(सं) विश्वास-प्रस्तुतिः ...{Loading}...
पितासि लोकस्य चराचरस्य
त्वम् अस्य पूज्यश् च गुरुर् गरीयान्।
न त्वत्-समोऽस्त्य् अभ्यधिकः कुतो ऽन्यो
लोक-त्रयेऽप्य् अप्रतिम-प्रभाव॥11.43॥
(सं) मूलम् ...{Loading}...
पितासि लोकस्य चराचरस्य
त्वमस्य पूज्यश्च गुरुर्गरीयान्।
न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो
लोकत्रयेऽप्यप्रतिमप्रभाव।।11.43।।
रामानुज-सम्प्रदायः
(सं) रामानुजः मूलम् ...{Loading}...
।।11.43।।अप्रितमप्रभाव त्वम् अस्य चराचरस्य लोकस्य पिता असि अस्य लोकस्य गुरुः च असि। अतः त्वम् अस्य चराचरस्य लोकस्य गरीयान् पूज्यतमः। न त्वत्समः अस्ति अभ्यधिकः कुतः अन्यः लोकत्रये अपि त्वदन्यः कारुण्यादिना केन अपि गुणेन न त्वत्समः अस्ति कुतः अभ्यधिकः। यस्मात् त्वं सर्वस्य पिता पूज्यतमो गुरुः च कारुण्यादिगुणैः च सर्वाधिकः असि –
(सं) रामानुजः वेङ्कटनाथः ...{Loading}...
।।11.43।। त्वया क्षामणे कृतेऽपि क्षमेऽहमिति केन निश्चितम् मदन्यः कश्चिदाश्रीयतामिति भगवदभिप्रायमुन्नीय तदुत्तरत्वेन हेतुफलभावेन प्रवृत्ते श्लोकद्वये प्रथमश्लोकस्थविशेषणान्यप्रतिमप्रभावत्वोपपादकानीत्यभिप्रायेणअप्रतिमप्रभावेति प्रथममुक्तम्। पितृगुरुपूज्यशब्दानां सम्बन्धिसापेक्षत्वेन लोकशब्दस्य सर्वत्रान्वयमाहअस्य लोकस्य पिताऽसीत्यादिना। निरुपाधिकपितृत्वगुरुत्वे पूज्यतमत्वहेतुरित्यभिप्रायेणअत इति। पूज्यत्वे गरीयस्त्वमनवच्छिन्नमिति ज्ञापनाय प्रवृत्तंन त्वत्समोऽस्ति इति वाक्यं व्याख्यास्यन् प्रयोजनातिशयसत्त्वाल्लोकत्रयशब्दस्यात्रान्वयमाहलोकत्रयेऽपि त्वदन्य इति। अत्र लोकत्रयशब्देन कृतकमकृतकं कृतकाकृतकमित्युक्तलोकत्रयं वा; लोक्यतेऽनेन प्रमाणान्तराप्राप्तार्थ इति व्युत्पत्त्या वेदत्रयं वा विवक्षितम्। साम्यस्य भेदघटितत्वात्न त्वत्समोऽस्ति इत्यनेनैव अन्यस्मिन् भगवत्साम्यनिषेधलाभादन्यपदानर्थक्यं इत्याशङ्कापरिहारायअन्यस्त्वत्समो नास्ति; त्वमेव तव समः इत्यर्थलाभार्थंत्वदन्यः इत्युद्देश्यसमर्पकत्वेनान्यशब्दस्यान्वय उक्तः। तेन कार्यत्वकर्मवश्यत्वादिना भगवदन्यत्वेन प्रसिद्धानां विधिशिवादीनां हिरण्यगर्भः समवर्तताग्रे [ऋक्सं.8।7।3।1वा.सं.20।10।10।14] अजस्य नाभावध्येकमर्पितं [यजुः4।6।2] यदा तमस्तन्न दिवा न रात्रिर्न सन्न चासच्छिव एव केवलः [श्वे.उ.4।18] इत्यादिषु तत्तद्वाचिशब्दश्रवणेन; कारणत्वादिना भगवत्साम्यापातप्रतीतावपिआकाशस्तल्लिङ्गात् [ब्र.सू.1।1।22]प्राणस्तथानुगमात् [ब्र.सू.1।1।28]शास्त्रदृष्ट्या तूपदेशो वामदेववत् [ब्रू.सू.1।1।30]साक्षादप्यविरोधं जैमिनिः [ब्र.सू.1।2।28] इत्यादिन्यायानुरोधेन एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः [सुबालो.7] एको ह वै नारायण आसीन्न ब्रह्मा नेशानः [महो.1।1] इत्यादिश्रुतिसिद्धसर्वान्तरात्मत्वापहतपाप्मत्वादिविशिष्टभगवदसाधारणधर्मप्रतिपादकवाक्यस्थहिरण्यगर्भाजशिवादिशब्दानां भगवत्परतया न तेषां भगवत्साम्यगन्धोऽपीति लभ्यते। केनापि गुणेनेति – किमुत सकलकल्याणगुणैर्जगत्कारणत्वमोक्षप्रदत्वादिना चेति भावः। अनेन साम्यैक्योत्तीर्णव्यक्त्यन्तरत्वपक्षा निरस्ता वेदितव्याः।
(सं) रामानुजः (Eng) आदिदेवानन्दः ...{Loading}...
11.43 O Being of matchless greatness! You are the father of this world, of all that moves and does not move. You are the teacher of this world. Therefore You are the one most worthy of reverence in this world of mobile and immobile entities. There is none eal to You. How then could there be in the three worlds another greater than You; No other being is eal to You in point of any attribute like compassion etc. How could there be any one greater; Inasmuch as You are the father of all, the most worthy of reverence, teacher and exalted over all by virtue of attributes like compassion etc.,
अभिनवगुप्त-सम्प्रदायः
(सं) अभिनव-गुप्तः मूलम् ...{Loading}...
।।11.43।। No commentary.
(सं) अभिनव-गुप्तः (Eng) शङ्करनारायणः ...{Loading}...
11.43 Sri Abhinavagupta did not comment upon this sloka.
माध्व-सम्प्रदायः
(सं) मध्वः मूलम् ...{Loading}...
।।11.43।। Sri Madhvacharya did not comment on this sloka.,
(सं) मध्वः जयतीर्थः ...{Loading}...
।।11.43।। Sri Jayatirtha did not comment on this sloka.
शाङ्कर-सम्प्रदायः
(सं) शङ्करः मूलम् ...{Loading}...
।।11.43।। –,पिता असि जनयिता असि लोकस्य प्राणिजातस्य चराचरस्य स्थावरजङ्गमस्य। न केवलं त्वम् अस्य जगतः पिता; पूज्यश्च पूजार्हः; यतः गुरुः गरीयान् गुरुतरः। कस्मात् गुरुतरः त्वम् इति आह – न त्वत्समः त्वत्तुल्यः अस्ति। न हि ईश्वरद्वयं संभवति; अनेकेश्वरत्वे व्यवहारानुपपत्तेः। त्वत्सम एव तावत् अन्यः न संभवति कुतः एव अन्यः अभ्यधिकः स्यात् लोकत्रयेऽपि सर्वस्मिन् अप्रतिमप्रभाव प्रतिमीयते यया सा प्रतिमा; न विद्यते प्रतिमा यस्य तव प्रभावस्य सः त्वम् अप्रतिमप्रभावः; हे अप्रतिमप्रभाव निरतिशयप्रभाव इत्यर्थः।। यतः एवम् –,
(सं) शङ्करः (हि) हरिकृष्णदासः ...{Loading}...
।।11.43।। क्योंकि आप –, इस स्थावरजंगमरूप समस्त जगत्के यानी प्राणिमात्रके उत्पन्न करनेवाले पिता हैं। केवल पिता ही नहीं; आप पूजनीय भी हैं; क्योंकि आप बड़ेसेबड़े गुरु हैं। आप कैसे गुरुतर हैं सो ( अर्जुन ) बतलाता है – हे अप्रतिमप्रभाव सारी त्रिलोकीमें आपके समान दूसरा कोई नहीं है क्योंकि अनेक ईश्वर मान लेनेपर व्यवहार सिद्ध नहीं हो सकता। इसलिये ईश्वर दो नहीं हो सकते। जब कि सारे त्रिभुवनमें आपके समान ही दूसरा कोई नहीं है; फिर अधिक तो कोई हो ही कैसे सकता है जिससे किसी वस्तुकी समानता की जाय उसका नाम प्रतिमा है; जिन आपके प्रभावकी कोई प्रतिमा नहीं है; वह आप अप्रतिमप्रभाव हैं। इस प्रकार हे अप्रतिमप्रभाव अर्थात् हे निरतिशयप्रभाव ।
,
(सं) शङ्करः (Eng) गम्भीरानन्दः ...{Loading}...
11.43 Asi, You are; pita, the Father, the Progenitor; lokasya, off all beings; cara-acarasya, moving and nonmoving. Not only are Yur are Father of this world, You are also pujyah, worthy of worship; since You are the guruh, Teacher; [He is the Teacher since He introduce the line of teachers of what is virtue and vice, and of the knowledge of the Self. And He is greater than a teacher because He is the teacher even of Hiranyagarbha and others.] gariyan, greater (than a teacher). How are You greater; In answer he says: Asti, there is; na, none other; tvat-samah, eal to You; for there is no possibility of two Gods. Because all dealings will come to naught if there be many Gods! When there is no possibility of another being eal toYou, kutah eva, how at all; can there be anyah, anyone; abhyadhikah, greater; api, even; loka-traye, in all the three worlds; apratima-prabhavah, O you of unrivalled power; That by which something is measured is pratima. You who have no measure for Your power (prabhava) are a pratima-prabhavah. Apratima-prabhava means ‘O You of limitless power!’ Since this is so,
(सं) शङ्करः आनन्दगिरिः ...{Loading}...
।।11.43।। वाचनिकं मदीयमपराधजातं त्वया क्षन्तव्यमित्युक्तमिदानीं मदीयोऽपराधो न त्वया गृहीतव्यो गृहतोऽपि सोढव्य इत्याह – यत इति। गुणाधिक्यात्पूजार्हत्वं धर्मात्मज्ञानसंप्रदायप्रवर्तकत्वेन शिक्षयितृत्वाद्गुरुत्वं गुरूणामपि सूत्रादीनां गुरुत्वाद्गरीयस्त्वं तदेव प्रश्नद्वारा साधयति – कस्मादिति। ईश्वरान्तरं तुल्यं भविष्यतीत्याशङ्क्याह – नहीति। ईश्वरभेदे प्रत्येकं स्वातन्त्र्यात्तदैकमत्ये हेत्वभावान्नानामतित्वे चैकस्य सिसृक्षायामन्यस्य संजिहीर्षासंभवाद्व्यवहारलोपादयुक्तमीश्वरनानात्वमित्यर्थः। अभ्यधिकासत्त्वं कैमुतिकन्यायेन दर्शयति – त्वत्सम इति। तत्र हेतुमवतार्य व्याकरोति – अप्रतिमेत्यादिना।
(सं) शङ्करः मधुसूदन-सरस्वती ...{Loading}...
।।11.43।। अचिन्त्यप्रभावतामेव प्रपञ्चयति – पितासीति। अस्य चराचरस्य लोकस्य पिता जनकस्त्वमसि। पूज्यश्चासि सर्वेश्वरत्वात्। गुरुश्चासि शास्त्रोपदेष्टा। अतः सर्वैः प्रकारैर्गरीयान् गुरुतरोऽसि। अतएव न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो लोकत्रयेऽपि। हे अमितप्रभाव; यस्य समोऽपि नास्ति द्वितीयस्य परमेश्वरस्याभावात्तस्याधिकोऽन्यः कुतः स्यात्। सर्वथा न संभाव्यत एवेत्यर्थः।
(सं) शङ्करः नीलकण्ठः ...{Loading}...
।।11.43।। अप्रमेयत्वमेवाह – पितासीति। यतस्त्वमस्माकं पितासि अतोऽस्माभिः शिशुभिः कृता अपराधास्त्वया क्षन्तव्या एवेति भावः।
(सं) शङ्करः धनपतिः ...{Loading}...
।।11.43।। मयातीवानुचितमेव कुतं क्षमापनं च कर्तव्यमेव त्वया च क्षन्तव्यमेव। यतस्त्वं प्राणिनिकायस्य स्थावरजंगमस्य पिता जनकोऽसि पूज्यः पूजार्हश्चासि। यतो गुरुर्धर्मब्रह्मोपदेष्टा गरीयान् गुरुतरोसि। भगवतो गुरुतरत्वे हेतुमाह। न त्वत्समस्तुल्योऽस्ति द्वितीयस्येस्वरस्याभावात् ईश्वरसत्वे प्रत्येकमैकमत्ये कारणाभावात् नानामतित्वे चैकस्य संजिहीर्षायामपरस्य सिसृक्षासंभवात् अपरस्य पालनेच्छायामेकस्य संजिहीर्षासंभवात् व्यवहारलोपप्रसङ्गापत्त्यानेकेश्वरवादस्यायुक्तत्वादिति भावः। त्वत्तुल्य एवान्यो न संभवति। कुतएव लोकत्रयेऽपि सर्वस्मिन्लोकेऽन्योऽभ्यधिकः कुतोऽन्यो लोकत्रयेऽपीति वा हेतुहेतुमद्भावः। भाष्यस्योपलक्षणार्थत्वादविरोधः। हेऽप्रतिप्रभाव; प्रतिमीयते यया सा प्रतिमा उपमा न विद्यते उपमा यस्य स चौसौ प्रभावो यस्य स तथा। असस्त्वमेव सर्वेषां पित्रादिरिति भावः।
वल्लभ-सम्प्रदायः
(सं) वल्लभः मूलम् ...{Loading}...
।।11.43।। पिताऽसीति। पूज्यो गुरुश्चेति सात्त्विकोऽश्वमेधे राजसूये च विदितस्त्वं सात्त्विकधर्माणां त्वयि निरूपितत्वात्तथाभूतं त्वां जानन् क्षमापयेऽहं प्राकृतः।
(सं) वल्लभः पुरुषोत्तमः ...{Loading}...
।।11.43।। क्षमापने सन्बन्धस्यावश्यकत्वायाह – पितेति। अस्य चराचरस्य स्थावरजङ्गमात्मकस्य ब्राह्मणक्षत्रिययोर्वापिता उत्पादकः; च पुनः गरीयान् पूज्यः देवोत्तमः तद्द्रष्टा गुरुः त्वमसि। तर्हि त्वत्समो भविष्यतीति नेत्याह। हे अप्रतिमप्रभाव उपमारहितानुभाव लोकत्रये अन्यस्त्वत्समोऽपि नास्ति कुतोऽभ्यधिको भवेत् येन त्वं तत्समः स्याः।
संस्कृतटीकान्तरम्
(सं) श्रीधर-स्वामी ...{Loading}...
।।11.43।। अचिन्त्यप्रभावमेवाह – पितेति। न विद्यते उपमा यस्य सोऽप्रतिमः तथाविधः प्रभावो यस्य तव हे अप्रतिमप्रभाव; त्वमस्य चराचरस्य लोकस्य पिता जनकोऽसि। अतएव पूज्यश्च गुरुश्च गुरोरपि गरीयान् गुरुतरः अतो लोकत्रयेऽपि त्वत्सम एव तावदन्यो नास्ति परमेश्वरस्यान्यस्याभावात्; त्वत्तोऽभ्यधिकः पुनः कुतः स्यात्।
हिन्दी-टीकाः
(हि) चिन्मयानन्दः ...{Loading}...
।।11.43।। हम यहाँ देखते हैं कि भावावेश के कारण अवरुद्ध कण्ठ से अर्जुन श्रीकृष्ण के प्रति अत्यादर के साथ कहता है कि आप इस चराचर जगत् के पिता हैं। निसन्देह ही; जाग्रत् स्वप्न; और सुषुप्ति अवस्थाओं के अनुभव लोक भी; आत्मतत्त्व की स्थूल; सूक्ष्म और कारण उपाधियों के द्वारा अभिव्यक्ति से ही विद्यमान प्रतीत होते हैं। उन सबका प्रकाशक आत्मचैतन्य सर्वत्र एक ही है। स्वाभाविक है कि अर्जुन के कथन के अनुसार भगवान् अप्रतिम प्रभाव से सम्पन्न हैं और उनके समान भी जब कोई नहीं है; तो उनसे अधिक श्रेष्ठ कौन हो सकता हैक्योंकि वास्तविकता ऐसी है
(हि) तेजोमयानन्दः अनुवादः ...{Loading}...
।।11.43।। आप इस चराचर जगत् के पिता, पूजनीय और सर्वश्रेष्ठ गुरु हैं। हे अप्रितम प्रभाव वाले भगवन्! तीनों लोकों में आपके समान भी कोई नहीं हैं, तो फिर आपसे अधिक श्रेष्ठ कैसे होगा;।।
(हि) रामसुखदासः अनुवादः ...{Loading}...
।।11.43।। आप ही इस चराचर संसारके पिता हैं, आप ही पूजनीय हैं और आप ही गुरुओंके महान् गुरु हैं। हे अनन्त प्रभावशाली भगवन् ! इस त्रिलोकीमें आपके समान भी दूसरा कोई नहीं है, फिर अधिक तो हो ही कैसे सकता है !
(हि) रामसुखदासः टीका ...{Loading}...
।।11.43।।***व्याख्या–’*पितासी लोकस्य चराचरस्य’–**अनन्त ब्रह्माण्डोंमें मनुष्य, शरीर, पशु, पक्षी आदि जितने जङ्गम प्राणी हैं, और वृक्ष, लता आदि जितने स्थावर प्राणी हैं, उन सबको उत्पन्न करनेवाले और उनका पालन करनेवाले पिता भी आप हैं, उनके पूजनीय भी आप हैं तथा उनको शिक्षा देनेवाले महान् गुरु भी आप ही हैं – ‘त्वमस्य पूज्यश्च गुरुर्गरीयान्। ‘
आङ्ग्ल-टीकाः
(Eng) शङ्करनारायणः ...{Loading}...
11.43. You are the father of the world of the moving and unmoving; You are the great preceptor of this universe; in the triad of worlds there is no one eal to You-How can there be anyone else superior ; - having greatness not comprehended.
(Eng) गम्भीरानन्दः ...{Loading}...
11.43 You are the Father of all beings moving and non-moving; to this (world) You are worthy of worship, the Teacher, and greater (than a teacher). There is none eal to You; how at all can there be anyone greater even in all the three worlds, O You or unrivalled power;
(Eng) पुरोहितस्वामी ...{Loading}...
11.43 For Thou art the Father of all things movable and immovable, the Worshipful, the Master of Masters! In all the worlds there is none equal to Thee, how then superior, O Thou who standeth alone, Supreme.
(Eng) आदिदेवनन्दः ...{Loading}...
11.43 You are the father of this world, of all that moves and that does not move. You are its teacher and the one most worthy of reverence. There is none eal to You. How then could there be in the three worlds another greater than You, O Being of matchless greatness;
(Eng) शिवानन्दः अनुवादः ...{Loading}...
11.43 Thou art the Father of this world, moving and unmoving. Thou art to be adored by this world, Thou, the greatest Guru; (for) none there exists who is eal to Thee; how then could there be another superior to Thee in the three worlds, O Being of unealled power;
(Eng) शिवानन्दः टीका ...{Loading}...
11.43 पिता Father; असि (Thou) art; लोकस्य of the world; चराचरस्य of the moving and unmoving; त्वम् Thou; अस्य of this; पूज्यः to be reserved; च and; गुरुः the Guru; गरीयान् weightier; न not; त्वत्समः eal to Thee; अस्ति is; अभ्यधिकः surpassing; कुतः whence; अन्यः other; लोकत्रये in the three worlds; अपि also; अप्रतिमप्रभाव O Being of unealled power.Commentary There exists none who is eal to Thee There cannot be two or more Isvaras. If there were; the world will not get on as it does now. All the Isvaras may not be of one mind; as they would all be independent of one another. What one wishes to create; another may wish to destroyWhen there does not exist one who is eal to Thee; how could there be one superior to TheeFather Creator. As the Lord is the creator of this world He is fit to be adored. He is the greatest Guru also. Therefore there is no one who is eal to the Lord.