विश्वास-प्रस्तुतिः …{Loading}…
बहिर् अन्तश् च भूतानाम्
अचरं चरम् एव च।
सूक्ष्मत्वात् तद् अविज्ञेयं,
दूरस्थं चान्तिके च तत्॥13.16॥
मूलम् …{Loading}…
बहिरन्तश्च भूतानामचरं चरमेव च।
सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत्॥13.16॥
रामानुजः …{Loading}…
रामानुजः - मूलम्
॥13.15॥ पृथिव्यादीनि भूतानि परित्यज्य अशरीरो बहिः वर्तते तेषाम् अन्तः च वर्तते। जक्षन् क्रीडन् रममाणः स्त्रीभिर्वा यानैर्वा (छा॰ उ॰ 8।12।3) इत्यादिश्रुतिसिद्धस्वच्छन्दवृत्तिषु; अचरं चरम् एव च – स्वभावतो ऽचरं चरं च देहित्वे। सूक्ष्मत्वात् तद् अविज्ञेयम्; एवं सर्वशक्तियुक्तं सर्वज्ञं तद् आत्मतत्त्वम् अस्मिन् क्षेत्रे वर्तमानम् अप्य् अतिसूक्ष्मत्वाद् देहात् पृथक्त्वेन संसारिभिर् अविज्ञेयम्।दूरस्थं च अन्तिके च तत्; अमानित्वाद्युक्तगुणरहितानां विपरीतगुणानां पुंसां स्वदेहे वर्तमानम् अप्य् अतिदूरस्थम्; तथा अमानित्वादिगुणोपेतानां तद् एव अन्तिके च वर्तते।
वेदान्तदेशिकः
॥13.16॥ सशरीरत्वावस्थायां हि भूतान्तर्वृत्तिरिति मुक्तस्याशरीरत्वात्तद्बहिर्वृत्तिर्युक्ता तदन्तर्वृत्तिस्तु कथम् इत्यत्राह – जक्षन्निति। स्वच्छन्दवृत्तिषु तेषामन्तश्च वर्तत इत्यन्वयः। न चैतत्कर्मकृतं सशरीरत्वं स्वेन रूपेणाभिनिष्पद्यते [छां.उ.8।12।2] इत्याविर्भूतस्वरूपस्य तदुक्तेः; तस्य च विधूतपुण्यपापत्वात्स्वराड्भवति [छां.उ.7।25।2] इति वचनाच्च। तदेतदभिप्रेत्य – स्वच्छन्दवृत्तिष्वित्युक्तम्। स यदि पितृलोककामो भवति [छां.उ.8।2।1] इमान् लोकान् कामान्नी कामरूप्यनुसञ्चरन् [तै.उ.3।10।5] इत्यादिकमादिशब्देन गृह्यते। स्वरूपतो निर्विकारस्यात्मनस्त्रिधाभावादिकं जक्षणादिकं पितृलोकादिकं च शरीरपरिग्रहमन्तरेण नोपपद्यते शरीरं चास्य प्राकृतानामप्राकृतानां वा भूतानां सङ्घात एवेति भूतान्तर्वर्तित्वं सिद्ध्यतीत्यभिप्रायः। अचरत्वचरत्वयोर्न चराचरान्तरत्वे शुद्धावस्थायामन्वयः अतोबहिरन्तः इत्युक्तसशरीरत्वाशरीरत्वे तत्र हेतू इति दर्शयति – स्वभावतोऽचरं चरं च देहित्व इति। पादाद्यधीनसञ्चारतदभावाविह विवक्षितौ। योग्यानुपलम्भबाधपरिहारायोच्यतेसूक्ष्मत्वात्तदविज्ञेयमिति। अहमिति नित्यमुपलभ्यमानस्य अविज्ञेयत्वं केनाकारेण इत्यत्राह – एवं सर्वशक्तियुक्तं सर्वज्ञमिति। तच्छब्दपरामृष्टोऽयमर्थः। योग्यत्वशङ्कासूचनाय दूरत्वाद्यनुपलम्भकारणान्तराभावोपलक्षणतयाअस्मिन् क्षेत्रे वर्तमानमपीत्युक्तम्। पृथिव्याद्यपेक्षया सूक्ष्माणामपि वाय्वादीनां पृथगुपलम्भोऽस्तीति तद्व्युदासायोक्तम्अतिसूक्ष्मत्वादिति। अहं जानामि इत्यात्मोपलम्भे सत्यपि विविच्य ज्ञातुमशक्यत्वमविज्ञेयत्वमिति सोपसर्गनिषेधेन विवक्षितमिति दर्शयितुन्देहात्पृथक्त्वेनेत्युक्तम्। पृथक्त्वस्य सर्वदा सर्वैरनुपलम्भे शशश्रृङ्गादिवदप्रामाणिकत्वमेव स्यात्; योगाभ्यासविधानस्य च निरर्थकत्वं स्यादित्यत्रोक्तंसंसारिभिरिति। योगिनामपि मुक्तवदविच्छिन्नविशदतमप्रत्ययाभावात्संसारिभिरिति सामान्येनोक्तम्। यद्वा योगविरहिता इह संसारिशब्देन विवक्षिताः; योगिनामासन्नमोक्षत्वेन मुक्तप्रायत्वात्। दूरस्थं चान्तिके च तत् इत्यनेन न व्याप्तिर्विवक्षिता; तस्याःसर्वमावृत्य तिष्ठति [13।14] इति प्रागेवोक्तत्वात् अतोऽत्र सूक्ष्मत्वात्संसारिभिरविज्ञेयस्य कथं तैरेव विज्ञातव्यत्वविधिः इति शङ्काव्युदासायाधिकारिभेदेन दुर्ग्रहत्वसुग्रहत्वपरत्वमाह – अमानित्वादिति।
आदिदेवानन्दः
13.16 Abandoning the elements like earth etc., It can exist outside the body. It can exist within them while performing spontaneous activities as established in the Srutis: ‘Eating, playing, enjoying with partners or with vehicles’ (Cha. U., 8.12.3). ‘It is unmoving and yet moving’ - it is by nature, unmoving, It is moving when It has a body. It is so subtle that none can comprehend It. Although existing in a body, this principle, possessed of all powers and omniscient, cannot be comprehended by bound ones because of Its subtlety and Its distinctiveness from the body. It is far away and yet It is very near - though present in one’s own body, It is far away from those who are devoid of modesty and other alities (mentioned above) as also to those who possess contrary alities. To those who possess modesty and such other alities, the same self is very near.
शङ्करः …{Loading}…
शङ्करः - मूलम्
॥13.16॥ – बहिः त्वक्पर्यन्तं देहम् आत्मत्वेन अविद्याकल्पितम् अपेक्ष्य तमेव अवधिं कृत्वा बहिः उच्यते। तथा प्रत्यगात्मानमपेक्ष्य देहमेव अवधिं कृत्वा अन्तः उच्यते। बहिरन्तश्च इत्युक्ते मध्ये अभावे प्राप्ते; इदमुच्यते – अचरं चरमेव च; यत् चराचरं देहाभासमपि तदेव ज्ञेयं यथा रज्जुसर्पाभासः। यदि अचरं चरमेव च स्यात् व्यवहारविषयं सर्वं ज्ञेयम्; किमर्थम् इदम् इति सर्वैः न विज्ञेयम् इति उच्यते – सत्यं सर्वाभासं तत् तथापि व्योमवत् सूक्ष्मम्। अतः सूक्ष्मत्वात् स्वेन रूपेण तत् ज्ञेयमपि अविज्ञेयम् अविदुषाम्। विदुषां तु; आत्मैवेदं सर्वम् (छा0 उ₀ 7।25।2) ब्रह्मैवेदं सर्वम् (बृ0 उ₀ 2।5।1) इत्यादिप्रमाणतः नित्यं विज्ञातम्। अविज्ञाततया दूरस्थं वर्षसहस्रकोट्यापि अविदुषाम् अप्राप्यत्वात्। अन्तिके च तत्; आत्मत्वात् विदुषाम्॥ किञ्च –,
गम्भीरानन्दः
13.16 Existing, bahih, outside- the word bahih is used with reference to the body including the skin, which is misconceived through ignorance to be the Self, and which is itself taken as the boundary. Similarly, the word antah, inside, is used with reference to the indwelling Self, making the body itself as the boundary. When ‘outside’ and ‘inside’ are used, there may arise the contingency of the nonexistence of That in the middle. Hence this is said: acaram caram eva ca, moving as well as not moving-even that which appears as the body, moving or not moving, is nothing but the Knowable, in the same way as the appearance of a snake on a rope (is nothing but the rope). In all empirical things, moving as also non-moving, be the Knowable, why should It not be known by all as such; In answer it is said: It is true that It shines through everything; still it is subtle like space. Therefore, although It is the Knowable, tat, It; is avijneyam, incomprehensible to the ignorant people; suksmatvat, due to Its intrinsic subtleness. But to the enlightened It is ever known from the valid means of knowledge such as (the texts), ‘All this is verily the Self’ (Ch. 7.25.2), ‘Brahman alone is all this’ (Nr. Ut.7), etc. It is durastham, far away, since, to the unenlightened, It is unattainable even in millions of years. And tat, That; is antike, near, since It is the Self of the enlightened.
हरिकृष्णदासः
॥13.16॥ तथा –, अविद्याद्वारा आत्मभावसे कल्पित शरीरको त्वचापर्यन्त अवधि मानकर उसीकी अपेक्षासे ज्ञेयको उसके बाहर बतलाते हैं। वैसे ही अन्तरात्माको लक्ष्य करके तथा शरीरको ही अवधि मानकर ज्ञेयको उसके भीतर ( व्याप्त ) बतलाया जाता है। बाहर और भीतर व्याप्त है – ऐसा कहनेसे मध्यमें उसका अभाव प्राप्त हुआ; इसलिये कहते हैं – चर और अचररूप भी वही है अर्थात् रज्जुमें सर्पकी भाँति प्रतीत होनेवाले जो चरअचररूप शरीरके आभास हैं; वह भी उस ज्ञेयका ही स्वरूप है। यदि चर और अचररूप समस्त व्यवहारका विषय वह ज्ञेय ( परमात्मा ) ही है; तो फिर वह यह है इस प्रकार सबसे क्यों नहीं जाना जा सकता इस पर कहते हैं – ठीक है; सारा दृश्य उसीका स्वरूप है; तो भी वह ज्ञेय आकाशकी भाँति अति सूक्ष्म है। अतः यद्यपि वह आत्मरूपसे ज्ञेय है; तो भी सूक्ष्म होनेके कारण अज्ञानियोंके लिये अविज्ञेय ही है। ज्ञानी पुरुषोंके लिये तो; यह सब कुछ आत्मा ही है यह सब कुछ ब्रह्म ही है इत्यादि प्रमाणोंसे वह सदा ही प्रत्यक्ष रहता है। वह ज्ञेय अज्ञात होनेके कारण और हजारोंकरोड़ों वर्षोंतक भी प्राप्त न हो सकनेके कारण अज्ञानियोंके लिये बहुत दूर है; किंतु ज्ञानियोंका तो वह आत्मा ही है अतः उनके निकट ही है।
आनन्दगिरिः
॥13.15॥ इतोऽपि ज्ञेयं ब्रह्मास्तीत्याह – किञ्चेति। बहिरिति व्याख्येयमादाय व्याचष्टे – त्वगिति। भूतेभ्यो बहिर्बाह्यविषयाद्यात्मकमित्यर्थः। कथमनात्मन एवात्मत्वं कल्पनयेत्याह – आत्मत्वेनेति। अन्तःशब्दार्थमाह – तथेति। भूतानां चराचराणामन्तर्मध्ये प्रत्यग्भूतमित्यर्थः। द्वितीयं पादमवतार्य व्याचष्टे – बहिरित्यादिना। यन्मध्ये भूतात्मकं नानाविधदेहात्मना भासमानं तदपि ज्ञेयान्तर्भूतं तत्त्वं सदित्यर्थः। कथं चराचरात्मनो भूतजातस्य ज्ञेयत्वं तत्राह – यथेति। अधिष्ठाने रज्ज्वां कल्पितसर्पादेरन्तर्भाववद्देहाभासस्यापि ज्ञेयान्तर्भावान्नासत्त्वं मध्ये ज्ञेयस्य शङ्कितव्यमित्यर्थः। सर्वात्मकं चेज्ज्ञेयं सर्वैरिदमिति किमिति न गृह्येतेति शङ्कते – यदीति। इदमिति ग्राह्यत्वयोग्यत्वाभावान्नेत्याह – उच्यत इति। सर्ववस्त्वात्मना भासते तदयोग्यत्वं कथमित्याशङ्क्याह – सत्यमिति। सूक्ष्मत्वेऽपि किं स्यादित्याशङ्क्याह – अत इति। सूक्ष्मत्वमतीन्द्रियत्वम् तस्याविज्ञेयत्वे कुतस्तज्ज्ञानान्मुक्तिस्तत्राह – अविदुषामिति। विशेषणफलमाह – विदुषां त्विति। तेषामात्मत्वेन ज्ञातं चेत्कथं दूरस्थत्वमित्याशङ्क्याह – अविज्ञाततयेति। कथं तर्हि तस्य प्रत्यक्त्वं तत्राह – अन्तिके चेति। विद्वदविद्वद्भेदापेक्षयादूरात्सुदूरे तदिहान्तिके च इति श्रुतिस्तदर्थोऽत्र प्रसङ्गादनूदित इत्यर्थः।
नीलकण्ठः
॥13.16॥ नन्वसक्तमसंबद्धं चेत्कथमुपलब्धं स्यादित्याशङ्क्याह – बहिरिति। भूतानां प्राणिनामेकादशेन्द्रियाणि स्थूलभूतानि च केवलविकारत्वेन व्यवहितत्वात् बहिरित्युच्यन्ते। महदहंकारपञ्चतन्मात्राव्यक्तानि प्रकृतिरूपत्वेन संनिहितत्वादन्तरित्युच्यन्ते। चराचरमिति। उभयनिकृष्टाश्चराचरोपाध्युपलक्षिता अवधिभूताः पुरुषाश्चरमचरं चेत्यनेनोच्यन्ते। तत्र चराचरं ज्ञेयमिति सामानाधिकरण्यात्पुरुषाणां ज्ञेयब्रह्मभाव उक्तः। बहिरन्तश्च ज्ञेयमिति षोडशसु विकारेष्वष्टासु प्रकृतिषु च ज्ञेयस्य संबन्ध उक्तः। स च संबन्धो यादृशो यक्षस्तादृशो बलिरितिन्यायेनाध्यस्तप्रकृतिविकृतिनिरूपितत्वेनाध्यस्त एव। एवं च पुरुषस्योपलब्धिमात्रशरीरस्य गुणैः सहाध्यासिकसंबन्धसत्त्वात् गुणोपलब्धृत्वं युज्यते। यथा प्रकाशमात्रस्वरूपस्य रवेः प्रकाश्यसंबन्धापेक्षं प्रकाशयितृत्वं तद्वदित्यर्थः। ननु नित्यापरोक्षः पुरुषप्रकृतिविकारसंबद्धश्च तर्हि कुतो न सर्वैर्गृह्यत इत्याशङ्क्याह। सूक्ष्मत्वात् दुर्लक्ष्यत्वात्तज्ज्ञेयं। अविज्ञेयं दुर्विज्ञेयम्। यथा जपाकुसुमोपहितस्य स्फटिकस्य शौक्ल्यं सन्निहितमपि रूपान्तरविक्षेपेण तिरोहितं सन्न गृह्यते एवं नित्यापरोक्षमप्यसङ्गं ब्रह्मोपाध्युपधानाद्विविक्ततया न ग्रहीतुं शक्यं किंत्वौपाधिकधर्मोपेतमेव गृह्यते मूढैः। विद्वद्भिस्तूपाधिप्रविलापनेन सुग्रहमित्याशयः। एतदेवाह – दूरस्थं चान्तिके च तदिति। यथा मूढो जलसूर्यं बिम्बसूर्याद्दूरस्थं मन्यते विद्वांस्तु उपाधिप्रतिहतनयनरश्मीनामुपर्युत्प्लुत्य गतानां बिम्बग्राहित्वं स्पष्टम्। बिम्बस्याधस्थत्वग्रहणं तु पूर्वप्रवृत्ताधोमुखवृत्तिसंस्कारापेक्षमिति जानन् बिम्बदेशे एव प्रतिबिम्बं पश्यति। बिम्बे एव जलस्थत्वमध्यस्य तेन तु जले प्रतिबिम्ब इति। उपाधौ धर्म्यध्यासकल्पनातो विषयस्योपाधिसंसर्गमात्राध्यासकल्पने लाघवात्। एवं बिम्बभूतं ब्रह्म प्रतिबिम्बभूताज्जीवान्मूढानां विप्रकृष्टं विदुषां त्वत्यन्तं संनिकृष्टमिति।
धनपतिः
॥13.16॥ इतोऽपि ज्ञेयस्य ब्रह्मणोऽस्तित्वं ज्ञातव्यमित्याशयेनाह – बहिरिति। त्वक्पर्यन्तं देहमात्मत्वेनाविद्याकल्पितमपेक्ष्य तमेवावाधिं कृत्वा बहिरुच्यते। तता प्रत्यगात्मानमपेक्ष्य देहमेवावधिं कृत्वान्तरुच्यते। तथाच भूतेभ्यो बहिर्बाह्यं विषयाद्यात्मकं भूतानां चराचराणामन्तर्मध्ये प्रत्यग्भूतं ज्ञेयमित्यर्थः। मध्ये प्राप्तमभावं वारयति। अचरं चरमेवच। यन्मध्ये भूतात्मकनानाविधदेहात्मना भासमानमपि तदेव ज्ञेयं यता रज्जौ भासमानः सर्पो रज्जुरेव तथासति ज्ञेये भासमानं ज्ञेयमेवेत्यर्थः। यद्येवं तर्हि सर्वैरिदमिति किमर्थं न विज्ञेयमिति चेत्तत्राह। शूक्ष्मत्वात्तदविज्ञेयं। यथा आम्रादिगते रुपे चक्षुषा दृश्यमानेऽप्ययोग्यत्वात्तत्स्थिं रसादि तेन न दृश्यते तथा सर्वात्मकमपि ज्ञेयं सर्वस्मिञ्ज्ञातेप्याकाशवदतीन्द्रित्वात् तज्ज्ञेयमविज्ञेयम्। एतेन घटादिज्ञानेन ब्रह्मज्ञानमपि स्यात् घटाद्यात्मकत्वाद्ब्रह्मण इति शङ्कापि निरस्ता। अतएवाविदुषां तत्प्राप्तिसाधनशून्यानामविज्ञाततया दूरस्थं वर्षसहस्त्रकोट्याप्यप्राप्यत्वात्। अन्तिके च तत्। विदुषां तुआत्मैवेदं सर्वं ब्रह्मैवेदं सर्वम् इत्यादिप्रमाणतो नित्यविज्ञाततया स्वात्मभूतत्वाद्य्ववधानरहितमित्यर्थः। तथाच श्रुतिःतदेजति तन्नैजति तद्दूरे तद्विन्तिके। तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः। दूरात्सुदूरे तदिहान्तिके च पश्यत्स्विहैव निहितं गुहायाम् इत्याद्या।
मधुसूदन-सरस्वती
॥13.16॥ भूतानां भवनधर्माणां सर्वेषां कार्याणां कल्पितानामकल्पितमधिष्ठानमेकमेव। बहिरन्तश्च रज्जुरिव स्वकल्पितानां सर्पधारादीनां सर्वात्मना व्यापकमित्यर्थः। अतएव अचरं स्थावरं चरं जङ्गमं च भूतजातं तदेव अधिष्ठानात्मकत्वात्। कल्पितानां न ततः किंचिद्व्यतिरिच्यत इत्यर्थः। एवं सर्वात्मकत्वेपि सूक्ष्मत्वाद्रूपादिहीनत्वात्तदविज्ञेयं इदमेवमिति स्पष्टज्ञानार्हं न भवति। अतएवात्मज्ञानसाधनशून्यानां वर्षसहस्रकोट्याप्यप्राप्यत्वात्। दूरस्थं च योजनलक्षकोट्यन्तरितमिव तत्। ज्ञानसाधनसंपन्नानां तु अन्तिके च तदत्यन्तव्यवहितमेव आत्मत्वात्। दूरात्सुदूरे तदिहान्तिके च पश्यत्स्विहैव निहितं गुहायाम् इत्यादिश्रुतिभ्यः।
रामरायः - १६
बहिरिति। नात्र बहिःशब्देन गृहादिभ्यो बहिर्भावो विवक्षितः, किन्तु देहादेवेत्याह— त्वगिति। अविद्यया आत्मत्वेन गृहीतम्। यद्वा अविद्ययाऽऽत्मनि कल्पितं, तयैवात्मत्वेन गृहीतमिति शेषः। कल्पनेऽविद्या कर्त्री, ग्रहणे तु हेतुरिति विवेकः। त्वच एव देहपदार्थमांसाद्यपेक्षया बाह्यत्वादाह— त्वक्पर्यन्तमिति। तमेव देहमेव। अन्तःशब्देन देहादन्तर्भावो विवक्षित इत्याह— तथेति। प्रत्यगात्मन एव सर्वान्तरत्वेन तमपेक्ष्येत्युक्तम्। भूतानां कार्यकरणसङ्घातात्मकानां ब्रह्मादिस्तम्बपर्यन्तानां प्राणिनां देहाद् बहिः, देहेन्द्रियप्राणमनोऽज्ञानानां स्थूलसूक्ष्मकारणशरीरभूतानामन्तश्च तज्ज्ञेयं वर्तत इति शेषः। प्रत्यग्रूपेणान्तः, पररूपेण बहिश्चेति विवेकः। अन्तःकरणोपहितत्वं चैतन्यस्य प्रत्यक्त्वम् , मायोपहितं तु परत्वम् , चैतन्यमेव क्षेत्रज्ञ इति बोध्यम्।
प्रत्यगात्मपरमात्मभेदवादिनां तु नैतत् सिध्येत् - यदात्मनो बहिरन्तर्व्याप्तिः, अन्तःस्थितस्य प्रतीचो बहिःस्थित्ययोगाद् , बहिःस्थितस्य परस्यान्तःस्थित्ययोगात्। एवं क्षेत्रज्ञस्यान्तर्बहिर्व्यापकत्वादेव सर्वव्यापकत्वमेकत्वं च श्रुतिसिद्धं सङ्गच्छते। तथाहि श्रुतयः – ‘अन्तर्बहिश्च तत् सर्वं व्याप्य नारायणःस्थितः’ ‘एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मे’त्याद्याः।
ननु देहादन्तर्बहिरेवास्ते क्षेत्रज्ञः, न तु देहः क्षेत्रज्ञ इति कथं सर्वव्यापित्वं क्षेत्रज्ञस्य? कथं वा ‘सर्वं ब्रह्मे’ति श्रुत्युपपत्तिरिति शङ्कते— बहिरिति। मध्य इति। अन्तर्बहिःप्रदेशयोर्मध्यप्रदेश इत्यर्थः। यत्र देहोऽस्ति तत्रेति भावः। अभावे क्षेत्रज्ञस्यासत्त्वे प्राप्ते सति। ‘अचरं चरमेव चे’तीदमुत्तरमुच्यते। यच्चरं जङ्गममचरं स्थावरं तरुगुल्मलतादिकं तदपि ज्ञेयमेव। कथं चराचरस्य ब्रह्मत्वम्? अत आह— देहाभासमिति। देहरूपेणापाततोऽविचारतो भासत इति देहाभासम्। अज्ञानादेव चराचरस्य देहत्वेन प्रतीतिः, विचारात्तु चराचरं सर्वमपि ब्रह्मैवेति मध्येऽपि ब्रह्मैवास्तीत्यर्थः। ब्रह्मणि कल्पितस्य देहाभासस्य (देहभ्रमस्य) अधिष्ठानरूपत्वादिति भावः। तत्र दृष्टान्तमाह— यथेति। रज्जौ कल्पितः सर्पाभासो यथा रज्जुरूप इति शेषः। न च ज्ञेये ब्रह्मणि चराचरस्याविद्याकल्पितत्वे विवदितव्यम् , ‘यतो वा इमानि भूतानि जायन्ते’ इत्यादिश्रुतिभ्यः, स्वप्नदशायामात्मनि रथादिकल्पनस्य दर्शनाच्च। कारणव्यतिरेकेण कार्यं नास्ति, मृद्व्यतिरेकेण घटादर्शनाद् , रज्जुव्यतिरेकेण सर्पादर्शनाच्चेत्यादियुक्तिभ्यश्च।
ननु यदि व्यवहारविषयं चराचरं सर्वमपि ब्रह्मैव, तर्हि कुतोऽस्य इदन्त्वेनाविज्ञेयत्वमित्याक्षिपति— यदीति। व्यवहारविषयं चरमचरं च सर्वं ज्ञेयमेव स्याद् यदीत्यन्वयः। किमर्थमिदं ब्रह्मेति सर्वैर्न विज्ञेयमिति प्रश्नः। विज्ञेयत्वे हेतुप्रदर्शनायाह— व्यवहार- विषयमिति। मनुष्योऽयं ब्राह्मणोऽयमित्यादिप्रतीतिगोचरमित्यर्थः। चराचरस्य इदं तदिति व्यवहारविषयत्वाच्चराचरात्मकं ब्रह्मापि इदं तदिति व्यवहारविषयं स्यादेव, यथा रज्जुसर्पाभासवद्रज्जुरपि व्यवहारविषयः, तद्वदिति भावः। उच्यते उत्तरमिति शेषः। सत्यं युक्त एव प्रश्न इत्यर्थः। यद्यपि ब्रह्मेति पदद्वयस्य शेषः, सर्वाभासं सर्वजगद्रूपेणापाततो भासत इति सर्वाभासं, तथापि सर्वाभासत्वेऽपीत्यर्थः। सूक्ष्मत्वे दृष्टान्तमाह— व्योमवदिति। सर्वव्यापकं वाय्वादिसर्वजगदधिष्ठानं च व्योम यथा सूक्ष्ममतीन्द्रियत्वात् तद्वद् ब्रह्मापीत्यर्थः।
[[६७८]]
न च सर्वैश्चक्षुषा गृह्यमाणस्य व्योम्नः कथमतीन्द्रियत्वमिति वाच्यम् ; यच्चक्षुषा गृह्यते न तद् व्योम, किन्तु तदावारकं तेजस्तमो वा। न हि नीरूपं व्योम चक्षुषा ग्रहीतुं शक्यते। रूपग्राहकमेव हि चक्षुः। शब्दादिरूपत्वाभावान्नापि श्रोत्रादिभिर्गृह्यते व्योम। एवमतीन्द्रियत्वादेव व्योम्नः साक्षिभास्यत्वमभ्युपेयते। न च वायुरपि तादृश एवेति वाच्यम् ; नीरूपोऽपि वायुस्त्वगिन्द्रियेण गृह्यत एव, स्पर्शात्मकत्वात्। न चैवं शब्दात्मकत्वाद् व्योमापि श्रोत्रेण गृह्यत इति वाच्यम् ; श्रोत्रेण भेर्यादिशब्दं प्रतिपद्यमानो यः कोऽप्यनुन्मत्तः पुरुषो न मया व्योम प्रतिपन्नमिति वेत्ति। प्रतिध्वनिरेव हि व्योम्नो गुणः। न च सर्वे जना अवकाशं व्योमेति प्रतिपद्यन्त एवेति कथं तस्य सूक्ष्मत्वमिति वाच्यम् ; औपाधिकमेव व्योम्नो रूपं सर्वे व्योमत्वेन प्रतिपद्यन्ते, न तु निरुपाधिकम्। व्योम्नः उपाधिस्तु तेजस्तमसोरन्यतरदित्युक्तमेव। किञ्च नावकाशमात्रस्य व्योमत्वम् , अवकाशस्य धर्मत्वादाकाशस्य चावकाशधर्मकत्वेन द्रव्यत्वात्। स चावकाशो न चक्षुर्ग्राह्यो नीरूपत्वात्। किं तर्हि? अवकाशस्यावधिभूता ये भित्त्यादयः पदार्थास्त एव चक्षुषा गृह्यन्ते। तस्माद् अवकाशस्याकाशस्य वा नेन्द्रियगम्यत्वमित्यतीन्द्रियत्वात् सूक्ष्ममेव व्योम। न चैवं व्योमैव क्षेत्रज्ञः इत्युच्यतामिति वाच्यम् ; जडत्वात् , साक्षिभास्यत्वात् , ‘आत्मन आकाशः सम्भूतः’ इति श्रुत्या कार्यत्वात् , सावकाशत्वाद् व्योम्नः। ज्ञानस्वरूपत्वात् , स्वप्रकाशत्वात् , सर्वावभासकत्वादनादित्वाद् , निरवकाशत्वाच्च क्षेत्रज्ञस्य।
अतः इत्यस्यार्थं स्वयमेवाह— सूक्ष्मत्वादिति। तज्ज्ञेयं स्वेन रूपेणाविदुषामविज्ञेयमपि विदुषां नित्यविज्ञातमेवेत्यन्वयः। सूक्ष्मार्थदर्शिनो हि विद्वांसः। ननु कथं विदुषामप्यतीन्द्रियार्थदर्शित्वम्? अत आह—आत्मैवेदं सर्वमित्यादिप्रमाणत इति। अतीन्द्रियार्थदर्शने शास्त्रमेव करणम् , तच्च शास्त्रं विदुषामस्तीति विदुषां नित्यापरोक्षमेव ब्रह्म, स्वात्मत्वादिति भावः। ननु अविदुषामपि प्रत्यक्षमेव ब्रह्म, जगद्रूपत्वाद् ब्रह्मण इत्यत्राह— स्वेन रूपेणेति। सच्चिदानन्दादिरूपेणेत्यर्थः। न तु कल्पितजगद्रूपेणेति भावः। सर्पाभासाधिष्ठानं रज्जुरिन्द्रियगम्यत्वात् सर्वैर्विज्ञेयैव। जगदाभासाधिष्ठानं ब्रह्म तु सूक्ष्मत्वात् सर्वैरविज्ञेयमेव। न चैवं शून्यत्वप्रसङ्गः, विद्वद्भिः ज्ञेयत्वाद् ब्रह्मणः। अविद्वद्भिरपि जगद्रूपेण विज्ञेयत्वादिति तत्त्वम्। एवं सूक्ष्मत्वेनाविदुषामविज्ञाततया दूरस्थं तदित्याह— अविज्ञाततयेति। ‘दूरात्सुदूरे तदिहान्तिके च’ इति मुण्डकश्रुतिरिहानुसन्धेया। नन्वविज्ञातत्वमात्रेण कथं सर्वव्यापिनः आत्मनो दूरस्थत्वम्? अत आह— वर्षेति। यो हि ग्रामादिः गन्त्रा बहुभिर्वत्सरैः प्राप्यते स तस्य गन्तुर्दूरस्थः इति प्रसिद्धम् , यस्तु बहुभिरपि वत्सरैर्नैव प्राप्यते तस्य दूरस्थत्वं किम्पुनर्वक्तव्यम्? ब्रह्म तु कोटिसङ्ख्याकवर्षसहस्रैरपि अविद्वद्भिर्नैव प्राप्यत इति कृत्वा अतीव दूरस्थमविदुषामित्यर्थः। यद्यपि शतसंवत्सराः एव नृणां परमायुः, तथाप्यनेकजन्मगतायुःपरिगणनया कोटिसंख्याकवर्षसहस्र- सिद्धिरिति बोध्यम्। यद्वा देवानामनेकसंवत्सरपरिमितायुष्कत्वात् तद् दृष्ट्योक्तमिति बोध्यम्। वस्तुतस्तु अपरिमितसंवत्सराभिप्रायेणैव वर्षसहस्रकोट्येत्युक्तः, न तु सङ्ख्याविशेषे वक्तुस्तात्पर्यम्। ततश्चाविदुषामतीव दुर्लभं ब्रह्मेति फलितार्थः। अविदुषां दूरस्थमपि तद् ब्रह्म विदुषामन्तिके समीप एव वर्तत इति शेषः। तत्र हेतुमाह— आत्मत्वादिति। आत्मा हि स्वयम्। न चाविदुषां कुतस्तन्नात्मेति वाच्यम् ; यद्यप्यविदुषामप्यात्मैव तत् , तथापि अविद्वांसस्तदात्मत्वेन न जानन्ति, देहात्मभ्रमजीवेश्वरभेदभ्रमादिदूषितहृदयत्वात्। अत एवाविदुषां तत् परोक्षमिव भाति। यथा निधिज्ञस्य सन्निहितोऽपरोक्षोऽपि निधिस्तदविज्ञस्य दूरस्थः परोक्षश्च, तद्वदात्मज्ञस्य सन्निहितो नित्यापरोक्षोऽप्यात्मा अनात्मज्ञस्य दूरस्थः परोक्षश्चेति भावः। एतेनैकस्यैव ब्रह्मणः कथं दूरस्थत्वान्तिकस्थत्वरूपविरुद्ध- धर्मसामानाधिकरण्यमिति प्रत्युक्तम् , विद्वदविद्वद्विषयभेदेन तदुपपत्तेर्दर्शितत्वादिति।
[[६७९]]
यत्तु रामानुजः - पृथिव्यादीनि भूतानि परित्यज्याशरीरो बहिर्वर्तते, तेषामन्तश्च वर्तते, स्वभावतोऽचरं देहित्वे चरं च, एवं सर्वशक्तियुक्तं सर्वज्ञं तदात्मतत्त्वमस्मिन् क्षेत्रे वर्तमानमप्यतिसूक्ष्मत्वात् संसारिभिरविज्ञेयमिति, तत्तुच्छम् , किं मुक्तिदशावस्थितं परिशुद्धात्मस्वरूपं सशरीरमुताशरीरम्? यद्वोभयात्मकम्? आद्ये, शरीराद् बहिर्वृत्तिरसिद्धा। द्वितीये, तदन्तर्वृत्तिरयुक्ता। तृतीये, सशरीरत्वाशरीरत्वयोर्विरुद्धयोः सामानाधिकरण्यायोगः स्फुट एवेति नोभयात्मकत्वसिद्धिः। न च कदाचित् सशरीरम् , अशरीरं च कदाचिदिति वाच्यम् , परिशुद्धात्मस्वरूपस्य कादाचित्कसशरीरत्वाद्ययोगात्। उपाधिकृतं हि सशरीरत्वमात्मनः, स्वाभाविकं त्वशरीरत्वमेव। न हि सशरीरत्वमशरीरत्वं चेत्युभयं स्वाभाविकं भवितुमर्हति। यद्धि स्वाभाविकं तद्धि परिशुद्धं रूपमात्मनः। औपाधिकस्योपाधिप्रयुक्तत्वेनापरिशुद्धत्वात्। एवमशरीरस्य परिशुद्धात्मस्वरूपस्य कथं भूतानामन्तर्वृत्तिः? सत्यां ह्यन्तर्वृत्तौ सशरीरत्वं स्यात् तस्य। परिशुद्धात्मस्वरूपकथनप्रकरणे ‘देहित्वे चरं च’ इति कथमुच्यते? न हि परिशुद्धमात्मस्वरूपं देहवद् भवति, देहवत्त्वस्यापरिशुद्धिहेतुत्वात्।
किञ्च आत्मनः स्वाभाविकमचरत्वं प्रति किं पूर्णत्वं हेतुः? उत करणराहित्यम्? नाद्यः - अणोस्तस्य पूर्णत्वायोगात्। पूर्णस्य च तस्य देहेन परिच्छेदायोगाच्च। नान्त्यः -‘अपाणिपादो जवनो ग्रहीता’ इति श्रुत्या करणाभावेऽपि गमनादिक्रियावत्त्वप्रतिपादनात्। एवं निर्हेतुकाचरत्वासिद्धौ चरत्वमेव स्वाभाविकमिति सिद्धमात्मनः। ततश्च श्रुतिस्मृत्यादिविरोधः। किञ्चिज्ज्ञोऽल्पशक्तिर्जीवः, सर्वज्ञः सर्वशक्तिरीश्वर इति जीवेश्वराभेदासिद्ध्यर्थं ब्रुवताममीषां सर्वज्ञं सर्वशक्तियुक्तं परिशुद्धात्मस्वरूपमिति प्रवचनं विरुद्धम्। यद्येवं जीवः सर्वज्ञः सर्वशक्तिश्च स्यात् तर्हि किमर्थं जीवादन्येश्वरकल्पनम्? जगत्सृष्ट्याद्यर्थं हीश्वराभ्युपगमः। तच्च जगत्सृष्ट्यादिकं सर्वज्ञसर्वशक्ति- मत्पुरुषसाध्यमिति जीवादेव सृष्ट्यादिसम्भवः। इदं चेश्वरादन्यस्य जीवस्य सर्वज्ञत्वादिप्रवचनं श्रुतिविरुद्धम्। ‘स सर्वज्ञः सर्ववित्’ ‘पराऽस्य शक्तिर्विविधैव श्रूयत’ इतीश्वरस्यैव तद्धर्मवत्त्वश्रवणात्। जीवस्य किञ्चिज्ज्ञत्वादेरनुभवसिद्धस्य दुरपलापत्वाच्च। किं चान्त- र्बहिश्च भूतानामिति मूलस्य कदाचिदन्तः कदाचिद् बहिरित्यर्थकल्पनं चायुक्तम् , कदाचित्पदाध्याहारे प्रमाणाभावात्। भूतानां बहिरित्यस्य पृथिव्यादिभूतानि परित्यज्येत्यप्ययुक्तम् , आकाशपरित्यागस्य दुष्करत्वात्। आकाशो हि सर्वव्यापकः। ब्रह्माण्डाद् बहिरप्यवकाशसत्त्वेनाकाशसत्त्वात्। न हि त्वदभिमते वैकुण्ठलोकेऽप्यवकाशाभावो येनाकाशाभावः स्यात् । अवकाशवान् ह्याकाशः इति॥१५॥
[[६८०]]
मध्वः …{Loading}…
मध्वः - मूलम्
॥13.16॥ Sri Madhvacharya did not comment on this sloka.,
जयतीर्थः
॥13.16॥ Sri Jayatirtha did not comment on this sloka.
अभिनव-गुप्तः …{Loading}…
अभिनवगुप्तः - मूलम्
॥13.13 – 13.18॥ एतेन ज्ञानेन यत् ज्ञेयं तदुच्यते – ज्ञेयमित्यादि विष्ठितमित्यन्तम्। अनादिमत् परं ब्रह्म इत्यादिभिर्विशेषणैः ब्रह्मस्वरूपाक्षेपानुग्राहकं,+++(S – स्वरूपापेक्षानु – )+++ सर्वप्रवादाभिहितविज्ञानापृथग्भावं कथयति +++(S;;N सर्वप्रवादान्तराभिहितपृथग्भावकमुच्यते)+++। एतानि च विशेषणानि पूर्वमेव व्याख्यातानि इति किं निष्फलया,पुनरुक्त्या।
शङ्करनारायणः
13.16 See Comment under 13.18
वल्लभः …{Loading}…
वल्लभः - मूलम्
॥13.16॥ तस्यैव प्रपञ्चात्मकतामाह – अचरं चरमेव चेति। द्विरूपं तद्धि सर्वं स्यादेकं तस्माद्विलक्षणम् इति। अचरं जडं तत्। सदेव सोम्येदमग्र आसीत् [छां.उ.6।2।1] इति सर्वं खल्विदं ब्रह्म [छा.उ.3।14।1] इत्यादिश्रुतेः। चरं जङ्गमं जीवरूपं च तत्त्वमसि श्वेतकेतो [छां.उ.6.816] इति श्रुतेः सूक्ष्मत्वादविज्ञेयं तत् दूरस्थमन्तिके च तत्। तथा च मन्त्रः तदेजति तन्नैजति तद्दूरे तद्व(द)न्तिके। तदन्तर(म)स्य सर्वस्य तदु सर्वस्य बाह्यं (बाह्यतः) [ईशो.5] इति।
पुरुषोत्तमः
॥13.16॥ एवं भोगकर्तृत्वे व्यापकत्वं बाध्यत इत्यत आह – बहिरिति। भूतानां चराचराणां बहिः भोक्तृत्वेन; अन्तस्तद्रूपेणात्मरूपेण वा तदेव; एवं बहिरन्तस्स्थत्वे सति भिन्नत्वेन व्यापकत्वहानिमाशङ्क्याह – अचरं स्थावरं; चरमेव च जङ्गमं च। एवकारेण स्थावरत्वसहितमेव जङ्गमत्वं जङ्गमत्वसहितमेव स्थावरत्वं; तेन विरुद्धधर्माश्रयत्वं ज्ञापितम्। एवं सति सर्वज्ञेयत्वमेव स्यात्। पूर्वोक्तसाधनवत्सु को विशेषः इत्यत आह – सूक्ष्मत्वादिति। तत् ब्रह्म तत्र तत्र लीलार्थरूपेण सूक्ष्मत्वात् साधनाभावे अविज्ञेयं विशेषेण ज्ञातुमशक्यमित्यर्थः। एतदेवाह दूरस्थं चान्तिके च तत्; बहिर्मुखानां दूरस्थं; भक्तानां च अन्तिके निकटे स्थितमित्यर्थः। चकारद्वयेनैतदुभयस्याऽपि लीलात्मकत्वं ज्ञापितम्। यद्वामर्यादास्थानां दूरस्थं; पुष्टिस्थानामन्तिके स्थितम्। यद्वा पुष्टिमार्गीयाणामेव विरहदशायामतितापेन पुरस्कृतं तच्च विरहरीत्या दूरस्थमेव; अन्तिके हृदये परोक्षरीत्या। तदज्ञानेन तज्जीवनार्थं निकटे च स्थितम्। मया परोक्षं भजता तिरोहितम् [भाग.10।32।21] इति रीत्येति भावः।
श्रीधर-स्वामी …{Loading}…
॥13.16॥ किंच – बहिरिति। भूतानां चराचराणां स्वकार्याणां बहिश्चान्तश्च तदेव सुवर्णमिव कटककुण्डलादीनाम्; जलतरङ्गाणामन्तर्बहिश्च जलमिव; अचरं स्थावरं चरं जङ्गमं यद्भूतजातं तदेव; कारणात्मकत्वात्कार्यस्य; एवमपि सूक्ष्मत्वाद्रूपादिहीनत्वात्तदविज्ञेयमिदं तदिति स्पष्टज्ञानार्हं न भवति। अतएवाविदुषां योजनलक्षान्तरितमिव; दूरस्थं च; सविकारायाः प्रकृतेः परत्वात्। विदुषां पुनः प्रत्यगात्मत्वादन्तिके च तन्नित्यं संनिहितम्। तथाच मन्त्रःतदेजति तन्नैजति तद्दूरे तद्वन्तिके। तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः इति। एजति चलति नैजति न चलति तत् उ अन्तिके इति च्छेदः।
English …{Loading}…
आदिदेवानन्दः
13.16 It is within and without all beings; It is unmoving and yet moving; It is so subtle that none can comprehend It; It is far away, and yet It is very near.
गम्भीरानन्दः
13.16 Existing outside and inside all beings; moving as well as non-moving, It is incomprehensible due to subtleness. So also, It is far away, and yet near.
पुरोहितस्वामी
13.16 It is within all beings, yet outside; motionless yet moving; too subtle to be perceived; far away yet always near.
शङ्करनारायणः
13.16. It is without and within every being and is unmoving and yet moving too; due to Its subtle nature It is incomprehensible; It exists far away, yet near It is.
शिवानन्दः - अनुवादः
13.16 Without and within (all) beings the unmoving and also the moving; because of Its subtlety, unknowable; and near and far away is That.
शिवानन्दः - टीका
13.16 बहिः without; अन्तः within; च and; भूतानाम् of (all) beings; अचरम् the unmoving; चरम् the moving; एव also; च and; सूक्ष्मत्वात् because of Its subtlety; तत् That; अविज्ञेयम् unknowable; दूरस्थम् is far; च and; अन्तिके near; च and; तत् That.Commentary Brahman is subtle like the ether. It is incomprehensible to the unillumined on account of Its extreme subtlety. It is unknowable to the man who is not endowed with the four means of salvation.Brahman is known or realised by the wise. It is realised by the first class aspirant who is eipped with these means. It is near to the wise man or the illumined because It is his very Self. It is very far to the ignorant man who is drowned in worldliness or sensual pleasures. It is not attainable by the ignorant or unenlightened even in millions of years.Near and far away This expression is found in the Isavasya Upanishad (5) and the Mundaka Upanishad (3.17).
हिन्दी …{Loading}…
रामसुखदासः - अनुवादः
।।13.16।। वे परमात्मा सम्पूर्ण प्राणियोंके बाहर-भीतर परिपूर्ण हैं और चर-अचर प्राणियोंके रूपमें भी वे ही हैं एवं दूर-से-दूर तथा नजदीक-से-नजदीक भी वे ही हैं। वे अत्यन्त सूक्ष्म होनेसे जाननेका विषय नहीं हैं।
रामसुखदासः - टीका
।।13.16।।व्याख्या – [ज्ञेय तत्त्वका वर्णन बारहवेंसे सत्रहवें श्लोकतक – कुल छः श्लोकोंमें हुआ है। उनमेंसे यह पन्द्रहवाँ श्लोक चौथा है। इस श्लोकके अन्तर्गत पहलेके तीन श्लोकोंका और आगेके दो श्लोकोंका भाव भी आ गया है। अतः यह श्लोक इस प्रकरणका सार है। ]बहिरन्तश्च भूतानामचरं चरमेव च – जैसे बर्फके बने हुए घड़ोंको समुद्रमें डाल दिया जाय तो उन घड़ोंके बाहर भी जल है; भीतर भी जल है और वे खुद भी (बर्फके बने होनेसे) जल ही हैं। ऐसे ही सम्पूर्ण चरअचर प्राणियोंके बाहर भी परमात्मा हैं; भीतर भी परमात्मा हैं और वे खुद भी परमात्मस्वरूप ही हैं। तात्पर्य यह हुआ कि जैसे घड़ोंमें जलके सिवाय दूसरा कुछ नहीं है अर्थात् सब कुछ जलहीजल है; ऐसे ही संसारमें परमात्माके सिवाय दूसरा कोई तत्त्व नहीं है अर्थात् सब कुछ परमात्माहीपरमात्मा हैं। इसी बातको भगवान्ने महात्माओंकी दृष्टिसे वासुदेवः सर्वम् (गीता 7। 19) और अपनी दृष्टिसे सदसच्चाहम् (गीता 9। 19) कहा है।दूरस्थं चान्तिके च तत् – किसी वस्तुका दूर और नजदीक होना तीन दृष्टियोंसे कहा जाता है – देशकृत; कालकृत और वस्तुकृत। परमात्मा तीनों ही दृष्टियोंसे दूरसेदूर और नजदीकसेनजदीक हैं जैसे – दूरसेदूर देशमें भी वे ही परमात्मा हैं और नजदीकसेनजदीक देशमें भी वे ही परमात्मा हैं (टिप्पणी प₀ 690) पहलेसेपहले भी वे ही परमात्मा थे; पीछेसेपीछे भी वे ही परमात्मा रहेंगे और अब भी वे ही परमात्मा हैं सम्पूर्ण वस्तुओंके पहले भी वे ही परमात्मा हैं; वस्तुओंके अन्तमें भी वे ही परमात्मा हैं और वस्तुओंके रूपमें भी वे ही परमात्मा हैं। उत्पत्तिविनाशशील पदार्थोंके संग्रह और सुखभोगकी इच्छा करनेवालेके लिये परमात्मा (तत्त्वतः समीप होनेपर भी) दूर हैं। परन्तु जो केवल परमात्माके ही सम्मुख है; उसके लिये परमात्मा नजदीक हैं। इसलिये साधकको सांसारिक भोग और संग्रहकी इच्छाका त्याग करके केवल परमात्मप्राप्तिकी अभिलाषा जाग्रत् करनी चाहिये। परमात्मप्राप्तिकी उत्कट अभिलाषा होते ही परमात्माकी प्राप्ति हो जाती है अर्थात् परमात्मासे नित्ययोगका अनुभव हो जाता है।सूक्ष्मत्वात्तदविज्ञेयम् – वे परमात्मा अत्यन्त सूक्ष्म होनेसे इन्द्रियाँ और अन्तःकरणका विषय नहीं है अर्थात् वे परमात्मा इनकी पकड़में नहीं आते। अब प्रश्न उठता है कि जब जाननेमें नहीं आते; तो फिर उनका अभाव होगा उनका अभाव नहीं है। जैसे परमाणुरूप जल सूक्ष्म होनेसे नेत्रोंसे नहीं दीखता; पर न दीखनेपर भी,उसका अभाव नहीं है। वह जल परमाणुरूपसे आकाशमें रहता है और स्थूल होनेपर बूँदें; ओले आदिके रूपमें दीखने लग जाता है। ऐसे ही परमात्मा अत्यन्त सूक्ष्म होनेसे इन्द्रियाँ; मन; बुद्धि आदिके द्वारा जाननेमें नहीं आते क्योंकि वे इनसे परे हैं; अतीत हैं। जीवोंके अज्ञानके कारण ही वे परमात्मा जाननेमें नहीं आते। जैसे; कहीं पर श्रीमद्भगवद्गीता शब्द लिखा हुआ है। जो पढ़ालिखा नहीं है; उसको तो केवल लकीरें ही दीखती हैं और जो पढ़ालिखा है; उसको श्रीमद्भगवद्गीता दीखती है। संस्कृत पढ़े हुएको यह शब्द किस धातुसे बना हुआ है; इसका क्या अर्थ होता है – यह दीखने लग जाता है। गीताका मनन करनेवालेको गीताके गहरे भाव दीखने लग जाते हैं। ऐसे ही जिन मनुष्योंको परमात्मतत्त्वका ज्ञान नहीं है; उनको परमात्मा नहीं दीखते; उनके जाननेमें नहीं आते। परन्तु जिनको परमात्मतत्त्वका ज्ञान हो गया है; उनको तो सब कुछ परमात्माहीपरमात्मा दीखते हैं। उस परमात्मतत्त्वको ज्ञेय (13। 12; 17) भी कहा है और अविज्ञेय भी कहा है। इसका तात्पर्य यह है कि वह स्वयंके द्वारा ही जाना जा सकता है; इसलिये वह ज्ञेय है और वह इन्द्रियाँमनबुद्धिके द्वारा नहीं जाना जा सकता; इसलिये वह अविज्ञेय है। सर्वत्र परिपूर्ण परमात्माको जाननेके लिये यह आवश्यक है कि साधक परमात्माको सर्वत्र परिपूर्ण मान ले। ऐसा मानना भी जाननेकी तरह ही है। जैसे (बोध होनेपर) ज्ञान(जानने) को कोई मिटा नहीं सकता; ऐसे ही परमात्मा सर्वत्र परिपूर्ण हैं इस मान्यता(मानने) को कोई मिटा नहीं सकता। जब सांसारिक मान्यताओं – मैं ब्राह्मण हूँ; मैं साधु हूँ आदिको (जो कि अवास्तविक हैं) कोई मिटा नहीं सकता; तब पारमार्थिक मान्यताओंको (जो कि वास्तविक हैं) कौन मिटा सकता है तात्पर्य यह है कि दृढ़तापूर्वक मानना भी एक साधन है। जाननेकी तरह माननेकी भी बहुत महिमा है। परमात्मा सर्वत्र परिपूर्ण हैं – ऐसा दृढ़तापूर्वक मान लेनेपर यह मान्यता मान्यतारूपसे नहीं रहेगी; प्रत्युत इन्द्रियाँमनबुद्धिसे परे जो अत्यन्त सूक्ष्म परमात्मा हैं; उनका अनुभव हो जायगा।
चिन्मयानन्दः
।।13.16।। परमात्मा की सर्वव्यापकता को यहाँ उपनिषदों की अननुकरणीय शैली में इंगित किया गया है। वह भूतमात्र के अन्तर्बाह्य है सभी व्यष्टि उपाधियों में व्यक्त चेतन तत्त्व सर्वव्यापी है। अन्तर्बाह्य से तात्पर्य है कि जहाँ शरीरादि उपाधियाँ हैं; वहाँ तो वह विशेष रूप से व्यक्त हुआ विद्यमान रहता ही है; परन्तु जहाँ कोई उपाधि नहीं है वहाँ भी वह केवल सत्य रूप से स्थित रहता है। जिस प्रकार; जहाँ रेडियो है वहाँ ध्वनि तरंगों का अस्तित्व स्पष्ट ज्ञात होता है; परन्तु जहाँ रेडियो नहीं है; वहाँ उन तरंगों का अभाव नहीं कहा जा सकता। वह चर है और अचर भी जो अपनी स्वेच्छा से विचरण करता रहता है; वह चर प्राणी है; तथा गतिहीन वस्तु अचर वर्ग में आती है। इस वाक्य का अर्थ इस प्रकार भी किया जाता है कि आत्मतत्त्व अचर होते हुये भी चर है इसका तात्पर्य यह है कि आत्मा सर्वव्यापी होने से स्वस्वरूप की दृष्टि से अचर है; परन्तु वही आत्मा गतिमान् उपाधियों से अवच्छिन्नसा होकर चरवत् प्रतीत होता है। उदाहरणार्थ; किसी गतिमान वाहन में कोई व्यक्ति स्वयं अपने स्थान पर बैठा हुआ (अचर) ही मीलों लम्बी यात्रा तय कर लेता है इस प्रकार; हमारे व्यक्तित्व का सारभूत तत्त्व एक; सनातन व परिपूर्ण है जो अन्तर्बाह्य सर्वत्र व्याप्त है। उसके बिना कोई भी क्रिया संभव नहीं है ; इसलिये वह सभी क्रियाओं में विद्यमान है। वह सत्स्वरूप से सर्वत्र ही स्थित है। तब; फिर क्या कारण है कि हम उसे इन्द्रियों द्वारा नहीं देख सकते; या मन और बुद्धि से अनुभव नहीं कर पाते भगवान् कहते हैं कि; वह अत्यन्त सूक्ष्म होने से अविज्ञेय है। गुणवान् वस्तु स्थूल होती है। जिस वस्तु में अधिक गुण होते हैं वह उतनी ही अधिक स्थूल होती है और एकाधिक इन्द्रियों के द्वारा ग्रहण की जा सकती है। जैसे; पृथ्वी का ज्ञान पाँचों इन्द्रियों के द्वारा होता है। जबकि वायु का केवल श्रोत्र और स्पर्शेन्द्रिय से। अत पृथ्वी स्थूलतम तत्त्व है और आकाश में केवल शब्द गुण होने से वह सूक्ष्मतम है। कार्य की अपेक्षा कारण सदैव सूक्ष्म होता है। आकाश तत्त्व सृष्ट वस्तु होने से उसका भी कारण होना आवश्यक है। आकाश का भी कारण वह नित्य अधिष्ठान ब्रह्म है जिससे पंच महाभूतों की उत्पत्ति होती है। स्वाभविक ही है कि वह ब्रह्म आकाश से भी सूक्ष्म होने के कारण हमारे उपलब्ध प्रमाणों के द्वारा दृश्य रूप में नहीं जाना जा सकता है वह अविज्ञेय है। वह दूरस्थ और समीपस्थ है एक साकार परिच्छिन्न वस्तु को किसी स्थान विशेष पर यहाँ या वहाँ स्थित बताया जा सकता है। उन वस्तुओं के द्रष्टा की स्थिति से उनकी दूरी नापी जाकर उन्हें दूरस्थ या समीपस्थ कहा जा सकता है। परन्तु जो सर्वव्यापी है वह एक ही समय यहाँ होगा और वहाँ भी होगा और इसलिये वह दूरस्थ और समीपस्थ भी है। इन दो शब्दों की व्याख्या इस प्रकार भी की जा सकती है कि परमात्मा सर्व नामरूपों की उपाधियों से मुक्त दूरस्थ है किन्तु वही परमात्मा इन नामरूपों में भी समीपस्थ है। श्रीशंकराचार्य अपने भाष्य में लिखते हैं कि यह आत्मा अज्ञानियों को अत्यन्त दूर स्थित हुआ भासता है; जबकि ज्ञानी जन तो उसे अत्यन्त समीप से आत्मरूप से ही अनुभव करते हैं। संक्षेप में; विरोधाभास की भाषा की सुन्दरता से युक्त यह श्लोक उन पाठकों को सहसा जगा देता है; जो केवल बौद्धिक ज्ञान से ही सन्तुष्ट हो जाते हैं। यह श्लोक उन्हें मनन या ध्यान के द्वारा परमात्मा के सर्वव्यापक एवं सर्वातीत स्वरूप का साक्षात् अनुभव करने के लिए प्रेरित करता है। इसी ज्ञेय के विषय में भगवान् आगे कहते है
तेजोमयानन्दः - अनुवादः
।।13.16।। (वह ब्रह्म) भूत मात्र के अन्तर्बाह्य स्थित है; वह चर है और अचर भी। सूक्ष्म होने से वह अविज्ञेय है; वह सुदूर और अत्यन्त समीपस्थ भी है।।