विश्वास-प्रस्तुतिः …{Loading}…
अनादित्वान् निर्गुणत्वात्
परमात्मा ऽयम् अव्ययः।
शरीर-स्थोऽपि कौन्तेय
न करोति न लिप्यते॥13.32॥
मूलम् …{Loading}…
अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः।
शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते॥13.32॥
रामानुजः …{Loading}…
रामानुजः - मूलम्
॥13.31॥अयं परमात्मा देहान् निष्कृष्य स्वभावेन निरूपितः; शरीरस्थो ऽप्य् अनादित्वाद् अनारभ्यत्वाद् अव्ययः व्ययरहितः। निर्गुणत्वात् सत्त्वादिगुणरहितत्वात् न करोति न लिप्यते। देहस्वभावैर् न लिप्यते; न बध्यते। यद्यपि निर्गुणत्वान् न करोति; नित्यसंयुक्तः देहस्वभावैः कथं न लिप्यते इत्यत्र आह –
वेदान्तदेशिकः
॥13.32॥ आत्मनो नित्यत्वानित्यत्वापरिणामित्वादिभिरुक्तं वैधर्म्यं सहेतुकं स्थिरीकरोति – अनादित्वादिति श्लोकेन। आपेक्षिकपरमात्मत्वविषयेणअयं परमात्मा इत्यनेनाभिप्रेतमाह – देहान्निष्कृष्येत्यादिना। ज्ञानसङ्कोचरूपव्ययस्य देहादिप्रेरणरूपकर्तृत्वस्य च प्रत्यक्षादिसिद्धत्वात् कथमव्ययत्वादिः इत्यत्राह – स्वभावेन निरूपित इति। अनादित्वादित्यव्ययहेतुरुत्पत्तिराहित्यं विवक्षितमित्याहअनारभ्यत्वादिति। आरभ्यमाणमेव हि व्येतीति दृष्टमिति भावः। निर्गुणत्वात् इति सामान्येन ज्ञानादिगुणनिषेधपरिहारायाह – सत्त्वादिगुणरहितत्वादिति। एवं हेतुद्वयशक्त्यनुसारेण यथायोग्यं साध्यद्वयान्वयो दर्शितः। लेपशङ्काप्रतिषेधयोः सम्भावितविषययोरेव युक्तत्वात्; तत्सप्तधातु त्रिमलं द्वियोनिं चतुर्विधाहारमयं शरीरम् [गर्भो.1] इत्याम्नातस्य शरीरस्य पटादिषु पङ्कादेरिव संसर्गेण लेपकत्वस्वभावात्शरीरस्थोऽपि इत्यनेन सूचितमाह – देहस्वभावैरिति।
आदिदेवानन्दः
13.32 This ‘supreme self’ (Atman) has been defined as having a nature different from that of the body. While existing in the body, It is ‘immutable’, i.e., It is not liable to decay as It is ‘without a beginning,’ i.e., never created at any point of time. Because It is ‘free from Gunas,’ being devoid of Sattva and other Gunas of Prakrti, It neither acts nor gets tainted; It is not tainted by the alities of the body. Granted that the self being without Gunas, does not act; but how is it possible that the Atman is not tainted by Its constant association with the alities of the body; To this, Sri Krsna replies:
शङ्करः …{Loading}…
शङ्करः - मूलम्
॥13.32॥ –,अनादित्वात् अनादेर् भावोऽनादित्वम्;
आदिः कारणम्;
तद् यस्य नास्ति तद् अनादि।
यद् ध्य् आदिमत्
तत् स्वेनात्मना व्येति।
अयं त्व् अनादित्वान् निरवयव इति कृत्वा
न व्येति।
तथा निर्गुणत्वात्।
सगुणो हि गुणव्ययाद् व्येति,
अयं तु निर्गुणत्वाच्च न व्येतीति
परमात्मा ऽयम् अव्ययः नास्य व्ययो विद्यत इत्यव्ययः।
विश्वास-टिप्पनी
अत्रापि
निर्गुणं सत्त्वरजस्तमांसि गुणाः तैर् वर्जितं तत् ज्ञेयम्
इत्येव सङ्गच्छते??
यत एवमतो शरीरस्थोऽपि;
शरीरेष्वात्मन उपलब्धिर्भवतीति शरीरस्थ उच्यते
तथापि न करोति।
तद्-अकरणाद् एव
तत्-फलेन न लिप्यते। यो हि कर्ता स कर्मफलेन लिप्यते।
अयं त्वकर्तातो न फलेन लिप्यते इत्यर्थः॥
कः पुनर्देहेषु करोति लिप्यते च?
यदि तावद् अन्यो देही करोति लिप्यते च;
तत इदम् अनुपपन्नम् उक्तं क्षेत्रज्ञेश्वरैकत्वं -
“क्षेत्रज्ञं चापि मां विद्धि” (गीता 13।2)
इत्यादि।अथ नास्तीश्वराद् अन्यो देही;
कः करोति लिप्यते चेति वाच्यम्,
परो वा नास्तीति।
सर्वथा दुर्विज्ञेयं दुर्वाच्यं चेति भगवत्प्रोक्तम् औपनिषदं दर्शनं परित्यक्तं वैशेषिकैः साङ्ख्यार्हत-बौद्धैश् च।
तत्रायं परिहारो भगवता स्वेनैवोक्तः
“स्वभावस्तु प्रवर्तते” (गीता 5।14) इति।
अविद्या-मात्र-स्वभावो हि करोति लिप्यत इति व्यवहारो भवति;
न तु परमार्थत एकस्मिन् परमात्मनि तदस्ति।
अत एतस्मिन् परमार्थ-साङ्ख्य-दर्शने स्थितानां
ज्ञान-निष्ठानां परम-हंस-परिव्राजकानां तिरस्कृताविद्या-व्यवहाराणां
कर्माधिकारो नास्तीति
तत्र तत्र दर्शितं भगवता॥
किमिव न करोति न लिप्यत इत्यत्र दृष्टान्तम् आह –,
गम्भीरानन्दः
13.32 Anadivat, being without beginning: Adih means cause; that which has no cause is anadih. That which has a cause undergoes loss of its own characteristics. But this One, being causeless, has no parts. This being so, It does not suffer loss. So also, nirgunatvat, being without alities: indeed, It si only something possessing alities that perishes owing to the losss of its alities. But this One, being without alities, does not perish. Hence, ayam, this; paramatma, supreme Self; is avyayah, immutable. It suffers no depletion. Therefore It is immutable. Since this is so, therefore, api, although; sarira-sthah, existing in the body-since the perception of the Self occurs in the bodies, It is said to be ’existing in the body’; even then, It na, does not; karoti, act.
From the very fact that It does not act, It na, is not; lipyate, affected by the result of any action. For, one who is an agent of action becomes affected by its result. But this One is not an agent. Hence It is not affected by any result. This is the meaning.
Objection: Who is it, again, that acts in the body and becomes affected; On the one hand, if there be some embodied being other than the supreme Self who acts and becomes affected, then it has been improper to say in, ‘And also understand Me to be the Knower of the field,’ etc., that the Knower of the field and God are one. Again, if there be no embodied being who is different from God, then it has to be stated who is it that acts and gets affected. Or it has to be asserted that the supreme One does not exist. [If the supreme One also acts like us, then He is no God.]
Thus, since the Upanisadic philosophy as stated by the Lord is in every way difficult to understand and difficult to explain, it has therefore been abandoned by the Vaisesikas, the Sankhyas, the Jainas and the Buddhists. Reply: As to that, the following refutation has been stated by the Lord Himself in, ‘But it is Nature that acts’ (5.14). Indeed, Nature, which is nothing but ignorance, acts and becomes affected. In this way empirical dealing becomes possible; but in reality it does not occur in the one supreme Self. It has been accordingly shown by the Lord in various places that there is no duty to be performed by those who adhere to this philosophy of discriminating knowledge of the supreme Reality, who are steadfast in Knowledge, who have spurned actions arising out of ignorance, and who are mendicants belonging to the highest Order of monks. The Lord cites an illustration to show like what It does not act and is not affected:
हरिकृष्णदासः
॥13.32॥ एक ही आत्मा सब शरीरोंका आत्मा माना जानेसे; उसका उन सबके दोषोंसे सम्बन्ध होगा; ऐसी शंका होनेपर यह कहा जाता है –, आदि कारणको कहते हैं; जिसका कोई कारण न हो; उसका नाम अनादि है और अनादिके भावका नाम अनादित्व है यह परमात्मा अनादि होनेके कारण अव्यय है क्योंकि जो वस्तु आदिमान् होती है; वही अपने,स्वरूपसे क्षीण होती है। किंतु यह परमात्मा अनादि है; इसलिये अवयवरहित है। अतः इसका क्षय नहीं होता। तथा निर्गुण होनेके कारण भी यह अव्यय है क्योंकि जो वस्तु गुणयुक्त होती है; उसका गुणोंके क्षयसे क्षय होता है। परंतु यह ( आत्मा ) गुणरहित है; अतः इसका क्षय नहीं होता। सुतरां यह परमात्मा अव्यय है; अर्थात् इसका व्यय नहीं होता। ऐसा होनेके कारण यह आत्मा शरीरमें स्थित हुआ भीशरीरमें रहता हुआ भी कुछ नहीं करता है; तथा कुछ न करनेके कारण ही उसके फलसे भी लिप्त नहीं होता है। आत्माकी शरीरमें प्रतीति होती है; इसलिये शरीरमें स्थित कहा जाता है। क्योंकि जो कर्ता होता है वही कर्मोंके फलसे लिप्त होता है। परंतु यह अकर्ता है; इसलिये फलसे लिप्त नहीं होता; यह अभिप्राय है। पू₀ – तो फिर शरीरोंमें ऐसा कौन है जो कर्म करता है और उसके फलसे लिप्त होता है यदि यह मान लिया जाय कि; परमात्मासे भिन्न कोई शरीरी कर्म करता है और उसके फलसे लिप्त होता है तब तो क्षेत्रज्ञ भी तू मुझे ही जान इस प्रकार जो क्षेत्रज्ञ और ईश्वरकी एकता कही है; वह अयुक्त ठहरेगी। यदि यह माना जाय कि ईश्वरसे पृथक् अन्य कोई शरीरी नहीं है तो यह बतलाना चाहिये फिर कौन करता और लिप्त होता है अथवा यह कह देना चाहिये कि ( इन सबसे ) पर कोई ईश्वर ही नहीं है। ( बात तो यह है कि ) भगवान्द्वारा कहा हुआ यह उपनिषद्रूप दर्शन सर्वथा दुर्विज्ञेय और दुर्वाच्य है; इसीलिये वैशेषिक; साङ्ख्य; जैन और बौद्धमतावलम्बियोंद्वारा यह छोड़ दिया गया है। उ₀ – इसका उत्तर स्वभाव ही बर्तता है ऐसा कहकर भगवान्ने स्वयं ही दे दिया है क्योंकि अविद्यामात्र स्वभाववाला ही करता है; और लिप्त होता है; इसीसे यह व्यवहार चल रहा है। वास्तवमें अद्वितीय परमात्मामें वे ( कर्तापन और लिप्त होना आदि ) नहीं हैं। सुतरां इस वास्तविक ज्ञानदर्शनमें स्थित हुए ज्ञाननिष्ठ; परमहंस परिव्राजक संन्यासियोंका जिन्होंने अविद्याकृत समस्त व्यवहारका तिरस्कार कर दिया है; कर्मोंमें अधिकार नहीं है – यह बात जगहजगह भगवान्द्वारा दिखलायी गयी है।
आनन्दगिरिः
॥13.31॥ परिपूर्णत्वेन सर्वात्मत्वे प्राप्तमात्मनो देहादि तेन कर्तृत्वादिना तद्वत्त्वं दृष्टं हि पवित्रस्यापि पञ्चगव्यादेरपवित्रसंसर्गात्तद्दोषेण दुष्टत्वमित्याशङ्कामनूद्योत्तरत्वेन श्लोकमवतारयति – एकस्येति। अनादित्वमेव साधयति – आदिरिति। तथापि किं स्यादित्याशङ्क्य कार्यत्वकृतव्ययाभावः सिध्यतीत्याह – यद्धीति। तथापि गुणापकर्षद्वारको व्ययो भविष्यति नेत्याह – तथेति। निरवयवत्वादेव सावयवद्वारकस्य निर्गुणत्वाद्गुणद्वारकस्य च व्ययस्याभावेऽपि स्वभावतो व्ययः स्यादित्याशङ्क्याह – परमात्मेति। परमात्मनः स्वतः परतो वा व्ययाभावे फलितमाह – यत इति। स्वमहिमप्रतिष्ठस्य कथं शरीरस्थत्वं तत्राह – शरीरेष्विति। सर्वगतत्वेन सर्वात्मत्वेन च देहादौ स्थितोऽपि स्वतो देहाद्यात्मना वा न करोति कूटस्थत्वाद्देहादेश्च कल्पितत्वादित्यर्थः। कर्तृत्वाभावेऽपि भोक्तृत्वं स्यादित्याशङ्क्याह – तदकरणादिति। तंदेवोपपादयति – यो हीति। परस्य कर्तृत्वादेरभावे कस्य तदिष्टमिति पृच्छति – कः पुनरिति। परस्मादन्यस्य कस्यचिज्जीवस्य कर्तृत्वादीत्याशङ्कामनुवदति – यदीति। तस्मिन्पक्षे प्रक्रमभङ्गः स्यादिति दूषयति – तत इति। ईश्वरातिरिक्तजीवानङ्गीकारान्नोपक्रमविरोधोऽस्तीति शङ्कते – अथेति। तर्हि प्रतीतकर्तृत्वादेरधिकरणं वक्तव्यमिति पूर्ववाद्याह – क इति। परस्यैव कर्तृत्वाद्याधारत्वान्नास्ति वक्तव्यमित्याशङ्क्याह – परो वेति। नास्तीति वाच्यमिति पूर्वेण संबन्धः। नहि कर्तृत्वादिभाक्त्वे परस्यास्मदादिवदीश्वरत्वमिति भावः। परस्यान्यस्य वा कर्तृत्वादावविशिष्टे शरीरस्थोऽपीत्यादिश्रुतिमूलमपि ज्ञातुं वक्तुं चाशक्यत्वात्त्याज्यमेवेति परीक्षकसंमत्योपसंहरति – सर्वथेति। परस्य वस्तुनोऽकर्तुरभोक्तुश्चाविद्यया तदारोपादादेयमेव भगवन्मतमिति परिहरति – तत्रेति। तमेव परिहारं प्रपञ्चयति – अविद्येति। व्यावहारिके कर्तृत्वादाविष्टे पारमार्थिकमेव किं,नेष्यते तत्राह – नत्विति। वास्तवकर्तृत्वाद्यभावे लिङ्गमुपन्यस्यति – अत इति।
नीलकण्ठः
॥13.32॥ नन्वात्मनो विभुत्वेन रूपेण कर्तृत्वं मास्वीकारि देहाद्यवच्छिन्नेन तु रूपेण तद्वक्तव्यमन्यथानुभवविरोधादित्याशङ्क्याह – अनादित्वादिति। अयं सर्वेषां प्राणिनां नित्यापरोक्षः परमो देहादिभ्योऽपरमेभ्य आत्मभ्योऽन्यः कोशपञ्चकातीत आत्मा परमात्मा। अव्ययः न व्येति परिच्छिद्यते देशतः कालतो वस्तुतश्चेत्यव्ययः। अव्ययत्वे हेतुः – अनादित्वादिति। यद्धि आदिमदाकाशादि तद्व्येति न त्वयं व्येति अनादित्वात्। नन्वनादिभावस्यानन्त्यनियमेनात्मनः कालतः परिच्छेदो मास्तु। तथा देशतः परिच्छिन्नस्य नाशावश्यंभावादनादित्वायोगाच्च देशतोऽपि परिच्छेदो ब्रह्मणो मास्तु। ननु परमाणुवद्भविष्यतीतिचेन्न। दशदिगवच्छेद्यप्रदेशभेदवतो द्रव्यस्य निरवयवत्वरूपाणुत्वासिद्धेः। नहि परमाणोः पूर्वदिगवच्छिन्नो भागः पश्चिमया व्यवच्छेत्तुं शक्यते अनुभवविरोधात्। देशतः परिच्छेदाभावादेव सजातीयविजातीयवस्तुसद्भावकृतः,परिच्छेदोऽपि मास्तु तथापि विचित्रशक्तियुक्तस्याभिनवप्रपञ्चरचनापटीयसः परस्य सर्वेश्वरत्वसर्वज्ञत्वादिगुणयुक्तस्य स्वगतभेदोऽवश्यंभावी। स्वशक्तिमायावच्छिन्नेन रूपेण जगत्कर्तृत्वं देहावच्छेदेनाग्रिहोत्रादिकर्तृत्वं चावश्यं वक्तव्यमित्याशङ्क्याह – निर्गुणत्वादिति। यो हि गुणवानाकाशादिः सं संयोगं विभागं वोपाधिं प्राप्य स्वगुणं शब्दमाविष्करोति न तु स्वस्मिन्नसन्तं स्पर्शं केनचिदप्युपाधिना दर्शयितुमीष्टे। एवं आत्मा सर्वगुणहीनः सत्यप्यवच्छेदलाभे कर्तृत्वादिकं गुणमाविष्कर्तुं न समर्थ इति। फलितमाह – शरीरस्थोऽपीति। स्पष्टार्थमेतत्।
धनपतिः
॥13.32॥ नन्वेकस्यात्मनः सर्वत्र समवस्थितत्वेन देहादिगतकर्तृत्वादिमत्त्वं प्राप्तं पवित्रस्यापि गङ्गाजलादेः अपवित्रप्राण्युतरान्तरदोषेण दोषवक्त्ववदिति तत्राह – अनादित्वादीति। अयं परमात्माव्ययोऽपक्षयरहितः कूटस्थ इत्यर्थः। तत्र,व्ययस्त्रिविधः स्वभावतो वा; अवयवद्वारको वा गुणाद्वारको वा। स्वतस्तु परब्रह्मणो न संभवतीति कथयितुं परमात्मेत्युक्तम्। द्वितीयासंभवे हेतुमाह – अनादित्वादिति। आदिः कारणं नास्ति तदनादि। घटादेरादिमत्त्वेन सावयवत्वाद्य्वयो दृष्टः; आत्मनस्तवनादित्वेन निरवयवत्वादवयवद्वारको व्ययो न संभवतीत्यर्थः। तृतीयं निराकरोति – निर्गुणत्वादिति। तथा सगुणो गुणव्ययाद्य्वेति अयंतु निर्गुणत्वान्न व्येति। गुणद्वारकोऽस्य व्ययो न संभवतीत्यर्थः। यत एवमतः शरीरस्थोपि शरीरेष्वात्मन उपलब्धिधर्मवतीति शरीरस्थ उच्यते। सर्वगतत्वेन सर्वात्मत्वेन च देहादौ स्थितोऽपि स्वतो देहात्मना वा न करोति कूटस्थात्वाद्देहादेश्च तस्मिन्कल्पितत्वादित्यर्थः। कर्तृत्वाभावादेव कर्मफलेन न लिप्यते। कुन्त्युत्पन्नशरीरस्थस्यापि तव कर्तृत्वं लेपश्च नास्तीति संबोधनाशयः। ननु एवं यः शरीरस्थः करोति लिप्यते च स कः किमुक्तलक्षणादकर्तुरलिप्तादात्मनोऽन्यः किंचाऽनन्यः। नाद्यः तत्त्वमसि; क्षेत्रज्ञं चापि मां विद्धीति क्षेत्रज्ञेश्वरैकत्वप्रतिपादनानुपप्तिप्रसङ्गात्। द्वितीये परमात्मनः कर्तत्वाद्यभावेन प्रतीयमानस्य कर्तृत्वादेरधिकरणं वाच्यम्। तथाच सर्वथेदं दुरुपपादमितिचेन्न। स्वभावस्तु प्रवर्तत इत्यविद्यामात्रस्वभावो हि करोति लिप्यत इति व्यवहारदशायामाविद्यकस्य कर्तृत्वादेर्भगवतैव निरुपितत्वात्। एवंच प्रत्यगभिन्ने ब्रह्मण्याविधकं कर्तृत्वादि न पारमार्थिकमिति भगवता प्रोक्ते औपनिषदे परमार्थसाङ्ख्यदर्शने दुर्विज्ञयत्वात् साङ्ख्यवैसेषिकादिभिभ्रान्तिजन्यय पूर्वोक्तशङ्क्या परित्यक्ते स्थितानां ज्ञाननिष्ठानामविद्यापरिकल्पितकर्तृत्वाद्यपगमेन मोक्षप्राप्तिः नत्वन्यस्मिन् शुक्तिरुप्यकल्पे साङ्ख्यादिपरिकल्पितते निष्टावतामिति।
मधुसूदन-सरस्वती
॥13.32॥ आत्मनः स्वतोऽकर्तृत्वेऽपि शरीरसंबन्धादौपाधिकं कर्तृत्वं स्यादित्याशङ्कामपानुदन् यः पश्यति तथात्मानमकर्तारं स पश्यतीत्येतद्विवृणोति – अनादित्वादिति। अयमपरोक्षः परमात्मा परमेश्वराभिन्नः प्रत्यगात्मा अव्ययो न व्येतीत्यव्ययः। सर्वविकारशून्य इत्यर्थः। तत्र व्ययो द्विधा धर्मिणः स्वरूपस्यैवोत्पत्तिमत्तया वा; धर्मिस्वरूपस्यानुत्पाद्यत्वेऽपि धर्माणामेवोत्पत्त्यादिमत्तया वा; तत्राद्यमपाकरोति – अनादित्वादिति। आदिः प्रागसत्त्वावस्था। सा नास्ति सर्वदा सत आत्मनः अतस्तस्य कारणाभावाज्जन्माभावः। नह्यनादेर्जन्म संभवति। तदभावे च तदुत्तरभाविनो भावविकारा न संभवन्त्येव। अतो न स्वरूपेण व्येतीत्यर्थः। द्वितीयं निराकरोति – निर्गुणत्वादिति। निर्धर्मकत्वादित्यर्थः। नहि धर्मिणमधिकृत्य कश्चिद्धर्म उपैत्यपैति वा धर्मधर्मिणोस्तादात्म्यात्। ,अयं तु निर्धर्मकोऽतो न धर्मद्वारापि व्येतीत्यर्थः। अविनाशी वा अरेयमात्माऽनुच्छित्तिधर्मा इति श्रुतेः। यस्मादेष,जायतेऽस्ति वर्धते विपरिणमतेऽपक्षीयते विनश्यतीत्येवं षड्भावविकारशून्यः आध्यासिकेन संबन्धेन शरीरस्थोपि तस्मिन्कुर्वत्ययमात्मा न करोति। यथाध्यासिकेन संबन्धेन जलस्थः सविता तस्मिंश्चलत्यपि न चलत्येव तद्वत्। यतो न करोति किंचिदपि कर्म अतः केनापि कर्मफलेन न लिप्यते यो हि यत्कर्मकरोति स तत्फलेन लिप्यते न त्वयम्। अकर्तृत्वादित्यर्थः। इच्छा द्वेषः सुखं दुःखमित्यादीनां क्षेत्रधर्मत्वकथनात् प्रकृत्यैव च कर्माणि क्रियमाणानीति मायाकार्यत्वव्यपदेशाच्च। अतएव परमार्थदर्शिनां सर्वकर्माधिकारनिवृत्तिरिति प्राग्व्याख्यातम्। एतेनात्मनो निर्धर्मकत्वकथनात्स्वगतभेदोपि निरस्तः। प्रकृत्यैव च कर्माणीत्यत्र सजातीयभेदो निवारितः; यदा भूतपृथग्भावमित्यत्र विजातीयभेदः; अनादित्वान्निर्गुणत्वादित्यत्र स्वगतो भेद इत्यद्वितीयं ब्रह्मैवात्मेति सिद्धम्।
रामरायः - ३२
अनादित्वादिति। सर्वदेहात्मत्वे सर्वेषां देहानां भूतानामात्मत्वे अन्तरात्मत्वे सति, तदन्तःस्थितौ सत्यामित्यर्थः। तेषां भूतानां ये दोषाः सुखदुःखादिविकारास्तेषां सम्बन्धे आत्मनः प्राप्ते सति अनादित्वादितीदं पद्यमुच्यते। आदिमत् कार्यमित्यर्थः। तद् घटादिरूपं कार्यं स्वेनात्मना स्वस्वरूपेण व्येति विकारमाप्नोति, घटादेः कपालत्वादिप्राप्तिरूपविकारदर्शनादिति भावः। यदादिमत् तद् व्येति सावयवत्वाद् यथा घटः। अनादिमानात्मा तु न व्येति, निरवयवत्वात्। आदिमत्त्वसावयवत्वविकारित्वानां न क्वापि वैयधिकरण्यलक्षणो व्यभिचारः। यत् सावयवं वस्तु तस्यावयवसङ्कोचविकासाद्यात्मकः स्वरूपविकारः स्यात् , स कथं निरवयवस्य? यच्च सावयवं वस्तु तस्य द्व्यणुकत्र्यणुकादिक्रमेणोत्पत्तिः स्यात् , सा चोत्पत्तिः कथं निरवयवस्य? तस्मान्निरवयवस्यात्मनो न कार्यत्वं, नापि विकारित्वम् , सावयवस्यैव देहादेस्तदुभयमपीति कृत्वा अनादित्वादित्यनेन निरवयवत्वं तत्पूर्वकं निर्विकारत्वं चात्मनः सिद्धमित्यभिप्रायः। एतेनाकाशादिलक्षणं यत्किञ्चिज्जायमानं वस्तु तत् सर्वं सावयवमेव, सादित्वादिति सिद्धम्। सूक्ष्मावस्थावस्थितद्रव्यस्य स्थूलावस्था- प्राप्तिरेवोत्पत्तिर्बीजाङ्कुरवन्मृत्पिण्डघटवच्च। सा चावयवविकासं विना न घटत इति कृत्वा यत् कार्यं तत् सावयवमिति व्याप्तेर्न क्वापि व्यभिचारः।
ननु कार्येऽप्याकाशे निरवयवत्वदर्शनादस्ति व्यभिचारः। उक्तं हि भाष्यकृद्भिरेव—आकाशवन्निरवयवत्वादिति चेत् , मैवम् ; निर्धान्ये घटे यावानाकाशोऽस्ति तावानाकाशस्तस्मिन्नेव सधान्ये घटे न दृश्यते, तस्मिन्नेव पुनर्धान्यपरिपूर्णे घटे नैवोपलभ्यते कियानप्याकाशः। अयं चोपलभ्यमानो घटाकाशस्य सङ्कोचनाशादिराकाशावयवनाशं विना न घटते। तस्मात् सावयव एवाकाशः। एवं मठाकाशोऽपि सावयव एव। निर्जने मठे यावनाकाशस्तावान् न हि सजने तस्मिन्नेव मठे उपलभ्यते। तथा महाकाशोऽपि सावयव एव। गृहादिरहिते बहिर्यावानाकाश उपलभ्यते तत्रैव बहिर्गृहादिनिर्माणे सति तावत आकाशस्यानुपलम्भात्। न चावकाशस्यैव वृद्धिक्षयौ नाकाशस्येति वाच्यम् ; अवकाशातिरिक्तस्याकाशस्यैवादर्शनात्। एवं सावयवत्वादेव ‘आत्मन आकाशः सम्भूतः’ इति सम्भवश्रवणमाकाशस्योपपद्यते। न च भाष्यविरोधः, मतान्तराभिप्रायेण तद्वचनस्योपपत्तेः। कथमन्यथा घटादिभिराकाशस्य परिच्छेदः स्यात्? घटादयो हि स्वावयवैराकाशमाक्रम्य तत्राकाशबुद्धिं निरस्य घटादिबुद्धिं जनयन्ति। अत एव हि घटादीनामाकाश- परिच्छेदकत्वम्। न चैवमात्मनोऽप्यहङ्कारादिपरिच्छेदसत्त्वात् सावयवत्वमेवेति वाच्यम् ; यदि सर्पेण रज्जोः परिच्छेदः स्यात् , तर्हि अहङ्कारादिभिः स्यादात्मनोऽपि परिच्छेदः। न हि सर्प इव कालत्रयेऽप्यस्त्यात्मन्यहङ्कारादिकं जगत् , येन जगता परिच्छेदः स्यादात्मनः। अत एव हि जगतो मिथ्यात्वं ब्रवीति श्रुतिः – ‘अतोऽन्यदार्तम्’ इति।
न हि मिथ्यावस्तुना सत्यवस्तुनः कोऽपि परिच्छेदादिः सम्भवति, मृगतृष्णोदकेन भूमेः पङ्किलत्वादर्शनात्। अत एव ‘एकमेवाद्वितीयं ब्रह्मे’ति श्रुतिरुपपद्यते। तस्मादपरिच्छिन्नो निरवयवोऽनादिरविकार्येवात्मा। गगनादिकं तु परिच्छिन्नं सावयवं सादि सविकारं च। न च महाकाशोऽपरिच्छिन्न एवेति वाच्यम् ; घटमठादिभिः परिच्छेदाभावेऽपि महाकाशस्य ब्रह्माण्डकर्परपरिच्छेदो ऽस्त्येव। भूतलमारभ्य ब्रह्माण्डोर्ध्वकर्परपर्यन्तं व्याप्य वर्तमानो ह्याकाशो महाकाशः इत्युच्यते। तस्माद् भूतलब्रह्माण्डोर्ध्वकर्पराभ्यां परिच्छिन्न एव महाकाशः। एवं परिच्छिन्नत्वादेव सावयवः। एवं सावयवत्वादेव सादिः। एवं सादित्वादेव सविकारश्च। अत एव दृश्यत्वमनात्मत्वं चाकाशस्य। अन्यथा आकाश एव स्यादात्मा आधुनिकाचलमतरीत्येति सङ्क्षेपः।
नन्वेवं सावयवत्वे सत्याकाशस्य घटादिभिः संयोगः स्यादेव तस्येति कथमुक्तमाकाशस्य न घटादिसंयोगः इति? कथं वा घटसंयुक्त आकाश इति, आकाशसंयुक्तो वा घट इति व्यवहाराभावः, भूतलं घटसंयुक्तमितिवदिति चेद्? उच्यते— आकाशस्य सूक्ष्मत्वात् तदवयवा अप्यतिसूक्ष्माः इति तेषामाकाशावयवानां घटावयवसंयोगो दुर्विज्ञेयः। एवमाकाशावयवानां तत्संयोगस्य च दुर्विज्ञेयत्वादेव सावयव आकाशः इति, घटसंयुक्त आकाशः इति वा न लोकव्यवहारः। अमुमेव लोकव्यवहारमाश्रित्य आकाशवन्निरवयवत्वादित्युक्तमाचार्यैः। लोकप्रसिद्धं हि दृष्टान्ततया वक्तव्यम्। शास्त्रदृष्ट्या तु सावयव एवाकाशः। घटादिभिस्तस्य परिच्छेददर्शनादिति।
[[७२७]]
नन्वेवं निरवयवस्यात्मनः क्षेत्रसंयोगो नास्तीत्यत्र 1किं दृष्टान्तम्? न हि दृष्टान्तशून्योऽर्थो ग्राह्यः। न ह्यात्मनोऽन्यन्निरवयवं किञ्चिदस्ति, यस्य दृष्टान्तत्वेन स्वीकार्यत्वं स्यादिति चेत् , मैवम् ; अन्वयदृष्टान्ताभावेऽपि व्यतिरेकदृष्टान्तसत्त्वेन तदर्थस्य ग्राह्यत्वात्। आत्मनः क्षेत्रसंयोगो नास्ति, निरवयवत्वाद् , व्यतिरेकेण घटादिवदिति प्रयोगसिद्धेः। एवमन्वयदृष्टान्ताभावादेव ‘न तत्समो ऽस्त्यभ्यधिकः कुतोऽन्यः’ इति श्रुत्युपपत्तिः[स्मृत्युपपत्तिः]। ननु स्वरूपतो विकाराभावेऽप्यात्मनो गुणतो विकारः स्यादत आह— निर्गुणत्वादिति। नीलगुणवतश्चूतफलादेः परिणामावस्थायां नीलगुणनाशपूर्वकपीतगुणाविर्भावरूपगुणविकारो दृश्यते। तथा काठिन्यगुणतस्तण्डुलसञ्चयस्य पाकवशात् काठिन्यगुणनाशपूर्वकमृदुत्वगुणाविर्भावरूपगुणविकारो दृश्यते। तथा निद्रादशायां तमोगुणवतोऽन्तःकरणस्य प्रबोधे तमोगुणनाशपूर्वकरजोगुणाविर्भावरूपगुणविकारो दृश्यते। एवं यस्य कस्यापि गुणस्य क्षेत्रज्ञे ऽभावान्न विकारित्वप्रसङ्गस्तस्येति भावः। व्यय इति। विकारः इत्यर्थः। अयं परमात्माऽव्ययः, अनादित्वान्निर्गुणत्वाच्च। यद्धि सादि सगुणं च तद् विक्रियते, यथा घटः इति। यद्वा अयं परमात्मा स्वरूपतोऽविक्रियः, अनादित्वाद् , व्यतिरेकेण घटवत्। अयं परमात्मा गुणतश्चाव्ययः, निर्गुणत्वाद् , घटवदिति। यत एवमव्ययः परमात्मा तत इति शेषः। शरीरस्थ इति। ननु सर्वत्रावस्थितस्यात्मनः कथं शरीर एव स्थितिरत आह— शरीरेष्विति। उपलब्धिः साक्षात्कारः। बुद्धौ खलु विदुषामात्मसाक्षात्कारः। सा च बुद्धिः सूक्ष्मशरीरभूता स्थूलशरीरस्था चेति बुद्धिस्थस्यात्मनः शरीरस्थत्वव्यपदेश इति भावः। केन न लिप्यते? अत आह— तत्फलेनेति। न लिप्यते न सम्बध्यत इत्यर्थः। कर्तुरेव कर्मफलसङ्गरूपो लेपः, न त्वकर्तुः। न ह्येकस्मिन् भोजनादिकर्म कुर्वति सति तस्मादन्योऽकर्ता तत्फलेन क्षुधापनयनादिना लिप्यते। तस्मादकर्तुरात्मनो न कर्मफललेपः।
एवं कर्मफललेपाभावादेव निर्विकारत्वमात्मनः। न हि कर्मफलमननुभवतो भवेद् विकारित्वं क्वापि, सुखदुःख- कामक्रोधजन्मवृद्ध्यादीनां कर्मफलानामनुभवस्यैव विकारत्वात्। तस्मादविकारित्वादात्मनो न कर्मकर्तृत्वं तत्फलभोक्तृत्वं वा सम्भवति, विरोधात्। ततश्चाकर्तुरविकारस्यात्मनः शरीरादिदोषसम्बन्धप्रसक्तिर्नास्ति। सति दोषसम्बन्धे आत्मनः सविकारत्वप्रसङ्गात्। सति चाकर्तृत्वे आत्मनः शरीरादिकर्मकृतदोषसम्बन्धायोगाच्च। तस्मादकर्ताऽभोक्ता निर्विकारो निर्गुणोऽनादिरेकः आत्मेति सिद्धान्तः।
ननु यदि देहस्थः आत्मा न करोति, लिप्यते न च, तर्हि कोऽन्यो देहेऽस्मिन्नहं कर्ता सुखादिभोक्ता चेत्यभिमन्यमानः? इत्याक्षिपति— कः पुनरिति। किं देहेऽकर्तुरभोक्तुश्चात्मनः कश्चिदन्यो देही विद्यते, उत न? आद्ये - ‘क्षेत्रज्ञं चापि मां विद्धी’- त्यादिशास्त्रविरोधः। द्वितीये तु - अनुभवविरोध इति भावः। तस्मात् पर ईश्वरादन्यः संसारी जीवो नास्तीति न वाच्यम् ; ईश्वरस्य संसारित्वायोगात्। उपलभ्यमानसंसारस्य दुरपलापत्वेनेश्वराद् भिन्नस्य संसारिणो जीवस्यावश्यमभ्युपगन्तव्यत्वाच्चेति भावः। एवं पूर्वपक्षयद्भिर्वैशेषिकैः साङ्ख्यैर्हतबौद्धैश्च भगवत्प्रोक्तमौपनिषदं दर्शनं परित्यक्तमित्यन्वयः। वैशेषिकाः सगुणमीश्वराद्भिन्नं चात्मानं वदन्ति। साङ्ख्यास्तु नास्त्येश्वरः इति वदन्ति। दैवादज्ञानाद्वा हताः नाशिताः पुरुषार्थाद् भ्रंशिता बौद्धास्तु देहमेवात्मानं वदन्ति। तस्मादमीभिः श्रीकृष्णेन सर्वज्ञेश्वरेण भ्रमप्रमादादिदोषगन्धशून्येन प्रोक्तम् उपनिषत्सम्मतं च दर्शनं ज्ञानं मतमिति वा, जीवेश्वराभेद- रूपमिति भावः; परित्यक्तमेव। दर्शितपूर्वपक्षस्य स्वयं समाधानमनुपलभमानत्वादिति भावः। किमिति परित्यक्तम्? अत आह— सर्वथेति। दर्शनमिति 2कर्तुरत्रान्वयः। दर्शनं सर्वथा दुर्विज्ञेयं विज्ञातुमशक्यम्। ननु स्वदुर्विज्ञेयत्वमात्रेण किं दर्शनं दुष्यतीत्यत आह— दुर्वाच्यं चेति। वक्तुमशक्यमित्यर्थः। अस्मिन् दर्शने दर्शितपूर्वपक्षस्य समाधानमस्माकं स्वयं दुर्विज्ञेयं, समाधाता चान्यो नास्ति, समाधानस्य दुर्वचत्वात्। अत एव दर्शनमपि दुर्विज्ञेयं दुर्वाच्यं चेति भावः। यद्वा परो नास्तीति न वाच्यम्। ननु कुतो न वाच्यम् ; सुवचमेव परो नास्तीत्यत आह— सर्वथेति। अस्य समाधानमिति शेषः। दर्शितपूर्वपक्षस्य समाधानमस्माकं दुर्विज्ञेयम् अन्यस्य च दुर्वाच्यं च। इति मत्वेति शेषः। वैशेषिकादिभिर्दर्शनं परित्यक्तमित्यन्वयः।
[[७२८]]
ननु किं वैशेषिकाद्यभिमतरीत्या नास्त्यत्र परिहारः अत आह— तत्रेति। उक्तपूर्वपक्ष इत्यर्थः। परिहारमेव भगवदुक्तं दर्शयति— स्वभाव इति। तमेव विवृणोति— अविद्येति। अविद्या अज्ञानम् , तदेवाविद्यामात्रम् , तदेव स्वभावोऽविद्यामात्रस्वभावः। अविद्यामात्रमित्यर्थः। स्वभावशब्दस्येहाविद्येत्यर्थ इति भावः। परमात्मनः स्वभावभूतत्वादविद्यायाः। करोति कर्म, लिप्यते च तत्फलेनेति हेतोरहं कर्ताऽहं भोक्तेति व्यवहारो भवति। कर्ताऽहं भोक्ताऽहमित्यनुभवसिद्धः कर्तृत्वभोक्तृत्वलक्षणः संसारः परमात्मनो ऽविद्याकृत एवेत्यर्थः। स्वभावस्त्विति तुशब्दार्थमाह— न त्विति। तदिति कर्तृत्वं भोक्तृत्वं चेत्यर्थः। न त्वस्तीत्यन्वयः।
अयं भावः - किमविद्यावस्थायां देहे कः करोति लिप्यते चेति त्वं पृच्छसि? उत विद्यावस्थायाम्? आद्ये - अविद्यया आत्मनि कल्पितस्य साभासाहङ्कारस्य कर्तुर्भोक्तुश्च सत्त्वाद् यावदविद्यं जीवेश्वरभेदस्यास्माभिः स्वीकृतत्वादस्त्येवेश्वराद् भिन्नो जीवः संसारी आत्माहङ्कारान्योन्याध्यासलक्षणः कर्ताऽहं भोक्ताऽहमित्यभिमन्यमानः। तदाश्रयश्च सर्वोऽपि व्यवहार इति नाज्ञानुभवविरोधः। न हि प्राज्ञस्य कर्ताऽहं भोक्तेत्यनुभवः। किन्त्वज्ञानामेव। अज्ञविषया ह्यविद्यावस्था। अस्यां चावस्थायां भगवता न जीवेश्वरैक्यमुच्यत इति न गीताशास्त्रस्याविद्वदनुभवस्य च परस्परं विरोधः, विभिन्नविषयत्वात्। क्षेत्रज्ञं चापीत्यादिकं हि विद्यादशावस्थितं जीवेश्वराद्वैतं ब्रूते। तस्मादविद्यावस्थायां देहे देही करोति, लिप्यते च। द्वितीये - न कोऽपि करोति लिप्यते च, विद्यया अविद्यायां नाशितायां तत्कृताध्या- सस्यापि नाशादसंसारीश्वर एव जीव इति। कर्तारं भोक्तारं च अहङ्कारमात्मन्यध्यस्य हि कर्ताऽहं भोक्ताऽहमित्यभिमन्यतेऽज्ञः। अध्यासाभावे कथं कर्तृत्वादिकम्? सुषुप्तौ जीवस्याध्यासाभावेन संसारादर्शनात्। अयं चाध्यासोऽज्ञानमूल इति नष्टेऽज्ञाने ज्ञानेन, कथमध्यासः स्यात्? तस्मान्नास्ति विद्यावस्थायां कर्ता भोक्ता चेश्वरादन्यो जीवः। किन्त्वकर्त्रभोक्त्रीश्वर एव जीवः। न चानुभवविरोधः, कर्ताऽहं भोक्तेति विद्वदनुभवाभावात्। न चाविद्वदनुभवविरोधः, अविद्यादशाविषयत्वादविद्वदनुभवस्य। न हि विभिन्नविषययोर्बाधः, विद्वदनुभव एव विद्यादशाविषयः, विद्याविद्यादशयोर्भेदात्। विदुषां चाविद्यादशाऽयोगादविदुषां च विद्यादशाऽयोगात्। इमामेव दशामधिकृत्य ‘क्षेत्रज्ञं चापि मां विद्धी’ति गीताशास्त्रं प्रवर्तितं भगवता। तस्मात् परमार्थतोऽसंसारीश्वर एव जीवः। अज्ञानात्तु जीवः संसारी भिन्न ईश्वरादिति मूढानां व्यवहारः। यथा परमार्थतो नीरूपमेव गगनम् ; बालानां त्वज्ञानान्नीलं गगनमिति व्यवहार इति।
[[७२९]]
अत एवेति। परमार्थत आत्मनि कर्तृत्वाद्यभावादेवेत्यर्थः। एतस्मिन्निति। प्रकृतगीताशास्त्रोक्त इत्यर्थः। परमार्थसाङ्ख्यदर्शन इति। साङ्ख्यं द्विविधं परमार्थसाङ्ख्यमपरमार्थसाङ्ख्यं चेति। कपिलेन देवहूतये प्रोक्तं तत्त्वमसीत्याद्युपनिषत्सिद्धं च जीवेश्वराभेद- विषयमात्मज्ञानं परमार्थसाङ्ख्यम्। तदेवेहाप्युच्यते। तत्त्वसङ्ख्यानात्मकं निरीश्वरं साङ्ख्यं त्वपरमार्थम्। तत्र यत् परमार्थसाङ्ख्यरूपं दर्शनं मतमद्वैतमिति यावत्। ज्ञानमिति वा। तत्र स्थितानामत एव ज्ञाननिष्ठानां ज्ञाने ब्रह्मात्मदर्शन एव निष्ठा नितरां सर्वदा स्थितिर्येषां तेषाम् , अत एव तिरस्कृतः सर्वोऽपि कर्तृत्वादिलक्षणोऽविद्याव्यवहारो यैस्तेषां विद्यया नाशितत्वादविद्यायास्तत्प्रयुक्तस्य सर्व- व्यवहारस्यापि तिरस्कारो लोप इति यावत्। परमहंसपरिव्राजकानां कुटीचकबहूदकहंसपरमहंसाख्यचतुर्विधपरिव्राजकमध्ये तुरीयाणां संन्यासिनामित्यर्थः। 3 एतेन कुटीचकादीनां दण्डकमण्डलुतर्पणादिलक्षणं किञ्चित् कर्मास्तीति सूचितम्। कर्माधिकारो नास्तीति। अनेनासंन्यस्तानां श्रौतस्मार्तविहितकर्मपरित्यागो नरकावह इति सूचितम् , तेषां तत्राधिकारसत्त्वात्। येषां यत्राधिकारः, तैस्तत्रावश्यं प्रवर्तितव्यम् , अन्यथा नरकादिदुःखं स्यात्। यथा येषां मन्त्रिभृत्यादीनां यत्र मन्त्रसेवादौ राजविहिते कर्मण्यधिकारः, तैस्तत्र प्रवर्तितव्यम् , अन्यथा राजदण्डदुःखं स्यात् , तद्वदिति भावः। भगवतेति। य एव प्रवृत्तिलक्षणं निवृत्तिलक्षणं च मार्गद्वयं निर्माय, तच्च वेदेन प्रकाश्य, तदनुविधायिभ्यो भक्तेभ्योऽभ्युदयं निःश्रेयसं च फलं वितरन् , तदननुविधायिनो नरकपातनादिना शिक्षयन् सर्वेश्वरः सर्वनियन्ता सर्वज्ञः सर्वविच्च भवति, यस्माद् भीत्यैव ‘भीषाऽस्माद्वातः पवते’ इत्यादिश्रुत्युक्तविधया वातसूर्यचन्द्राग्नीन्द्रब्रह्मादयः स्वं स्वमधिकारं निर्वर्तयन्ति, यस्माद् भीत्या मृत्युरपि धावति, तेन भगवता दर्शितमिदं शास्त्रं केनापि नातिवर्तनीयमित्यभिप्रायाद् भगवता दर्शितमित्युक्तम्। तत्रतत्रेति। ‘वेदाविनाशिनम्’ इत्यादिप्रकरणेष्वित्यर्थः।
यत्तु रामानुजः - अयं परमात्मा देहान्निष्कृष्टस्वभावेन निरूपितः शरीरस्थोऽप्यनादित्वादनारभ्यत्वादव्ययो व्ययरहितः। निर्गुणत्वात् सत्त्वादिगुणरहितत्वान्न करोति, न लिप्यते देहस्वभावैर्न लिप्यते इति, तत्तुच्छम् - देहाद्यपेक्षयैवास्य परमात्मत्वम् , न त्वीश्वरापेक्षया। प्रत्युत ईश्वर एव जीवात्मापेक्षया परमात्मेति धिगस्य दर्शनम्। किं भगवतो व्यासस्य जीवात्मानं निरूपयिष्यतः प्रत्यगात्मेति जीवात्मेति वा पदं नास्फुरद् येन परमात्मेत्यसकृद् ब्रूयादपरमात्मानम्? किं वा प्रत्यगात्मेति जीवात्मेति वा कथने जीवस्य देहाद्यपेक्षया न सिध्यत्युत्कर्षः? देहापेक्षया जीवस्योत्कृष्टत्वं बौद्धातिरिक्तसर्वजनविदितमेवेति किं तत्प्रतिपादनेन फलं वा? न करोतीति पदसन्निधानसामर्थ्याद् न लिप्यत इत्यस्य कर्मफललेपेऽर्थे सिद्धे तं विहाय देहस्वभावैरिति कथं स्वकपोलकल्पितम्? देहान्निष्कृष्टस्वभावस्य देहस्वभावालेपः सिद्ध एवेति किमर्थं तद्वचनम्? न हि गृहस्थस्य गृहस्वभावलेपः प्राप्नोति, येन शरीरस्थस्य शरीरस्वभावलेपः प्राप्नोतीति तत्प्रतिषेधाय देहस्वभावैर्न लिप्यत इति वक्तव्यं स्यात्। न ह्यप्राप्तप्रतिषेधो न्याय्यः।
[[७३०]]
यच्च वेदान्तदेशिकः - ज्ञानसङ्कोचरूपव्ययस्य ज्ञानादिगुणानां देहादिप्रेरणरूपकर्तृत्वस्य चात्मनि सत्त्वादिति, तदप्ययुक्तम् - ज्ञानसङ्कोचादिसत्त्वेऽविकारत्वहानेः। न हि स्वरूपत एव विकाराभाव आत्मनः, न तु धर्मत इति सङ्कोचः कल्पयितुमुचितः। तथा सति पक्षेणाविकारत्वमिव पक्षेण सविकारत्वप्रसङ्गात्। न हि श्रुतिः क्वाप्यात्मानं सविकारं ब्रूते, सविकारत्वे सति अनित्यत्वापत्तेः। ज्ञानेच्छादयोऽन्तःकरणगुणा एव, न त्वात्मनः इति प्रागेव स्थापितम्। सत्त्वादिगुणप्रयुक्ताश्च ज्ञानादिगुणाः। ‘तत्र सत्त्वं निर्मलत्वात् प्रकाशकम्’ इत्यादेर्वक्ष्यमाणत्वात्। मूलभूतसत्त्वादिगुणनिषेधे कथं तत्कार्यभूतज्ञानादिगुणवत्त्वमात्मनः स्यात्? न कथमपि। यद्यात्मनः प्रेरणकर्तृत्वं स्यात् , तर्हि न करोतीत्ययुक्तं स्याद् वचनम्। न हि प्रेरणं कुर्वन्नात्मा न करोतीत्युच्येत। न हि न करोतीत्यस्य प्रेरणादेरन्यन्न करोतीति सङ्कोचः कल्पयितुमुचितः। तथा सति देहोऽपि न करोतीति वक्तुं शक्यत्वात्। न हि देहेनापि सर्वं कर्म क्रियते पर्वतोत्क्षेपणवायुस्तम्भनादेरशक्यत्वाद् देहस्य। न चैवमात्मनः प्रेरकत्वाभावेऽन्तर्यामिश्रुतिविरोध इति वाच्यम् ; अयस्कान्तशिला- लोहन्यायेनाकर्तुरप्यात्मनः सकाशाच्छरीरादिप्रेरणसम्भवात्। न ह्यस्मद्धृदि यः कोऽपि ‘त्वमेवं कुरु’ इति प्रेरणं कुर्वन्नुपलभ्यते। नापि करणरहितस्येश्वरस्य प्रेरणमपि सम्भवति, करणव्यापारत्वात् प्रेरणस्य वाचिकादिरूपस्य। अथवा आत्माश्रया मायैव प्रेरयति देहादिकम्। तच्च मायाकर्तृकं प्रेरणमात्मन्युपचर्यतेऽज्ञानात्। यथा देहे गच्छति सति देही गच्छतीति। एवं भूतानि मायायां प्रेरयन्त्यां सत्यां मायी प्रेरयतीश्वरः इति व्यवहारः। इदमेव वक्ष्यति भगवानिहैव गीताशास्त्रे— ‘भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायये’ति। न च माया करणमेव भ्रामणं प्रति, न कर्त्री, किन्त्वीश्वर एव कर्तेति वाच्यम् ; ‘न तस्य कार्यं करणं च विद्यते’ इति शास्त्रादीश्वरस्य करणरहितत्वात्। माया हीश्वरस्य शक्तिः, न तु करणम्। न ह्यग्निशक्तिरग्नेः करणम्। तस्मादीश्वरशक्तिभूतमायानिष्ठं प्रेरणरूपं कर्म ईश्वरेऽध्यस्तमिति नेश्वरः प्रेरणकर्ता। किन्त्वकर्तैवेश्वरः आत्मा। ‘प्रकृत्यैव च कर्माणी’ति ह्युक्तम्। यद्यत् कर्मतया प्रसिद्धं लोके, यो यश्च गुणतया प्रसिद्धस्तत्सर्वमपि प्रकृतिगतमेव। अत एव ‘केवलो निर्गुणश्च, निष्कलं निष्क्रियं शान्तम्’ इत्यादिश्रुत्युपपत्तिः। न च देहाद्याकारपरिणतप्रकृतिकार्यमेव कर्म, न मूलप्रकृतिकार्यमिति वाच्यम् ; गमनादिकर्मणां परिणतप्रकृतिकार्यत्वेऽपि प्रेरणरूपं कर्म मूलप्रकृतिकार्यमेवेति। तत्र च देहप्रेरणमिन्द्रियाकारप्रकृतिकार्यम् , इन्द्रियप्रेरणं मनःप्रकृतिकार्यम् , मनःप्रेरणं च बुद्धिप्रकृतिकार्यम् , बुद्धिप्रेरणं च मायाकार्यमिति मायायाः परमप्रेरकत्वं सिध्यति। न च - जडायाः मायायाः कथं प्रेरकत्वम्? तद्धि चेतनधर्म इति - वाच्यम् ; ईश्वरचैतन्याभाससत्त्वेन मायायास्तदुपपत्तेः। तस्माद् मायाद्वारेणैव प्रेरकत्वमीश्वरस्य, स्रष्टृत्वादिवत् , न तु स्वतः इत्यकर्तैवेश्वर आत्मेति सङ्क्षेपः।
हे कौन्तेय ! अनादित्वान्निर्गुणत्वाच्चाव्ययोऽयं परमात्मा शरीरस्थोऽपि न करोति, न लिप्यते - इत्यन्वयः॥३१॥
मध्वः …{Loading}…
मध्वः - मूलम्
॥13.32॥ न च व्ययादिस्तस्येत्याह – अनादित्वादिति। सादि हि प्रायो व्ययि गुणात्मकं च। न करोतीत्यादेरर्थ उक्तः पुरस्तात्। न लौकिकक्रियादिस्तस्य। अतोन प्रज्ञं इत्यादिवदिति।
जयतीर्थः
॥13.32॥ अव्यय इत्यनुवादेन लेपाभावमात्रं विधीयत इत्यन्यथाप्रतीतिनिरासार्थमाह – न चेति। एतेनाव्ययत्वमपि साध्यमप्राप्तत्वादित्युक्तं भवति। तस्य विष्णोः अनेन जीवविशेषणमेतत् तस्य प्राप्तिसद्भावेन प्रतिषेधोपपत्तेरिति निरस्तम्। विष्णोरपिशरीरस्थोऽपि इति प्राप्तेरुक्तत्वात् अनादित्वनिर्गुणत्वयोरव्ययत्वे हेतुत्वमुपपादयितुं व्याप्तिमाह – सादीति। यद्व्ययि तत्प्रायः सादि गुणात्मकं चेति योजना। प्रागभावे व्यभिचारपारहारायप्रायः इत्युक्तम्। ससाद्यव गुणात्मकमेवेत्यवधारणेन यथास्थितयोजना वा। न करोति निर्गुणत्वादिति ईश्वरस्य क्रियागुणाभावः प्रतीयत इत्यत आह – न करोतीति। पुरस्तादुक्तमेव स्मारयति – नेति। इत्यादिवदक्रियत्वादिकं व्याख्येयमिति शेषः। यद्यप्यव्ययत्वमप्यत्र साध्यं तथापि तल्लोकतो ज्ञातुं शक्यत इति लोपाभावमात्रं; यथा सर्वगतिमित्युपपद्यते।
अभिनव-गुप्तः …{Loading}…
अभिनवगुप्तः - मूलम्
॥13.31 – 13.33॥ यदि वा – यदेत्यादि नोपलिप्यत इत्यन्तम्। विस्तीर्णत्वेन सर्वव्याप्त्या यदा भूतानां पृथक्तां भिन्नताम् +++(S चित्रताम्)+++ आत्मन्येव पश्यति; आत्मन एव च उदितां तां मन्यते; तदापि सर्वकर्तृत्त्वात् न लेपभाक् यतः असौ परमात्मैव शरीरस्थोऽपि न लिप्यते आकाशवत्।
शङ्करनारायणः
13.32 See Comment under 13.34
वल्लभः …{Loading}…
वल्लभः - मूलम्
॥13.32॥ स्वतः पुरुषस्य प्राकृतसम्बन्धाभाव इत्युपपादयति – अनादित्वादिति। परमात्माऽन्तःपुरुषः अथवा अक्षररूपत्वेन अनादित्वान्निर्गुणत्वादयं आत्मा जीवः पुरुषोऽव्ययः केवलं भगवदिच्छया स्वतः पृथग्भावितोऽप्यकर्त्ताऽलिप्तः अध्यासेनैव तथा; नान्यथेति भावः।
पुरुषोत्तमः
॥13.32॥ ननु यथा ब्रह्मांशस्यादिजीवस्य देहसम्बन्धात् कर्मलेपस्तेनैवाज्ञानं तन्नाशश्च प्रेरकात्मसम्बन्धात्तस्यैव जीवसम्बन्धालेपे सति कथं समदर्शनं इत्याशङ्क्याऽऽह – अनादित्वादिति। यस्यैवोत्पत्तिस्तस्यैवान्यसम्बन्धेन नाशः। स च अनादिर्नत्वाविद्यकजीवभाववदुत्पत्तिरतएव तत्सम्बन्धाभावार्थं साक्षित्वं पूर्वं निरूपितम्। तस्मात् गुणसम्बन्धिन एव तन्नाशे नाशः; स च निर्गुणस्तस्मादयं परमात्मा अव्ययः परसम्बन्धादिनाशशून्यः। अतः शरीरस्थोऽपि कर्माणि न करोति; अत एव न लिप्यते।
श्रीधर-स्वामी …{Loading}…
॥13.32॥ तथापि परमेश्वरस्य संसारावस्थायां देहकर्मसंबन्धनिमित्तैः कर्मभिस्तत्फलैश्च सुखदुःखादिवैषम्यं दुष्परिहरमिति कुतः समदर्शनं तत्राह – अनादित्वादिति। यदुत्पत्तिमत्तदेव हि व्येति विनाशमेति। यच्च गुणवद्वस्तु तस्य गुणनाशे व्ययो भवति। अयं तु परमात्मा अनादिर्निर्गुणश्चातोऽव्ययः। अविकारीत्यर्थः। तस्माच्छरीरे स्थितोऽपि किंचिन्न करोति; नच कर्मफलैर्लिप्यत इति।
English …{Loading}…
आदिदेवानन्दः
13.32 This supreme self, though dwelling in the body, is immutable, O Arjuna, being without beginning. It neither acts nor is tainted, as It is without Gunas.
गम्भीरानन्दः
13.32 Being without beginning and without alities, O son of Kunti, this immutable, supreme Self does not act. nor is It affected [Also translated as tainted.-Tr.], although existing in the body.
पुरोहितस्वामी
13.32 The Supreme Spirit, O Prince, is without beginning, without Qualities and Imperishable, and though it be within the body, yet It does not act, nor is It affected by action.
शङ्करनारायणः
13.32. Because This is beginningless, and because This has no alities, this Supreme Self is changeless and It neither acts, nor gets stained [by actions], even-though It dwells in the body, O son of Kunti !
शिवानन्दः - अनुवादः
13.32 Being without beginning and being devoid of (any) alities, the Supreme Self, imperishable, though dwelling in the body, O Arjuna, neither acts nor is tainted.
शिवानन्दः - टीका
13.32 अनादित्वात् being without beginning; निर्गुणत्वात् being devoid of alities; परमात्मा the Supreme Self; अयम् this; अव्ययः imperishable; शरीरस्थः dwelling in this body; अपि though; कौन्तेय O son of Kunti (Arjuna); न not करोति acts; न not; लिप्यते is tainted.Commentary The Supreme Self is beyond Nature. Therefore It is without alities. It is Nirguna. The activity in Nature is really due to its own alities which inhere in it. The Supreme Self existed before the body came into being and will continue to be after its dissolution. It is eternally the same and imperishable.Avyaya That which is free from the changes of birth and death or appearance and destruction. That which has a beginning has birth. After the object is born it is subject to the changes of being (growth; decay; etc.). As the Self is birthless; It is free from the changes of state (existence; birth; growth; change; decay and death). As the Self is free from all sorts of functions; It is Avyaya. Even if the reflection of the sun in the water moves; the sun does not move a bit. Even so the Supreme Self is not touched by the fruits of action as It is not the doer; as It is without the alities of Nature; or limbs; indivisible; devoid of parts; without action; beginningless and unattached and causeless.This Supreme Self is free from the three kinds of differences; viz.; Sajatiyabheda; Vijatiyabheda and Svagatabheda. A mango tree is different from a fig tree. This is Sajatiyabheda. A mango tree is different from a stone. This is Vijatiyabheda. In the same mango tree there is difference between leaves; flowers and fruits. This is Svagatabheda. But the Supreme Self is one without a second. There is no other Brahman Which is eal to It. Therefore; there cannot be Sajatiyabheda in Brahman. This world is a mere appearance. It is a mere figment of our imagination. It is superimposed on the Absolute on account of ignorance. An imaginary object has no independent existence apart from its substratum; just as the snake in the rope has no independent existence apart from its substratum; the rope. Therefore; there cannot be Vijatiyabheda in Brahman. Brahman is indivisible; partless; without alities; without form and without any limbs. Therefore there cannot be Svagatabheda in Brahman.Brahman or the Supreme Self is beginningless. It is without a cause. It is selfexistent. It is without parts. It is without alities. Therefore Brahman is imperishable. As It is unattached; It is neither the doer nor the enjoyer. If Brahman also is the doer and enjoyer. It is no longer Brahman. It is in no way better than ourselves. This cannot be. Agency and enjoyment are attributed to the ego on account of ignorance. It is Nature that acts. (Cf.V.14XV.9)
हिन्दी …{Loading}…
रामसुखदासः - अनुवादः
।।13.32।। हे कुन्तीनन्दन ! यह पुरुष स्वयं अनादि और गुणोंसे रहित होनेसे अविनाशी परमात्मस्वरूप ही है। यह शरीरमें रहता हुआ भी न करता है और न लिप्त होता है।
रामसुखदासः - टीका
।।13.32।।व्याख्या – अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः – इसी अध्यायके उन्नीसवें श्लोकमें जिसको अनादि कहा है; उसीको यहाँ भी अनादित्वात् पदसे अनादि कहा है अर्थात् यह पुरुष आदि(आरम्भ) से रहित है। अब प्रश्न होता है कि वहाँ तो प्रकृतिको भी अनादि कहा है; इसलिये प्रकृति और पुरुष – दोनोंमें,क्या फरक रहा इसके उत्तरमें भगवान् कहते हैं – निर्गुणत्वात् अर्थात् यह पुरुष गुणोंसे रहित है। प्रकृति अनादि तो है; पर वह गुणोंसे रहित नहीं है; प्रत्युत गुणों और विकारोंवाली है। उससे सात्त्विक; राजस और तामस – ये तीनों गुण तथा विकार पैदा होते हैं। परन्तु पुरुष इन तीनों गुणोँ और विकारोंसे सर्वथा रहित (निर्गुण और निर्विकार) है। ऐसा यह पुरुष साक्षात् अविनाशी परमात्मस्वरूप ही है अर्थात् यह पुरुष विनाशरहित परम शुद्ध आत्मा है।शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते – यह पुरुष शरीरमें रहता हुआ भी न कुछ करता है और न किसी कर्मसे लिप्त ही होता है। तात्पर्य है कि इस पुरुष(स्वयं) ने न तो पहले किसी भी अवस्थामें कुछ किया है; न वर्तमानमें कुछ करता है और न आगे ही कुछ कर सकता है अर्थात् यह पुरुष सदासे ही प्रकृतिसे निर्लिप्त; असङ्ग है तथा गुणोंसे रहित और अविनाशी है। इसमें कर्तृत्व और भोक्तृत्व है ही नहीं। यहाँ शरीरस्थोऽपि कहनेका तात्पर्य है कि यह पुरुष जिस समय अपनेको शरीरमें स्थित मानकर अपनेको कार्यका कर्ता और सुखदुःखका भोक्ता मानता है; उस समय भी वास्तवमें यह तटस्थ; प्रकाशमात्र ही रहता है। सुखदुःखका भान इसीसे होता है अतः इसको प्रकाशक कह सकते हैं; पर इसमें प्रकाशकधर्म नहीं है। यहाँ अपि पदसे ऐसा मालूम होता है कि अनादिकालसे अपनेको शरीरमें स्थित माननेवाला हरेक (चींटीसे ब्रह्मापर्यन्त) प्राणी स्वरूपसे सदा ही निर्लिप्त; असङ्ग है। उसकी शरीरके साथ एकता कभी हुई ही नहीं क्योंकि शरीर तो प्रकृतिका कार्य होनेसे सदा प्रकृतिमें ही स्थित रहता है और स्वयं परमात्माका अंश होनेसे सदा परमात्मामें ही स्थित रहता है। स्वयं परमात्मासे कभी अलग हो सकता ही नहीं। शरीरके साथ एकात्मता माननेपर भी; शरीरके साथ कितना ही घुलमिल जानेपर भी; शरीरको ही अपना स्वरूप माननेपर भी उसकी निर्लिप्तता कभी नष्ट नहीं होती; वह स्वरूपसे सदा ही निर्लिप्त रहता है। अपनी निर्लिप्तताका अनुभव न होनेपर भी उसके स्वरूपमें कुछ भी विकृति नहीं होती। अतः उसने अपने स्वरूपसे न कभी कुछ किया है और न करता ही है तथा वह स्वयं न कभी लिप्त हुआ है और न लिप्त होता ही है। यद्यपि पुरुष अपनेको शरीरमें स्थित माननेसे ही कर्ता और भोक्ता बनता है; तथापि इक्कीसवें श्लोकमें भगवान्ने कहा है कि प्रकृतिमें स्थित पुरुष ही भोक्ता बनता है और यहाँ कहते हैं कि शरीर में स्थित होनेपर भी पुरुष कर्ताभोक्ता नहीं है। ऐसा कहनेका तात्पर्य यह है कि प्रकृति और उसका कार्य शरीर – दोनों एक ही हैं। अतः पुरुषको चाहे प्रकृतिमें स्थित कहो; चाहे शरीरमें स्थित कहो; एक ही बात है। एक शरीरके साथ सम्बन्ध होनेसे मात्र प्रकृतिके साथ; मात्र शरीरोंके साथ सम्बन्ध हो जाता है। वास्तवमें पुरुषका सम्बन्ध न तो व्यष्टि शरीरके साथ है और न समष्टि प्रकृतिके साथ ही है। अपना सम्बन्ध शरीरके साथ माननेसे ही वह अपनेको कर्ताभोक्ता मान लेता है। वास्तवमें वह न कर्ता है और न भोक्ता है।सम्बन्ध – पूर्वश्लोकमें कहा गया कि वह पुरुष न करता है और न लिप्त होता है; तो अब प्रश्न होता है कि वह कैसे लिप्त नहीं होता और कैसे नहीं करता इसका उत्तर आगेके श्लोकमें देते हैं।
चिन्मयानन्दः
।।13.32।। यद्यपि चैतन्य आत्मा के सान्निध्य मात्र से देहेन्द्रियादि उपाधियाँ स्वक्रियाओं में प्रवृत्त होती हैं; तथापि आत्मा सदा अकर्त्ता ही रहता है। शास्त्रों के इस प्रतिपादन को समझना वेदान्त के प्रारम्भिक विद्यार्थियों को कठिन प्रतीत होता है। इसलिए; उपनिषदों के ऋषियों ने विशेष परिश्रमपूर्वक हमें यह समझाने का प्रयत्न किया है कि किस प्रकार एकमेव अद्वितीय; परिपूर्ण सर्वव्यापी परमात्मा अकर्ता है। पहले भीगीता में कहा जा चुका है कि आत्मा क्षेत्र के साथ तादात्म्य करके जीवरूपक्षेत्रज्ञ बन जाता है; जो कर्मों का कर्ता और फलों का भोक्ता है। शरीरों में स्थित होने पर भी आत्मा के दोषमुक्तत्व को सिद्ध करने के लिए यहाँ कुछ हेतु दिये गये हैं। जब एक न्यायाधीश श्रीगोपाल राव किसी हत्यारे अपराधी को मृत्युदण्ड सुनाते हैं; तब उसकी मृत्यु का पातक न्यायाधीश को प्रभावित नहीं कर सकता। श्रीगोपाल राव न्यायालय में न्यायाधीश के पद पर आसीन होकर निर्णय देते हैं; न कि अपनी व्यक्तिगत क्षमता में। अनादि जिस वस्तु का कारण होता है; उसी का प्रारम्भ भी हो सकता है। प्रारम्भ रहित का अर्थ कारणरहित होगा। परम सत्य वह है जिससे सम्पूर्ण जगत् उत्पन्न हुआ है। अत परमात्मा कारण रहित कारण होने से अनादि कहा गया है। इसी कारण से वह अव्यय; अविनाशी भी है। निर्गुण गुणवान् वस्तु ही विकारी होती है। हमने देखा कि जगत्कारण परमात्मा अविकारी है; अत उसका निर्गुण होना भी आवश्यक है। यह परमात्मा अव्यय है जगत्कारण; अनादि और निर्गुण होने से परमात्मा का अव्ययत्व सिद्ध हो जाता है। यह परमात्मा अपने सान्निध्य मात्र से जड़ उपाधियों को चेतनवत् व्यवहार करने में सक्षम करता है; परन्तु वह स्वयं किसी प्रकार की क्रिया नहीं,करता। उपर्युक्त सिद्धांत वेदान्त के कुछ सूक्ष्म सिद्धांतों में से एक है; और दुर्बल मति के विद्यार्थियों को प्राय इसे समझने में कठिनाई अनुभव होती है। यद्यपि यह वेदान्त साहित्य का कठिन भाग माना गया है; तथापि प्रयत्नपूर्वक इस पर मनन करने से सन्देह और कठिनाई दूर हो सकती हैं। उपाधियों के सभी निषिद्ध और आसुरी कर्मों में भी आत्मा के अकर्तृत्वऔर निर्गुणत्व को दर्शाने के लिए; भगवान् कुछ दृष्टान्त देते हैं
तेजोमयानन्दः - अनुवादः
।।13.32।। हे कौन्तेय ! अनादि और निर्गुण होने से यह परमात्मा अव्यय है। शरीर में स्थित हुआ भी, वस्तुत:, वह न (कर्म) करता है और न (फलों से) लिप्त होता है।।