28 समं सर्वेषु

विश्वास-प्रस्तुतिः …{Loading}…

समं सर्वेषु भूतेषु
तिष्ठन्तं परमेश्वरम्
विनश्यत्स्व् अ-विनश्यन्तं
यः पश्यति स पश्यति॥13.28॥+++(5)+++

रामानुजः …{Loading}…

रामानुजः - मूलम्

॥13.27॥ एवम् इतरेतरयुक्तेषु सर्वेषु भूतेषु देवादिविषमाकाराद् वियुक्तं तत्र तत्र तत्तद्देहेन्द्रियमनांसि प्रति परमेश्वरत्वेन स्थितम् आत्मानं ज्ञातृत्वेन समानाकारं तेषु देहादिषु विनश्यत्सु विनाशानर्हस्वभावेन अविनश्यन्तं यः पश्यति; स पश्यति; स आत्मानं यथावद् अवस्थितं पश्यति। यस्तु देवादिविषमाकारेण आत्मानम् अपि विषमाकारं जन्मविनाशादियुक्तं च पश्यति स नित्यम् एव संसरति इत्य् अभिप्रायः।

वेदान्तदेशिकः

॥13.28॥ अथ समत्वविषमत्वनियन्तृत्वनियाम्यत्वनित्यत्वानित्यत्वैर्द्वयोर्विवेकानुसन्धानमभिधाय तदेव तत्त्वाध्यवसायरूपत्वेन परमपुरुषार्थहेतुतया प्रशंसतिसममिति श्लोकेन। क्षेत्रक्षेत्रज्ञसंयोगात् [13।27] इत्यत्रशङ्करेणोक्तम् आकाशवन्निरवयवतया अवयवसंश्लेषलक्षणसंयोगासम्भवात् क्षेत्रक्षेत्रज्ञयोरितरेतरकार्यकारणभावानभ्युपगमेन समवायासम्भवाच्च विषयविषयिणोस्तयोरितरेतरधर्माध्यासलक्षणः संयोगः तन्निवर्तनं च सम्यग्दर्शनंसमं सर्वेषु इत्यादिनोच्यते इति तदेतद्बालिशभाषितम्; निरवयवस्यापि संयोगसम्भवात्युतसिद्धयोः सम्बन्धः संयोगः इति हि तं लक्षयन्ति स च निरवयवयोः सावयवयोर्निरवयवसावयवयोश्च सम्भवति। तन्मते च अध्यासानुपपत्त्यादयः प्रपञ्चिताः। सर्वेषु भूतेषु इति देवमनुष्यादिरूपवैषम्यं विवक्षितम्। यथा मृण्मयहिरण्मयादिघटोपात्तस्यापि गङ्गोदकस्य तत्रतत्र स्थितिमात्रमेव; न पुनर्मृण्मयत्वादिसिद्धिः तथाऽऽत्मनोऽपि देवमनुष्यादिदेहेषु स्थितिमात्रमेव नतु रुमाप्रतिक्षिप्तकाष्ठादिलवणत्वन्यायेन स्वरूपेण देवमनुष्यत्वादिवैषम्याश्रयत्वमिति। तिष्ठन्तम् इत्यस्याभिप्रायमाहदेवादिविषमाकाराद्वियुक्तमिति। यद्वासमम् इति वचनादर्थाक्षिप्तं वैषम्यनिवृत्तिकथनमिदन्तिष्ठन्तम् इति तु परत्रान्वेतव्यम्। अतो हि भाष्यतेपरमेश्वरत्वेन स्थितमिति।

अनीश्वरस्याल्पशक्तेः क्षेत्रज्ञस्य कथं परमेश्वरत्वम् इत्यत्र पूर्ववत्सङ्कोचमाहतत्रतत्र तत्तद्देहेन्द्रियमनांसि प्रतीति। देहात्माभिमानिनो हि देहनाशादात्मनाशं मन्यन्ते नत्वप्रतीतस्य परमात्मनो नाशं तस्मात्अविनश्यन्तम् इति प्रसक्तविनाशप्रतिषेधार्थपदसमानाधिकरणः परमेश्वरशब्दः प्रक्रान्तविषय इति भावः। समशब्देन न बाह्यदेवत्वादिवैषम्यनिवृत्तिमात्रं विवक्षितम् अपितु गवामनेकवर्णानां क्षीरस्य त्वेकवर्णता। क्षीरवत्पश्यति ज्ञानं लिङ्गिनस्तु गवां यथा [ब्र.बिं.उ.10त्रि.ता.उ.5।19] इति श्रुत्यनुसारेणात्मनां स्वरूपेषु मिथोवैषम्यनिवृत्तिरपि। तच्च साम्यं कथम्भूतमिति शङ्कायाम्एतद्यो वेत्ति [13।2] इति प्रक्रमानुसारेणाहज्ञातृत्वेन समानाकारमिति। ज्ञानत्वादेरप्युपलक्षणमेतत्।

येन सर्वमिदं ततम् [18।46] इत्यादिना प्रपञ्चितानविनाशित्वहेतून् स्मारयतिविनाशानर्हस्वभावेनेति। यः पश्यति स पश्यति इत्यनयोरनतिशयितार्थतया नैरर्थक्यम् उद्देश्योपादेयभङ्गश्चेत्यत्राहस आत्मानं यथावदवस्थितमिति। इतरे तु पीतशङ्खादिदर्शिवद्विपरीतदर्शितया पश्यन्तोऽपि न पश्यन्तीति भावः। स पश्यति इति प्रशंसाऽत्र परमपुरुषार्थलाभादिनिबन्धना। व्यतिरेकनिन्दा चात्र फलितेत्यभिप्रायेणाहयस्त्विति।

आदिदेवानन्दः

13.28 He who sees the Atman as It really is - he is the one who sees the Atman as a distinct entity in all embodied beings that are composed of Prakrti and Purusa, even in bodies of diverse nature of gods, men etc. The true seer is one who sees the Atman as the supreme ruler in all these bodies as the imperishable self, though the bodies are subject to destruction. Conversely the purport is that he who sees the Atman, only as characterised by the uneal forms of the bodies as men, gods etc., and as possessed of birth, death etc. - such a person is perpetually caught up in transmigratory existence.

शङ्करः …{Loading}…

शङ्करः - मूलम्

॥13.28॥ –,समं निर्विशेषं तिष्ठन्तं स्थितिं कुर्वन्तम् क्व सर्वेषु समस्तेषु भूतेषु ब्रह्मादिस्थावरान्तेषु प्राणिषु कम् परमेश्वरं देहेन्द्रियमनोबुद्ध्यव्यक्तात्मनः अपेक्ष्य परमेश्वरः; तं सर्वेषु भूतेषु समं तिष्ठन्तम्। तानि विशिनष्टि विनश्यत्सु इति; तं च परमेश्वरम् अविनश्यन्तम् इति; भूतानां परमेश्वरस्य च अत्यन्तवैलक्षण्यप्रदर्शनार्थम्। कथम् सर्वेषां हि भावविकाराणां जनिलक्षणः भावविकारो मूलम् जन्मोत्तरकालभाविनः अन्ये सर्वे भावविकाराः विनाशान्ताः विनाशात् परो न कश्चित् अस्ति भावविकारः; भावाभावात्। सति हि धर्मिणि धर्माः भवन्ति। अतः अन्त्यभावविकाराभावानुवादेन पूर्वभाविनः सर्वे भावविकाराः प्रतिषिद्धाः भवन्ति सह कार्यैः। तस्मात् सर्वभूतैः वैलक्षण्यम् अत्यन्तमेव परमेश्वरस्य सिद्धम्; निर्विशेषत्वम् एकत्वं च। यः एवं यथोक्तं परमेश्वरं पश्यति; सः पश्यति॥ ननु सर्वोऽपि लोकः पश्यति; किं विशेषणेन इति। सत्यं पश्यति किं तु विपरीतं पश्यति। अतः विशिनष्टि – स एव पश्यतीति। यथा तिमिरदृष्टिः अनेकं चन्द्रं पश्यति; तमपेक्ष्य एकचन्द्रदर्शी विशिष्यते – स एव पश्यतीति तथा इहापि एकम् अविभक्तं यथोक्तं आत्मानं यः पश्यति; सः विभक्तानेकात्मविपरीतदर्शिभ्यः विशिष्यते – स एव पश्यतीति। इतरे पश्यन्तोऽपि न पश्यन्ति; विपरीतदर्शित्वात् अनेकचन्द्रदर्शिवत् इत्यर्थः॥ यथोक्तस्य सम्यग्दर्शनस्य फलवचनेन स्तुतिः कर्तव्या इति श्लोकः आरभ्यते –,

गम्भीरानन्दः

13.28 Sah, he; pasyati, sees; yah, who; pasyati, sees;-whom;-parameswaram, the supreme Lord-the Lord who is supreme as compared with the body, organs, mind, intellect, the Unmanifest and the individual soul; as tisthantam, existing, having His presence; samam, eally, without distinction;-where;-sarvesu, in all; bhutesu, beings, all living things from Brahma to the non-moving;-he who sees Him existing eally in all living things. The Lord specifies them by the word vinasyatsu, among the perishable; and He also specifies Him, the supreme Lord, by the word avinasyantam, the Imperishable. This is meant for showing the absolute difference between the living things and God. How; For, all the modifications [See note 3 on p.38.-Tr.] of an existing thing have as their root that modification of an existing thing described as birth. All other modifications of existing things that follow birth end with destruction. After destruction there is no modification of an existing thing, because the object itself becomes nonexistent. Indeed, alities can exist so long as the thing alified exists. Therefore, by the reiteration of the absence of the last modification of an existing thing, all its preceding modifications become negated along with their effects. Hence it is established that the supreme Lord is very greatly different from all beings, and is also Unconditioned [Free from all modifications that things are subject to.] and One. He sees who thus sees the supreme Lord as described. Objection: Is it not that all poeple see; What is the need of specification; Reply: True, they see; but they see contrarily! Hence the Lord specifies, ‘He alone sees’. As in comparison with one who, suffering from the (eye) disease called Timira, sees many moons, the person who sees one moon is distingusihed by saying, ‘He alone sees,’ similarly, here as well, the man who sees the one undivided Self as described above is distinguished from those who contrarily see many and differentiated selves, by saying ‘He alone sees’. Others, though seeing, do not see because they see contrarily like the person who sees many moons. This is the meaning. The obove-described true knowledge has to be praised by stating its result. Hence the verse begins:

हरिकृष्णदासः

॥13.28॥ न स भूयोऽभिजायते इस कथनसे पूर्णज्ञानका फल; अविद्या आदि संसारके बीजोंकी निवृत्तिद्वारा पुनर्जन्मका अभाव बतलाया गया; तथा अविद्याजनित क्षेत्र और क्षेत्रज्ञके संयोगको जन्मका कारण बतलाया गया। इसलिये उस अविद्याको निवृत्ति करनेवाला पूर्ण ज्ञान; यद्यपि पहले कहा जा चुका है तो भी दूसरे शब्दोंमें फिर कहा जाता है –, ( जो पुरुष ) ब्रह्मासे लेकर स्थावरपर्यन्त समस्त प्राणियोंमें समभावसे स्थित – ( व्याप्त ) हुए परमेश्वरको अर्थात् शरीर; इन्द्रिय; मन; बुद्धि अव्यक्त और आत्माकी अपेक्षा जो परम ईश्वर है; उस परमेश्वरको सब भूतोंमें समभावसे स्थित देखता है। यहाँ भूतोंसे परमेश्वरकी अत्यन्त विलक्षणता दिखलानेके निमित्त भूतोंके लिये विनाशशील और परमेश्वरके लिये अविनाशी विशेषण देते हैं। पू₀ – इससे परमेश्वरकी विलक्षणता कैसे सिद्ध होती है उ₀ – सभी भावविकारोंका जन्मरूप; भावविकार मूल है। अन्य सब भावविकार जन्मके पीछे होनेवाले और विनाशमें समाप्त होनेवाले हैं। भावका अभाव हो जानेके कारण विनाशके पश्चात् कोई भी भावविकार नहीं रहता क्योंकि धर्मीके रहते ही धर्म रहते हैं। इसलिये अन्तिम भावविकारके अभावका ( अविनश्यन्तम् इस पदके द्वारा ) अनुवाद करनेसे पहले होनेवाले; सभी भावविकारोंका कार्यके सहित प्रतिषेध हो जाता है। सुतरां ( उपर्युक्त वर्णनसे ) परमेश्वरकी सब भूतोंसे अत्यन्त ही विलक्षणता तथा निर्विशेषता और एकता भी सिद्ध होती है। अतः जो इस प्रकार उपर्युक्त भावसे परमेश्वरको देखता है वही देखता है। पू₀ – सभी लोग देखते हैं फिर वही देखता है इस विशेषणसे क्या प्रयोजन है उ₀ – ठीक है; ( अन्य सब भी ) देखते हैं परंतु विपरीत देखते हैं; इसलिये वह विशेषण दिया गया है कि वही देखता है। जैसे कोई तिमिररोगसे दूषित हुई दृष्टिवाला अनेक चन्द्रमाओंको देखता है; उसकी अपेक्षा एक चन्द्र देखनेवालेकी यह विशेषता बतलायी जाती है कि वही ठीक देखता है। वैसे ही यहाँ भी जो आत्माको उपर्युक्त प्रकारसे विभागरहित एक देखता है; उसकी अलगअलग अनेक आत्मा देखनेवाले विपरीतदर्शियोंकी अपेक्षा यह विशेषता बतलायी जाती है कि वही ठीकठीक देखता है। अभिप्राय यह है कि दूसरे सब अनेक चन्द्र देखनेवालेकी भाँति विपरीत भावसे देखनेवाले होनेके कारण; देखते हुए भी वास्तवमें नहीं देखते।

आनन्दगिरिः

॥13.27॥ उत्तरग्रन्थमवतारयितुं व्यवहितं वृत्तं कीर्तयति – नेत्यादिना। अविद्यानाद्यनिर्वाच्यमज्ञानं मिथ्याज्ञानं तत्संस्कारश्चादिशब्दार्थः। व्यवहितमनूद्याव्यवहितमनुवदति – जन्मेति। व्यवधानाव्यवधानाभ्यां सर्वानर्थमूलत्वादज्ञानस्य तन्निवर्तकं सम्यग्ज्ञानं वक्तव्यमित्याह – अत इति। तस्यासकृदुक्तत्वात्तदुक्तार्थप्रवृत्तिर्वृथेत्याशङ्क्यातिसूक्ष्मार्थस्य शब्दभेदेन पुनःपुनर्वचनमधिकारिभेदानुग्रहायेति मत्वाह – उक्तमिति। सर्वत्र परस्यैकत्वान्नोत्कर्षापकर्षवत्त्वमित्याह – सममिति। परमत्वमीश्वरत्वं चोपपादयति – देहेति। आत्मा जीवस्तमित्यादीनान्वयोक्तिः। आश्रयनाशादाश्रितस्यापि नाशमाशङ्क्याह – तं चेति। अविनश्यन्तमिति विशिनष्टीति संबन्धः। उभयत्र विशेषणद्वयस्य तात्पर्यमाह – भूतानामिति। नाशानाशाभ्यां वैलक्षण्येऽपि कथमत्यन्तवैलक्षण्यं सविशेषत्वभिन्नत्वयोस्तुल्यत्वादिति शङ्कते – कथमिति। भूतानां सविशेषत्वादिभावेऽपि परस्य तदभावादत्यन्तवैलक्षण्यमिति वक्तुं जन्मनो भावविकारेष्वादित्वमाह – सर्वेषामिति। तत्र हेतुमाह – जन्मेति। नहि जन्मान्तरेणोत्तरे विकारा युज्यन्ते जन्मवतस्तदुपलम्भादित्यर्थः। विनाशानन्तरभाविनोऽपि विकारस्य कस्यचिदुपपत्तेर्न तस्यान्त्यविकारत्वमित्याशङ्क्याह – विनाशादिति। तस्यान्त्यविकारत्वे सिद्धे फलितमाह – अत इति। तेषां जन्मादीनां कार्याणि कादाचित्कसत्त्वानि तदधिकरणानि तैः सहेति यावत्। परमेश्वरस्य भूतेभ्योऽत्यन्तवैलक्षण्यमुक्तमुपसंहरति – तस्मादिति। निर्विशेषत्वं सर्वभावविकारविरहितत्वं कूटस्थत्वमेकत्वमद्वितीयत्वम्। यः पश्यतीत्यादि व्याचष्टे – य एवमिति। उक्तविशेषणमीश्वरं पश्यन्नेव पश्यतीत्युक्तमाक्षिपति – नन्विति। ईश्वरपराङ्मुखस्यानात्मनिष्ठस्य तद्दर्शित्वेऽपि विपरीतदर्शित्वादीश्वरप्रवणस्यैव सम्यग्दर्शित्वमिति विवक्षित्वा विशेषणमिति परिहरति – सत्यमिति। उक्तमेव दृष्टान्तेन विवृणोति – यथेत्यादिना। यः पश्यतीत्यादेरर्थमुपसंहरति – इतर इति। परवस्तुनिष्ठेभ्यो व्यतिरिक्ता इत्यर्थः।

नीलकण्ठः

॥13.28॥ तन्नाशोपायमाह – सममिति। सममपरिणामिनं कूटस्थं नित्यं सर्वेषु भूतेषु देहाद्याकारेण परिणतेषु तिष्ठन्तम्। एतेन देह एव तदधिगमस्थानमित्युक्तम्। परमेश्वरमन्तर्यामिणं सर्गस्थित्यन्तकर्तारम्। अतएवान्तर्मुखदृष्ट्या विनश्यत्सु तेषु भूतेषु रज्जूरगादिवत्कल्पितत्वाददर्शनं गच्छत्सु विभुत्वादात्मत्वान्नित्यदृग्रूपत्वाच्चाविनश्यन्तं सर्वास्वप्यवस्थास्वदर्शनमगच्छन्तं यः पश्यति स एव पश्यति अन्येऽन्धा इत्यर्थः।

धनपतिः

॥13.28॥ न स भूयोभिजायत इत्यनेन सभ्यग्दर्शनफलमविद्यादिसंसारबीजनिवृत्तिद्वारेण ज्माभाव उक्तो जन्मकारणं चाविद्यानिमित्तकक्षेत्रक्षेत्रसंयोग उक्तः। अतः सर्वथापि सर्वानर्थमूलभूतस्याज्ञानस्य निवर्तकं सभ्यग्दर्शनमुक्तमप्यतिसूक्ष्मार्थस्य पुनः पुनर्वचनेनाधिकारिभेदानुग्रहं मत्वा शब्दान्तरेण पुनराह – सममिति। सर्वेषु ब्रह्मादिस्थावरान्तेषु भूतेषु भवनधर्मकेषु प्राणिषु परस्परमत्यन्तविषमेष्वनेकेषु समं तिष्ठन्तं निर्विशेषमेवं स्थितिं कुर्वन्तं परमेश्वरं देहेन्द्रियाद्यात्मानमपेक्ष्य परमश्चासावीशनशीलश्च तं विनश्यत्सु सर्वेषां भावविकारणां जन्मोत्तरभावित्वात् नाशेन षट्भावविकारा गृह्यन्ते। सर्वभाविकारवत्सु अविनश्यन्तं सर्वविकाररहितं। तथाचसर्वभूतेब्योऽत्यन्तविलक्षणं प्रत्यगभिन्नं परमेश्वरं यः पश्यति स एव पश्यति नतु विपरीतदर्शी। यताऽनेकचन्द्रदर्श्यपेक्षया एकचन्द्रदर्शी विशिष्यते तथा विभक्तानेकात्मविपरीतदर्शिभ्यो यथोक्तात्मदर्श्यपीत्यर्थः।

मधुसूदन-सरस्वती

॥13.28॥ एवं संसारमविद्यात्मकमुक्त्वा तन्निवर्तकविद्याकथनाय य एवं वेत्ति पुरुषमिति प्रागुक्तं विवृणोति – समं सर्वेष्विति। सर्वेषु भूतेषु भवनधर्मकेषु स्थावरजङ्गमात्मकेषु प्राणिषु अनेकविधजन्मादिपरिणामशीलतया गुणप्रधानभावापत्त्या च विषमेषु अतएव चञ्चलेषु। प्रतिक्षणपरिणामिनो हि भावा नापरिणम्य क्षणमपि स्थातुमीशते। अतएव परस्परबाध्यबाधकभावापन्नेषु। एवमपि विनश्यत्सु दृष्टनष्टस्वभावेषु मायागन्धर्वनगरादिप्रायेषु समं सर्वत्रैकरूपं प्रतिदेहमेकं जन्मादिपरिणामशून्यतया च तिष्ठन्तमपरिणममानं परमेश्वरं सर्वजडवर्गसत्तास्फूर्तिप्रदत्वेन बाध्यबाधकभावशून्यं सर्वदोषानास्कन्दितं अविनश्यन्तं दृष्टनष्टप्रायसर्वद्वैतबाधेऽप्यबाधितं एवं सर्वप्रकारेण जडप्रपञ्चविलक्षणमात्मानं विवेकेन यः शास्त्रचक्षुषा पश्यति,स एव पश्यत्यात्मानं जाग्रद्बोधेन स्वप्नभ्रमं बाधमान इव। अज्ञस्तु स्वप्नदर्शीव भ्रान्त्या विपरीतं पश्यन्नपश्यत्येव। ,अदर्शनात्मकत्वाद्भ्रमस्य। नहि रज्जुं सर्पतया पश्यन् पश्यतीति व्यपदिश्यते रज्ज्वदर्शनात्मकत्वात्सर्पदर्शनस्य। एवंभूतान्यानुपरक्तशुद्धात्मदर्शनात्तददर्शनात्मिकाया अविद्याया निवृत्तिस्ततस्तत्कार्यसंसारनिवृत्तिरित्यभिप्रायः। अत्रात्मानमिति विशेष्यलाभो विशेषणमर्यादया परमेश्वरमित्येव वा। विशेष्यपदं विषमत्वचञ्चलत्वबाध्यबाधकरूपत्वलक्षणं जडगतं वैधर्म्यं समत्वतिष्ठत्त्वपरमेश्वरत्वरूपात्मविशेषणवशादर्थात्प्राप्तम्। अन्यत्कण्ठोक्तमिति विवेकः।

रामरायः - २८

सममिति। वृत्तवर्तिष्यमाणयोः सङ्गतिसूचनाय वृत्तमनुवदति—न स भूय इत्यादिना उक्त इत्यन्तेन ग्रन्थेन। सम्यग्दर्शनफलं ज्ञानफलभूतो जन्माभाव उक्तः। अत इति। अविद्यानिमित्तकक्षेत्रक्षेत्रज्ञसंयोगस्य जन्मकारणत्वादित्यर्थः। तस्या इति। जन्मकारण- भूतसंयोगकारणभूताया इत्यर्थः। जन्मनः परमकारणभूताया इति यावत्। अविद्याया निवृत्तौ क्षेत्रक्षेत्रज्ञसंयोगो निवर्तते, ततश्च जन्म निवर्तत इति तावदविद्यैव विद्यया निवर्तनीयेति भावः। उक्तमपि सुबोधाय पुनरुच्यत इत्याह— उक्तमपीति। एतेन ज्ञानस्य दुर्बोधत्वं सूचितम्। न ह्यात्मन्यनादिकालान्निरूढोऽनात्माभिमानः संसारित्वभ्रमश्च सुखेन निवर्तते। नापि तदनिवृत्तिं विना ब्रह्माहमस्मीति निरूढं ज्ञानं भवति। तस्मात् पुनःपुनरुच्यते आत्मतत्त्वं कृपालुना भगवता भक्तानुग्रहार्थमिति भावः। शब्दान्तरेणेति। भङ्ग्यन्तरेणे- त्यर्थः। यः विनश्यत्सु सर्वेषु भूतेषु समं तिष्ठन्तमविनश्यन्तं परमेश्वरं पश्यति, स एव पश्यति। निर्विशेषं यथा तथेति स्थितिक्रिया- विशेषणम्। एकरूपेणेत्यर्थः। सच्चिदानन्दस्वरूपेणेति यावत्। निर्विशेषमिति परमेश्वरविशेषणं वा। सर्वेषु तिष्ठन्तमित्यनेनात्मभेद- स्याप्रामाण्यं सूचितम्। आधारबहुत्वस्याधेयैकत्वस्य च बहुवचनैकवचनाभ्यामुक्तत्वात्। ततश्चौपाधिकभेदोऽप्यात्मन्यप्रमाणः इति सिद्धम्। स्थितिं गतिनिवृत्तिं कुर्वन्तं, न हि परिपूर्णमचलं वस्तु क्वापि गच्छेदिति भावः। एतेन सर्वव्यापित्वलक्षणं विभुत्वं सिद्धम्। ब्रह्मा हिरण्यगर्भः। प्राणिनः कार्यकरणसङ्घातात्मकाः। परमः उत्कृष्टः। किमपेक्षयाऽस्योत्कर्षः? अत आह— देहेति। आत्मत्वेनाविद्यया परिकल्पितेभ्यो देहात्मेन्द्रियात्ममनआत्मबुद्ध्यात्माव्यक्तात्मभ्यः1 उत्कृष्टः। अहमज्ञः इति प्रतीत्या अज्ञानस्याप्यात्मत्वमवगम्यत इत्यभिप्रेत्योक्तम् अव्यक्तात्मेति। न त्वज्ञानमहमिति साक्षादज्ञाने आत्मत्वप्रतीतिः कस्यापि। काणोऽहं बधिरोऽहमित्यादिप्रतीत्या त्विन्द्रियस्यात्मत्वमिति बोध्यम्। न हि कोऽपि चक्षुरहं श्रोत्रमहमिति प्रत्येति। देहो हि घटपटादीनामीशनशीलः, देहपरतन्त्रत्वात् तेषाम्। स च इन्द्रियपरतन्त्रः, इन्द्रियव्यापारपूर्वकत्वाद् देहव्यापारस्येति देहस्य ईशनशीलानीन्द्रियाणि। तेषां मनः ईश्वरम्। तस्य बुद्धिरीशनशीला। तस्या अज्ञानम्2। अमीषां सर्वेषामपि ईशनशीलः आत्मेति परमेश्वरत्वमात्मन इति भावः। न चाज्ञानस्येशनशीलः परमात्मैव, न त्वात्मेति वाच्यम् ; आत्मन एव परमात्मत्वात् , ‘परमात्मेति चाप्युक्तः’ इति ह्युक्तम्। तं चेति। विशिनष्टीति शेषः। ननु भूतानां विनश्यत्स्विति विशेषणदानं, परमेश्वरस्याविनश्यन्तमिति विशेषणदानं च व्यर्थमित्यत आह— भूतानामिति। वैलक्षण्यं भेदः। एतेन भूतानि प्राणिनो जीवा आत्मशब्दवाच्या एवेत्यपास्तम्। भूतविलक्षणपरमेश्वरस्यैवात्मत्वात्। भूतानामनात्मत्वात् तत्र दृश्यमान- चैतन्यस्य चाभासभूतत्वादिति। कथं वैलक्षण्यप्रदर्शनमित्याक्षिपति— कथमिति। तदेवोपपादयति— सर्वेषामिति। भवन्तीति भावाः पृथिव्यादिपदार्थाः। तेषां विकाराः - जायते, अस्ति, वर्धते, विपरिणमते, अपक्षीयते, नश्यतीति षट्। तेषां मध्ये जनिलक्षणो भावविकारो मूलमादिः प्रथम इत्यर्थः। अन्ये सत्तादिविनाशान्ताः सर्वे पञ्चेत्यर्थः। भावविकाराः जन्मोत्तरकाले भवन्तीति जन्मोत्तरकालभाविनः। जातस्यैव देहादिभावस्य सत्तावृद्धिपरिणामापक्षयनाशदर्शनाज्जनिरूपविकार एव तेषामादिरित्यर्थः। ननु नाशानन्तरं कोऽप्यस्तु विकार इति विकाराणां विनाशान्तत्वकथनमयुक्तमित्यत आह— विनाशादिति। विनाशोऽदर्शनं, तं प्राप्तस्या- सतो वस्तुनः शशशृङ्गादितुल्यस्य कथं पुनर्भावविकारप्राप्तिः? भावो हि सन् पदार्थः। तद्विकाराश्च सत एव वस्तुनो भवितुमर्हन्ति, न त्वसत इति भावः। इदमेवाह— भावाभावादिति। भावस्य सत्पदार्थस्याभावात्। नन्वसतोऽपि विकाराः भवन्तु , अत आह— सतीति। धर्मिणि देहादिभावपदार्थे सति धर्मा भवन्ति। धर्मिण एवाभावे कथं धर्मभवनं, न कथमपीत्यर्थः।

[[७१६]]

ननु ‘जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च’ इति गीतावचनादेव नष्टस्य पुनर्जन्मरूपविकारः उपलभ्यते, दृश्यते च नष्ट- स्यापि देहस्य भस्मात्मना जन्म, घटस्य च कपालाद्यात्मनेति। तस्मान्नान्त्यविकारो नाश इति चेत् , मैवम् ; यदि निर्वाणस्य प्रदीपस्य पुनरागमनं भवेत् तर्हि नष्टं पुनर्जायेत। गीतावचनं तु देहजन्मनाशप्रयुक्तजन्मनाशवन्तं जीवमभिप्रेत्य प्रवृत्तम् - मृतस्य देहादुत्क्रान्तस्य प्राणोपाधिकस्य जीवस्य देहान्तरप्राप्तिरूपं जन्म ध्रुवमिति, प्रकृतदेहत्यागरूपं मरणं च तस्य ध्रुवमिति। देहे भस्मतामापन्ने सति देहो जातः इति व्यवहाराभावान्न देहस्य भस्मात्मना जन्म, किन्तु भस्मतापत्त्या देहस्य नाश एव। करचरणादिमत्पिण्डविशेषो हि देहः। यदि स देहस्याकारो भस्मनि दृश्येत, तर्हि देहः पुनर्जात इति वक्तुमुचितम्। यो यस्य नियत आकारस्तन्नियताकारादर्शनमेव हि तस्य नाशः। तस्माद् भस्मीभूतस्य देहस्य पुनर्जन्म भवेद् यदि, निर्वाणस्य प्रदीपस्य पुनरागमनं भवेदेव। सत्कार्यवादिनाऽपि देहारम्भकपृथिव्यादिद्रव्यस्य देहरूपत्वं विहाय भस्मरूपप्राप्तिरिति वदताऽपि देहरूपस्य नष्टत्वमवश्यमभ्युपेयमेवेति देहो नष्ट एव। न हि करचरणाद्यवयवसन्निवेशात्मकमाकारं विहाय कश्चिद् देहपदार्थोऽस्ति। स च देहे भस्मीभूते सति नैव दृश्यत इति देहस्यादर्शनरूपो नाशो युक्त एव। तस्य चादर्शनं गतस्य देहस्य नष्टदीपवन्नास्ति पुनरुदयः। न हि भस्मीभवनात् पूर्वं दृष्टः पित्रादिदेहाकारः पुत्रादिना पुनर्दृश्यते, येन नाशानन्तरं द्रव्यस्य पुनर्जन्मविकारापत्तिः। न च दीपो नष्टः पुनरुदेत्येवाग्निसंयोगाद् वर्तेरिति वाच्यम् ; नष्टादन्यस्या एव दीपज्वालायाः पुनरुदयात्। ‘सोऽयं दीपः’ इति प्रत्यभिज्ञा तु भ्रम एव, न प्रमा। नष्टस्य पुनरुदितस्य च दीपस्य भेदात्। तस्मान्नष्टस्य करचरणाद्याकारवतो देहस्य कम्बुग्रीवाद्याकारवतो घटस्य वा न पुनर्जन्म। ये तु दृश्यन्ते भस्मकपालादयस्ते न देहघटादिपदार्थाः। भस्मनि कपालादौ वा देह इति घट इति च लोकानां प्रत्ययादर्शनात्। अनुभवविरुद्धार्थो हि न ग्राह्यः। नापि नष्टस्य पुनर्जन्म शास्त्रसिद्धम् , जीवस्यैव नित्यस्य देहान्तरप्राप्तिरूपं पुनर्जन्म शास्त्रसिद्धम् , न त्वनित्यस्य देहस्य। अत एव ह्यनित्यत्वं देहस्य। यत्पुनरदर्शनम् , तस्मान्नाशादनन्तरं भावस्यैवाभावाद् भावस्य सत्त्वे नाशस्यैवायोगान्नास्ति कोऽपि भावविकार इति भावविकाराणां नाश एव परमावधिः। अत इति। नाशात् परस्य भावविकारस्याभावादित्यर्थः। आत्मन इति शेषः। अन्त्यभावविकारस्य नाशस्याभावानुवादेनाभावस्य पूर्वं बहुवारं प्रतिपादितत्वादिह तत्प्रतिपादनमनुवादभूतमेवेति भावः। तत्पूर्वभाविनः नाशात् प्राक्तनाः सर्वे जन्मादयो विकारास्तत्कार्यैः सह प्रतिषिद्धा भवन्ति।

[[७१७]]

ननु अविनश्यन्तमित्यनेन नाशाभाव एव प्रतिपादित इति कथं जन्मादिविकाराभावसिद्धिरिति चेद्? उच्यते— यस्य नाशो नास्ति, तस्य जन्मापि नास्ति, जन्मपूर्वकत्वान्नाशस्य। जातस्य हि घटस्य नाशो दृश्यते, न त्वजातस्य। न ह्यजातस्य शशशृङ्गस्य नाशप्रतीतिः। यद्धि जन्मना दृष्टिपथं गतं, तदेव हि प्राप्तुमर्हत्यदर्शनरूपं नाशम्। आत्मा न जायते, नाशरहितत्वात् , 3:यन्नाशवत् तदेव जायते , यथा घटः इति प्रयोगः। न च जन्मवानपि भूम्याकाशादिर्नित्यः, तस्य नाशादर्शनादिति वाच्यम् ; येनाकाशादेर्नाशो न दृष्टः तेन त्वया किमाकाशादेर्जन्म दृष्टम्? तव स्वादृष्टे भूम्यादिनाशे यथा अप्रत्ययः, तथा स्वेनादृष्टे भूम्यादिजन्मन्यप्रत्ययो युक्त एव। ओमिति चेत् , तर्हि भूम्यादेर्जन्माभावादेव नाशाभावः इत्यभ्युपगच्छ। यदि शास्त्रान्निश्चेतुमिच्छसि, तर्हि ‘आत्मन आकाशः सम्भूतः’ इत्यादिशास्त्रादाकाशादीनां जन्म, तत्प्रयुक्तं नाशं च प्रत्ये[प्रती]हि। न चाकाशादिनाशे शास्त्रं प्रमाणं नास्तीति वाच्यम् ; ‘यत्प्रयन्त्यभिसंविशन्ती’त्यादि शास्त्रस्य सत्त्वात्। तस्माच्छास्त्रादुपपत्तेश्च जन्मनाशयोर्न क्वापि सामानाधिकरण्यव्यभिचारः। एवं नाशाभावेन जन्माभावे सिद्धे सत्तावृद्ध्यादीनां जन्मपूर्वकाणां भावविकाराणामभावोऽपि सिध्यति। न हि जन्मरहितस्य सत्तावृद्ध्यादयो दृश्यन्ते। जातस्यैव देहादेस्ते दृश्यन्ते।

ननु वृद्धिपरिणामादीनां विकाराणां जन्मपूर्वकत्वेऽपि सत्तारूपविकारस्य न जन्मपूर्वकत्वं, जन्मरहितेऽपि ब्रह्मणि सत्ताया दर्शनात्। सच्चिदानन्दं ब्रह्मेति हि श्रूयते , ‘अविनाशि तु तद्विद्धी’ति च स्मर्यते सत्त्वं ब्रह्मण इति चेत् , मैवम् ; किं देहादयो जन्मनः प्राक् सन्ति? उत पश्चात्? नाद्यः - जन्मनः प्राग्देहोऽस्तीति व्यवहारादर्शनात् , किन्तु पश्चादेव। तस्माद् देहादिगतं सत्त्वं जन्मरूपविकारपूर्वकमेव। ब्रह्मगतं तु सत्त्वं न जन्मपूर्वकम् - जन्माभावाद् ब्रह्मणः। अत एव हि कालत्रयाबाध्यं ब्रह्म। न हि जन्मनः प्रागसद्वस्तु कालत्रयाबाध्यं भवितुमर्हति। असत्त्वादेव जन्मनः प्राक्काले। तथा च त्रिकालाबाध्यत्वलक्षणं ब्रह्मगतं सत्त्वं न विकारः - अकार्यत्वात् तस्य। कार्यं हि विकारः। देहादिगतं सत्त्वं तु इन्द्रियगोचरत्वलक्षणम्। तद्धि विकारः, जन्मा[न]न्तरभावित्वेन कार्यत्वात्। इन्द्रियगोचरत्वाद्धि जातं देहमस्तीति प्रत्येति लोकः। देहस्तावज्जायते समनन्तरमेवेन्द्रियगोचरो भवतीति जन्मपूर्वकत्वं सत्तायाः। न हि जन्मनः प्रागिन्द्रियगोचरत्वं देहस्य। तस्मादिन्द्रियगोचरत्वरूपसत्ताविकारो वृद्ध्यादिविकारवज्जन्मपूर्वक एव। अमी एवेन्द्रियगोचरी- भवनयोग्याः पदार्थाः भावशब्देनोच्यन्ते देहादयः। तेषां चामी विकारा जन्मादयः सम्भवन्ति। आत्मा त्वतीन्द्रियः। न तस्य कोऽपि भावविकारः।

[[७१८]]

एवमविकारस्य परमेश्वरस्य सर्वभूतवैलक्षण्यमत्यन्तं सिद्धमेव। सविकारत्वाद् भूतानाम्। भूतानि हीन्द्रियगोचराणि ब्रह्मादि- स्तम्बपर्यन्तानि द्विपरार्धशतसंवत्सरादिपरिमितायुष्कालानि क्षेत्रक्षेत्रज्ञसंयोगाज्जातानि वर्धमानानि विपरिणममानान्यपक्षीयमाणानि चेति षड्भावविकारवन्त्येव, ‘यतो वा इमानि भूतानि जायन्ते’ इत्यादिश्रुतेः। तस्मात् सविकारेभ्यो भूतेभ्यो निर्विकारः सर्वभूतान्तरात्मा परमेश्वरोऽत्यन्तं विलक्षण एव। एवं निर्विकारत्वादेव निर्विशेषः। विशेषो हि विकारः। एवं सजातीयविजातीय- स्वगतभेदरूपविशेषाभावादेव एकश्चेत्याह— निर्विशेषत्वमेकत्वं चेति। सिद्धमिति शेषः। पश्यति जानाति, दृशेः ज्ञानार्थकत्वस्यापि सत्त्वात्। स पश्यतीति। स विद्वानित्यर्थः।

ननु सर्वोऽपि लोकः परमेश्वरं पश्यत्येव, आत्मत्वात् तस्य। आत्मा ह्यात्मनः नित्यापरोक्षः। आत्मा हि स्वयम्। न हि स्वस्य स्वयं कदाचिदपि परोक्षः स्यात् तस्माद् यः पश्यति स एव पश्यतीत्युक्तमयुक्तमित्याक्षिपति— नन्विति। विशेषणं पृथक्कथनम्। तेन पूर्वपक्षमङ्गीकरोति - सत्यमिति। पश्यतीति। सर्वलोक आत्मानं परमेश्वरं पश्यत्येव, किन्तु विपरीतं यथा तथा पश्यति, आत्मानं विपरीतलक्षणं पश्यतीति वा। अत इति। सर्वलोकस्य विपरीतात्मदर्शित्वादित्यर्थः। विशिनष्टीति। यथोक्तात्मदर्शिनं विशिष्य कथयति। कथं विशिनष्टीत्यत आह— स एव पश्यतीति। य आत्मानं परमेश्वरं पश्यति, स एव विद्वान् , अन्ये तु विपरीतदर्शिनो मूढा एवेत्यर्थः।

यद्वा य आत्मानं परमेश्वरं पश्यति, स एव परमेश्वरं पश्यति। अन्ये तु परमेश्वरं नैव पश्यन्ति। आत्मभिन्नत्वात् परमेश्वरस्य तद् दृष्ट्या । अथवा य एवं यथोक्तं परमेश्वरं पश्यति, स एव सम्यक् पश्यति। अन्ये तु मिथ्यैव पश्यन्तीत्यर्थः। तत्र दृष्टान्तमाह— यथेति। तिमिरोपहतदृष्टिश्चन्द्रं पश्यति, निर्दोषदृष्टिश्च चन्द्रं पश्यति। तत्र तिमिरदृष्टिश्चन्द्रमनेकत्वेन पश्यति। अन्यस्तु यथावदेकत्वेन पश्यति। एवं सति यश्चन्द्रमेकं पश्यति, स एव पश्यति, न त्वन्ये, तेषामनेकचन्द्रदर्शित्वादिति विशिष्यते उत्कृष्टत्वेन कथ्यत इत्यर्थः।

अविभक्तमिति। उपाधिकृतविभागरहितमित्यर्थः। विभक्ता उपाधित इत्यर्थः। अनेके चात्मान इति ये विपरीतं पश्यन्ति, ते विभक्तानेकात्मविपरीतदर्शिनः। एतेनात्मनो ये किलौपाधिकं नानात्वं वदन्ति, त एव विपरीतदर्शिन इत्युक्तौ किम्पुनः स्वत एव नाना- त्ववादिन इत्यर्थापत्तिः सूच्यते। यद्वा विभक्ताः स्वत एव परस्परं भिन्नाः, अत एवानेके आत्मान इति विपरीतं पश्यन्ति ये, ते तथोक्ताः। स एव पश्यतीति विशिष्यत इत्यन्वयः। इतरे भिन्नानेकात्मदर्शिनः पश्यन्तोऽप्यात्मानं न पश्यन्ति। कुतः? विपरीतदर्शित्वात्। तत्र दृष्टान्तमाह— अनेकचन्द्रदर्शिवदिति। यथा चन्द्रं पश्यन्तोऽप्यनेकचन्द्रदर्शिनो नैव पश्यन्ति, तद्वदित्यर्थः। प्रत्यक्षेऽपि चन्द्रे एकस्मिन् तिमिरोपहतदृष्टीनां यथा नानाचन्द्रबुद्धिः, नित्यापरोक्षेऽप्येकस्मिन्नात्मनि निर्विशेषेऽविद्यादूषितबुद्धीनां नानात्मबुद्धिः, संसार्यात्मबुद्धिः, ईश्वराद् भिन्नात्मबुद्धिः, अनात्मन्यात्मबुद्धिश्चेति भावः।

[[७१९]]

यत्तु रामानुजः - एवमितरेतरयुक्तेषु सर्वेषु भूतेषु देवादिविषमाकाराद् विविक्तं तत्रतत्र तत्तद्देहेन्द्रियमनांसि प्रति परमेश्वरत्वेन स्थितमात्मानं ज्ञातृत्वेन समानाकारं तेषु देहादिषु विनश्यत्सु विनाशानर्हस्वभावेनाविनश्यन्तं यः पश्यति, स आत्मानं यथावस्थितं पश्यति - इति, तत्तुच्छम् , सर्वेषु भूतेषु तिष्ठन्तमिति पदत्रयस्यैकवाक्यत्वेन प्रतीयमानस्य सर्वेषु भूतेषु देवादिविषमाकाराद् विविक्तमिति, सर्वेषु भूतेषु स्थितमिति च वाक्यद्वयत्वेन व्याख्यानस्याप्रमाणत्वात्। देवादिविषमाकाराद् विविक्तमिति वाक्याध्याहारस्या- न्याय्यत्वात्। सर्वेषु भूतेष्विति पदस्य त्रेधा आवृत्तौ प्रमाणाभावात् - सर्वेषु भूतेषु विविक्तं, सर्वेषु भूतेषु स्थितं, सर्वेषु भूतेषु विनश्यत्स्वविनश्यन्तमिति कथनमयुक्तमेव। तथा परमेश्वरमित्यस्य तत्तद्देहेन्द्रियमनांसि प्रति परमेश्वरत्वेनेत्यप्ययुक्तम् ; मूलाद् बहिर्बहुपदकल्पनस्यायुक्तत्वात् , परमेश्वरमित्यस्यैव विशेष्यत्वेन तद्विशेषणीकरणस्यात्मानमिति पदाध्याहारस्य चाप्रमाणत्वात्। सममित्यस्य ज्ञातृत्वेन समानाकारमित्यप्ययुक्तम् - मूलाद् बहिर्बहुपदकल्पनस्यात्रापि सत्त्वात्।

न च श्लोकस्य सूत्रवत्स्थितत्वात् तद्गतपदान्वयाय मूलाद् बहिः बहुपदकल्पनं न्याय्यमिति वाच्यम् ; तद्विनाऽप्यन्वयसम्भवस्य दर्शितत्वात् तत्कल्पनस्यान्याय्यत्वमेवेति। न च शब्दतोऽन्याय्यत्वेऽपि न्याय्यमेवार्थतः इति वाच्यम् ; अर्थतोऽप्यन्याय्यत्वात्। तथाहि— यद्यात्मा देवादिविषमाकारैः संयुक्तः स्यात् तदोच्येत विविक्त इति। न ह्यास्तिकः कोऽपि देहादिविलक्षणं कर्तारं भोक्तारं चात्मानं विदन् करचरणादिमन्तमात्मानं जानीयाद् बौद्धवत्। किन्तु ‘मम देहः’ इत्येव प्रत्येति। स च प्रत्ययो देवादिविषमाकाराद् वियुक्तः आत्मेत्युपदेशान्नैवापगच्छति। गृहाकाराद् विविक्तस्यापि बौद्धाभिमतदेहात्मनो गृहे ममत्वप्रत्ययस्य सत्त्वात्। देहादीन् प्रति परमेश्वरत्वं तु महेश्वर इत्यत्र निरस्तम्। ज्ञातृत्वेन समानाकारमात्मानमित्यप्ययुक्तम् , केनास्यात्मनः समानाकारता? न तावद् अनात्मना, तस्य जडत्वात्। नाप्यात्मना, स्वस्यैवात्मत्वात्। न च परमात्मनेति वाच्यम् ; सर्वज्ञेश्वरगतसर्वज्ञत्वरूपज्ञातृत्वस्य किञ्चिज्ज्ञजीवगतकिञ्चिज्ज्ञत्वरूपज्ञातृत्वस्य च भेदात्। नाप्यन्येनात्मनेति वाच्यम् ; आत्मानमित्येकत्वेनैवानेकात्मवादस्य निर्मूलि- तत्वात्। न चात्मानमिति जात्येकत्वमिति वाच्यम् ; आत्मनि जातेरेवाभावात्। किञ्च भवतु वा अज्ञानकृतः (आत्मकृत) आत्मभेदः, तथापि नात्मनां परस्परं साम्यम् - तर्कशास्त्रवित्त्वरूपज्ञातृत्वस्य व्याकरणशास्त्रवित्त्वरूपज्ञातृत्वस्य च पुरुषद्वयनिष्ठस्य भेदेन ज्ञातृत्व- साम्याभावात्। यदि तु ज्ञानमात्रमेव ज्ञातृत्वमिति गृह्यते, तर्हि तस्य निरुपाधिकस्य ज्ञानस्य भेदकाभावात् सिद्धमेवैकत्वं ज्ञानस्वरूपस्यात्मनः।

यच्च वेदान्तदेशिकेनोक्तम् - क्षेत्राकारपरिणतप्रकृतिबहुत्वात् तत्तच्छरीरसंयुक्ताः पुरुषा अप्यनेक एव। सर्वत्र पार्थक्येन सुख- दुःखाद्युपलब्धेः। न च निरवयवस्यात्मनः कथं संयोग इति वाच्यम् ; ‘युतसिद्धयोः सम्बन्धः संयोगः’ इति लक्षितसंयोगस्य निरवयवेऽपि सम्भवात्। निरवयवयोर्निरवयवसावयवयोः सावयवयोश्च संयोगः सम्भवत्येव। आत्मन्यध्यासलक्षणः सम्बन्धो नोपपद्यत एवेति, तत्तुच्छम् - युतसिद्धयोः सावयवयोरेव सम्बन्धः संयोग इति लक्षणात्। अन्यथा निरवयवयोर्निरवयवसावयवयोर्वा सम्बन्धस्यैवाभावेन तल्लक्षणस्य दुष्टत्वप्रसङ्गात्। न हि कपिना वृक्षः संयुक्त इतिवदाकाशेन वृक्षः संयुक्त इति लोके कोऽपि प्रत्येति, घटाकाशो वा मठाकाशेन संयुक्त इति च प्रत्येति। संयुक्तव्यवहारहेतुर्हि संयोगः। न च - विभुराकाशः, विभुत्वं च सर्वमूर्त- द्रव्यसंयोगित्वमित्यस्त्येव निरवयवस्याप्याकाशस्य घटादिसंयोगः। तथा आत्मा मनसा संयुज्यते, मन इन्द्रियेणेत्यात्मादीनां निरवयवानामेव संयोग इति - वाच्यम् ; उक्ततर्कशास्त्रस्याप्रमाणत्वात्। अत एव हि तर्कशास्त्रमधीयानो गर्दभात्मना पुनर्जायते4 इति स्मर्यते। ‘असङ्गो ह्ययं पुरुषः’ इत्यादिश्रुतिविरुद्धं ह्यात्ममनःसंयोगप्रतिपादनादिकम्। घटाकाशयोः संयुक्तत्वव्यवहाराभावेनाकाशस्य मूर्तद्वयसंयोगित्वरूपविभुत्वं चायुक्तम्। न च गुणगुणिनोरिव समवायसम्बन्धोऽस्तु क्षेत्रक्षेत्रज्ञयोरिति वाच्यम् ; गुणिनि गुण इव निर्विशेषे क्षेत्रज्ञे कालत्रयेऽपि क्षेत्ररूपविशेषसत्त्वायोगात्। सत्त्वे पुनर्गुणाद् गुणिन इव क्षेत्रात् क्षेत्रज्ञस्य विभाग एव न सिध्येत्। न चेष्टापत्तिः, प्रकृतिवियुक्तमात्मानं प्रपद्यत इति त्वयैवोच्यमानत्वात्। एवमसङ्गस्य पूर्णस्य चैतन्यस्य क्षेत्रज्ञस्य भेदकोपाधि- सम्बन्धासम्भवाद् एक एवात्मा। तस्मिन्ननेकत्वबुद्धिस्त्वध्यासकृतैव। न चात्मनि कथमध्यास इति वाच्यम् ; रज्जौ सर्पस्येवात्मनि संसारस्याध्यासः सम्भवत्यविद्ययेत्युक्तत्वात्। न च द्रष्टुः दृश्ये रज्ज्वादौ सर्पादिभ्रमः स्यान्नाम, कथं पुनः द्रष्टर्येव स्वस्मिन् देवादिभ्रमः इति वाच्यम्। न हि वयं द्रष्टुरात्मनः क्षेत्रज्ञस्य स्वस्मिन्ननात्मभ्रमो भवतीति वदामः, किन्तु प्रमातुरात्मन्यनात्मभ्रम इति ब्रूमः। न च प्रमातैव क्षेत्रज्ञ आत्मेति वाच्यम् ; सत्यं प्रमातैव क्षेत्रज्ञो ज्ञातृत्वात् , तथापि यावत्पर्यन्तं प्रमाता संसारिणमात्मानं मन्यते तावत्पर्यन्तं क्षेत्रज्ञोऽपि सन् प्रमाता क्षेत्रज्ञाद् भिन्न इव। विद्यावस्थायामेव प्रमातुः क्षेत्रज्ञात्मत्वम् , अविद्यावस्थायां तु संसारित्वमेवेति युक्तः संसारिणः प्रमातुरात्मन्यप्यनात्मभ्रमः, अविद्यावत्त्वात् , निद्रावतो ब्राह्मणस्यात्मनि क्षत्रियभ्रमवदिति।

[[७२०]]

यच्चानेनोक्तम् - अविनश्यन्तमिति विशेषणं जीवपरत्व एव घटते, न त्वीश्वरपरत्वे, देहाभिमानिनो हि जीवं विनश्यन्तं मन्यन्ते, न त्वीश्वरमिति विनाशप्रसक्तेरेवाभावादीश्वरस्य तन्निषेधो व्यर्थ इति। तत्तुच्छम् - आस्तिका एवात्राधिकारिणो न तु नास्तिक इति तावदविवादम्। अधीतवेदवेदाङ्गानामेव वेदान्तशास्त्रेऽधिकारात्। ते चास्तिकाः देहादिविलक्षणं नित्यमेवात्मानं मन्यन्ते। अन्यथा स्वर्गादिफलभोगाय यज्ञादिकर्मसु तेषामप्रवृत्त्यापत्तेः। मृतं पित्रादिकं प्रति पिण्डप्रदानाद्ययोगाच्च। तस्मात् कथं जीवेऽपि नाशप्रसक्तिः? यदि देहनाशाज्जीवनाशमेते मन्यन्ते, तर्हि श्रीरामस्य श्रीकृष्णस्य वा परमेश्वरत्वेनाभिमतस्य देहनाशदर्शनादीश्वरस्यापि नाशं ते किमिति न मन्येरन्? ये तु नास्तिकास्ते जीवमिवेश्वरमपि नाभ्युपगच्छन्त्येवेति कथं तद् दृष्ट्या ईश्वरनित्यत्वम्? तस्माद् ईश्वरवज्जीवेऽपि नाशप्रसक्त्यभावाद् व्यर्थ एव तन्निषेधः। अत एव अविनश्यन्तमित्यस्य निर्विकारत्वप्रतिपादनं फलमित्युक्तमाचार्यैः। न च षड्भावविकाराभाव एव प्रतिपादित इति वाच्यम् ; यस्य षड्भावविकारास्तस्यैव तदतिरिक्तविकारा अपि। सुखदुःखादिविकाराः खलु जन्मादिविकारप्रयुक्ताः। अत एव सह तत्कार्यैः प्रतिषिद्धा भवन्तीत्युक्तम्। न चात्मनि नाशवद् विकारित्वस्याप्यप्रसक्तिरिति वाच्यम् ; आस्तिकैरपि कर्ता भोक्ताऽऽत्मेति गृह्यमाणत्वात्। कर्तृत्वादिकं हि विकारः। तस्मादीश्वरस्यापि क्षेत्रज्ञस्याविनश्यन्तमिति विशेषणदानं युक्तमेव। मूढैरास्तिकैर्विपरीतत्वेन (विकारिजीवत्वेन) गृह्यमाणो यः क्षेत्रज्ञः स वस्तुतो निर्विकारः परमेश्वर एवेति जीवेश्वराभेदरूपमहावाक्यार्थबोधसम्भवात्। न च निर्विकारत्ववचनमात्रेण कथं परमेश्वरत्वं जीवस्येति वाच्यम् ; निर्विकारत्व- प्रतिपादनेनासंसारित्वलाभाद् असंसारित्वस्य चेश्वरधर्मत्वात्। यो हि सुखदुःखादिभिर्विक्रियते, स हि संसारी जीव इति हि सर्वेषामास्तिकानां प्रत्ययः। तस्मान्निर्विकारोऽसंसारी क्षेत्रज्ञ ईश्वर एव, न तु तद्भिन्नः, ‘क्षेत्रज्ञं चापि मां विद्धि’ इत्युपक्रमादिति॥२७॥

मध्वः …{Loading}…

मध्वः - मूलम्

॥13.28॥ Sri Madhvacharya did not comment on this sloka.,

जयतीर्थः

॥13.28॥ Sri Jayatirtha did not comment on this sloka.

अभिनव-गुप्तः …{Loading}…

अभिनवगुप्तः - मूलम्

॥13.28॥ अत एव – ।

शङ्करनारायणः

13.28 Sri Abhinavagupta did not comment upon this sloka.

वल्लभः …{Loading}…

वल्लभः - मूलम्

॥13.28॥ अथ पुनरपि सुग्रहणायात्मदर्शनमाह – तत्रात्मा त्रिविधोऽन्तर्यामी पुरुषोऽव्यक्तश्च। तत्र प्रथमस्य दर्शने फलमाह – द्वाभ्यां सममिति। तत्र यः समं तिष्ठन्तं सर्वभूतेषु परमात्मानमन्तर्यामिणमीश्वरं पश्यति स सम्यग्दर्शनः; विनश्यदवस्थेषु सत्प्रकृतिकार्यशरीरेषु जातिवदविनश्यन्तं ज्ञातृत्वेन समानाकारं यः पश्यति स पश्यति।

पुरुषोत्तमः

॥13.28॥ एतदेव फलरूपत्वेन विशदयति – सममिति। सर्वेषु प्रपञ्चान्तःपातिस्थावरजङ्गमात्मकेषु भूतेषु लीलया अनेकविधरसभोगार्थं तिष्ठन्तं रसानुभवार्थं नीचोच्चादिधर्मरहितं समं; तेषु विनश्यत्सु च अविनश्यन्तं तादृग्लीलावबोधरहितत्वाद्विनाशं प्राप्तेषु अन्यथाभावेन क्रोधादिराहित्येन तथैव लीलानुभवं कुर्वन्तं यः पश्यति; स परमेश्वरं पश्यति। अत एवंदर्शनाभावे सापराधो भवत्येव।

श्रीधर-स्वामी …{Loading}…

॥13.28॥ अविवेककृतं संसारोद्भवमुक्त्वा तन्निवृत्तये विविक्तात्मविषयं सम्यग्दर्शनमाह – सममिति। स्थावरजङ्गमात्मकेषु भूतेषु निर्विशेषं सद्रूपेण समं यथा भवत्येवं तिष्ठन्तं परमात्मानं यः पश्यति; अतएव तेषु विनश्यत्स्वप्यविनश्यन्तं यः पश्यति स एव सम्यवपश्यति नान्यः।

English …{Loading}…

आदिदेवानन्दः

13.28 Who sees the supreme ruler dwelling alike in all bodies and nevr perishing when they perish, he sees indeed.

गम्भीरानन्दः

13.28 He sees who sees the supreme Lord as existing eally in all beings, and as the Imperishable among the perishable.

पुरोहितस्वामी

13.28 He who can see the Supreme Lord in all beings, the Imperishable amidst the perishable, he it is who really sees.

शङ्करनारायणः

13.28. Whosoever perceives the Supreme Lord as abiding and as non-perishing in all beings alike, while they perish - he perceives properly.

शिवानन्दः - अनुवादः

13.28 He sees, who sees the Supreme Lord, existing eally in all beings, the unperishing within the perishing.

शिवानन्दः - टीका

13.28 समम् eally; सर्वेषु (in) all; भूतेषु in beings; तिष्ठन्तम् existing; परमेश्वरम् the Supreme Lord; विनश्यस्तु among the perishing; अविनश्यन्तम् the unperishing; यः who; पश्यति sees; सः he; पश्यति sees.Commentary He who beholds the Supreme Lord through the inner eye of wisdom; Him Who is seated in all beings from the Creator down to the unmoving objects and Who is not destroyed even when all beings are destroyed; he is said to have realised the Self.In different kinds of fire; the heat is the same. Gold is the same in different forms of ornaments. The light from many lamps is the same. So also in all living being;s the soul is the same. The soul or the Self is uniform everywhere. The Self is the same in ants; elephants; kings; beggars; saints and rogues.The Self is indestructible all living beings are perishable. It is the Supreme Lord when compared to the body; senses; mind; intellect; the Unmanifested Nature and the individual soul.Birth is the root cause of the BhavaVikaras or the modifications; viz.; change; growth; decay and death. The other changes of state manifest themselves after the birth of the body.The Supreme Lord is one and changeless as He is birthless; decayless and deathless. He is the one common consciousness in all beings. He sees rightly who sees the Supreme Lord as now described. He is a Jivanmukta. He has knowledge of the knower of the field or the immortal Self. He is the real seer or a liberated sage.The sage alone sees properly on account of knowledge. The whole world sees erroneously on account of ignorance. He who is suffering from defective vision beholds many moons. He sees erroneously. But he who sees one moon only sees in the proper manner; correctly. Even so he who beholds the one immortal indivisible Self in all beings really sees the Truth. He alone sees. He who sees many distinct selves erroneously does not really see though he sees. He is like the man who beholds many moons. (Cf.VIII.20

हिन्दी …{Loading}…

रामसुखदासः - अनुवादः

।।13.28।। जो नष्ट होते हुए सम्पूर्ण प्राणियोंमें परमात्माको नाशरहित और समरूपसे स्थित देखता है, वही वास्तवमें सही देखता है।

रामसुखदासः - टीका

।।13.28।।व्याख्या – समं सर्वेषु भूतेषु – परमात्माको सम्पूर्ण प्राणियोंमें सम कहनेका तात्पर्य है कि सभी प्राणी विषम हैं अर्थात् स्थावरजङ्गम हैं; सात्त्विकराजसतामस हैं; आकृतिसे छोटेबड़े; लम्बेचौड़े हैं; नाना वर्णवाले हैं – इस प्रकार तरहतरहके जितने भी प्राणी हैं; उन सब प्राणियोंमें परमात्मा समरूपसे स्थित हैं। वे परमात्मा किसीमें छोटेबड़े; कमज्यादा नहीं हैं। पहले इसी अध्यायके दूसरे श्लोकमें भगवान्ने क्षेत्रज्ञके साथ अपनी एकता बताते हुए कहा था कि तू सम्पूर्ण प्राणियोंमें क्षेत्रज्ञ मेरेको समझ; उसी बातको यहाँ कहते हैं कि सम्पूर्ण प्राणियोंमें परमात्मा समरूपसे स्थित हैं।तिष्ठन्तम् – सम्पूर्ण प्राणी उत्पत्ति; स्थिति और प्रलय – इन तीन अवस्थाओंमें जाते हैं सर्गप्रलय; महासर्गमहाप्रलयमें जाते हैं ऊँचनीच गतियोंमें; योनियोंमें जाते हैं अर्थात् सभी प्राणी किसी भी क्षण स्थिर नहीं रहते। परन्तु परमात्मा उन सब अस्थिर प्राणियोंमें नित्यनिरन्तर एकरूपसे स्थित रहते हैं।परमेश्वरम् – सभी प्राणी अपनेको किसीनकिसीका ईश्वर अर्थात् मालिक मानते ही रहते हैं परन्तु परमात्मा उन सभी प्राणियोंके तथा सम्पूर्ण जडचेतन संसारके परम ईश्वर हैं।विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति – प्रतिक्षण विनाशकी तरफ जानेवाले प्राणियोंमें विनाशरहित; सदा एकरूप रहनेवाले परमात्माको जो निर्विकार देखता है; वही वास्तवमें सही देखता है। तात्पर्य है कि जो,परिवर्तनशील शरीरके साथ अपनेआपको देखता है; उसका देखना सही नहीं है किन्तु जो सदा ज्योंकेत्यों रहनेवाले परमात्माके साथ अपनेआपको अभिन्नरूपसे देखता है; उसका देखना ही सही है। पहले इसी अध्यायके दूसरे श्लोकमें भगवान्ने कहा था कि क्षेत्र और क्षेत्रज्ञका ज्ञान ही मेरे मतमें ज्ञान है; उसी बातको यहाँ कहते हैं कि जो नष्ट होनेवाले प्राणियोंमें परमात्माको नाशरहित और सम देखता है; उसका देखना (ज्ञान) ही सही है। तात्पर्य है कि जैसे क्षेत्र और क्षेत्रज्ञके संयोगमें क्षेत्रमें तो हरदम परिवर्तन होता है; पर क्षेत्रज्ञ ज्योंकात्यों ही रहता है; ऐसे ही सम्पूर्ण प्राणी उत्पन्न और नष्ट होते हैं; पर परमात्मा सब अवस्थाओंमें समानरूपसे स्थित रहते हैं। पीछेके (छब्बीसवें) श्लोकमें भगवान्ने यह बताया कि जितने भी प्राणी पैदा होते हैं; वे सभी क्षेत्र और क्षेत्रज्ञके संयोगसे ही पैदा होते हैं। परन्तु उन दोनोंमें क्षेत्र तो किसी भी क्षण स्थिर नहीं रहता और क्षेत्रज्ञ एक क्षण भी नहीं बदलता। अतः क्षेत्रज्ञसे क्षेत्रका जो निरन्तर वियोग हो रहा है; उसका अनुभव कर ले। इस (सत्ताईसवें) श्लोकमें भगवान् यह बताते हैं कि उत्पन्न और नष्ट होनेवाले सम्पूर्ण विषम प्राणियोंमें जो परमात्मा नाशरहित और समानरूपसे स्थित रहते हैं; उनके साथ अपनी एकताका अनुभव कर ले।सम्बन्ध – अब भगवान् नष्ट होनेवाले सम्पूर्ण प्राणियोंमें अविनाशी परमात्माको देखनेका फल बताते हैं।

चिन्मयानन्दः

।।13.28।। जिस अधिष्ठान पर क्षेत्र और क्षेत्रज्ञ के परस्पर मिथ्या तादात्म्य की क्रीड़ा और परिणामत दुखपूर्ण संसार की प्रतीति होती है; वह एक परमेश्वर ही है; जो भूतमात्र में समभाव से स्थित है; जैसे समस्त तरंगों में जल होता है। नश्वर भूतों में अनश्वर केवल सतही दृष्टि से निरीक्षण करने वाले पुरुष को जगत् में निरन्तर परिवर्तन होता दिखाई देगा। वस्तुएं स्वभावत परिवर्तित होती रहती हैं और उनके परस्पर के सम्बन्ध भी। परिवर्तन होना यह वैषयिक और वैचारिक दोनों ही जगतों का स्थायी धर्म है। इस जगत् की तुलना से कहा गया है कि इन सबमें वह परमेश्वर नित्य और अविकारी अधिष्ठान है; जिसके कारण ये सब परिवर्तन जाने जाते हैं। जन्म; वृद्धि; व्याधि; क्षय और मृत्यु ये वे विकार हैं; जो प्रत्येक अनित्य वस्तु को प्राप्त होते हैं। जिसकी उत्पत्ति हुई हो; उसे ही आगे के विकारों से भी गुजरना पड़ेगा। यहाँ परमेश्वर को अविनाशी कहकर उसके पूर्व के विकारों का भी अभाव सूचित किया गया है। यह अविनाशी चैतन्य ही नाश का प्रकाशक और जगत् का आधार है; जैसे रूपान्तरित होने वाले आभूषणों का आधार स्वर्ण है। वह पुरुष जो इस सम और अविनाशी परमेश्वर को समस्त विषम और विनाशी भूतों में पहचानता है; वही पुरुष वास्तव में उसे देखता है जिसे देखना चाहिए। यहाँ देखने से तात्पर्य आत्मानुभव से है। भौतिक जगत् की वस्तुएं इन्द्रियगोचर होती हैं; जब कि भावनाओं और विचारों का ज्ञान क्रमश मन और बुद्धि से होता है। इसी प्रकार आत्मबोध भी आध्यात्मिक ज्ञानचक्षु से होता है; चर्मचक्षु से नहीं। जैसे हमारे नेत्र विचारों को नहीं देख सकते वैसे ही मन और बुद्धि आत्मा को नहीं देख सकते। स्थूल के द्वारा सूक्ष्म का दर्शन नहीं हो सकता। सूक्ष्मतम आत्मा समस्त उपाधियों से अतीत है। जो (इस समतत्त्व को) देखता है; वही (वास्तव में) देखता है यह कथन वेदान्त की विशेष वाक्यशैली है; जो अत्यन्त प्रभावपूर्ण है। सभी लोग देखते हैं; परन्तु पारमार्थिक सत्य को नहीं। उनके इस विपरीत दर्शन से ही उनके प्रमाणों (ज्ञान के कारणों) में दोष का अस्तित्व सिद्ध होता है। विभ्रम और वस्तु का अन्यथा दर्शन; मिथ्या कल्पनाएं और विक्षेप ये सब वस्तु के यथार्थ स्वरूप को आच्छादित कर देते हैं। इसलिए; योगेश्वर श्रीकृष्ण विशेष बल देकर कहते हैं कि जो पुरुष इस सम सत्य को देखता है वही वास्तव में देखता है। शेष लोग तो भ्रान्ति में पड़े रहते हैं। अब यथोक्त सम्यक् दर्शन श्रेष्ठ फल को दर्शाकर उसकी स्तुति करते हैं

तेजोमयानन्दः - अनुवादः

।।13.28।। जो पुरुष समस्त नश्वर भूतों में अनश्वर परमेश्वर को समभाव से स्थित देखता है, वही (वास्तव में) देखता है।।


  1. ‘देहेन्द्रियमनोबुद्ध्यव्यक्तात्मनः’ इति भाष्ये आत्मशब्दस्य प्रत्येकं योजनेति भावः। ↩︎

  2. ईशनशीलमिति शेषः। ↩︎

  3. यज्जायते तत् नाशवत् इति व्यतिरेकव्याप्तिः योज्या। ↩︎

  4. ‘अधीत्य गौतमीं विद्यां गार्दभीं योनिमाप्नुयात्’ इति स्मृतिरिति वदन्ति। ↩︎