(सं) विश्वास-प्रस्तुतिः ...{Loading}...
+++(श्री भगवानुवाच)+++
सुदुर्दर्शम् इदं रूपं
दृष्टवान् असि यन् मम।
देवा अप्य् अस्य रूपस्य
नित्यं दर्शन-काङ्क्षिणः॥11.52॥
(सं) मूलम् ...{Loading}...
श्री भगवानुवाच
सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम।
देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः।।11.52।।
रामानुज-सम्प्रदायः
(सं) रामानुजः मूलम् ...{Loading}...
।।11.52।। श्रीभगवानुवाच – मम इदं सर्वस्य प्रशासने अवस्थितं सर्वाश्रयं सर्वकारणभूतं रूपं यत् दृष्टवान् असि; तत् सुदुर्दर्शं न केन अपि द्रष्टुं शक्यम् अस्य रूपस्य देवा अपि नित्यं दर्शनकाङ्क्षिणः; न तु दृष्टवन्तः। कुतः इत्यत्र आह –
(सं) रामानुजः वेङ्कटनाथः ...{Loading}...
।।11.52।। यच्छब्दस्य प्रसिद्धपरामर्शित्वेन प्रसिद्धाकारानाहसर्वस्य प्रशासनेऽवस्थितमित्यादिना। नित्यम् इत्यस्य पदार्थैकदेशदर्शनान्वयस्यागतिकस्य आश्रयणमनुचितमित्यभिप्रेत्याकाङ्क्षाया नित्यत्वं दर्शनाभावमवगमयतीत्याशयेनाहन तु दृष्टवन्त इति।
(सं) रामानुजः (Eng) आदिदेवानन्दः ...{Loading}...
11.52 The Lord said This form of Mine which you have seen, and which has the whole universe under control, which is the foundation of all and which forms the origin of all - this cannot be beheld by any one. Even the gods ever long to see this form; but they have not seen it. Why; Sri Krsna says:
अभिनवगुप्त-सम्प्रदायः
(सं) अभिनव-गुप्तः मूलम् ...{Loading}...
।।11.52।। No commentary.
(सं) अभिनव-गुप्तः (Eng) शङ्करनारायणः ...{Loading}...
11.52 Sri Abhinavagupta did not comment upon this sloka.
माध्व-सम्प्रदायः
(सं) मध्वः मूलम् ...{Loading}...
।।11.52।। Sri Madhvacharya did not comment on this sloka.,
(सं) मध्वः जयतीर्थः ...{Loading}...
।।11.52।। Sri Jayatirtha did not comment on this sloka.
शाङ्कर-सम्प्रदायः
(सं) शङ्करः मूलम् ...{Loading}...
।।11.52।। –,सुदुर्दर्शं सुष्ठु दुःखेन दर्शनम् अस्य इति सुदुर्दर्शम्; इदं रूपं दृष्टवान् असि यत् मम; देवाः अपि अस्य मम रूपस्य नित्यं सर्वदा दर्शनकाङ्क्षिणः दर्शनेप्सवोऽपि न त्वमिव दृष्टवन्तः; न द्रक्ष्यन्ति च इति अभिप्रायः।। कस्मात् –,
(सं) शङ्करः (हि) हरिकृष्णदासः ...{Loading}...
।।11.52।। श्रीभगवान् बोले – मेरे जिस रूपको तूने देखा है; वह बड़ा दुर्दर्श है अर्थात् जिसका दर्शन बड़ी कठिनतासे हो; ऐसा है। देवता लोग भी मेरे इस रूपका दर्शन करनेकी सदा इच्छा करते हैं। अभिप्राय यह है कि दर्शनकी इच्छा करते हुए भी उन्होंने तेरी भाँति ( मेरा रूप ) देखा नहीं है और देखेंगे भी नहीं।
,
(सं) शङ्करः (Eng) गम्भीरानन्दः ...{Loading}...
11.52 Idam, this; rupam, form; mama, of Mine; yat, which; drstavan, asi, you have seen is; sudur-darsam, very difficult to see. Api, even; the devah, gods; are nityam, ever; darsana-kanksinah, desirous of a vision; asya, of this; rupasya, form of Mine. The idea is that though they want to see, they have not seen in the way you have, nor will they see! Why so;
(सं) शङ्करः आनन्दगिरिः ...{Loading}...
।।11.52।। उपास्यत्वाय विश्वरूपं स्तोतुं भगवदुक्तिमुत्थापयति – भगवानिति। त्वद्व्यतिरिक्तानामिदं रूपं द्रष्टुमशक्यमित्येतद्विशदयति – देवादय इति।
(सं) शङ्करः मधुसूदन-सरस्वती ...{Loading}...
।।11.52।। स्वकृतस्यानुग्रहस्यातिर्दुलभत्वं दर्शयन् चतुर्भिः श्रीभगवानुवाच – सुदुर्दर्शमिति। मम यद्रूपमिदानीं त्वं दृष्टवानसि इदं विश्वरूपं सुदुर्दर्शं अत्यन्तं द्रष्टुमशक्यं। यतो देवा अप्यस्य रूपस्य नित्यं सर्वदा दर्शनकाङ्क्षिणो नतु त्वमिव पूर्वं दृष्टवन्तो न वाऽग्रे द्रक्ष्यन्तीत्यभिप्रायः। दर्शनाकाङ्क्षया नित्यत्वोक्तिः।
(सं) शङ्करः नीलकण्ठः ...{Loading}...
।।11.52।। अस्य विश्वरूपदर्शनस्य दौर्लभ्यं दर्शयन् श्रीभगवानुवाच सुदुर्दर्शमिति। दर्शनकाङ्क्षिणः दर्शनं काङ्क्षन्ते एव न तु लभन्ते।
(सं) शङ्करः धनपतिः ...{Loading}...
।।11.52।। एवं श्रुत्वा स्वकृतस्यातिदर्लभस्यानुग्रहस्य वैयर्थ्यपरिहाराय श्रीभगवानुवाच। यन्मम रुपं मदनुग्रहेण त्वं दृष्टवानसि तदिदमन्येषां सुष्ठु दुःखेनात्यन्तकष्टेन दर्शनमस्येति सुदुर्द्सं यतोत्युत्तमाः सात्विकास्तिद्दर्शनार्थिनश्च देवा इन्द्रादयोऽपि न तत्त्वमिव दृष्टवन्तो न च द्रक्ष्यन्तीत्याशयेनाह – देवा इति।
वल्लभ-सम्प्रदायः
(सं) वल्लभः मूलम् ...{Loading}...
।।11.52।। ततः एवं स्थितौ स्वरूपस्य सुदुर्दर्शत्वं निरूपयन्प्रसङ्गादनुग्रहभक्त्यैकगम्यत्वं स्वस्य निगमयति त्रिभिः – सुदुर्दर्शमिति। इदं मत्सम्बन्धि रूपमक्षरं विश्वरूपं यत्त्वं दृष्टवानसि; यतोऽहं सुदुर्दर्शस्तदा किं वाच्यं मत्सम्बन्धिरूपमिदमिति तदेवाह – देवा अपीति। सात्विका अपि ते नित्यं दर्शनकाङ्क्षिणः; न तु दृष्टवन्तोऽपि अनुग्रहबीजभावाभावात्।
(सं) वल्लभः पुरुषोत्तमः ...{Loading}...
।।11.52।। स्वस्य रूपस्य स्वानुग्रहैकसाध्यत्वेन परमदुर्लभत्वमाह – श्रीभगवानुवाच सुदुर्दर्शमिति। इदं परिदृश्यमानं मम रूपं सुदुर्दर्शं सुष्ठु दुःखेनाऽपि द्रष्टुमशक्यं यत् त्वं दृष्टवानसि। देवा अपि मत्क्रीडायोग्या मदंशा अपि अस्य नित्यं प्रत्यहं दर्शनकाङ्क्षिणः दर्शनेच्छवस्तिष्ठन्तीत्यर्थः। अत्रायं भावः – ब्रह्मादयो देवाः श्रीदेवकीगृहे स्तुत्वा गतास्तदा गर्भ एव प्राकट्यं; न बहिः बहिः प्राकट्यानन्तरं तु मातृप्रार्थनया तिरोहितं कृत्वा ध्यानास्पदत्वेन स्थापितं देवादीनां तु तद्वृत्तान्ताज्ञानाद्वेदोक्तरीत्या भजनात्तादृक्स्वरूपदर्शनमेव भवति इदं च स्वरूपं भावात्मकं वेदाद्यगम्यं भक्तमुखात् श्रुतत्वाच्चाकाङ्क्षिणस्तिष्ठन्तीति तथा।
संस्कृतटीकान्तरम्
(सं) श्रीधर-स्वामी ...{Loading}...
।।11.52।। स्वकृतस्यानुग्रहस्यातिदुर्लभत्वं दर्शयन् श्रीभगवानुवाच – सुदुर्दर्शमिति। यन्मम विश्वरूपं त्वं दृष्टवानसि इदं सुदुर्दर्शमत्यन्तं द्रष्टुमशक्यम्। अतो देवा अप्यस्य रूपस्य सर्वदा दर्शनमिच्छन्ति न केवलं पुनरिदं पश्यन्ति।
हिन्दी-टीकाः
(हि) चिन्मयानन्दः ...{Loading}...
।।11.52।। See Commentary under 11.53.
(हि) तेजोमयानन्दः अनुवादः ...{Loading}...
।।11.52।। श्रीभगवान् ने कहा – मेरा यह रूप देखने को मिलना अति दुर्लभ है, जिसको कि तुमने देखा है। देवतागण भी सदा इस रूप के दर्शन के इच्छुक रहते हैं।।
(हि) रामसुखदासः अनुवादः ...{Loading}...
।।11.52।। श्रीभगवान् बोले – मेरा यह जो रूप तुमने देखा है, इसके दर्शन अत्यन्त ही दुर्लभ हैं। इस रूपको देखनेके लिये देवता भी नित्य लालायित रहते हैं।
(हि) रामसुखदासः टीका ...{Loading}...
।।11.52।।**व्याख्या–‘सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम’–**यहाँ ‘सुदुर्दर्शम्’ पद चतुर्भुजरूपके लिये ही आया है, विराट्रूप या द्विभुजरूपके लिये नहीं। कारण कि विराट्रूपकी तो देवता भी कल्पना क्यों करने लगे ! और मनुष्यरूप जब मनुष्योंके लिये सुलभ था, तब देवताओंके ल,ये वह दुर्लभ कैसे होता ! इसलिये ‘सुदुर्दर्शम्’ पदसे भगवान् विष्णुका चतुर्भुजरूप ही लेना चाहिये, जिसके लिये ‘देवरूपम्’ (11। 45) और स्वकं रूपम् (11। 50) पद आये हैं।
आङ्ग्ल-टीकाः
(Eng) शङ्करनारायणः ...{Loading}...
11.52. The Bhagavat said This form of Mine, which you have just observed is extremely difficult to observe; even gods are always curious of observing this form.
(Eng) गम्भीरानन्दः ...{Loading}...
11.52 The Blessed Lord said This form of Mine which you have seen is very difficult to see; even the gods are ever desirous of a vision of this form.
(Eng) पुरोहितस्वामी ...{Loading}...
11.52 Lord Shri Krishna replied: It is hard to see this vision of Me that thou hast seen. Even the most powerful have longed for it in vain.
(Eng) आदिदेवनन्दः ...{Loading}...
11.52 The Lord said It it very hard to behold this form of Mine which you have seen. Even the gods ever long to behold this form.
(Eng) शिवानन्दः अनुवादः ...{Loading}...
11.52 The Blessed Lord said Very hard indeed it is to see this form of Mine which thou hast seen. Even the gods are ever longing to behold it.
(Eng) शिवानन्दः टीका ...{Loading}...
11.52 सुदुर्दर्शम् very hard to see; इदम् this; रूपम् form; दृष्टवानसि thou hast seen; यत् which; मम My; देवाः gods; अपि also; अस्य (of) this; रूपस्य of form; नित्यम् ever; दर्शनकाङ्क्षिणः (are) desrious to behold.Commentary Lord Krishna says to Arjuna Though the gods long to behold the Cosmic Form yet they have not seen it as you have done. THey can never behold it.Just as the Chataka (a bird) longs for a drop of rain; eagerly turning its eyes towards the clouds; so also do gods yearn to behold the Cosmic Form but their wishes have not been gratified even in their dreams. Such is that marvellous vision which thou hast easily seen.