(सं) विश्वास-प्रस्तुतिः ...{Loading}...
उपद्रष्टा ऽनुमन्ता च
भर्ता भोक्ता महेश्वरः।
परमात्मेति चाप्य् उक्तो
देहे ऽस्मिन् पुरुषः परः॥13.23॥
(सं) मूलम् ...{Loading}...
उपद्रष्टाऽनुमन्ता च भर्ता भोक्ता महेश्वरः।
परमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुषः परः।।13.23।।
रामानुज-सम्प्रदायः
(सं) रामानुजः मूलम् ...{Loading}...
।।13.22।।अस्मिन् देहे अवस्थितो अयं पुरुषो देहप्रवृत्त्यनुगुणसंकल्पादिरूपेण देहस्य उपद्रष्टा अनुमन्ता च भवति तथा देहस्य भर्ता च भवति तथा देहप्रवृत्तिजनितसुखदुःखयोः भोक्ता च भवति। एवं देहनियमनेन देहभरणेन देहशेषित्वेन च देहेन्द्रियमनांसि प्रति महेश्वरः भवति। तथा च वक्ष्यते – शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः। गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात्।। (गीता 15।8) इति।
अस्मिन्देहे देहेन्द्रियमनांसि प्रति परमात्मा इति च अपि उक्तः। देहे मनसि च आत्मशब्दः अनन्तरम् एव प्रयुज्यते – ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना। (गीता 13।24) इति। अपिशब्दात् महेश्वर इति अपि उक्त इति गम्यते। पुरुषः परःअनादिमत्परम् (गीता 13।12) इत्यादिना उक्तः अपरिच्छिन्नज्ञानशक्तिः अयं पुरुषः अनादिप्रकृतिसंबन्धकृतगुणसङ्गात् एतद्देहमात्रमहेश्वरो देहमात्रपरमात्मा च भवति।
(सं) रामानुजः वेङ्कटनाथः ...{Loading}...
।।13.23।। सदसद्योनिजन्मसमनन्तरभाविनः पुरुषस्वभावानाहउपद्रष्टेति। श्लोकेन द्रष्टा प्रमाणादिवशेन दृश्यानां प्रदर्शकः; उपद्रष्टा यथावत्स्वयमप्रवृत्तः प्रवर्तमानस्यानुसन्धाता; तत्तत्साधर्म्यादिहोपद्रष्ट्टशब्द इत्याहदेहप्रवृत्त्यनुगुणसङ्कल्पादिरूपेणेति। आदिशब्देन प्रेरणं संगृहीतम्। यद्वा प्रवृत्तस्य प्रवर्तकोऽनुमन्तेति भेदमभिप्रेत्य आदिशब्दः। उपद्रष्ट्टत्वानुमन्तृत्वादेः प्रतिसम्बन्धिसापेक्षत्वादधिकरणतया सन्निहितोऽपि देहः प्रतिसम्बन्धितयाप्यर्थादन्वयमर्हतीत्यभिप्रायेणदेहस्येत्युक्तम्। नियन्तृत्वधारकत्वशेषित्वानां शरीरप्रतिसम्बन्ध्यात्मलक्षणानां विभागप्रदर्शनाय प्रवृत्तिविषयोपद्रष्ट्टत्वानुमन्तृत्वयोरेकवाक्यकरणं;तथेत्यादिवाक्यभेदश्च। भर्ता धारकः। उक्तहेतुकं सन्निहितदेहादिविषयमेवास्य महेश्वरत्वमित्याह – एवमिति। देहजन्यफलभोक्तृत्वकथनेन देहस्य तदर्थतया देहिनः शेषित्वं फलितमित्यभिप्रायेणाह – देहशेषित्वेनचेति। कर्माधीनजननमरणभागिनि जीव एवेश्वरशब्दस्य परिच्छिन्नविषयतया प्रयोगं दर्शयति – तथाचेति।
जीवात्मन्येव ज्ञानतो व्याप्त्या परमात्मशब्दप्रयोगोपपत्तये सन्निहितसङ्कोचकान्वयमाहअस्मिन्देह इति। साक्षात्परमात्मविषयत्वे सतिअस्मिन् देहे इत्यसङ्गतमिति भावः। अत्र देहेन्द्रियमनांसीति मनसः पृथगुपादानं तस्यात्मशब्दप्रयोगविषयत्वप्रदर्शनार्थम्। परमशब्दव्यवच्छेद्याभावाज्जीवविषयत्वानुपपत्तिरित्यत्राह – देहे मनसिचेति। अयं प्रयोगः प्रबन्धान्तरे वा न मृग्यः अपित्वेतत्प्रकरणे श्लोकमात्रव्यवधानेन। अतो व्यवच्छेद्यसन्निधानमपि तद्व्यवच्छेदमात्रार्थत्वस्य व्यवस्थापकमित्यभिप्रायेणअनन्तरमेवेत्युक्तम्। परमात्मशब्दवन्महेश्वरशब्दस्यापि सन्निहितसङ्कोचकावच्छिन्नविषयत्वं चकारातिरिक्तविषयेणापिशब्देनापि प्रतीतमित्याह – अपिशब्दादिति। उक्तः इत्यनेनापरमात्मन्ययमापेक्षिकः परमात्मादिशब्द इति सूचितम्। पुरुषः परः इत्यत्र परशब्दस्यापि पूर्ववदवच्छिन्नविषयत्वानुग्राहकं देहव्यपदेशस्यापेक्षिकमहेश्वरत्वादिव्यपदेशस्य च तात्पर्यं; श्लोके चोद्देश्योपादेयविभागं; पिण्डितार्थं च दर्शयति – अनादीति। अनादिमत्परम् [13।13]इत्यादिनोक्त इति परमत्वाभावोक्तिः। अपरिच्छिन्नज्ञानशक्तिरिति तु परत्वमात्रप्रदर्शनम्अयं इत्यनेन तन्मध्यपतितःउपद्रष्टा इति श्लोकोऽपि तद्विषय एवेति प्रकरणस्य जीवविषयत्वं प्रदर्शितम्। देहेऽस्मिन् इत्यनेन प्रागुक्तो हेतुर्विवक्षित इत्यभिप्रायेणअनादिप्रकृतिसम्बन्धकृतगुणसङ्गादित्युक्तम्।
(सं) रामानुजः (Eng) आदिदेवानन्दः ...{Loading}...
13.23 The self existing in the body becomes the ‘spectator and approver’ of this body by means of the will in consonance with the functioning of the body. Likewise, It is the ‘supporter’ of the body, Similarly, It becomes ’experiencer’ of the pleasure and pain resulting from the activities of the body. Thus, by virtue of ruling and supporting the body and by making the body completely subservient, It becomes ’the great lord’ (Mahesvara) in relation to the body, the senses and the mind. Sri Krsna will further declare: ‘When the lord acires the body, and when he leaves it and goes on his way, he takes these as the wind carries scents from their places’ (15.8). In the body, It is said to be the ‘supreme self’ in relation to the body, the senses and the mind. The word ‘self’ (Atman) is applied to the body and the mind subseently. It is said afterwards: ‘Some perceive the self by means of the self through meditation’ (13.24). The particle ‘also’ (api) indicates that the self is the ‘supreme lord’; in relation to the body just as It is the supreme self. The supremacy of the self has been described in the text beginning with ‘It is the beginningless brahman having Me for the Highest’ (13.12). It is true that the self (in Its emancipated state) has limitless power knowledge. But It becomes the great lord and the supreme self only in relation to the body. Such lordship and supremacy is the result of attachment to the Gunas arising from the beginningless conjunction with Prakrti.
अभिनवगुप्त-सम्प्रदायः
(सं) अभिनव-गुप्तः मूलम् ...{Loading}...
।।13.20 – 13.23।। एतल्लक्षणं कृत्वा परीक्षा क्रियते – प्रकृतिमित्यादि पर इत्यन्तम्। प्रकृतिरप्यनादिः +++(;N कार्यकारणप्रकृतिरप्यनादिः)+++ कारणान्तराभावात्। ,विकाराः पटादयः। प्रकृतिरिति कार्यकारणभावे हेतुः। पुरुषस्तु प्रधान्यात् भोक्ता। प्रकृतिपुरुषयोः पङ्ग्वन्धवत् किलान्योन्यापेक्षा वृत्तिः। अत एवास्य [पुरुषस्य] शास्त्रकृद्भिः नानाकारैर्नामभिरभिधीयते रूपम् उपद्रष्टा इत्यादिभिः। अयमत्र तात्पर्यार्थः – प्रकृतिः तद्विकारः; चतुर्दशविधः सर्गः; तथा पुरुषः; एतत्सर्वम् अनादि नित्यं च ब्रह्मतत्वाच्छुरितत्वे सति तदनन्यत्वात्।
(सं) अभिनव-गुप्तः (Eng) शङ्करनारायणः ...{Loading}...
13.20-23 Prakrtim etc. upto parah. The Material Cause also is beginningless, because it has no other casue. Modifications : the cloth and the like. What is known as Material Cause is the basis for the process of cause-and-effect. But, the Soul, because of Its importance, constitutes the enjoyer. [Thus] the Material Cause and the Soul have verily an existence of interdependence just as that of the lame and the blind. Hence, the nature of the Soul is described by the authors of the scriptures by nomenclatures having different forms such as ’the Spectator’ and so on. The meaning, intended here is this : The Material Cause, Its modifications, the fourteen types of creation and also the Soul - this is all beginningless and perennial as it is completely illuminated by the category Brahman and is identical with it. Hence [the Bhagavat] said :
माध्व-सम्प्रदायः
(सं) मध्वः मूलम् ...{Loading}...
।।13.23।। यतश्च यत् [13।4] इत्याह – उपद्रष्टेति। अनुमन्ता अन्वनु विशेषतो निरूपकः। पुरुषः सुखदुःखानामिति जीव उक्तः। पुरुषं प्रकृतिमिति जीवेश्वरौ सहैवोच्येते। अन्यत्र महातात्पर्यविरोधः। उत्कर्षे हि महातात्पर्यम्। तथा हि सौकरायणश्रुतिः – अवाच्योत्कर्षे महत्त्वासर्ववाचां सर्वन्यायानां च महत्तत्परत्वम्। विष्णोरनन्तस्य परात्परस्य तच्चापि (तथापि) ह्यस्त्येव न चात्र शङ्का। अतो विरुद्धं तु यदत्र मानं तदक्षजादावथ वाऽपि युक्तिः। न तत्प्रमाणं कवयो वदन्ति न चापि युक्तिर्ह्यूनमतिर्हि दृष्टेः इति। अतो युक्तिभिरप्येतदपलापो न युक्तः। अतो यया युक्त्याऽविद्यमानत्वादि कल्पयति साऽप्याभासरूपेति सदैव माहात्म्यं वेदैरुच्यत इति सिद्ध्यति। अवान्तंर च तात्पर्यं तत्रास्ति। उक्तं च तत्रैव – अवान्तरं तत्परत्वं च सत्त्वे महद्वाऽप्येकत्वात्तु तयोरनन्ते इति; श्यामत्वाद्यभिधानाच्च। युक्तं च पुरुषमतिकल्पितयुक्त्यादेराभासत्वम्; अज्ञानसम्भवात्। न तु स्वतः प्रमाणस्य वेदस्याभासत्वम्। अदर्शनं च सम्भवत्येव पुंसां बहूनामप्यज्ञानात्। तर्ह्यस्मदनधीतश्रुत्यादौ विपर्ययोऽपि स्यादिति न वाच्यम्। यतस्तत्रैवाह – नै(व)तद्विरुद्धा वाचो नै(व)तद्विरुद्धा युक्तय इति ह प्रजापतिरुवाच प्रजापतिरुवाच इति। तद्विरुद्धं च जीवसात्म्यमाभास एव चेति चोक्तम्। जनमेजय उवाच – बहवः पुरुषा ब्रह्मन्नुताहो एक एव तु। को ह्यत्र (पुरुषः श्रेष्ठः का वा योनिरिहोच्यते) पुरुषश्रेष्ठस्तं भवान्वक्तुमर्हति। श्रीवैशम्पायन उवाच – नैतदिच्छन्ति पुरुषमेकं कुरुकुलोद्वह।। बहूनां पुरुषाणां हि यथैका योनिरुच्यते।। तथा तं पुरुषं विश्व(श्वं व्या)माख्यास्यामि गुणाधिकम् इति मोक्षधर्मे [म.भा.12।350।13]। न च तत्सर्वं स्वप्नेन्द्रजालवत् वैधर्म्याच्च न स्वप्नादिवदिति भगवद्वचनम्। न च स्वप्नवदेकजीवकल्पितत्वे मानं पश्यामः। विपर्यये मानानि चोक्तानि द्वितीये। उक्तं चायास्यशास्वायाम् – स्वप्नो ह वा अयं चञ्चलत्वान्न च स्वप्नो न हि विच्छेद एतदिति इति। नायं दोषः। नहीश्वरस्य जीवैक्यमुच्यते जीवस्य हीश्वरैक्यं ध्येयम्। तदपि न निरुपाधिकम्; अतो न प्रतिबिम्बत्वस्य विरोध्यैक्यम्। तथा च माधुच्छन्दसश्रुतिः – ऐक्यं चापि प्रतिबिम्बेन विष्णोर्जीवस्यैवैतदृषयो वदन्ति इति। अहङ्गहोपासने च फलाधिक्यमाग्निवेश्यश्रुतिसिद्धम्। अहंग्रहोपासकस्तस्य साभ्यमभ्याशो ह वाऽश्नुते नात्र शङ्का इति। तदीयोऽहमिति ज्ञानमहंग्रह इतीरितः इति वामने। तद्वशत्वात्तु सोऽस्मीति भृत्यैरेव; न तु स्वत इति च। प्रातिबिम्ब्येन सोऽस्मि भृत्यश्चेति भावना। तथा ह्ययास्यशाखायाम् – भृत्यश्चाहं प्रातिबिम्ब्येन सोऽस्मीत्येवं ह्युपास्यः परमः पुमान् सः इति। प्रातिबिम्ब्यं च तत्साम्यमेव।
(सं) मध्वः जयतीर्थः ...{Loading}...
।।13.23।। यतश्च यत् [13।4] इति वक्तुमित्युक्तं तत्केनोच्यते इत्यत आह – यतश्चेति। इति प्रतिज्ञातमिति शेषः। अनुमन्ता अनुज्ञातेति कश्चित्। तदसत्; औदासीन्यप्राप्तौ भर्ता भोक्तेत्यादिविरोधादिति भावेन व्याचष्टे – अनुमन्तेति। अनुशब्दः पुनरर्थे क्रियावृत्तिश्च तदर्थ इति ज्ञापनाय द्विरुक्तिः। विशेषत इति तृनोऽर्थः। निरूपकः कर्तव्यस्यालोचकः। य एनं वेत्ति पुरुषं इत्यत्र पुरुषशब्दं व्याख्यातुमुपोद्धातमाह – पुरुष इति। सुखदुःखभोक्तृलिङ्गादिति भावः। सुखदुःखानां भोक्तृत्वे भोगे हेतुः कर्तेति व्याख्यानमामित्येदमुक्तम् व्याख्यानान्तरे तु भगवानेवात्र पुरुषःपुरुषः प्रकृतिस्थो हि [13।22] इति जीवः। उपलक्ष्यमेतत्; उपद्रष्टेतीश्वर उक्त इत्यपि द्रष्टव्यम्। ततः किं इत्यत आह – पुरुषमिति। यत एवमुभावपि प्रकृतौ अतोय एनं वेत्ति पुरुषं [13।24] इत्यत्र पुरुषशब्देन जीवेश्वरौ द्वावपि गृह्येते; द्वयोरपि परामर्शसम्भवात्। तर्हि द्वयोर्द्विवचनेन भाव्यमित्यत उक्तं सहैवेति; तन्त्रेण इत्यर्थः। अत्र कश्चित् [शं]य एनं वेत्ति पुरुषं साक्षात् अयमहमस्मि इत्येवमध्याहारेण जीवेश्वरैक्यं व्याख्यातवान्; तद्दूषयति – अन्यत्रेति। जीवेश्वरैक्ये सर्ववेदानां प्राधान्येन यत्प्रतिपादकत्वं तद्विरोधः। कथमित्यत आह – उत्कर्षे हीति। सर्वागमानामीश्वरस्य सर्वोत्कर्षे हि महातात्पर्यमित्यर्थः। तत्कुतः प्रागुक्तयुक्तेः श्रुतेश्चेत्याह – तथा हीति। विष्णोर्महत्त्वादेवावाच्यत्वेनोक्ते सर्वोत्कर्षे सर्वासां वेदवाचां सर्वन्यायानां न्यायव्युत्पादकस्य मीमांसाशास्त्रस्येति यावत्। महत्तत्परत्वं महातात्पर्यम्। अस्तूत्कर्षे महातात्पर्यम्; तथाप्युत्कर्षस्य सत्त्वं कुतः न हि जैनवाक्यस्य क्वचिन्महातात्पर्येऽपि तत्सत्त्वमस्तीत्यत आह – तच्चापीति। न केवलं तत्र तात्पर्यं; किन्तु तन्महत्त्वमपि चास्त्येव। धियां स्वतः प्रामाण्यादिति हेरर्थः। स्वतःप्रामाण्येऽपि बाधकाद्विषयासत्त्वं भवति। तदप्यत्र नास्तीत्याह – न चात्रेति। शङ्केति। शङ्काहेतुर्बाधकमिति यावत्। कथं बाधकाभावः इत्यत आह – अत इति। अत इत्यस्योत्तरत्रान्वयः। तत्रेश्वरस्य सर्वोत्कर्षे तु यद्विरुद्धं मानं शङ्क्यते तदपि किमक्षजादौ। अक्षजागमयोरन्यतरत्। अथवा युक्तिः। आद्यं निराकरोति – न तदिति। कवयो न्यायविदः। कुतः अत उपजीव्यवेदविरोधात्। एतेन द्वितीयोऽपि निरस्तः। तथापि विशेषं वक्तुमाह – न चेति। युक्तिरपि नैव मानं; यतो दृष्टेः श्रुतेरूनमतिर्जात्यैव दुर्बलज्ञानोत्पादिका भगवदुत्कर्षे सर्वागमानां महातात्पर्यमित्यत्र पठितायाः श्रुतेः शेषेण योऽर्थो लब्धः सोऽपि प्रकृतोपयुक्त एव। उत्कर्षस्य सत्त्वाभावे जीवेश्वरैक्यस्य तद्विरोधाभावात् अतस्तं स्ववाक्येनाप्याह – अत इति। युक्तिभिरित्युपलक्षणम्। एतदपलापो भगवदुत्कर्षस्याविद्यमानत्वादिकल्पनम्। अत इत्युक्तमेवार्थं विशदयति – अत इति; वेदविरोधादित्यर्थः। आदिपदेनानिर्वाच्यत्वं गृह्यते भगवदुत्कर्षस्येति शेषः। साऽपीत्यपिशब्देन प्रत्यक्षादेः समुच्चयः। इतिशब्दो हेतौ बाधकाभावादित्यर्थः। उत्कर्षस्य प्रकृतत्वेऽपि तच्चापीति श्रौततच्छब्दव्याख्यानाय माहात्म्यमित्युक्तम्। ननु प्रतिपन्नस्य विद्यमानत्वादिकं बाधकाभावेन कल्प्यम् स्वतः प्रामाण्यात्। न चोत्कर्षस्य सत्त्वं वेदात्प्रतिपन्नम्। उत्कर्षे तत्सत्त्वे च तात्पर्याङ्गीकारे वाक्यभेदप्रसङ्गादित्यत आह – अवान्तरं चेति। चशब्दस्य तत्र सत्त्वे चेत्यन्वयः। उभयत्र महातात्पर्याभावान्न दोषः। एतत्कुतः इत्यत आह – उक्तं चेति। तत्रैव तस्यामेव श्रुतावङ्गीकृत्य चेदमुक्तं; वस्तुतस्तूत्कर्षसत्त्वे महदपि तत्परत्वम्। कुतः अनन्तसम्बन्धिनोस्तयोरुत्कर्षस्य तत्सत्त्वस्य चैकत्वात्। अनन्त इति प्रकृतत्वादेवोक्तम्। एतदुक्तं भवति – प्रमाणं हि प्रवर्तमानं विधिरूपं निषेधरूपं वा; न तूदासीनं; तस्य च बाधाभावे स्वत एव सत्त्वासत्त्वलक्षणौ विधिनिषेधौ सिध्यतः; किं तत्र तात्पर्यान्तरकल्पनया इति। ननु निराकारमेव ब्रह्म श्रूयते तत्कथं तद्गुणोत्कर्षे सर्वश्रुतीनां महातात्पर्यं स्यादित्यत आह – श्यामत्वेति। एतच्चानन्तरातीताध्याये प्रपञ्चितम्। वेदविरोधाद्युक्त्यादेराभासत्वसम्भवात्। अज्ञानं चोपाधिव्यभिचारादिविषयम्। स्वतः प्रमाणस्यापौरुषतया पुरुषगुणानपेक्षप्रमाणत्वमित्युक्तम् तदयुक्तम्; नियामकाभावात्। विपर्ययस्यापि सुवचनादित्यत आह – युक्तं चेति। युक्तं सम्भावितम्। अज्ञानसम्भवात् अज्ञानमूलत्वसम्भवात्। अज्ञानं चोपाधिव्यभिचारादिविषयम्। स्वतः प्रमाणस्यापौरुषेयतया पुरुषगुणानपेक्षप्रमाणभावस्य युक्तेरज्ञानमूलत्वसम्भावना निर्बीजेत्यत आह – अदर्शनं चेति। सम्भवति शङ्कार्हमित्यर्थः। एतदुक्तं भवति – वेदस्य युक्त्यादेश्च परस्परविरोधे द्वयोः प्रामाण्यानुपपत्तावन्यतरस्याभासत्वे कल्पनीये युक्त्यादेरेव तत्कल्प्यं; सम्भवात्। न तु वेदस्य; असम्भवात्। निरवकाशेन सावकाशस्य बाधदर्शनादिति। पुरुषेष्वदर्शनमाशङ्कमानानामतिप्रसङ्गमाशङ्क्य निषेधति – तर्हीति। विपर्ययो भगवद्गुणोत्कर्षस्य सर्ववाचाम् इति श्रुत्यैवोक्तत्वादिति। परिहारे स्थितेऽन्यमप्याह – यत इति। तस्यामेव श्रुतावाह वेदपुरुषः एतद्विरुद्धाः भगवद्गुणोत्कर्षविरुद्धाः। उत्कर्षे हीत्यादिनोक्तमुपसंहरति – तदिति। सर्ववेदानां यद्भगवद्गुणोत्कर्षे महातात्पर्यमुक्तं तद्विरुद्धं जीवसात्म्यमीश्वरेण जीवस्यैकात्म्यं सूत्रेतिहासविरुद्धं चेत्याह – आभास इति। बहव इति पक्षेऽपि किं सर्वे समाः उतैकः श्रेष्ठः द्वितीये कोऽसावत्र पुरुषेषु श्रेष्ठः कथं च श्रेष्ठः तं तथा वक्तुमर्हतीति। एतदेतस्मिन् जगति किन्तु बहवः तेषां बहूनां पुरुषाणां मध्ये यो योनिः यः कारणभूतः श्रेष्ठः। तथा च तं पुरुषं तथा व्याख्यास्यामि। विश्वं व्याप्तम्। स्यादेतत्; सर्वं जगत्स्वप्नवदेकाज्ञानपरिकल्पितमित्येके; इन्द्रजालवदनेकाज्ञानकल्पितमित्यपरे। अपकृष्टापेक्षश्चोत्कर्षेः; तथा चापकृष्टस्य विश्वस्य मिथ्यात्वादुत्कर्षस्य सत्त्वं कथं स्यात् कथं च तत्र सर्ववेदानां महातात्पर्यं इत्यत आह – न चेति। भगवद्वचनं यत इति शेषः। इतोऽप्येवमित्याह – न चेति। कल्पितत्वे विश्वस्य एवं बहुजीवकल्पितत्वेऽपीति वाच्यम्। विपर्यये सत्यत्वे। तर्हि कथं विश्वस्य पुराणेषु स्वप्नादिसाम्यमुच्यते इत्यत आह – उक्तं चेति। अयं प्रपञ्चः स्वप्न इवोच्यते; चञ्चलत्वादनित्यत्वात् विकारित्वाच्च न तु स्वप्नः; साक्षान्मिथ्येति यावत्। कुतः एतत एतस्य विच्छेदो बाधो न हीत्यर्थः। यद्यपि स्वप्नः सत्यः तथाप्यङ्गीकारवादोऽयं मिथ्यार्थप्राचुर्याद्वा। ननु जीवस्य ब्रह्मणि अहं ब्रह्मास्मि [बृ.उ.1।4।1] इत्यहङ्ग्रहोपास्तिस्तावत्कर्तव्या; जीवश्च न सर्वोत्कृष्टः ततश्च तेनैकीभूतस्येश्वरस्य कथं सर्वोत्कर्ष इत्यत आह – नायमिति। बुद्धिस्थस्यायमिति परामर्शः कुतः इत्यत आह – न हीति। किं तर्ह्युच्यत इत्यत आह – जीवस्य हीति। स्यादयं दोषः; यदि अहं ब्रह्मास्मि इत्यादिनेश्वरमुद्दिश्य तस्यानुत्कृष्टजीवैक्यमुच्येत। नचैवं; किन्तु जीवमुद्दिश्य तस्येश्वरैक्यं अन्यथा ब्रह्म मदात्मकं भवति निर्देशप्रसङ्गादिति। सत्यमेतत्; जीवस्येश्वरैक्यमुच्यत इति। तथापि नोक्तदोषपरिहारः। यदीश्वरो वस्तुतः सर्वोत्कृष्टः स्यात्तदा कथं जीवस्य तदैक्यं स्यात् श्रुतस्यानुत्कृष्टत्वेनानुभवात्। अतो जीवस्य ब्रह्मणि तस्याहङ्ग्रहोपासनस्यान्यथाऽनुपपत्त्येश्वरस्य सर्वोत्कृष्टत्वं मिथ्येत्यङ्गीकार्यमित्यत आह – तदिति। यज्जीवस्येश्वरेणैक्यमुच्यते तदपि न निरुपाधिकं निरुपचरितम्; किन्तूपचारेणैवोच्यते। उपचारबीजं सहेतुकमाह – अत इति। यतः साक्षादैक्यं नार्थः अतोअहं ब्रह्मास्मि इत्यादावुच्यमानमैक्यं प्रतिबिम्बत्वविरोधि,प्रतिबिम्बत्वादन्यत् न भवति किन्तु प्रतिबिम्बत्वमेवेत्यर्थः। ननु साक्षादैक्यं कुतो नार्थः कुतश्चोपचारोऽपि प्रतिबिम्बत्वनिमित्तः इत्यत आह – तथा चेति। जीवस्यापि विष्णोरैक्यं यदृषयो वदन्ति तत्प्रतिबिम्बेनैव निमित्तेन हीत्यर्थः। इतश्चोपचारेणैवाहङ्ग्रहोपासनमित्याह – अहमिति। फलाधिक्यं मुख्यं फलमहङ्ग्रहोपासनस्य हि परमं प्रयोजनमीश्वरसारूप्यापत्तिरेव श्रुत्योच्यते। यदि च निरुपचरितमैक्यमुपास्यं स्यात् तथा तन्नोपपद्येत। तं यथा यथोपासते तदेव भवति इति श्रुतेरिति भावः। अभ्याशः समीपम्। अल्पेनैव कालेनेत्यर्थः। इतोऽप्युपचारेणैवाहङ्ग्रह इत्याह – तदीय इति। भृत्यैरेवोपास्यत इति शेषः। स्वतः साक्षादैक्यात्। नन्वग्निर्माणवक इत्याद्युपचारो भेदज्ञानसहचरितो दृष्टः; न च प्रकृते तदस्ति; तत्कथमुपचारेणाहङ्ग्रहोपासनं इत्यतोऽत्रापि भेदज्ञानसाहित्यमस्तीति सप्रमाणकमाह – प्रातिबिम्ब्येनेति। ननु बिम्बत्वमङ्गीकृतं चेदैक्यमेवोपपन्नमित्यत आह – प्रातिबिम्ब्यं चेति। तदधीनत्वं च ग्राह्यम्;तदीयोऽहं इत्युक्तत्वात्। एवशब्दस्त्वैक्यस्य व्यवच्छेदार्थः। एतेनक्षेत्रज्ञं चापि मां विद्धि [13।3] इत्यादेरपव्याख्यानमपास्तं भवति।
शाङ्कर-सम्प्रदायः
(सं) शङ्करः मूलम् ...{Loading}...
।।13.23।। –,उपद्रष्टा समीपस्थः सन् द्रष्टा स्वयम् अव्यापृतः। यथा ऋत्विग्यजमानेषु यज्ञकर्मव्यापृतेषु तटस्थः अन्यः अव्यापृतः यज्ञविद्याकुशलः ऋत्विग्यजमानव्यापारगुणदोषाणाम् ईक्षिता; तद्वच्च कार्यकरणव्यापारेषु अव्यापृतः अन्यः तद्विलक्षणः तेषां कार्यकरणानां सर्वव्यापाराणां सामीप्येन द्रष्टा उपद्रष्टा। अथवा; देहचक्षुर्मनोबुद्ध्यात्मानः द्रष्टारः; तेषां बाह्यः द्रष्टा देहः; ततः आरभ्य अन्तरतमश्च प्रत्यक् समीपे आत्मा द्रष्टा; यतः परः अन्तरतमः नास्ति द्रष्टा सः अतिशयसामीप्येन द्रष्ट्टत्वात् उपद्रष्टा स्यात्। यज्ञोपद्रष्ट्टवद्वा सर्वविषयीकरणात् उपद्रष्टा। अनुमन्ता च; अनुमोदनम् अनुमननं कुर्वत्सु तत्क्रियासु परितोषः; तत्कर्ता अनुमन्ता च। अथवा; अनुमन्ता; कार्यकरणप्रवृत्तिषु स्वयम् अप्रवृत्तोऽपि प्रवृत्त इव तदनुकूलः विभाव्यते; तेन अनुमन्ता। अथवा; प्रवृत्तान् स्वव्यापारेषु तत्साक्षिभूतः कदाचिदपि न निवारयति इति अनुमन्ता। भर्ता; भरणं नाम देहेन्द्रियमनोबुद्धीनां संहतानां चैतन्यात्मपारार्थ्येन निमित्तभूतेन चैतन्याभासानां यत् स्वरूपधारणम्; तत् चैतन्यात्मकृतमेव इति भर्ता आत्मा इति उच्यते। भोक्ता; अग्न्युष्णवत्; नित्यचैतन्यस्वरूपेण बुद्धेः सुखदुःखमोहात्मकाः प्रत्ययाः सर्वविषयविषयाः चैतन्यात्मग्रस्ता इव जायमानाः विभक्ताः विभाव्यन्ते इति भोक्ता आत्मा उच्यते। महेश्वरः; सर्वात्मत्वात् स्वतन्त्रत्वाच्च महान् ईश्वरश्च इति महेश्वरः। परमात्मा; देहादीनां बुद्ध्यन्तानां प्रत्यगात्मत्वेन कल्पितानाम् अविद्यया परमः उपद्रष्टृत्वादिलक्षणः आत्मा इति परमात्मा। सोऽन्तः परमात्मा इत्यनेन शब्देन च अपि उक्तः कथितः श्रुतौ। क्व असौ अस्मिन् देहे पुरुषः परः अव्यक्तात्; उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः (गीता 15।17) इति यः वक्ष्यमाणः।।
क्षेत्रज्ञं चापि मां विद्धि (गीता 13।2) इति उपन्यस्तः व्याख्याय उपसंहृतश्च; तमेतं यथोक्तलक्षणम् आत्मानम् –,
(सं) शङ्करः (हि) हरिकृष्णदासः ...{Loading}...
।।13.23।। उसीका फिर साक्षात् निर्देश किया जाता है –, ( यह आत्मा ) उपद्रष्टा है अर्थात् स्वयं क्रिया न करता हुआ पासमें स्थित होकर देखनेवाला है। जैसे कोई यज्ञविद्यामें कुशल अन्य पुरुष स्वयं यज्ञ न करता हुआ; यज्ञकर्ममें लगे हुए पुरोहित और यजमानोंद्वारा किये हुए कर्मसम्बन्धी गुणदोषोंको तटस्थभावसे देखता है; उसी प्रकार कार्य और करणोंके व्यापारमें स्वयं न लगा हुआ उनसे अन्यविलक्षण आत्मा उन व्यापारयुक्त कार्य और करणोंको समीपस्थ भावसे देखनेवाला है। अथवा देह; चक्षु; मन; बुद्धि और आत्मा – ये सभी द्रष्टा हैं; उनमें बाह्य द्रष्टा शरीर है और उससे लेकर उन सबकी अपेक्षा अन्तरतम – समीपस्थ द्रष्टा अन्तरात्मा है। जिसकी अपेक्षा और कोई आन्तरिक द्रष्टा न हो; वह अतिशय सामीप्य भावसे देखनेवाला होनेके कारण उपद्रष्टा होता है ( अतः आत्मा उपद्रष्टा है )। अथवा ( यों समझो कि ) यज्ञके उपद्रष्टाकी भाँति सबका अनुभव करनेवाला होनेसे आत्मा उपद्रष्टा है। तथा यह अनुमन्ता है – क्रिया करनेमें लगे हुए अन्तःकरण और इन्द्रियादिकी क्रियाओंमें सन्तोषरूप अनुमोदनका नाम अनुमनन है; उसका करनेवाला है। अथवा यह इसीलिये अनुमन्ता है कि कार्यकरणकी प्रवृत्तिमें स्वयं प्रवृत्त न होता हुआ भी उनके अनुकूल प्रवृत्त हुआ सा दीखता है। अथवा अपने व्यापारमें लगे हुए अन्तःकरण और इन्द्रियादिको उनका साक्षी होकर भी कभी निवारण नहीं करता; इसलिये अनुमन्ता है। तथा यह भर्ता है; चैतन्यस्वरूप आत्माके भोग और अपवर्गकी सिद्धिके निमित्तसे संहत हुए चेतन्यके आभासरूप शरीर; इन्द्रिय; मन और बुद्धि आदिका स्वरूप धारण करना भी भरण है और वह चैतन्यरूप आत्माका ही किया हुआ है; इसलिये आत्माको भर्ता कहते हैं। आत्मा भोक्ता है। अग्निके उष्णत्वकी भाँति नित्यचैतन्य आत्मसत्तासे समस्त विषयोंमें पृथक्पृथक् होनेवाली जो बुद्धिकी सुखदुःख और मोहरूप प्रतीतियाँ हैं; वे सब चैतन्य आत्माद्वारा ग्रस्त की हुईसी दीखती हैं; अतः आत्माको भोक्ता कहा जाता है। आत्मा महेश्वर है। वह सबका आत्मा होनेके कारण और स्वतन्त्र होनेके कारण महान् ईश्वर है; इसलिये महेश्वर है। वह परमात्मा है। अविद्याद्वारा प्रत्यक् आत्मारूप माने हुए जो शरीरसे लेकर बुद्धिपर्यन्त ( आत्मशब्दवाच्य पदार्थ ) हैं। उन सबसे उपद्रष्टा आदि लक्षणोंवाला आत्मा परम ( श्रेष्ठ ) है – इसलिये वह परमात्मा है। श्रुतिमें भी वह भीतर व्यापक परमात्मा है इन शब्दोंसे उसका वर्णन किया गया है। ऐसा आत्मा कहाँ है वह अव्यक्तसे पर पुरुष इसी शरीरमें है जो कि उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः इस प्रकार आगे कहा जायगा और जो क्षेत्रज्ञं चापि मां विद्धि इस प्रकार पहले कहा जा चुका है तथा जिसकी व्याख्या करके उपसंहार किया गया है।
(सं) शङ्करः (Eng) गम्भीरानन्दः ...{Loading}...
13.23 He who is the upadrasta, Witness, who while staying nearby does not Himself become involved: As when the priests and the performer of a sacrifice remain engaged in duties connected with the sacrifice, there is another (called Brahma) remaining nearby who is unengaged, is versed in the science of sacrifices and witnesses the merit or demerit of the activities of the priest and the performer of the sacrifice, similarly, He who is not engaged in the activities of and is different from the body and organs, who has characteristics other than theirs, and is the proximate (upa) observer (drasta) of the body and organs engaged in their duties, is the upa-drasta. Or: The observers are the body, eyes, mind, intellect and the soul. Of them the body is the external observer. Proceeding inwards from that (body), the Self is the inmost as also the proximate observer, compared with which there is no other higher and inner observer. The Self, because of being the most proximate observer, is the upadrasta. Or, It is the upadrasta since, like the non-looker of a sarifice, It witness everything. And He is the anu-manta, Permitter: Anumananam, approval, means satisfaction with those performers (viz body and organs) as also their perfomances. The agent of that (approval) is the anumanta. Or, He is the anumanta since, even though Himself not engaged in the activities of the body and organs, He appears to be favourably disposed towards and engaged in them. Or, He is the anumanta because, when the body and organs are engaged in their own functions, He remains as a witness and never dissuades them. It is the bharta, Sustainer: Bharanam means the continuance in their own state of the body, organs, mind and intellect, which reflect consciousness and have become aggregated owing to the need of serving the purpose [Viz enjoyment, or Liberation.-Tr.] of some other entity, viz the conscious Self. And that (continuance) is verily due to the consciousness that is the Self. In this sense the Self is said to be the Sustainer. It is the bhokta, Experiencer: As heat is by fire, similarly, the experiences of the intellect-in the form of happiness, sorrow and delusion in relation to all objects-, when born as though permeated by the consciousness that is the Self, are manifested differently by the Self which is of the nature of eternal Consciousness. In this sense the Self is said to be the Experiencer. He is maheswarah, the great God, because, as the Self of all and independent, He is the great Ruler. He is paramatma, the transcendental Self, because He is the Self which has the characteristics of being the supreme Witness etc. of (all) those-beginning from the body and ending with the intellect-which are imagined through ignorance to be the indwelling Self. He is api ca, also; uktah, spoken of, referred to, in the Upanisads; iti, as, with the words; ‘He is the indwelling One, the paramatma, the transcendental Self.’ [Ast reads atah in place of antah. So the translation of the sentence will be: Therefore He is also referred to as the transcendental Self in the Upanisads.-Tr.] Where is He; The parah, suprem; purusah, Person, who is higher than the Unmanifest and who will be spoken of in, ‘But different is the supreme Person who is spoken of as the transcendental Self’ (15.17); is asmin, in this; dehe, body. What has been presented in, ‘৷৷.also understand Me to be the Knower of the field’ (2), has been explained and conclude.
(सं) शङ्करः आनन्दगिरिः ...{Loading}...
।।13.22।। प्रकृतस्यैव मोक्षहेतोर्ज्ञानस्य साक्षान्निर्देशायोत्तरश्लोकमुत्थापयति – तस्येति। कार्यकारणानां व्यापारवतां समीपे स्थितः संनिधिमात्रेण तेषां साक्षीत्येवमर्थत्वेनोपद्रष्टेति पदं व्याचष्टे – समीपस्थ इति। लौकिकस्येव द्रष्टुरस्यापि स्वव्यापारविशिष्टतया निष्क्रियत्वविरोधमाशङ्क्याह – स्वयमिति। स्वव्यापारादृते संनिधिरेव द्रष्टृत्वं। दृष्टान्तेन स्पष्टयति – यथेति। उपद्रष्टेत्यस्यार्थान्तरमाह – अथवेति। बहूनां द्रष्टृत्वेऽपि कस्योपद्रष्टृत्वं तत्राह – तेषामिति। उपोपसर्गस्य सामीप्यार्थत्वेन प्रत्यगर्थत्वात्तत्रैव सामीप्यावसानात्प्रत्यगात्मा च द्रष्टा चेत्युपद्रष्टा सर्वसाक्षी प्रत्यगात्मेत्यर्थः। उक्तमेव व्यनक्ति – यत इति। यथा यजमानस्य ऋत्विजां च यज्ञकर्मणि गुणं दोषं वा सर्वयज्ञाभिज्ञः सन्नुपद्रष्टा विषयीकरोति तथायमात्मा चिन्मात्रस्वभावः सर्वं गोचरयतीत्युपद्रष्टेति पक्षान्तरमाह – यज्ञेति। अनुमन्ता चेत्येतद्व्याकरोति – अनुमन्तेति। ये स्वयं कुर्वन्तो व्यापारयन्तो भवन्ति तेषु कुर्वत्सु सत्सु यास्तेषां क्रियास्तासु पार्श्वस्थस्य परितोषोऽनुमननं तच्चानुमोदनं तस्य संनिधिमात्रेण कर्ता यः सोऽनुमन्तेत्यर्थः। व्याख्यान्तरमाह – अथवेति। तदेव स्फुटयति – कार्येति। अर्थान्तरमाह – अथवेत्यादिना। भर्तेति पदमादाय किं भरणं नामेति पृच्छति – भर्तेति। तद्रूपं निरूपयन्नात्मनो भर्तृत्वं साधयति – देहेति। भोक्तेत्युक्ते क्रियावत्त्वे प्राप्ते भोगश्चिदवसानतेति न्यायेन विभजते – अग्नीति। विशेषणान्तरमादाय व्याचष्टे – महेश्वर इति। परमात्मत्वमुपपादयति – देहादीनामिति। अविद्यया कल्पितानामिति संबन्धः। परमत्वं प्रकृष्टत्वम्। स पूर्वोक्तविशेषणवानिति यावत्। परमात्मशब्दस्य प्रकृतात्मविषयत्वे श्रुतिमनुकूलयति – अन्त इति। तस्य ताटस्थ्यं प्रश्नद्वारा प्रत्याचष्टे – क्वेति। कस्मात्परत्वं तदाह – अव्यक्तादिति। तत्रैव वाक्यशेषानुकूल्यमाह – उत्तम इति। सोऽस्मिन्देहे परः पुरुष इति संबन्धः। शोधितार्थयोरैक्यज्ञानं प्रागुक्तं फलोक्त्या स्तौति – क्षेत्रज्ञं चेति।
(सं) शङ्करः मधुसूदन-सरस्वती ...{Loading}...
।।13.23।। तदेवं प्रकृतिमिथ्यातादात्म्यात्पुरुषस्य संसारो न स्वरूपेणेत्युक्तं; कीदृशं पुनस्तस्य स्वरूपं यत्र न संभवति संसार इत्याकाङ्क्षायां तस्य स्वरूपं साक्षान्निर्दिशन्नाह – उपद्रष्टेति। अस्मिन्प्रकृतिपरिणामे देहे जीवरूपेण वर्तमानोऽपि पुरुषः परः प्रकृतिगुणासंसृष्टः परमार्थतोऽसंसारी स्वेन रूपेणेत्यर्थः। यत उपद्रष्टा यथा। ऋत्विग्यजमानेषु यज्ञकर्मव्यापृतेषु तत्समीपस्थोऽन्यः स्वयमव्यापृतो यज्ञविद्याकुशलत्वादृत्विग्यजमानव्यापारगुणदोषाणामीक्षिता तद्वत्कार्यकरणव्यापारेषु स्वयमव्यापृतो विलक्षणस्तेषां कार्यकरणानां सव्यापाराणां समीपस्थो द्रष्टा नतु कर्ता पुरुषः। स यत्तत्र किंचित्पश्यत्यनन्वागतस्तेन भवत्यसङ्गो ह्ययं पुरुषः इति श्रुतेः। अथवा देहचक्षुर्मनोबुद्ध्यात्मसु दृश्येषु मध्ये बाह्यान्देहादीनपेक्ष्यात्यव्यवहितो द्रष्टात्मा पुरुष उपद्रष्टा। उपशब्दस्य सामीप्यार्थत्वात्तस्य चाव्यवधानरूपस्य प्रत्यगात्मन्येव पर्यवसानात्। अनुमन्ता च कार्यकरणप्रवृत्तिषु स्वयमप्रवृत्तोऽपि प्रवृत्त इव संनिधिमात्रेण तदनुकूलत्वादनुमन्ता। अथवा स्वव्यापारेषु प्रवृत्तान्देहेन्द्रियादीन्न निवारयति कदाचिदपि तत्साक्षिभूतः पुरुष इतिअनुमन्ता साक्षी च इति श्रुतेः। भर्ता देहेन्द्रियमनोबुद्धीनां संहतानां चैतन्याध्यासविशिष्टानां स्वसत्तया स्फुरणेन च धारयिता पोषयिता च। भोक्ता बुद्धेः सुखदुःखमोहात्मकान्प्रत्ययान्स्वरूपचैतन्येन प्रकाशयतीति निर्विकार एवोपलब्ध्वा। महेश्वरः सर्वात्मत्वात्स्वतन्त्रत्वाच्च महानीश्वरश्चेति महेश्वरः परमात्मा देहादिबुद्ध्यन्तानामचेतनानामविद्ययात्मत्वेन कल्पितानां परमः प्रकृष्ट उपद्रष्टृत्वादिपूर्वोक्तविशेषणविशिष्ट आत्मा परमात्मा इत्यनेन शब्देनाप्युक्तः कथितः श्रुतौ। चकारादुपद्रष्टेत्यादिशब्दैरपि स एव पुरुषः पर उत्तमः,पुरुषस्त्वन्यः परमात्मेत्युदाहृत इत्यग्रेपि वक्ष्यते।
(सं) शङ्करः नीलकण्ठः ...{Loading}...
।।13.23।। स च यो यत्प्रभावश्चेति क्षेत्रज्ञतत्प्रभावौ व्याख्येयत्वेन प्रतिज्ञातौ तत्र क्षेत्रज्ञः प्रागेव वर्णितः तस्येदानीं प्रभावमाह – उपद्रष्टेति। तत्र पूर्वं गुणसङ्गो जन्मकारणमित्युक्तम्। तत्र सङ्गश्चतुर्विधः पुरुषापलापेन गुणमात्रप्राधान्येन वा तमन्तर्भाव्य गुणप्राधान्येन वा; गुणानां समप्राधान्येन वा; अप्राधान्येन वेति। तत्राद्ये देहेन्द्रियमन आदिरूपं गुणसंघातमेव आत्मत्वेन पश्यन् भोक्ता भवति यथा चार्वाकादिः। द्वितीये गुणानां प्राधान्यादात्मनि वास्तवकर्तृत्वाद्यभिमानेन कर्मफलानां भर्ता संचेता भवति यथा तार्किकादिः। तृतीये गुणानां समप्राधान्येन गुणगतमपि भोक्तृत्वमसंगेऽप्यात्मनि वस्त्रे भल्लातकाङ्कवदनुमन्यते यथा साङ्ख्यः। चतुर्थे सर्वथापि गुणधर्माणामात्मनि संक्रममपश्यन्नुदासीनबोधरूपत्वेन गुणप्रचारदर्शी उपद्रष्टा भवति यथास्माकं साक्षी। एतेषु चतुर्ष्वपि गुणसंगिषूपद्रष्टोत्तमः। अनुमन्ता मध्यमः। भर्ता अधमः। भोक्ता अधमाधमः। स एव गुणान्वशीकृत्य यदा क्रीडति तदा महेश्वर इत्युच्यते। यः सर्गस्थित्यन्तकर्ता प्रभुर्जगदन्तर्यामी स एव गुणानपहाय स्थितः परमात्मेति चाप्युक्तो भवति। यद्यप्युपद्रष्टापि गुणानपहाय तत्साक्षित्वेन स्थितो भवति तथापि तस्यैव संघातोपहितस्य संघातान्तरप्रचारदर्शित्वाभावादयं सकलसंघातप्रचारदर्शीति सर्वोत्कृष्टत्वात्परमोऽयमात्मा। तमेनं वक्ष्यतिउत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः। यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः इति। एतावपि गुणसङ्गिनौ। एवमेक एव देहेऽस्मिन्विद्यमानः परो गुणातीतः स्वात्मनि गुणान्प्रविलाप्य स्थितोऽखण्डैकरस आत्मा गुणसङ्गेन षड्विधो भवति। अयमेवास्य प्रभावः। तत्र अनुमन्तृभर्तृभोक्तृभिस्त्रिभिः रूपैरयं बध्यते। उपद्रष्टृमहेश्वरपरमात्मरूपैस्तु नित्यमुक्त एकएवेति ज्ञेयम्। अत्र भाष्यार्थोऽप्यनुसंधेयो विस्तरभयात्तु न प्रदर्शितः।
(सं) शङ्करः धनपतिः ...{Loading}...
।।13.23।। पुरुषमेव साक्षान्निर्दिशति – उपद्रष्टेति। यथा ऋत्विग्यजमानेषु यज्ञकर्मव्यापृतेषु तटस्थोऽन्यो व्यापृतो यज्ञविद्याकुशलस्तद्य्वापारगुणदोषणामीक्षिता तथा कार्यकरणानां व्यापारवतां समीपे स्थितः सन् स्वयव्यापृतो द्रष्टा सन्निधिमात्रेण तेषां साक्षी। यद्वा देहचक्षुर्मनोबुद्य्धात्मानो द्रष्टारः तेषां बाह्यो द्रष्टा देहस्तत आरभ्यान्तरतमश्च प्रत्यक्समीप आत्मा द्रष्टा यतः परतरो नास्ति द्रष्टा सोऽतिशयमामीप्येन द्रष्टृत्वादुपद्रष्टा स्यात्। यज्ञोपद्रषश्टृवद्वा सर्वविषयीकरणादुपद्रष्टा। ये स्वयं कुर्वन्तो व्यापारवन्तो भवन्ति तेषु कुर्वत्सु यास्तेषां क्रियास्तासु पार्श्वस्थस्य परितोषोऽनुमननमनुमोदनं तस्य संनिधिमात्रेण कर्ता अमुमन्ता; कार्यकरणप्रवृत्तिषु स्वयमप्रवृत्तोऽपि प्रवृत्त इव तदनुकूलो विभाव्यते तेन वानुमन्ता; स्वव्यापारेषु प्रवृत्तान् तत्साक्षिभूतः कदाचिदपि न निवारयतीति वाऽनुमन्ता; देहेन्द्रियमनोबुद्धीनां,संहतानां चैतन्यात्मपारार्थ्येन निमित्तभूतेन चैतन्याभासानां स्वरुपावधारणस्य चैतन्यात्मकृत्वात् भर्तात्मोच्यते। भोक्ता नित्यचैतन्यस्वरुपेण बुद्धेः सुखदुःखमोहात्मिकान् प्रत्ययान्सर्वविषयविषयान् विभक्ततयोपलब्धातो भोक्ता आत्मोच्यते सर्वात्मत्वात्स्वन्त्रत्वाच्च। महांश्चासावीश्वरश्चेति महेश्वरः देहादिबुद्य्धन्तानां प्रत्गात्मत्वेनाविद्यया प्रकल्पितानां परम उपद्रष्टृत्वादिलक्षण आत्मेति परमात्मा इत्यनेन शब्देन चाप्युक्तः श्रुतौ कथितः। यः परमात्मा श्रुतावुक्तः स एव देहेस्मिन् पुरुषः परः अव्यक्तादुत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृत इति वक्ष्यमाणः। श्रुतिःसाक्षी चेता केवलो निर्गुणश्चएष भूताधिपतिरेष लोकेश्वर एष लोकपालःईशानं भूतभव्यस्यतस्सृष्ट्वा तदेवानुप्राविशत;अनेन जीवेनात्मनानुप्रविश्य नामरुपे व्याकरवाणिअव्यक्तात्पुरुषः परः इत्याद्या।
वल्लभ-सम्प्रदायः
(सं) वल्लभः मूलम् ...{Loading}...
।।13.23।। किञ्च – उपद्रष्टेति। अस्मिन्वृक्षरूपके देहे द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते। तयोरेकः पिप्पलं स्वाद्वत्ति; अनश्नन्नन्यो अभिचाकशीति [ऋक्सं.2।3।17।5मुं.उ.3।1।1श्वे.उ.4।6] इति मन्त्रैकवाक्यार्थतया भगवताऽन्योऽपि परमात्माऽन्तर्यामिपुरुष उच्यतेऽसङ्गः प्रसङ्गादिति गम्यते। अतएवपरमात्मा इति चेति पदं दीयतेपरः पुरुषः इति च। सोऽप्युक्त उपद्रष्टा साक्षी वस्तुतः कार्यकारणभोगसङ्गानपेक्षः स्वत एव मुख्यभोक्ता कर्ताषाड्वर्गिकं जिघ्रति षड्गुणेशः इति वाक्यात्। अविज्ञातोऽनुमन्ता च महेश्वरो नियन्ता प्रेरकश्च यद्यपि देहेऽस्मिन् वर्त्तते; तथापि स निर्लेपः अनशनात्। अयं प्राणभृत्तु लिप्तोऽशनादित्येवम्भूतं पुरुषं देहेऽस्मिन्वर्त्तमानं उभयविधं वस्तुतोऽक्षरप्रभावं क्षेत्रज्ञं ब्रह्मांशभूतं चेतनं पुरुषं हंसस्वरूपभूतं स्वरूपतो विविक्तं निर्गुणं च यो वेत्ति प्रकृतिं च गुणैः सह वर्त्तमानां यो वेत्ति; स गुणैर्वर्त्तमानो वा भूयः सर्वथा नाभिजायते न गुणप्रवाहसंसारं भजते किन्तु मुच्यत इत्यर्थः।
(सं) वल्लभः पुरुषोत्तमः ...{Loading}...
।।13.23।। एवं रसभोगेच्छां कारणत्वेनोक्त्वा तत्र देहादिषु प्रविष्टस्य स्वल्पांशस्याविद्यात्मकजीवस्य भोगादिदर्शने पुरुषस्य कथं भोगः कथं तेन जीवस्य संसारः इत्याशङ्कायां समाधत्ते – उपद्रष्टेति। परः पुरुषः पुरुषोत्तमः अस्मिन्देहे उपद्रष्टा; उपसमीपे द्रष्टा साक्षी; तथा अनुमन्ता अनुमोदिता; भर्त्ता धारकः; भोक्ता रक्षकः; महेश्वरः महांश्चासावीश्वरश्च सः। तथैव परमात्मा। चकारेण प्राणजीवादिरप्युक्त इत्यर्थः। अयं भावः – देहादिकं सर्वं भगवति निवेद्य तद्दत्तप्रसादत्वेन सेवार्थोपयोगिभोगकर्तुः साक्षी – मुख्यसेवायां तदुपयोगकारयिता। एवमेव कृतसमर्पणमोदे अनु पश्चान्मोदिता। एवमेव भर्त्ता; पतित्वेन धारकपोषक इत्यर्थः। तथैव भोक्तृत्वेन स्वीयत्वज्ञानेन रक्षकः। तथैव महेश्वरः कर्तॄणां ब्रह्मादीनामपि प्रभुः; तेन तादृग्वस्तुकर्त्तेत्यर्थः। तथैव परमात्मा तादृग्धर्मवतो मित्ररूप इत्यर्थः।
संस्कृतटीकान्तरम्
(सं) श्रीधर-स्वामी ...{Loading}...
।।13.23।। तदनेन प्रकारेण प्रकृत्यविवेकात्पुरुषस्य संसारो न तु स्वरूपत इत्याशयेन तस्य स्वरूपमाह – उपद्रष्टेति। अस्मिन्प्रकृतिकार्ये देहे च वर्तमानोऽपि पुरुषः परो भिन्न एव न तद्गुणैर्युज्यत इत्यर्थः। तत्र हेतवः – यस्मादुपद्रष्टा पृथग्भूत एवं समीपे स्थित्वा द्रष्टा; तथाऽनुमन्ता अनुमोदितैव संनिधिमात्रेणानुग्राहकःसाक्षी चेता केवलो निर्गुणश्च इत्यादिश्रुतेः। तथा ऐश्वरेण रूपेण भर्ता विधारक इति चोक्तः; भोक्ता पालक इति च; महांश्चासावीश्वरश्चेति; स ब्रह्मादीनामधिपतिरिति च; परमात्मान्तर्यामीति चोक्तः श्रुत्या। तथाच श्रुतिःएष भूताधिपतिरेष लोकेश्वर एष लोकपालः इत्यादिः।
हिन्दी-टीकाः
(हि) चिन्मयानन्दः ...{Loading}...
।।13.23।। इस भ्रमित दुखी क्षेत्रज्ञ पुरुष से भिन्न; क्षेत्रोपाधि से असंस्पृष्ट शुद्ध परम पुरुष है। प्रत्येक प्रतिबिम्ब के अस्तित्व के लिये एक बिम्बभूत सत्य वस्तु की आवश्यकता होती है। प्रतिबिम्ब की स्थिति दर्पण या जल आदि की सतह पर निर्भर करती है; किन्तु बिम्बभूत सत्यवस्तु को उस सतह का स्पर्श तक नहीं होता। जैसे; चन्द्रमा का प्रतिबिम्ब पात्र के जल पर निर्भर करता है; किन्तु चन्द्रमा अपने प्रकाशस्वरूप में ही स्थित रहता है। चित्स्वरूप आत्मा क्षेत्र की उपाधि से क्षेत्रज्ञ बनता है। इससे सिद्ध होता है कि आत्मा अपने स्वरूप से निरुपाधिक अर्थात् सर्व उपाधिरहित है। ,इस श्लोक में; वैज्ञानिक पद्धति से अध्ययन और विश्लेषण करने की दृष्टि से; भगवान् श्रीकृष्ण उक्त दो प्रकार के पुरुषों सोपाधिक और निरुपाधिक का निर्देश करते हैं। यहाँ इस बात का स्मरण रहे कि वस्तुत पुरुष एक ही है। यहाँ विभिन्न नामों के द्वारा एक ही परमात्मा को इंगित किया गया है। ये विभिन्न नाम जीव की मनस्थिति अर्थात् अज्ञान आवरण की सघनता और विरलता की दृष्टि से दिये गये हैं। आत्मस्वरूप के विषय में पूर्ण अज्ञानी तथा रागद्वेषादि वृत्तियों से पूर्ण मन वाले व्यक्ति में आत्मा मानो केवल उपद्रष्टा बनकर रहता है अर्थात इस पुरुष के अपराधपूर्ण कार्यों को भी साक्षीभाव से प्रकाशित मात्र करता है वैसे भी आत्मा सममस्त प्राणियों की वृत्तियों का उपद्रष्टा मात्र है। परन्तु जब उस व्यक्ति का चित्त कुछ मात्रा में शुद्ध होता है और वह सत्कर्म में प्रवृत्त हौता है; तब परमात्मा मानो अनुमन्ता बनता है; अर्थात् उसके सत्कर्मों को अपनी अनुमति प्रदान करता है। अन्तकरण के और अधिक शुद्ध होने पर वह व्यक्ति जब अपने दिव्य स्वरूप के प्रति जागरूक हो जाता है तब ईश्वर उसके कर्मों को पूर्ण करने वाला भर्ता बन जाता है। अर्पण की भावना से किये गये कर्मों में ईश्वर की कृपा से सफलता ही प्राप्त होती है। ऐसा प्रतीत होता है; मानो; ईश्वर उस साधक के अल्प प्रयत्नों को भी पूर्णता प्रदान करता है। जब वह साधक अपने अहंकार को भुलाकर पूर्णतया योगयुक्त हो जाता है; तब ऐसे व्यक्ति के हृदय में आत्मा ही भोक्ता बनी प्रतीत होती है। इस श्लोक की समाप्ति इस कथन के साथ होती है कि आत्मा ही महेश्वर है। वही इस देह में परम पुरुष है। प्रकृति और पुरुष के तत्त्व को जानने वाले साधक के विषय में कहते हैं कि
(हि) तेजोमयानन्दः अनुवादः ...{Loading}...
।।13.23।। परम पुरुष ही इस देह में उपद्रष्टा, अनुमन्ता ,भर्ता, भोक्ता, महेश्वर और परमात्मा कहा जाता है।।
(हि) रामसुखदासः अनुवादः ...{Loading}...
।।13.23।। यह पुरुष प्रकृति-(शरीर-) के साथ सम्बन्ध रखनेसे ‘उपद्रष्टा’, उसके साथ मिलकर सम्मति, अनुमति देनेसे ‘अनुमन्ता’, अपनेको उसका भरणपोषण करनेवाला माननेसे ‘भर्ता’, उसके सङ्गसे सुखदुःख भोगनेसे ‘भोक्ता’, और अपनेको उसका स्वामी माननेसे ‘महेश्वर’ बन जाता है। परन्तु स्वरूपसे यह पुरुष ‘परमात्मा’ कहा जाता है। यह देहमें रहता हुआ भी देहसे पर (सम्बन्ध-रहित) ही है।
(हि) रामसुखदासः टीका ...{Loading}...
।।13.23।।व्याख्या – उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः – यह पुरुष स्वरूपसे नित्य है; सब जगह परिपूर्ण है; स्थिर है; अचल है; सदा रहनेवाला है (गीता 2। 24)। ऐसा होता हुआ भी जब यह प्रकृति और उसके कार्य शरीरकी तरफ दृष्टि डालता है अर्थात् उनके साथ अपना सम्बन्ध मानता है; तब इसकी उपद्रष्टा संज्ञा हो जाती है। यह हरेक कार्यके करनेमें सम्मति; अनुमति देता है। अतः इसका नाम अनुमन्ता है। यह एक व्यष्टि शरीरके साथ मिलकर; उसके साथ तादात्म्य करके अन्नजल आदिसे शरीरका पालनपोषण करता है शीतउष्ण आदिसे उसका संरक्षण करता है। अतः इसका नाम भर्ता हो जाता है। यह शरीरके साथ मिलकर अनुकूल परिस्थितिके आनेसे अपनेको सुखी मानता है और प्रतिकूल परिस्थितिके आनेसे अपनेको दुःखी मानता है। अतः इसकी भोक्ता संज्ञा हो जाती है। यह अपनेको शरीर; इन्द्रियाँ; मन; बुद्धि तथा धन; सम्पत्ति आदिका मालिक मानता है। अतः यह महेश्वर नामसे कहा जाता है।परमात्मेति चाप्युक्तो देहेऽस्मिन् पुरुषः परः – पुरुष सर्वोत्कृष्ट है; परम आत्मा है; इसलिये शास्त्रोंमें इसको परमात्मा नामसे कहा गया है। यह देहमें रहता हुआ भी देहके सम्बन्धसे स्वतः रहित है। आगे इसी अध्यायके इकतीसवें श्लोकमें इसके विषयमें कहा गया है कि यह शरीरमें रहता हुआ भी न करता है और न लिप्त होता है। इस श्लोकमें एक ही तत्त्वको भिन्नभिन्न उपाधियोंके सम्बन्धसे उपद्रष्टा आदि पदोंसे सम्बोधित किया गया है; इसलिये इन पृथक्पृथक् नामोंसे पुरुषके ही स्वरूपका वर्णन समझना चाहिये। वास्तवमें उसमें किसी प्रकारका भेद नहीं है। जैसे एक ही व्यक्ति देश; काल; वेश; सम्बन्ध आदिके अनुसार भिन्नभिन्न (पिता; चाचा; नाना; भाई आदि) नामोंसे पुकारा जाता है; ऐसे ही पुरुष भिन्नभिन्न नामोंसे पुकारा जानेपर भी वास्तवमें एक ही है।सम्बन्ध – उन्नीसवें श्लोकसे बाईसवें श्लोकतक प्रकृति और पुरुषका विवेचन करके अब आगेके श्लोकमें उन दोनोंको तत्त्वसे जाननेका फल बताते हैं।
आङ्ग्ल-टीकाः
(Eng) शङ्करनारायणः ...{Loading}...
13.23. The Supreme Soul in this [corporeal] body is called the Spectator, the Assentor, the Supporter, the Experiencer, the Mighty Lord and also the Supreme Self.
(Eng) गम्भीरानन्दः ...{Loading}...
13.23 He who is the Witness, the Permitter, the Sustainer, the Experiencer, the great Lord, and who is also spoken of as the transcendental Self is the supreme Person in this body.
(Eng) पुरोहितस्वामी ...{Loading}...
13.23 Thus in the body of man dwells the Supreme God; He who sees and permits, upholds and enjoys, the Highest God and the Highest Self.
(Eng) आदिदेवनन्दः ...{Loading}...
13.23 The self in the body is called spectator, approver, supporter, experiencer, the great lord and also the supreme self in the body.
(Eng) शिवानन्दः अनुवादः ...{Loading}...
13.23 The Supreme Soul in this body is also called the spectator, the permitter, the supporter, the enjoyer, the great Lord and the Supreme Self.
(Eng) शिवानन्दः टीका ...{Loading}...
13.23 उपद्रष्टा the spectator; अनुमन्ता the permitter; च and; भर्ता the supporter; भोक्ता the enjoyer; महेश्वरः the great Lord; परमात्मा the Supreme Self; इति thus; च and; अपि also; उक्तः is called; देहे in the body; अस्मिन् (in) this; पुरुषः Purusha; परः Supreme.Commentary Upadrashta A spectator; a witness; a lookeron; a bystander; one who sits near. When the priests and the sacrificer perform the sacrificial rites; an expert who has good experience in sacrifical matters sits by their side. He does not take any part at all in the sacrifice. He sits as a silent witness. He guides them. He points out their defects and corrects them. Even so the Supreme Self does not act. It does not take any part in the activities of the body; the mind and the senses. It is entirely distinct from them. It is a silent witness of their activities. It sits near Nature and silently watches Her actions.It may be explained in another way. The body; the eyes; the mind; the intellect and the Self are the,seers. Of these the body is the most external seer the Self is the most internal and nearest seer. Beyond the Self there is no other internal seer.Anumanta Permitter. The Supreme Self gives consent. It expresses Its approval or satisfaction regarding the actions done by the senses; the mind and the intellect. The King consents and says Yes. The Prime Minister and the other officers carry out his orders. Even so the Supreme Self consents or gives permission the body; the mind; the intellect; and the senses perform their respective functions. Or; though It Itself does not work while the senses; the mind and the intellect work; It appears to be engaged in action; it seems to cooperate with them. As It is an onlooker or mere witness; It never stands in the way of the activities of the body; the mind; the intellect and the senses.Bharta Supporter. Just as the huand is the supporter of his wife; so also the Self is the supporter of this body; mind; intellect; lifeforce and the senses. It is different from them; just as the father who supports the children is different from them.Bhokta Enjoyer the Self; of the nature of eternal intelligence. Just as heat is the inherent nature of fire; so also eternal intelligence is the inherent nature of the Self. All the states of the mind such as pleasure; pain and delusion are permeated and illumined by the intelligent Self. Just as Govindan who takes the food is different from the foo; so also the Self is different from the intellect; the mind and the senses.Mahesvarah The great Lord. As He is the soul or essence of everything and as He is independent of all; He is Mahesvara. The sky is very big. Mahesva is bigger than even the sky; and so He is called Mahesvara. Just as the king is different from his subjects; so also the Self is different from Nature and the effects or modifications of Nature.Paramatma The Supreme Self. It is supreme because It is superior to all those things; from the Unmanifested to the physical body; which are mistaken for the Self on account of ignorance. Just as an iron piece moves in the presence of a magnet so also the mind and the intellect which are insentient move and function in the presence of the Supreme Self. Just as the moon borrows its light from the sun; so also the mind and the intellect borrow their light from the Supreme Self. The Supreme Self is selfluminous. Mind and intellect have no selfluminosity. In the Vedas also He is called the Supreme Self. Lord Krishna says in verse 17 of the fifteenth chapter But distinct is the Highest Purusha spoken of as the Supreme Self.Do thou also know Me as the knower of the field in all the fields; has been described in detial and the subject is concluded in this verse.