशादिकार्यैकनिरूपणीयाः प्रकृत्यवस्थायामनुद्भूतास्तद्विकारेषु महदादिषूद्भूताः देहिनमेनमव्ययं स्वतो गुणसम्बन्धानर्हं देहे वर्तमानत्वोपाधिना निबध्नन्तीति। तत्तुच्छम् , यदि प्रकृतेः स्वरूपानुबन्धिनस्ते, तर्हि प्रकृतिं कदाचिदपि न त्यजेतुः। प्रकृत्यवस्थायामनुद्भूताः इति त्वयैवोच्यते। अतः कथमयं विरोधः परिह्रियेत?
न च [ननु ] गुणसाम्यावस्था हि प्रकृत्यवस्था। तस्यां साम्येन वर्तन्त एव सत्त्वादयः। विषमतया तु महदादिषूद्भूता इति चेत् , मैवम् ; घटकपालकरकादयः सर्वेऽपि मृदि साम्येन वर्तन्त एवेतिवदप्रमाणत्वात् तद्वचनस्य। सत्त्वादीनामन्योन्यवैषम्यं हि स्वरूपम् , तेषां साम्यं तु घटकपालादीनामिव स्वरूपनाशे सत्येव सम्भवति, न तु स्वरूपे सति। ३प्रकाशकत्व-रञ्जकत्व-मोहकत्वरूप- विरुद्धधर्माश्रयाणां तेषां कथं साम्यं स्यात्? दर्शितधर्मरहितायां प्रकृत्यवस्थायां कथं धर्मिसत्त्वमनुमातुं शक्यम्?
[[७४३]]
न च महदादिकार्यगतसत्त्वादिभिस्तत्कारणप्रकृतिगतसत्त्वाद्यनुमानमिति वाच्यम् ; घटादिकार्यगतकम्बुग्रीवाद्याकारैर्मृद्यपि कम्बुग्रीवाद्याकाराणामनुमेयत्वापत्तेः। न चेष्टापत्तिः, प्रत्यक्षविरोधात्। न च कारणगुणानामेव कार्ये सङ्क्रमणान्महदादिगतसत्त्वादि- गुणाः प्रकृतिगुणा एवेति वाच्यम् ; समवायिकारणगुणानां रूपादीनामेव कार्ये सङ्क्रमणमिति सिद्धान्तात्। न हि रूपादिगुणेषु सत्त्वादयः पठिताः। नाप्यतीन्द्रियाणां तेषां रूपाद्यनुप्रवेशनं न्याय्यम् , रूपादीनामिन्द्रियगम्यत्वात्। किञ्च प्रकाशादिकार्यैकनिरूपणीयत्वाद् महदादिषु सत्त्वादयः सन्तु नाम, कथं पुनः प्रकृत्यवस्थायां तत्सत्त्वम् , तत्प्रयुक्तप्रकाशादिकार्याभावात्। महदादिद्वारा प्रकृतेस्तद्वत्तासाधनं तु गौरवावहं व्यर्थं च। सत्त्वादिगुणोत्पादनशक्तियुक्तत्वमात्रेण तु प्रकृतेर्गुणसाम्यावस्थात्वप्रतिपादनं, न तु त्रयो गुणास्तत्र साम्येन सन्तीति। तथा सति प्रकाशकत्वादितद्धर्माणामपि साम्येन प्रतीतिप्रसङ्गात्।
किञ्च सत्त्वादीनामुद्भूतत्वं वदता त्वया कार्यत्वमवश्यमभ्युपेयम् , ब्रूहि कस्य कार्याणि सत्त्वादीनि? न तावत् प्रकृतिकार्याणि, प्रकृतिस्वरूपानुबन्धित्वात् तेषाम् , गन्धवत्त्वमिव पृथिवीस्वरूपानुबन्धि । स्वरूपनिरूपकधर्मा हि धर्मिणं कदाचिदपि न त्यजन्तीति वेदान्तदेशिकेनैवोक्तत्वादिह। न ह्युत्पत्तेः प्रागसतां सत्त्वादीनां प्रकृतिस्वरूपानुबन्धित्वं सम्भवति, प्रकृतिरनादिर्हि। नापि पुरुषकार्याणि, तस्याकर्तृत्वात्। नापीश्वरकार्याणि, प्रकृतिपुरुषद्वारैवेश्वरस्य कर्तृत्वाभ्युपगमात्। न चैवं सत्त्वादयोऽनादयः इति वाच्यम् ; ‘गुणाः प्रकृतिसंभवाः’ इतीहैवोच्यमानत्वात्। न च प्रकृतौ साम्येन वर्तमाना गुणा वैषम्येण ततो जायन्त इति वाच्यम् ; साम्येन गुणवर्तनस्स्य निराकृतत्वात्। समाः सत्त्वादिगुणा अनादयः, विषमास्तु सादय इति क्वापि शास्त्रेऽदर्शनात्। न च समाः सत्त्वादिगुणा एव प्रकृतिरिति वाच्यम्।तथा सति सत्त्वादिगुणातिरिक्तप्रकृतिकल्पनस्य, प्रकृतिः धर्मिपदार्थः सत्त्वादयस्तु तद्धर्मा इति वादस्य चायुक्तत्वात्।
तस्माद् यदि प्रकृतिस्वरूपानुबन्धिस्वभावविशेषाः सत्त्वादयस्तर्हि तेषां प्रकृतेः सकाशात् सम्भवकथनं विरुद्ध्यते। न हि धर्मिणः सकाशाज्जायमानः क्वापि धर्मो दृश्यते। तथा सति धर्मोत्पत्तेः प्राग् धर्मिण एव धर्मित्वस्याभावप्रसङ्गात्। उत्पत्तेः प्रागपि धर्मस्य सत्त्वे तदुत्पत्त्ययोगाच्च। घटात् सकाशाद् रूपस्योत्पत्तिप्रसङ्गाच्च। धर्मिपरतन्त्रस्य धर्मस्य केवलं जन्मायोगाच्च। न हि निराश्रयो रूपादिः क्वाप्युपलभ्यते। अथ यदि प्रकृतेः सकाशाद् गुणानां सम्भवो यथोक्तोऽभ्युपेयते, तर्हि मृदो घट इव प्रकृतेः सत्त्वादयः परिणामा एव, न तु स्वरूपानुबन्धिधर्मविशेषाः। एवं प्रकृतिपरिणामत्वे सति सत्त्वादीनां द्रव्यत्वमेव स्यान्महदादिवत्। युक्तं च द्रव्यत्वं सत्त्वादीनां ज्ञानादिगुणवत्त्वात्। गुणवत्त्वं हि द्रव्यस्य लक्षणम्।
ननु प्रकृतेर्द्रव्यात् सकाशाज्जायमानाः सत्त्वादयो न द्रव्याणि, किन्तु गुणा एव, यथाऽन्तःकरणाद् द्रव्याज्जायमानाः सुखदुःखादयो न द्रव्याणि, किन्तु गुणा एव, तद्वत्। ततश्च सुखदुःखादीनामन्तःकरणधर्मत्ववत् सत्त्वादीनां प्रकृतिधर्मत्वं सिध्यतीति चेत् , मैवम् ; न वयं द्रव्याद् गुणा न जायन्त इति ब्रूमः, किं तर्हि? यर्योग़ुणगुणिनोः समवायः सम्मतः, स गुणस्तस्माद् गुणिनो न जायत इति ब्रूमः। ‘सत्त्वात् सञ्जायते ज्ञानं रजसो लोभ एव च। प्रमादमोहौ तमसो भवतोऽज्ञानमेव च॥’ इति सत्त्वादिभ्योऽपि ज्ञानादयो भवन्तीति वक्ष्यमाणत्वाच्च। सुखादीनामन्तःकरणधर्मत्ववज्ज्ञानादीनां सत्त्वादिधर्मत्वाच्च प्रकृतेः सकाशाज्जायमानाः सत्त्वादयोऽन्तःकरणादिवद् द्रव्याण्येव, न गुणाः, 2गुणवत्त्वादिति।
ननु यदि सत्त्वादयो द्रव्याणि, तर्हि किमिति नोपलभ्येरन्निति चेत्? नायं नियमः - यद् द्रव्यं तदुपलब्धव्यमिति। प्रकृतेरप्यनुपलभ्यायाः द्रव्यत्वाभ्युपगमात् तव। यथा महदादिकार्यानुमेया प्रकृतिस्तथा प्रकाशादिकार्यानुमेयाः सत्त्वादय इति। यदि व्यक्तान्येव द्रव्याणीत्युच्येत, तर्हि प्रकृतिवत् सत्त्वादिरपि द्रव्यं मा भूदव्यक्तत्वात्। न चैवं सत्त्वादीनां द्रव्यत्वे कुतो महदादिषु तदनुप्रवेश इति वाच्यम् ; यथा प्रकृतिर्द्रव्यमपि महदादिषु स्वकार्येष्वनुगता, तद्वदिति।
ननु द्रव्यपरतन्त्रत्वात् सत्त्वादयो गुणा एव, न तु द्रव्याणि, ‘शुद्धसत्त्वगुणा माया’ ‘मलिनसत्त्वगुणा अविद्या’ ‘अहङ्कारस्त्रिविधः - सात्त्विको राजसस्तामसश्चेति’ ‘पञ्चभूतसत्त्वांशसमष्टिकार्यं मन’ इत्यादिव्यवहारादिति चेत् , मैवम् ; परिणामिनः परिणामवत्त्वमुचितम् , मृद इव घटवत्त्वम्। तथा च घटो मृदीव, प्रकृतौ सत्त्वादयाः शुद्धाः अशुद्धा वा वर्तन्त एव। तेन शुद्धसत्त्वा माया, मलिनसत्त्वाऽविद्येति व्यवहार उपपद्यते। सत्त्वस्य शुद्धिर्नाम रजआद्यनभिभूतत्वम् , तदभिभूतत्वं त्वशुद्धत्वमिति विवेकः। एवमुद्भूतगुणा माया महदाद्यात्मना परिणतेत्यहङ्कारस्य त्रिविधत्वं युक्तम्। तथा भूतानां च सत्त्वादिगुणवत्त्वं युक्तमिति।
ननु घटात्मना परिणताया मृत्तिकाया अन्यैव मृत्तिका करकात्मना परिणमते। न तु घटाकारवती सैव मृत्तिका घटाकारानुप- मर्देन करकाद्याकारं भजते यथा, तथा सत्त्वाद्याकारपरिणतायाः प्रकृतेरन्यैव महदाद्याकारेण परिणमेत। न तु सैव सत्त्वादिगुणाकारा-
[[७४४]]
नुपमर्देन महदाद्याकारं भजते। एवं सति महदादिकार्याणां प्रकृतिमयत्वे सत्यपि न सत्त्वादिमयत्वं स्यादिति चेत् , मैवम् ; जलसंयोगात् पिण्डाकारेण परिणतो यश्चूर्णपुञ्जः स एव घटाद्याकारेण परिणमते, न त्व[तु]पिण्डाकारः। एवमीश्वरसङ्कल्पात् सत्त्वादिगुणत्रयाकारेण परिणामं प्राप्ता या प्रकृतिः सैव महदाद्याकारेण परिणमते, न त्वन्या। प्रलयेऽपि प्रपञ्चप्रसङ्गात्। प्रलये ह्यपरिणता सत्त्वादिरूपेण प्रकृतिरस्ति। अत एव गुणसाम्यावस्था प्रकृतिरिति प्रवादः। तदानीं सत्त्वादिगुणाभावात् प्रकृतौ। एवं गुणत्रयाकारपरिणत- प्रकृतिपरिणामत्वान्महदादीनां गुणत्रयवत्त्वमिति। न च पिण्डाकारपरिणतमृत्कार्येष्वपि घटादिषु पिण्डवत्त्वं नोपलभ्यत इति वाच्यम् ; चूर्णपुञ्जमेलनविशेषो हि पिण्डः। किं घटे अमिलितश्चूर्णपुञ्जः क्वापि दृश्यते? किन्तु मिलित एव। तादृशमिलितचूर्णपुञ्जवत्त्वमेव पिण्डवत्त्वं घटस्येति। तस्मात् प्रकृतेः प्रथमो विकारः सत्त्वादिगुणत्रयम्। सत्त्वादिरूपविकृतप्रकृतिविकारास्तु महदादय इति सिद्धं सत्त्वादित्रयस्य प्रकृतिविकारत्वेन प्रकृतिवद् द्रव्यत्वम्। अत एवोक्तम्— ‘गुणाः प्रकृतिसम्भवाः’ इति। कथमन्यथा सत्त्वादिसमवेत- प्रकृतिकार्यत्वं स्यात् सत्त्वादेः, 3रूपसमवेतघटकार्यत्वमिव रूपस्य। तस्मात् सिद्धं सत्त्वादीनां रूपादिवदगुणत्वम्। यदि सत्त्वादिषु गुणत्वलोभेन प्रकृतिसमवेतत्वं त्यज्यते, तर्हि सत्त्वादीनां प्रकृतिस्वरूपनिरूपकधर्मत्वं नैव स्यात्। न हि कपिसंयोगो वृक्षस्य स्वरूपनिरूपकधर्मः स्यात् , येन सत्त्वादिगुणसंयोगः प्रकृतेः स्वरूपनिरूपकधर्मः स्यात्।
नन्वेवं मूलप्रकृतेर्महदाद्याकारपरिणामवत् सत्त्वाद्याकारपरिणामे सति ‘मूलप्रकृतिरविकृति’रिति साङ्ख्यकारिकायां सत्त्वादयः कुतो नोक्ताः इति चेत्? पृच्छ साङ्ख्यम् , न हि वयं साङ्ख्याः। एवमादिदोषवशादेव हि साङ्ख्यदर्शनमप्रमाणमिति वयं ब्रूमः। न च सत्त्वा- द्याकारपरिणतप्रकृतिरेव महदादिहेतुत्वेन मूलप्रकृतिरिति ग्रहणे साङ्ख्यमतं न दुष्यतीति वाच्यम् ; तादृशप्रकृतेर्विकृतित्वेनाविकृतित्वा- भावात् ‘मूलप्रकृतिरविकृति’रिति विशेषितत्वाच्च। तस्मात् प्रकृत्यज्ञानाव्यक्तशक्त्यविद्यामायादिपर्यायवतः ईश्वरस्वभावस्य परिणाम- विशेषा एव सत्त्वादयो, न तु गुणाः।
नन्वन्तःकरणपरिणामसुखादिवृत्तीनां गुणत्वात् प्रकृतिपरिणामसत्त्वादित्रयस्य गुणत्वमस्त्विति चेत् , मैवम् ; दृष्टान्ता- सम्प्रतिपत्तेः। न ह्यन्तःकरणपरिणामा[न् ] वृत्तीर्वयं गुणाः इति ब्रूमः, किं तर्हि? अन्तःकरणात्मकत्वाद् द्रव्याण्येव। न हि द्रव्यस्य क्वापि गुणाकारेण परिणामः उचितः। कार्यकारणयोः सालक्षण्यनियमात्।
नन्वेवं शुक्लादिगुणाः किं कस्यापि विकाराः, उत न? आद्ये, यस्य विकारास्ते तत् किं द्रव्यमुतान्यत्? द्रव्यत्वे कथं द्रव्यस्य गुणरूपेण परिणामः? अन्यत्तु नास्त्येव। द्वितीये, रूपादीनां जायमानत्वेन प्रसिद्धानामनादित्वमयुक्तम् , अप्रमाणं चेति चेत् , मैवम् ; शुक्लादिगुणा द्रव्याश्रिताः सन्त एव जायन्ते, न तु पृथक्। तथा सति वाय्वाकारपरिणतप्रकृतेः सकाशात् तेजोद्रव्यं जायते, तच्च सरूपं जायत इति नात्र कार्यकारणवैलक्षण्यप्रसङ्गः। वायुतेजसोर्द्रव्यत्वादुभयोरपि। न च सरूपत्वनीरूपत्वाभ्यां वैलक्षण्यमिति वाच्यम् ; अत्यन्ताभेदे कार्यकारणयोः कार्यकारणभावस्यैवाभावप्रसङ्गात्। कारणे आकाशेऽविद्यमानस्यापि स्पर्शगुणस्य कार्ये वायौ प्रादुर्भाव- दर्शनाच्च।
नन्वेवं नीरूपद्रव्यस्य सरूपद्रव्याकारपरिणामेऽपि द्रव्यस्य गुणाकारपरिणामः सिद्ध इति चेत् , मैवम् ; तत्र द्रव्यांश एव परिणतत्वं, गुणांशे तु विवर्तत्वमेवेति। न च कारणे वाय्वादावप्यनुद्भूतरूपमस्तीति वाच्यम् ; अनुद्भूतत्वेनादृश्यमानस्य रूपस्य सत्त्वे मानाभावात्। एवमात्मन्यप्यनुद्भूतरूपसत्त्वकल्पनप्रसङ्गात्। तस्य च ‘अशब्दमस्पर्शमरूपमव्यय’मित्यादिशास्त्रविरोधात्। अनुद्भूत- रूपाभ्युपगमेऽपि तस्यैवोद्भूतरूपत्वेन परिणामो, न तु द्रव्यस्येति सिद्धत्वाच्च। तस्मान्न सत्त्वादयो गुणाः, किन्तु महदादिवत् प्रकृत्यवस्थाविशेषा एव।
यच्च सत्त्वादीनामगुणत्वे गुणशब्दप्रसिद्धिर्विरुद्धेति वेदान्तदेशिकः। तदयुक्तम् , गुणशब्दप्रसिद्धेः पारिभाषिकत्वेनैवोपपन्न- त्वात्। 4शास्त्रं ह्यनादिकालात् प्रवृत्तम् , तद्बलाच्च सत्त्वादीनां गुणशब्दप्रसिद्धिः। यथा मायायाः प्रकृत्यादिशब्दप्रसिद्धिः। न हि शास्त्रं विना मायायाः प्रकृत्यादिशब्दप्रसिद्धिमपि जानीयुः केऽपि। तस्माच्छास्त्रसिद्ध एवायमिति नाप्रसिद्धः।
[[७४५]]
यच्च देहे वर्तमानत्वोपाधिना निबध्नन्तीति, तदप्ययुक्तम् , घटे वर्तमानत्वोपाधिना गगनस्य घटकृतबन्धाभावाज्जीवस्यापि देहाश्रयगुणकृतबन्धायोगात्। ‘स्वतो बन्धानर्ह’मिति हि त्वयैवोच्यते। शरीरस्थत्वं च न बन्धहेतुरिति ‘शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते’ इत्यनेनोक्तं भगवतैव। तस्मादलेपकस्य बद्धत्वं दुर्घटमेव॥५॥
मध्वः …{Loading}…
मध्वः - मूलम्
॥14.5॥ बन्धप्रकारं दर्शयति साधनानुष्ठानाय – सत्त्वमित्यादिना।
जयतीर्थः
॥14.5॥ ननु प्रतिज्ञातं ज्ञानं श्लोकद्वयेनोक्तं; तत्किमुत्तरेण ग्रन्थेनाध्यायासङ्गतमुच्यते इत्यत आह – बन्धेति। यो हि बद्धोऽस्मीति जानाति स एव तन्निवृत्तिसाधनं विजिज्ञास्य ज्ञात्वाऽनुतिष्ठति; अतो बन्धोच्छेदसाधनानुष्ठानाय तज्ज्ञापनार्थं जिज्ञासामुत्पादयितुं गुणत्रयकृतबन्धप्रकारमादौ तावद्दर्शयतीति नासङ्गतिरित्यर्थः।
अभिनव-गुप्तः …{Loading}…
अभिनवगुप्तः - मूलम्
॥14.5॥ सत्त्वमिति। देही चायं आत्मतया सत्त्वरजस्तमोभिर्धर्मैः अपवर्गपर्यन्ताय भोगाय निबद्ध्यते।
शङ्करनारायणः
14.5 Sattvam etc. This embodied Soul is bound fast by Her (the Mother) by means of Her attributes of the Sattva, the Rajas and the Tamas for the former’s enjoyment that continues till his emancipation. The nature of these is detailed one by one -
वल्लभः …{Loading}…
वल्लभः - मूलम्
॥14.5॥ अनेन स्वस्येच्छया जीवेषु निजप्रकृतिसम्भवसंसर्जनलीलामुपपाद्येदानीं बन्धलीलामुपपादयितुं चतुर्दशलोकबन्धहेतुभूतगुणानाह चतुर्दशभिः – सत्त्वमिति। नचैते सकार्या आत्मनो गुणाः; अपितु प्रकृतेरुक्ताः प्रकृतिसम्भवा इति सम्भूतं चेतनं तत्तद्देहे गुणा एव बध्नन्ति। प्रकृतिधर्म एव तत्र हीनतापादको देहे अहंवृत्तिमान् नोपाधिविशिष्टस्य नान्यस्य। ये च भगवदंशभूतायां प्रकृतौ समागता गुणास्ते भगवतः सच्चिदानन्दा एव मूलतः परिणममाना बन्धका दोषा जडगतत्वात्। बन्धनश्लेषात्गुणाः इति संज्ञा तेषाम्। तदेवाह निबध्नन्तीति। तत्र प्रकृतिरुद्भूता गुणाः सत्त्वादयो देहाभिमानिनस्तमणुस्वरूपं चिदंशं जीवमव्ययमपि निबध्नन्ति। त्वं तं बन्धं,निवर्त्तयेति सम्बोधयति।
पुरुषोत्तमः
॥14.5॥ ननु लीलात्मकप्रकृत्युत्पादितलीलार्थदेहादिषु स्थितस्य बीजस्य बन्धः कथं इत्यत आह – सत्त्वमिति। सत्त्व रजस्तम इति संज्ञका गुणाः प्रकृतिसम्भवाः प्रकृतितः सम्भव उत्पत्तिर्येषां तादृशाः ते अव्ययं विनाशादिधर्मरहितं भगवतश्चिदंशात्मकं देहिनं जीवं तद्रूपेण तद्द्वारा गुणभोगार्थमाविर्भूतं निबध्नन्ति वशीकुर्वन्ति; रसपरत्वादित्यर्थः।
श्रीधर-स्वामी …{Loading}…
॥14.5॥ तदेवं परमेश्वराधीनाभ्यां प्रकृतिपुरुषाभ्यां सर्वभूतोत्पत्तिं निरूप्य इदानीं प्रकृतिसंयोगेन पुरुषस्य संसारं प्रपञ्चयति – सत्त्वमित्यादि चतुर्दशभिः। सत्त्वं रजस्तम इति त्रयो गुणाः प्रकृतिसंभवाः प्रकृतितः संभव उद्भवो येषां ते तथोक्ताः। गुणसाम्यं प्रकृतिस्तस्याः सकाशात्पृथक्त्वेनाभिव्यक्ताः सन्तः प्रकृतिकार्ये देहे तादात्म्येन स्थितं देहिनं चिदंशं वस्तुतोऽव्ययं निर्विकारमेव सन्तं निबध्नन्ति। स्वकार्यैः सुखदुःखमोहादिभिः संयोजयन्तीत्यर्थः।
English …{Loading}…
आदिदेवानन्दः
14.5 Sattva, Rajas and Tamas are the Gunas that arise from the Prakrti. They bind the immutable self in the body, O Arjuna.
गम्भीरानन्दः
14.5 O mighty-armed one, the alities, viz sattva, rajas and tamas, born of Nature, being the immutable embodies being to the body.
पुरोहितस्वामी
14.5 Purity, Passion and Ignorance are the Qualities which the Law of nature bringeth forth. They fetter the free Spirit in all beings.
शङ्करनारायणः
14.5. The Strands, viz. the Sattva, the Rajas and the Tamas, born from the Prime Cause (the said Mother), bind the changeless Embodied (Soul) to the body, O mighty-armed One !
शिवानन्दः - अनुवादः
14.5 Purity, passion and inertia these alities, O Arjuna, born of Nature, bind fast in the body, the embodied, the indestructible.
शिवानन्दः - टीका
14.5 सत्त्वम् purity; रजः passion; तमः inertia; इति these; गुणाः alities; प्रकृतिसंभवाः born of Prakriti; निबध्नन्ति bind; महाबाहो O mightyarmed; देहे in the body; देहिनम् the embodied; अव्ययम् the,indestructible.Commentary Sattva is the best. Rajas comes next. Tamas is the lowest and the worst. The three alities indicate the triple mentality. They produce attachment in the individual souls; delude them and bind them down; as it were; to Samsara. Just as the three conditions of childhood; youth and old age are found in the same body; so also the three alities inhere in the mind. The soul gets limited by identifying itself with body and the three alities. It is subject to birth and death and experiences happiness and misery; pleasure and pain; joy and sorrow till it realises its identity with the supreme Self.The word Guna is usually translated as ality. It does not signify property; attribute or ality; such as the blue colour of a cloth. Gunas are really the primary constitutents of Nature and are the basis of all substances. Therefore it is not proper to call them alities inhering in substances.If you want to attain freedom or perfection; if you wish to become immortal; you must rise above the modes of Nature. You must transcend the Gunas.If the water in the vessel is agitated; the reflected sun in the water also appears to be agitated through Pratibimba Adhyasa (superimposition of reflection on water). Even so the pure unchanging Self appears to be bound by the alities of Nature through superimposition. In reality the Self is ever free and untainted. It is beyond them.The Gunas which are only forms of ignorance are ever dependent on the knower of the field. They bind; fast; as it were; the knower of the field. They have him as the basis of their existence.A knowledge of the Gunas and their operation is very necessary. Only if you have this knowledge can you free yourself from their clutches.Mahabaho Mightyarmed with strong and sinewy arms reaching down to the kness. This is a very auspicious sign. Yogis and sages have such beautiful arms.These three Gunas are present in all human beings. No one is free from the operation of any one of the three alities of Nature. They are not constant. Sometimes Sattva predominates at other times Rajas or Tamas predominates.Sattva has the characteristic of effulgence. It is also harmony and goodness or purity. Rajas is passion or activity. Tamas is inertia or darkness.Analyse all phenomena in terms of these three. Know their characteristics. Stand as a witness of these alities. Do not identify yourself with them. Separate yourself from them. Become a Gunatita. You will attain Supreme Peace; immortality and eternal bliss. (Cf.XIII.22)
हिन्दी …{Loading}…
रामसुखदासः - अनुवादः
।।14.5।। हे महाबाहो ! प्रकृतिसे उत्पन्न होनेवाले सत्त्व, रज और तम – ये तीनों गुण अविनाशी देहीको देहमें बाँध देते हैं।
रामसुखदासः - टीका
।।14.5।।व्याख्या – सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः – तीसरे और चौथे श्लोकमें जिस मूल प्रकृतिको महद् ब्रह्म नामसे कहा है; उसी मूल प्रकृतिसे सत्त्व; रज और तम – ये तीनों गुण पैदा होते हैं। यहाँ इति पदका तात्पर्य है कि इन तीनों गुणोंसे अनन्त सृष्टियाँ पैदा होती हैं तथा तीनों गुणोंके तारतम्यसे प्राणियोंके अनेक भेद हो जाते हैं; पर गुण न दो होते हैं; न चार होते हैं; प्रत्युत तीन ही होते हैं।निबध्नन्ति महाबाहो देहे देहिनमव्ययम् – ये तीनों गुण अविनाशी देहीको देहमें बाँध देते हैं। वास्तवमें देखा जाय तो ये तीनों गुण अपनी तरफसे किसीको भी नहीं बाँधते; प्रत्युत यह पुरुष ही इन गुणोंके साथ सम्बन्ध जोड़कर बँध जाता है। तात्पर्य है कि गुणोंके कार्य पदार्थ; धन; परिवार; शरीर; स्वभाव; वृत्तियाँ; परिस्थितियाँ; क्रियाएँ आदिको अपना मान लेनेसे यह जीव स्वयं अविनाशी होता हुआ भी बँध जाता है; विनाशी पदार्थ; धन आदिके वशमें हो जाता है सर्वथा स्वतन्त्र होता हुआ भी पराधीन हो जाता है। जैसे; मनुष्य जिस धनको अपना मानता है; उस धनके घटनेबढ़नेसे स्वयंपर असर पड़ता है जिन व्यक्तियोंको अपना मानता है; उनके जन्मनेमरनेसे स्वयंपर असर पड़ता है जिस शरीरको अपना मानता है; उसके घटनेबढ़नेसे स्वयंपर असर पड़ता है। यही गुणोंका अविनाशी देहीको बाँधना है। यह बड़े आश्चर्यकी बात है कि यह देही स्वयं अविनाशीरूपसे ज्योंकात्यों रहता हुआ भी गुणोंके; गुणोंकी वृत्तियोंके अधीन होकर स्वयं सात्त्विक; राजस और तामस बन जाता है। गोस्वामी तुलसीदासजी कहते हैं – ईस्वर अंस जीव अबिनासी। चेतन अमल सहज सुखरासी।। (मानस 7। 117। 1)जीवका यह अविनाशी स्वरूप वास्तवमें कभी भी गुणोंसे नहीं बँधता परन्तु जब वह विनाशी देहको मैं; मेरा और मेरे लिये मान लेता है; तब वह अपनी मान्यताके कारण गुणोंसे बँध जाता है; और उसको परमात्मतत्त्वकी प्राप्तिमें कठिनता प्रतीत होती है (गीता 12। 5)। देहाभिमानके कारण गुणोंके द्वारा देहमें बँध जानेसे वह तीनों गुणोंसे परे अपने अविनाशी स्वरूपको नहीं जान सकता। गुणोंसे देहमें बँध जानेपर भी जीवका जो वास्तविक अविनाशी स्वरूप है; वह ज्योंकात्यों ही रहता है; जिसका लक्ष्य भगवान्ने यहाँ,अव्ययम् पदसे कराया है। यहाँ देहिनम् पदका तात्पर्य है कि देहमें तादात्म्य; ममता और कामना होनेसे ही तीनों गुण इस पुरुषको देहमें बाँधते हैं। यदि देहमें तादात्म्य; ममता और कामना न हो; तो फिर यह परमात्मस्वरूप ही है।
विशेष बात
शरीरके साथ जीव दो तरहसे अपना सम्बन्ध जोड़ता है – (1) अभेदभावसे – अपनेको शरीरमें बैठाना; जिससे मैं शरीर हूँ ऐसा दीखने लगता है; और (2) भेदभावसे – शरीरको अपनेमें बैठाना; जिससे शरीर मेरा है ऐसा दीखने लगता है। अभेदभावसे सम्बन्ध जो़ड़नेसे जीव अपनेको शरीर मान लेता है; जिसको अहंता कहते हैं और भेदभावसे सम्बन्ध जो़ड़नेसे जीव शरीरको अपना मान लेता है; जिसको,ममता कहते हैं। इस प्रकार शरीरसे अपना सम्बन्ध जोड़नेपर सत्त्व; रज और तम – तीनों गुण अपनी वृत्तियोंके द्वारा शरीरमें अहंताममता दृढ़ करके जीवको बाँध देते हैं। जैसे विवाह हो जानेपर पत्नीके पूरे परिवार(ससुराल) के साथ सम्बन्ध जुड़ जाता है; पत्नीके वस्त्राभूषण आदिकी आवश्यकता अपनी आवश्यकता प्रतीत होने लगती है; ऐसे ही शरीरके साथ मैंमेरेका सम्बन्ध हो जानेपर जीवका पूरे संसारके साथ सम्बन्ध जुड़ जाता है और शरीरनिर्वाहकी वस्तुओँको वह अपनी आवश्यकता मानने लग जाता है। अनित्य शरीरसे सम्बन्ध (एकात्मता) माननेके कारण वह अनित्य शरीरको नित्य रखनेकी इच्छा करने लगता है क्योंकि वह स्वयं नित्य है। शरीरके साथ सम्बन्ध माननेके कारण ही उसको मरनेका भय लगने लगता है क्योंकि शरीर मरनेवाला है। यदि शरीरसे सम्बन्ध न रहे; तो फिर न तो नित्य बने रहनेकी इच्छा होगी और न मरनेका भय ही होगा। अतः जबतक नित्य बने रहनेकी इच्छा और मरनेका भय है; तबतक वह गुणोंसे बँधा हुआ है। जीव स्वयं अविनाशी है और शरीर विनाशी है। शरीरका प्रतिक्षण अपनेआप वियोग हो रहा है। जिसका अपनेआप वियोग हो रहा है; उससे सम्बन्धविच्छेद करनेमें क्या कठिनता और क्या उद्योग उद्योग है तो केवल इतना ही है कि स्वतः वियुक्त होनेवाली वस्तुको पकड़ना नहीं है। उसको न पकड़नेसे अपने अविनाशी; गुणातीत स्वरूपका अपनेआप अनुभव हो जायगा।सम्बन्ध – पूर्वश्लोकमें भगवान्ने सत्त्व; रज और तम – इन तीनों गुणोंके द्वारा देहीके बाँधे जानेकी बात कही। उन तीनों गुणोंमेंसे सत्त्वगुणका स्वरूप और उसके बाँधनेका प्रकार आगेके श्लोकमें बताते हैं।
चिन्मयानन्दः
।।14.5।। गुण शब्द अध्यात्मशास्त्र की पारिभाषिक शब्दावली का होने के कारण उसका किसी अन्य भाषा में अनुवाद करना कठिन है। विशेषकर अंग्रेजी में उसका समानार्थी कोई शब्द नहीं है। इसका कारण यह है कि पाश्चात्य मनोविज्ञान अभी भी शैशव अवस्था में ही है। जब उनके द्वारा मनोविज्ञान का सैद्धान्तिक और प्रायोगिक निरीक्षण तथा अध्ययन पूर्ण कर लिया जायेगा; केवल तभी; वे प्रत्येक व्यक्ति के अन्तकरण में उदित होने वाले विचारों पर इन गुणों के पड़ने वाले प्रभाव को समझ पायेंगे। आध्यात्मिक साहित्य में सत्त्व; रज और तम; इन तीन गुणों को क्रमश श्वेत; रक्त और कृष्ण वर्ण के द्वारा सूचित किया जाता है। संस्कृत में गुण शब्द का अर्थ रज्जु अर्थात् रस्सी भी होता है। तात्पर्य यह हुआ कि प्रकृति के ये तीन गुण रज्जु के समान हैं; जो सच्चित्स्वरूप आत्मतत्त्व को असत् और जड़ अनात्मतत्त्व के साथ बांध देते हैं। सारांशत; ये गुण वे तीन विभिन्न प्रकार के भाव हैं जिनके वशीभूत् होकर हमारा मन; निरन्तर परिवर्तनशील परिस्थितियों में विविध प्रकार से अपनी प्रतिक्रियारूपी क्रीड़ा करता रहता है। ये गुण प्रकृति से उत्पन्न हुये हैं। वे आत्मा को देह के साथ मानो बांध देते हैं; जिसके कारण वह जीव भाव को प्राप्त होकर जन्म और मरण के अविरल चक्र और संसार के दुखों में फँस जाता है। जैसा कि पहले भी कहा जा चुका है; प्रकृति के ये गुण द्रव्याश्रित धर्म नहीं हैं। हम केवल इतना ही कह सकते हैं कि ये विभिन्न प्रकार के भाव हैं; जिनके कारण भिन्नभिन्न व्यक्तियों का व्यवहार भिन्नभिन्न प्रकार का होता है। आत्मा और अनात्मा का यह संबंध मिथ्या है; वास्तविक नहीं। देशकालादि के परिच्छेदों से मुक्त आत्मा को इन परिच्छेदों से युक्त; स्वप्न के समान प्रक्षेपित; जड़ उपाधियों के साथ कभी नहीं बांधा जा सकता। वह इनके दोषों से सदा असंस्पृष्ट ही रहता है; जैसे; स्तंभ अपने में अध्यस्त प्रेत से और जाग्रत् पुरुष स्वप्न द्रष्टा के अपराधों से वस्तुत अलिप्त ही रहता है। इसी प्रकार; जब तक त्रिगुण जनित बन्धन बना रहता है; तब तक ऐसा प्रतीत होता है; मानो आत्मा इन अनात्म उपाधियों के संसर्गवशात् जीव भाव को प्राप्त हुआ है; परन्तु यथार्थत वह नित्यमुक्त ही रहता है। उपर्युक्त विवेचन से अब यह स्पष्ट हो जाता है कि किस प्रकार इन गुणों के स्वरूप तथा उनसे उत्पन्न बन्धन की प्रक्रिया का स्पष्ट ज्ञान हमें मुक्ति का अधिकार पत्र प्रदान कर सकता है। अब; भगवान् श्रीकृष्ण सर्वप्रथम सत्त्वगुण का लक्षण बताते हैं
तेजोमयानन्दः - अनुवादः
।।14.5।। हे महाबाहो ! सत्त्व, रज और तम ये प्रकृति से उत्पन्न तीनों गुण देही आत्मा को देह के साथ बांध देते हैं।।
-
कार्यकारणयोरनन्यत्वं, गुणगुणिनोरन्यत्वं च साधयति—तथाहीति। सिद्धान्ते कार्यकारणयोर्गुणगुणिनोश्च तादात्म्येऽपि तस्य वृत्तिनियामकत्वतदभावरूपवैलक्षण्यादन्यत्वानन्यत्वोक्तिः। ↩︎
-
गुणवत्त्वस्य द्रव्यलक्षणत्वादिति भावः। भाष्यार्कप्रकाशः ↩︎
-
रूपसमवेतो घटोऽप्रसिद्धः। अतो न तत्कार्यत्वं रूपस्य। ‘घटसमवेतरूपे’ति वा स्यात्। ↩︎
-
सत्त्वादिषु गुणशब्दस्य पारिभाषिकत्वं सांख्यसंमतमेवेति बोध्यम्। भाष्यार्कप्रकाशः ↩︎