विश्वास-प्रस्तुतिः …{Loading}…
क्षेत्र-क्षेत्रज्ञयोर् एवम्
अन्तरं ज्ञान-चक्षुषा।
भूत-प्रकृति-मोक्षं +++(अमानित्वादि पूर्वोक्तं कर्म)+++ च
ये विदुर् यान्ति ते परम्॥13.35॥
मूलम् …{Loading}…
क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा।
भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम्॥13.35॥
रामानुजः …{Loading}…
रामानुजः - मूलम्
॥13.34॥एवम् उक्तेन प्रकारेण
वेङ्कटनाथः
॥13.35॥अथैतद्-अध्याय-प्रधानार्थ-भूत-हेयोपादेय– तद्-उपाय-विज्ञानस्य फलम् उच्यते - क्षेत्र–क्षेत्र-ज्ञयोर् इति।
एवं शब्दानूदितम् आह - उक्तेन प्रकारेणेति।
क्षेत्रक्षेत्रज्ञयोर् अन्तरं विशेषं
वेङ्कटनाथः
अज्ञत्व-वेदितृत्व- धार्यत्व-धारकत्व- शेषत्व-शेषित्वादि-प्रकारेणेत्य् अर्थः। अन्तरम् अवकाशावधि- परिधानान्तर्धि-भेद-तादर्थ्ये [अमरः3।3।186] इत्य् अनेकार्थस्यान्तर-शब्दस्यात्र विवक्षितम् आह — विशेषम् इति।
विवेक-विषय-ज्ञानाख्येन चक्षुषा ये विदुः
वेङ्कटनाथः
ज्ञान-चक्षुषा इत्य् अत्र
दिव्य-ज्ञानादि-प्रसङ्ग-व्युदासार्थं विवेक-विषयत्वोक्तिः।
प्रक्रान्तोपदेश-लब्ध-ज्ञानम् इह विवक्षितम् इति भावः।
ज्ञानस्य चक्षुष्ट्व-रूपणम् अपरोक्ष-ज्ञानान्तर-हेतुत्वात्।
विविच्यतेऽनेनेति विवेको ऽत्र व्यावर्तकाकारः।
भूत-प्रकृति-मोक्षं च;
वेङ्कटनाथः
भूतमय्याः प्रकृतेर् मोक्षः, भूत-प्रकृति-मोक्षः -
भूतानां जीवानां प्रकृतेर् मोक्ष इति वा।
यत् तु,
भूतानां प्रकृतिर् अविद्या-लक्षणा अव्यक्ताख्या,
तस्याः प्रकृतेर् मोक्षणम् अभाव-गमनम्
इति शङ्करेणोक्तम्,
तद् “गौर् अनाद्य्-अन्तवती” [मं.को.5] इत्य्-आदि-श्रुति-विरोधाद् अवधीरणीयम्।
ते परं यान्ति निर्मुक्त-बन्धनम्; आत्मानं प्राप्नुवन्ति।
वेङ्कटनाथः
जीवात्म-ज्ञान-फल-विषयत्वात् पर-शब्दो ऽत्र परिशुद्ध-जीव-विषयः।
तस्य च परत्वं संसारित्व-लक्षण-स्वकीय-पूर्वावस्थापेक्षयेत्य् अभिप्रायेणाह — निर्मुक्त-बन्धम् इति।
मोक्ष्यते अनेन इति मोक्षः;
अमानित्वादिकम् उक्तं मोक्ष-साधनम् इत्यर्थः।
वेङ्कटनाथः
अध्यायारम्भे क्षेत्र-क्षेत्रज्ञौ पूर्वम् उपपादितौ,
परम्परया परिशुद्धात्म-प्राप्त्य्-उपायतया अमानित्वादि-गुण-वर्गश् च।
अतो ऽत्र निगमने ऽपि
क्षेत्र-क्षेत्रज्ञाभ्यां सह समुच्चीयमानो भूत-प्रकृति-मोक्षः
स एव गुण-वर्गो भवितुम् अर्हतीत्य् अभिप्रायेणाह —
मोक्ष्यते ऽनेन इति।
लुप्ताभ्यासे सन्नन्ते वा,
मोक्ष-शब्द-प्रकृतिके णिजन्ते वा
“मोक्ष मोक्षणे” इति धात्व्-अन्तरे वा —
मोक्ष्यत इति यक्-प्रयोगः।
तत्र चायं मोक्ष-शब्दः “अकर्तरि च कारके संज्ञायाम्” [अष्टा.3.3.19] +++(←“चकारः संज्ञाव्यभिचारार्थः”)+++ इति करणार्थ-घञन्तः।
क्षेत्र-क्षेत्रज्ञयोर् विवेक-विषयेण +उक्तेन ज्ञानेन
तयोर् विवेकं विदित्वा
भूताकार-परिणत-प्रकृति-मोक्षोपायम्
अमानित्वादिकं च अवगम्य ये आचरन्ति;
ते निर्मुक्त-बन्धाः
स्वेन रूपेण अवस्थितम्
अनवच्छिन्न-ज्ञान-लक्षणम् आत्मानं प्राप्नुवन्ति इत्यर्थः।
वेङ्कटनाथः
उक्तेषु ज्ञातव्येषु सिद्धं ज्ञातव्यांशं विवृण्वन्,
वाक्यार्थ-ज्ञान-मात्रस्य साक्षान्-मोक्ष-हेतुत्वाभावाद्
अनुष्ठान-शेषतां च ज्ञापयन्,
भूत-प्रकृति-मोक्ष-शब्देनानिष्ट-निवृत्तेः सूचनं,
“परं याति” इत्य् अनेन चेष्टाप्राप्तेर् विवक्षितत्वं दर्शयन्,
पिण्डितं महा-वाक्यार्थम् आह —
क्षेत्र-क्षेत्रज्ञयोर् इति।
वेदान्तदेशिकः
[रामानुजीये संवलितम्]
आदिदेवानन्दः
13.35 Those who discern thus in the described manner the difference, namely, the difference between the body and the knower of the body with the eye of knowledge or discrimination, and also the means of deliverance from manifested Prakrti - they attain the highest, namely, the self. They are completely delivered from bondage. Moksa is that by which deliverance is effected. The means of deliverance as already stated consists of alities beginning with modesty (13.7). They, through the knowledge already imparted concerning the differences between the body and the self, know those differences existing between them. Then learning about modesty etc., which form the means of deliverance from Prakrti that has devleoped into material elements constituting the body, they have to practise these virtues, and they will thery be absolutely delivered from bondage and will reach the self marked by infinite knowledge abiding in Its own form.
शङ्करः …{Loading}…
शङ्करः - मूलम्
॥13.35॥ –,क्षेत्रक्षेत्रज्ञयोः यथाव्याख्यातयोः एवं यथाप्रदर्शितप्रकारेण अन्तरम् इतरेतरवैलक्षण्यविशेषं ज्ञानचक्षुषा शास्त्राचार्यप्रसादोपदेशजनितम् आत्मप्रत्ययिकं ज्ञानं चक्षुः; तेन ज्ञानचक्षुषा; भूतप्रकृतिमोक्षं च; भूतानां प्रकृतिः अविद्यालक्षणा अव्यक्ताख्या; तस्याः भूतप्रकृतेः मोक्षणम् अभावगमनं च ये विदुः विजानन्ति; यान्ति गच्छन्ति ते परं परमात्मतत्त्वं ब्रह्म; न पुनः देहं आददते इत्यर्थः॥इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य,श्रीमच्छंकरभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये
त्रयोदशोऽध्यायः॥
श्रीमच्छंकरभगवत्पादविरचितम्
श्रीमद्भगवद्गीताभाष्यम्
गम्भीरानन्दः
MISSING. Alternate translation -
13.35 Ye, those who; viduh, know; evam, thus, in the manner described above; jnana-caksusa, through the eye of wisdom-the eye is the realization in the form of the knowledge of the Self, which arises from following the instructions of the scriptures and teachers; through that eye of wisdom; antaram, the distinction, the particular mutual distinction; ksetra-ksetrajnayoh, beween the field and the Knower of the field as they have been explained; and bhuta-prakrti-moksam, the annihilation of the Matrix of beings-the Matrix of beings is that which is described as ignorance and is called the Unmanifest; (those who know) the annihilation (moksanam) of that Matrix of beings; te, they; yanti, reach, go to; param, the Supreme, to Brahman, the Reality which is the suprme Goal. The idea is that they do not take up a body again.
हरिकृष्णदासः
॥13.35॥सारे अध्यायके अर्थका उपसंहार करनेके लिये यह श्लोक ( कहा जाता है ) –, जो पुरुष शास्त्र और आचार्यके उपदेशसे उत्पन्न आत्मसाक्षात्काररूप ज्ञाननेत्रोंद्वारा? पहले बतलाये हुए क्षेत्र और क्षेत्रज्ञके अन्तरको? – उनकी पारस्परकि विलक्षणताको? इस पूर्वदर्शित प्रकारसे जान लेते हैं? और वैसे ही अव्यक्त नामक अविद्यारूप भूतोंकी प्रकृतिके मोक्षको? यानी उसका अभाव कर देनेको भी जानते हैं? वे परमार्थतत्त्वस्वरूप ब्रह्मको प्राप्त हो जाते हैं? पुनर्जन्म नहीं पाते।
आनन्दगिरिः
॥13.34॥ अध्यायार्थं सफलमुपसंहरति – समस्तेति। विशेषं कौटस्थ्यपरिणामादिलक्षणं तदेवममानित्वादिनिष्ठतया क्षेत्रक्षेत्रज्ञयाथात्म्यविज्ञानवतः सर्वानर्थनिवृत्त्या परिपूर्णपरमानन्दाविर्भावलक्षणपुरुषार्थसिद्धिरिति सिद्धम्। इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दगिरिकृतौ त्रयोदशोऽध्यायः॥13॥
नीलकण्ठः
MISSING
धनपतिः
MISSING
मधुसूदन-सरस्वती
MISSING
रामरायः - ३५
क्षेत्रेति। एवं ज्ञानचक्षुषा क्षेत्रक्षेत्रज्ञयोरन्तरं भूतप्रकृतिमोक्षं च ये विदुस्ते परं यान्ति। समस्तेति। समस्तस्याध्यायार्थस्य क्षेत्र- ज्ञाध्यायार्थस्य उपसंहारः अर्थः प्रयोजनं यस्य सोऽयं तथोक्तः श्लोकः। क्षेत्रज्ञस्यातीन्द्रियत्वेन घटपटयोरिव क्षेत्रक्षेत्रज्ञयोरन्तरं द्रष्टुं मांसमयं लोकप्रसिद्धं चक्षुरिन्द्रियं न प्रभवतीत्यभिप्रेत्याह भगवान्—ज्ञानचक्षुषेति। आत्मप्रत्यायिकमिति। आत्मप्रत्ययजनकमित्यर्थः। येन ज्ञानेनायमात्मा ब्रह्मेति निश्चयो भवति तदित्यर्थः। चक्षुवदर्थावभासकत्वाज्ज्ञाने चक्षुष्ट्वारोपः। भूतानां कार्याणां प्रकृतिः कारणं मायेत्यभिप्रायादाह— अविद्येति। अविद्या अज्ञानं लक्षणं स्वरूपं यस्याः सा। अव्यक्तमित्याख्या नाम यस्याः सा अव्यक्ताख्या। तस्या इति षष्ठी। अभावगमनं नाशापादनं तावत् ज्ञानचक्षुषा क्षेत्रात् क्षेत्रज्ञं विविच्य ज्ञात्वा पश्चात् क्षेत्रज्ञात् सकाशात् क्षेत्रं विवेचयेत्। एवं विविच्यमाने तु क्षेत्रे क्षेत्रं शनैरभावमेव प्राप्नोति, निस्तत्त्वत्वात्। क्षेत्रस्याभावापादनं च ये विदुः। यद्वा गमनं प्राप्तिमित्येवार्थः। क्षेत्राद्विवेचितं क्षेत्रं स्वयमेवाभावं गच्छतीत्यर्थः। इतीममर्थं ये विदुः कालत्रयेऽपि क्षेत्रज्ञ एक एवाहं ब्रह्मास्मि, क्षेत्रं तु कदाचिदपि नास्तीति ये विदुरिति यावत्। ते परं ब्रह्म यान्ति प्राप्नुवन्ति। नित्याप्तस्य ब्रह्मणः कथं पुनः प्राप्तिरत आह— न पुनर्देहमाददत इति। पुनर्जन्म न भजन्त इत्यर्थः। देहस्वीकारस्यैव जन्मत्वादिति भावः। संसारान्मुच्यन्त इति यावत्। विदेहकैवल्यं प्राप्य परब्रह्मस्वरूपेण वर्तन्ते, न पुनः संसारायागच्छन्तीति फलितार्थः।
क्षेत्रक्षेत्रज्ञयोरन्तरदर्शनं विवेचनप्रकारश्चोक्तोऽपि पुनरुच्यतेऽलसानुग्रहार्थम्। तथाहि - दृश्यं सगुणं सक्रियं सविकारमनित्यं क्षेत्रं तद् यदिदन्तयोपलभ्यते, द्रष्टा निर्गुणो निष्क्रियो निर्विकारो नित्यः क्षेत्रज्ञः, योऽस्मिन् देहे अहमिति स्फुरत्यहङ्कारसाक्षित्वेन। स च क्षेत्रज्ञः सच्चिदानन्दरूपः। तच्च क्षेत्रमनृतजडदुःखात्मकम्। क्षेत्रमस्ति भाति प्रियं चेति व्यवहारसिद्धानां सत्ताभानानन्दानां क्षेत्रज्ञकारणधर्माणां क्षेत्रकार्ये सङ्क्रान्तानां पृथक्करणे तु क्षेत्रशब्दवाच्यं किमपि नावशिष्यते। न चैवं क्षेत्रज्ञादपि सत्तादिपृथक्करणे किमपि नावशिष्यत इति वाच्यम् ; यः पृथक्करोति तस्यैव क्षेत्रज्ञस्यावशिष्टत्वात् , तस्य च सच्चिदानन्दरूपत्वेन तस्मात् तेषां पृथक्करणायोगाच्च। तथा चैक एव क्षेत्रज्ञः अहं ब्रह्मास्मि, मयि कालत्रयेऽपि क्षेत्रं नास्ति, मिथ्यात्वात् क्षेत्रस्येति य आत्मवित् स शोकं तरति, ‘तरति शोकमात्मविदि’ति श्रुतेः। स ब्रह्म भवति ‘ब्रह्मविद् ब्रह्मैव भवती’ति श्रुतेरिति भावः।
[[७३३]]
यत्तु रामानुजः - भूतप्रकृतिमोक्षं भूतमय्याः प्रकृतेर्भूतानां जीवानां प्रकृतेर्वा मोक्षसाधनममानित्वादिकमवगम्य य आचरन्ति, ते परं निर्मुक्तबन्धनमात्मानं यान्तीति, तत्तुच्छम् - ये विदुरिति मूलस्य ये विदित्वाऽऽचरन्तीत्यर्थकल्पनस्यायुक्तत्वात्। अज्ञानातिरिक्त- प्रकृतिनामकतत्त्वान्तराभ्युपगमस्य, असङ्गपुरुषस्य तत्प्रकृतिकृतसत्यसङ्गाभ्युपगमस्य, संसारदशायामिव मुक्तिदशायामपि प्रकृतिरस्ति, तत्सङ्गस्तु नास्ति पुरुषस्येति कल्पनस्य, मुक्तिदशायामपि न जीवस्य ब्रह्मभावप्राप्तिः, किन्तु स्वरूपप्राप्तिरेवेति वर्णनस्य च श्रुतिस्मृतिन्यायादिविरुद्धत्वात्। न हि श्रुतौ प्रधानमिति किञ्चित् तत्त्वान्तरं श्रूयते। ‘ईक्षतेर्नाशब्दम्’ इत्यशब्दं हि तत्। श्रुत्यसिद्धत्वाद्धि तस्याशब्दत्वं व्यासेनैव प्रतिपादितम्। नापि तत्सत्त्वे श्रुत्यतिरिक्तं किञ्चित् प्रमाणं पश्यामः। अपरमार्थसाङ्ख्यबुद्धिपरिकल्पितं हि तत्। तत एवानुमानिकत्वं तस्य। तच्चानुमानिकाधिकरणे1 निराकृतं भगवता व्यासेनैव। तया च प्रकृत्या असङ्गपुरुषः संसृष्टः इति कथनं महद् विचित्रम् । न ह्यसङ्गो निरवयवः पुरुषः केनचित् संसृज्यते। संसृष्टत्वे पुनरसङ्गत्वस्वरूपस्यैव नाशप्रसङ्गात्। यदि संसार इव मुक्तावपि प्रकृतिः स्यात् तर्हि तया संसृज्येतैव पुरुषः। विभुत्वात् पुरुषस्य व्यापित्वात् प्रकृतेश्च। निरर्थकतत्सद्भावकल्पनस्य चाप्रमाणत्वात्। पुरुषस्य संसारयितृत्वं प्रकृतिसद्भावस्य फलम्। न च सत्त्वादिगुणरहिता परिशुद्धप्रकृतिर्मुक्तविषयेति वाच्यम् ; निर्गुणप्रकृतेरेवाभावात् निर्गन्धपृथिवीवत्। एवं प्रकृतिमुक्तस्य ब्रह्मभावाप्राप्तिश्च विरुद्धा, प्रकृतिविमोक्षेण तत्कार्यमहदादिसर्वोपाधिनाशात् , निरुपाधिकस्य चापरिच्छिन्नस्यात्मनः परिपूर्णचैतन्यरूपत्वेन ब्रह्मभूतत्वाच्च। यद्यात्मा सावयवः स्यात् तर्हि राहुणा चन्द्रस्येव प्रकृत्या तस्य ग्रासरूपो बन्धः स्यात्। तत्प्रयुक्तो मोक्षश्च स्यात्। सावयवत्वे चात्मनोऽनित्यत्वं स्यात्। अनित्यस्यात्मनो नित्यमोक्षो नैव युज्यते। किञ्च तव मते ईश्वरस्यैव प्रकृतिमोक्षो नास्तीति किं पुनर्जीवस्य। प्रकृतिपुरुषसंसृष्टो हीश्वरः। य ईश्वरः स्वस्यैव प्राप्तं प्रकृतिसङ्गं निवारयितुं नेष्टे, स कथमन्यस्य जीवस्य तं निराकुर्यात्? प्रकृतिमुक्तस्य वा जीवस्य प्रकृतिसंयुक्तेश्वरसङ्गो दुर्वार इतीश्वरद्वारा पुनः प्राप्तश्च मुक्तावपि जीवस्य प्रकृतिसङ्गः। पटसंयुक्तघटसंयोगाद् भूतलस्येव पटसङ्गः। न चेश्वरस्य यत्रांशे प्रकृतिसङ्गस्तत्रांशे न पुरुषसङ्गः, किन्त्वन्यांश एवेति वाच्यम् ; निरवयवेश्वरस्य निरंशस्यांशकल्पनायोगात्। सांशत्वे चानित्यत्वप्रसङ्गाद् घटादिवदीश्वरस्य। निष्कलश्रुत्या चेश्वरस्य सांशत्वं प्रतिषिद्धम् , असङ्गश्रुत्या च प्रकृत्यादिसङ्गम् ,‘एकमेवाद्वितीयम्’ इति श्रुत्या च प्रकृत्यादिद्वैतम् , तत्त्वमस्यादिश्रुत्या च जीवेश्वरद्वैतम् , अशब्दमिति सूत्रेण च प्रकृतेरज्ञानातिरिक्ततत्त्वान्तरत्वम्। ‘यो वै भूमा तदमृतम्’ इति श्रुत्या ब्रह्मण एकस्यैव नित्यत्वं सत्यत्वं च। ‘अतोऽन्यदार्तम्’ इत्यनया सर्वद्वैतस्यासत्यत्वमनित्यत्वं च। उक्तार्थप्रतिपादिकाः स्मृतयस्तु— ‘मत्तः परतरं नान्यत् किञ्चिदस्ति धनञ्जय’ इत्याद्याः इहैव ग्रन्थे द्रष्टव्याः। तस्माद् विरुद्धं परेषां दर्शनमग्राह्यमेव। श्रुतिस्मृत्याद्यनुगृहीतमद्वैतदर्शनमेकमेव ग्राह्यं मुमुक्षुभिरिति सर्वं शिवम्॥३४॥
इति श्रीबेल्लङ्कोण्डोपनामकरामकविकृते श्रीमच्छङ्करभगवद्गीताभाष्यार्कप्रकाशे प्रकृतिपुरुषविवेकयोगो नाम त्रयोदशोऽध्यायः॥१३॥
[[७३४]]
मध्वः …{Loading}…
मध्वः - मूलम्
MISSING
जयतीर्थः
MISSING
अभिनव-गुप्तः …{Loading}…
अभिनवगुप्तः - मूलम्
MISSING
शङ्करनारायणः
13.35 Yatha etc. But, how is it that a single Supreme Self pervades many a Field ? This doubt has even been removed by the well known example, the sun. The entire Field : It means [all] the movable and immovable Fields.
वल्लभः …{Loading}…
वल्लभः - मूलम्
MISSING
पुरुषोत्तमः
MISSING
श्रीधर-स्वामी …{Loading}…
MISSING
English …{Loading}…
आदिदेवानन्दः
MISSING
गम्भीरानन्दः
MISSING
पुरोहितस्वामी
MISSING
शङ्करनारायणः
13.35. Those who thus understand, with the knowledge-eye, the inner Soul of the Field and the Field-sensitizer and also the deliverance from the Material Cause of the elements-they attain the Supreme.
शिवानन्दः - अनुवादः
13.35 They who, by the eye of knowledge, perceive the distinction between the field and its knower and also the liberation from the Nature of being, go to the Supreme.
शिवानन्दः - टीका
13.35 क्षेत्रक्षेत्रज्ञयोः between the Kshetra and the Kshetrajna? एवम् thus? अन्तरम् distinction? ज्ञानचक्षुषा by the eye of knowledge? भूतप्रकृतिमोक्षम् the liberation from the Prakriti of being? च and? ये who? विदुः know? यान्ति go? ते they? परम् the Supreme.Commentary They who know through the eye of intuition opened by meditation and the instructions of the spiritual preceptor and the scriptures? that the field is insentient? the doer? changing and finite? and that the knower of the field (the Self) is pure consciousness? the nondoer? unchanging and infinite? and who also perceive the nonexistence of Nature? ignorance? the Unmanifested? the material cause of being – they attain the Supreme. Through the attainment of Selfrealisation or knowledge of the Self? they are entirely liberated from the clutches or the influence of Maya (delusion) and ignorance. They do not assume any more bodies. They are not born again. They attain Kaivalya Moksha.In accordance with the doctrine of the Sankhyas? bondage and freedom do not pertain to the Self because It is always unattached and it is the nondoer and nonenjoyer and also without limbs or parts. But on account of Its union with Nature? It assumes agency through superimposition. When ignorance is annihilated through the knowledge of the Self? Nature which is conjoined with the Self is liberated. Then She gives up Her play or dance in front of the Spirit. She has discharged all Her duties well for the sake of the enjoyment and the release (Bhoga and Apavarga) of the Purusha (Spirit). Therefore the Sankhyas declare that bondage and freedom are states of Nature only. Some interpret that the Self is emancipated from the shackles of Nature and Her modifications.(This chapter is known by the name PrakritiPurushaVibhagaYoga also.)Thus in the Upanishads of the glorious Bhagavad Gita? the science of the Eternal? the scripture of Yoga? the dialogue between Sri Krishna and Arjuna? ends the thirteenth discourse entitledThe Yoga of the Distinction BetweenThe Field and the Knower of the Field.
हिन्दी …{Loading}…
रामसुखदासः - अनुवादः
।।13.35।।इस प्रकार जो ज्ञानरूपी नेत्रसे क्षेत्र और क्षेत्रज्ञके अन्तर-(विभाग-) को तथा कार्य-कारणसहित प्रकृतिसे स्वयंको अलग जानते हैं, वे परमात्माको प्राप्त हो जाते हैं।
रामसुखदासः - टीका
।।13.35।। व्याख्या – [ज्ञानमार्ग विवेकसे ही आरम्भ होता है और वास्तविक विवेक(बोध) में ही समाप्त होता है। वास्तविक विवेक होनेपर प्रकृतिसे सर्वथा सम्बन्धविच्छेद होकर स्वतःसिद्ध परमात्माकी प्राप्ति हो जाती है – इसी बातको यहाँ बताया गया है।]क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा – सत्असत्? नित्यअनित्य? क्षेत्रक्षेत्रज्ञको अलगअलग जाननेका नाम,ज्ञानचक्षु (विवेक) है। यह क्षेत्र विकारी है? कभी एकरूप नहीं रहता। यह प्रतिक्षण परिवर्तित होता रहता है। ऐसा कोई भी क्षण नहीं है? जिसमें यह स्थिर रहता हो। परन्तु इस क्षेत्रमें रहनेवाला? इसको जाननेवाला क्षेत्रज्ञ सदा एकरूप रहता है। क्षेत्रज्ञमें परिवर्तन न हुआ है? न होगा और न होना सम्भव ही है। इस तरह जानना? अनुभव करना ही ज्ञानचक्षुसे क्षेत्रक्षेत्रज्ञके विभागको जानना है।भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् – वास्तविक विवेक अर्थात् बोध होनेपर भूत और प्रकृतिसे अर्थात् प्रकृतिके कार्यमात्रसे तथा प्रकृतिसे सम्बन्धविच्छेद हो जाता है। प्रकृतिसे सर्वथा सम्बन्धविच्छेद होनेपर अर्थात् प्रकृतिसे अपने अलगावका ठीक अनुभव होनेपर साधक परमात्मतत्त्वको प्राप्त हो जाते हैं।भगवान्ने पहले अव्यक्तकी उपासना करनेवालोंको अपनी प्राप्ति बतायी थी – ते प्राप्नुवन्ति मामेव (12। 4)? उसी बातको इस अध्यायके अठारहवें श्लोकमें मद्भावायोपपद्यते पदसे? तेईसवें श्लोकमें न स भूयोऽभिजायते पदोंसे और यहाँ यान्ति ते परम् पदोंसे कहा है।ज्ञानमार्गमें देहाभिमान ही प्रधान बाधा है। इस बाधाको दूर करनेके लिये भगवान्ने इसी अध्यायके आरम्भमें,इदं शरीरम् पदोंसे शरीर(क्षेत्र) से अपनी (क्षेत्रज्ञकी) पृथक्ताका अनुभव करनेके लिये कहा? और दूसरे श्लोकमें क्षेत्रक्षेत्रज्ञयोर्ज्ञानम् पदसे क्षेत्रक्षेत्रज्ञके ज्ञानको वास्तविक ज्ञान कहा? फिर क्षेत्रक्षेत्रज्ञकी पृथक्ताका कई तरहसे वर्णन किया। अब उसी विषयका उपसंहार करते हुए भगवान् अन्तमें कहते हैं कि क्षेत्रक्षेत्रज्ञकी पृथक्ताको ठीकठीक जान लेनेसे क्षेत्रके साथ सर्वथा सम्बन्धविच्छेद हो जाता है।क्षेत्रज्ञने ही परमात्मासे विमुख होकर परमात्मासे भिन्नता मानी है और क्षेत्रके सम्मुख होकर क्षेत्रसे एकता मानी है। इसलिये परमात्मासे एकता और क्षेत्रसे सर्वथा भिन्नता – दोनों बातोंको कहना आवश्यक हो गया। अतः भगवान्ने इसी अध्यायके दूसरे श्लोकमें क्षेत्रज्ञं चापि मां विद्धि पदोंसे क्षेत्रज्ञकी परमात्मासे एकता बतायी और यहाँ क्षेत्रकी समष्टि संसारसे एकता बता रहे हैं। दोनोंका तात्पर्य क्षेत्रज्ञ और परमात्माकी अभिन्नता बतानेमें ही है।जैसे किसी मकानमें चारों ओर अँधेरा है। कोई कह देता है कि मकानमें प्रेत रहते हैं? तो उसमें प्रेत दीखने लग जाते हैं अर्थात् उसमें प्रेत होनेका वहम हो जाता है। परन्तु किसी साहसी पुरुषके द्वारा मकानके भीतर जाकर प्रवेश कर देनेसे अँधेरा और प्रेत – दोनों ही मिट जाते हैं। अँधेरेमें चलते समय मनुष्य धीरेधीरे चलता है कि कहीं ठोकर न लग जाय? कहीं गड्ढा न आ जाय। उसको गिरनेका और साथ ही बिच्छू? साँप? चोर आदिका भय भी लगा रहता है। परन्तु प्रकाश होते ही ये सब भय मिट जाते हैं। ऐसे ही सर्वत्र परिपूर्ण प्रकाशस्वरूप परमात्मासे विमुख होनेपर अन्धकारस्वरूप संसारकी स्वतन्त्र सत्ता सर्वत्र दीखने लग जाती है और तरहतरहके भय सताने लग जाते हैं। परन्तु वास्तविक बोध होनेपर संसारकी स्वतन्त्र सत्ता नहीं रहती और सब भय मिट जाते हैं। एक प्रकाशस्वरूप परमात्मा ही शेष रह जाता है। अँधेरेको मिटानेके लिये तो प्रकाशको लाना पड़ता है? परमात्माको कहींसे लाना नहीं पड़ता। वह तो सब देश? काल? वस्तु? व्यक्ति? परिस्थिति आदिमें ज्योंकात्यों परिपूर्ण है। इसलिये संसारसे सर्वथा सम्बन्धविच्छेद होनेपर उसका अनुभव,अपनेआप हो जाता है।इस प्रकार ? तत्? सत् – इन भगवान्नामोंके उच्चारणपूर्वक ब्रह्मविद्या और योगशास्त्रमय श्रीमद्भगवद्गीतोपनिषद्रूप श्रीकृष्णार्जुनसंवादमें क्षेत्रक्षेत्रज्ञविभागयोग नामक तेरहवाँ अध्याय पूर्ण हुआ।।13।।
चिन्मयानन्दः
MISSING
तेजोमयानन्दः - अनुवादः
।।13.35।। इस प्रकार, जो पुरुष ज्ञानचक्षु के द्वारा क्षेत्र और क्षेत्रज्ञ के भेद को तथा प्रकृति के विकारों से मोक्ष को जानते हैं, वे परम ब्रह्म को प्राप्त होते हैं।।
-
द्र. ब्र.सू. १-४-१। ↩︎