01 मदनुग्रहाय परमम्

विश्वास-प्रस्तुतिः …{Loading}…

+++(अर्जुन उवाच)+++

मद्-अनुग्रहाय परमं
गुह्यम् अध्यात्म-संज्ञितम्।
यत् त्वयोक्तं वचस् तेन
मोहोऽयं विगतो मम॥11.1॥

रामानुजः …{Loading}…

रामानुजः - मूलम्

एवं भक्तियोगनिष्पत्तये तद्विवृद्धये च सकलेतरविलक्षणेन स्वाभाविकेन भगवदसाधारणेन कल्याणगुणगणेन सह भगवतः सर्वात्मत्वं तत एव तद्व्यतिरिक्तस्य कृत्स्नस्य चिदचिदात्मकस्य वस्तुजातस्य तच्छरीरतया तदायत्तस्वरूपस्थितिप्रवृत्तित्वं चोक्तम् । तम् एतं भगवदसाधारणं स्वभावं कृत्स्नस्य तदायत्तस्वरूपस्थितिप्रवृत्तितां च भगवत्सकाशाद् उपश्रुत्य एवम् एवेति नित्यश् च तथाभूतं भगवन्तं साक्षात्कर्तुकामो ऽर्जुन उवाच । तथैव भगवत्प्रसादाद् अनन्तरं द्रक्ष्यति । “सर्वाश्चर्यमयं देवम् अनन्तं विश्वतोमुखम् ॥। तत्रैकस्थं जगत् कृत्स्नं प्रतिभक्तम् अनेकधाः” इति हि वक्ष्यते ।

॥11.1॥ अर्जुन उवाच – देहात्माभिमानरूपमोहेन मोहितस्य मम अनुग्रहैकप्रयोजनाय परमं गुह्यं परमं रहस्यम् अध्यात्मसञ्ज्ञितम् आत्मनि वक्तव्यं वचःन त्वेवाहं जातु नासम् (गीता 2।12) इत्यादितस्माद्योगी भवार्जुन (गीता 6।46) इत्येतदन्तं यत् त्वया उक्तम्; तेन अयं मम आत्मविषयो मोहः सर्वो विगतः दूरतो निरस्तः।

वेदान्तदेशिकः

॥11.1॥ विश्वरूपाध्यायभवतारयितुं विभूत्यध्यायार्थं सङ्गृह्याह – एवमिति। भक्तियोगनिष्पत्तये तद्विवृद्धये चेति प्रयोजनकथनेनानन्तरमर्जुनस्य दिदृक्षा भक्तिविवृद्ध्यधीनेति सूचितम्। सकलेतरविलक्षणनेति सकलेतरवैलक्षण्यरूपेणेत्यर्थः यद्वा सकलेतरस्वभावविलक्षणेनेत्यर्थः। एतेनानवधिकातिशयत्वमुक्तं भवति। अनन्यसाधारणं स्वाभाविकमनवधिकातिशयम् इति पूर्वोक्तस्यात्र प्रातिलोम्येन प्रत्यभिज्ञानात्सकलेतरविलक्षणेन भगवदसाधारणेनेत्यनयोर्यथेष्टं हेतुसाध्यभावेन अन्वयात्समाधिकराहित्यतात्पर्याच्च नानर्थक्यम्। श्रुतार्थनिश्चयाधीनभक्तिविवृद्धिफलभूतदिदृक्षामूलमुत्तराध्यायोपोद्धातरूपमर्जुनवाक्यमवतारयति – तमेतमिति। तं सर्वातिशायिनम्; एतम् उक्तप्रकारम्। भगवत्सकाशादित्यनेन निश्चयहेतुभूतमाप्तत्वं सूचितं नह्याचार्यान्तरसकाशादुपश्रवणे दिदृक्षायां सत्यामपि दर्शनप्रार्थनं घटत इति च भावः। एवमेतत् इत्यादिश्लोकार्थाभिप्रायेणाह – एवमेवेति निश्चित्येति। ननुएवमेतद्यथात्थ इति पूर्वोक्तमभ्युपगम्यद्रष्टुमिच्छामि ते रूपमैश्वरम् [11।3] इत्यर्थान्तरस्य रूपविशेषस्य दिदृक्षावचनमिव भाति ततश्च कथं तथाभूतं भगवन्तं साक्षात्कर्तुकाम इत्युच्यते तत्राह – तथैवेति। श्रुतप्रकारेणेत्यर्थः। तद्विवृणोति – सर्वाश्चर्येति। अहं सर्वस्य प्रभवः [10।8] इत्यादिनाविष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् [10।42] इत्यन्तेन प्रतिपादितो ह्यर्थोऽत्र विग्रहविशेषानुबन्धेन प्रत्यक्षं प्रत्यभिज्ञायत इति भावः। अत्र साक्षात्कारं प्रार्थयितुम्मदनुग्रहाय इत्यादिभिस्त्रिभिः श्लोकैः कृतज्ञतामास्तिक्यं भक्तिमत्त्वं च दर्शयति।

तत्र प्रथमेन अध्यात्मशब्दादिस्वारस्यात्भवाप्ययौ इत्यादेः सप्तमाद्यर्थस्य पृथग्वचनाच्चात्मतत्त्वतदवलोकनोपायश्रवणतत्फलानुवादः क्रियत इत्यभिप्रायेणाह – देहात्मेति। मोहो विगतः इत्यनन्तरमभिधानात् मच्छब्देन मोहविशिष्टस्वरूपं विवक्षितमित्यभिप्रायेणमोहितस्येत्यन्तमुक्तम्। मदनुग्रहाय इत्यनेन न ह्यन्यत्तेनानवाप्तमवाप्तव्यमस्तीत्यभिप्रेतमित्याहमामनुग्रहैकप्रयोजनायेति। युद्धप्रोत्साहनमात्रशङ्काप्यनेन निरस्ता। परमशब्दविशेषितगुह्यशब्देनमौनं चैवास्मि गुह्यानाम् [10।38] इत्युक्तगुह्यत्वप्रतीतिव्युदासाय रहस्यशब्देन व्याख्या। गुह्यतमभक्तियोगशेषत्वात्परमत्वविशेषणमित्यादृत्य परमशब्दपाठेन सूचितम्। आत्मनि प्रतिपादकत्वेनाधिवसनाद्वचसोऽध्यात्मत्वमित्यभिप्रेत्यआत्मनि वक्तव्यमित्युक्तम्। उपोद्धातान्मध्यमषट्कप्रस्तावश्लोकार्थाच्चावच्छिद्य जीवात्मप्रधानमंशमध्यात्मशब्दानूदितमाह – न त्वेवाहमिति। अध्यात्मसञ्ज्ञितम् इत्येतदनुसारात्अयम् इत्यपरोक्षनिर्देशाभिप्रेतमुक्तम्ममात्मविषय इति। विगतः इत्यनेन सोपसर्गेण सवासनं निश्शेषविनाशो विवक्षित इति प्रदर्शनायसर्वशब्दः। दूरतो निरस्त इति संस्कारस्यापि तिरस्कारादपुनरङ्कुरं विनष्ट इत्यर्थः।

आदिदेवानन्दः

11.1 Arjuna said To show favour to me, who is deluded by the misconception that the body is the self, these words of supreme mystery concerned with the self, i.e., which is a proper description of the self, have been spoken by You in words beginning from ‘There was never a time when I did not exist’ (2.12) and ending with, ‘Therefore, O Arjuna, become a Yogin’ (6.46). By that this delusion of mine about the self is entirely removed.

शङ्करः …{Loading}…

शङ्करः - मूलम्

भगवतो विभूतय उक्ताः । तत्र च ‘विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत्’ (भ. गी. १० । ४२) इति भगवता अभिहितं श्रुत्वा, यत् जगदात्मरूपम् आद्यमैश्वरं तत् साक्षात्कर्तुमिच्छन् , अर्जुन उवाच —

॥11.1॥ –,मदनुग्रहाय ममानुग्रहार्थं परमं निरतिशयं गुह्यं गोप्यम् अध्यात्मसंज्ञितम् आत्मानात्मविवेकविषयं यत् त्वया उक्तं वचः वाक्यं तेन ते वचसा मोहः अयं विगतः मम; अविवेकबुद्धिः अपगता इत्यर्थः॥ किञ्च –,

गम्भीरानन्दः

11.1 Ayam, this; mahah, delusion; mama, of mine; vigatah, has departed, i.e., my non-discriminating idea has been removed; tena, as a result of that; vacah, speech of Yours; which is paramam, most, supremely; guhyam, secret; and adhyatma-sanjnitam, known as pertaining to the Self-dealing with discrimination between the Self and the non-Self; and yat, which; was uktam, uttered; tvaya, by You; madanugrahaya, for my benefit, out of favour for me. Further,

हरिकृष्णदासः

॥11.1॥ ( पूर्वाध्यायमें जो ) भगवान्की विभूतियोंका वर्णन किया गया है उसमें भगवान्से कहे हुए मैं इस सारे जगत्को एक अंशसे व्याप्त करके स्थित हूँ इन वचनोंको सुनकर ईश्वरका जो जगदात्मक आदि स्वरूप है उसका प्रत्यक्ष दर्शन करनेकी इच्छासे अर्जुन बोला –, मुझपर अनुग्रह करनेके लिये आपने जो परम – अत्यन्त श्रेष्ठ; गुह्य – गोपनीय; अध्यात्य नामक अर्थात् आत्माअनात्माके विवेचनविषयक वाक्य कहे हैं; उन आपके वचनोंसे मेरा यह मोह नष्ट हो गया है अर्थात् मेरी अविवेकबुद्धि नष्ट हो गयी है।

,

आनन्दगिरिः

॥11.1॥ तेन तेनात्मना भगवदनुसंधानार्थमुक्ता विभूतीरनुवदति – भगवत इति। परस्य सोपाधिकं निरुपाधिकं च चिद्रूपं ध्येयत्वेन ज्ञेयत्वेन चोक्तमित्यर्थः। सोपाधिकमैश्वरं रूपमशेषजगदात्मकं विश्वरूपाख्यमधिकृत्याध्यायन्तरमवतारयन्ननन्तरप्रश्नोपयोगित्वेन वृत्तं कीर्तयति – तत्र चेति। यदेतदशेषप्रपञ्चात्मकमखिलस्यैतस्य जगतः कारणं सर्वज्ञं सर्वैश्वर्यवद्रूपमुक्तं तदिदं श्रुत्वा तस्य साक्षात्कारं यियाचिषुरादौ पृष्टवानित्याह – श्रुत्वेति। मयि करुणां निमित्तीकृत्योपकारोऽनुग्रहस्तदर्थमिति वचसो विशेषणम्। निरतिशयत्वं परमपुरुषार्थसाधनत्वम्। अशोच्यानित्यादित्वंपदार्थप्रधानं वाक्यम्। मोहस्यायमित्यात्मसाक्षिकत्वं दर्शयति। अविवेकबुद्धिरज्ञानविपर्यासात्मिका।

नीलकण्ठः

॥11.1॥ पूर्वस्मिन्नध्याये योगो विभूतिश्च व्याख्येयत्वेन प्रतिज्ञातौएतां विभूतिं योगं च मम यो वेत्ति इति। आत्मनो योगं विभूतिं च जनार्दन। भूयः कथय इतीतरेण च श्रोतव्यत्वेन प्रार्थितौ। तत्रअहमात्मा गुडाकेश सर्वभूताशयस्थितः इति संक्षेपेण योगो भगवता सर्वभूताधारत्वलक्षण उक्तः प्राग्विभूतिकथनात्। तदन्ते चविष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् इति कुसूलेन धान्यमिव मयेदं जगद्विष्टब्धमित्युक्त्या स एव स्मारितस्तदेव भगवतः सर्वभूताधारत्वं साक्षात्कर्तुकामोऽर्जुन उवाच – मदनुग्रहायेति। मयि अनुग्रहोऽनुकम्पा तदर्थं मदनुग्रहाय। परमं सद्यः शोकमोहनिवर्तकत्वेनोत्कृष्टं गुह्यं गोप्यं अध्यात्मसंज्ञितमात्मानात्मविवेकार्थं शास्त्रमध्यात्मं तत्संज्ञितं यत्त्वया वचःअशोच्यानन्वशोचः इत्यादिना षष्ठाध्यायपर्यन्तं त्वंपदार्थशुद्धिप्रधानंनायं हन्ति न हन्यते इत्यात्मनोऽकर्तृत्वाभोक्तृत्वप्रतिपादकं तेन मम मोहोऽविवेकोऽयं विशेषेण गतो नष्टः। अत्र प्रथमे पादेऽक्षराधिक्यमार्षम्।

धनपतिः

॥11.1॥ एवं विभूतीर्निरतिशयैश्वर्य च श्रुत्वा साक्षात्कर्तुमिच्छन्नर्जुन उवाच मदनुग्रहार्थ परममुत्कृष्टं परमपुरुषार्थसाधनत्वात् गोप्यमध्यात्मसंक्षितं वजस्त्वंपदार्थप्रधानमशोच्यानित्यादि यत्त्वयोक्तं तेन ममायं मोहोऽहंममेतिप्रत्ययजनकः कर्तृत्वादिहहितात्मस्वरुपावरको विगतो विशेषेण निवृत्तः।

मधुसूदन-सरस्वती

॥11.1॥

न नेत्राकृतिर्यत्र यस्या न चान्तो न चादिश्च तैरन्यता नो विभूतेः।

ममाभेदता येन दत्ताऽव्यवाया गुरुं काशिराजं भजेऽजं स्वराजम्॥ पूर्वाध्याये नानाविभूतीरुक्त्वाविष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् इति विश्वात्मकं पारमेश्वरं रूपं भगवतान्तेऽभिहितं श्रुत्वा परमोत्कण्ठितस्तत्साक्षात्कर्तुमिच्छन्पूर्वोक्तमभिनन्दन्नर्जुन उवाच – मदनुग्रहायेति। ममानुग्रहाय शोकनिवृत्त्युपकाराय परमं निरतिशयपुरुषार्थपर्यवसायि गुह्यं गोप्यं यस्मैकस्मैचिद्वक्तुमनर्हमपि अध्यात्मसंज्ञितं अध्यात्ममिति शब्दितमात्मानात्मविवेकविषयमशोच्यानन्वशोचस्त्वमित्यादिषष्ठाध्यायपर्यन्तं त्वंपदार्थप्रधानं यत्त्वया परमकारुणिकेन सर्वज्ञेनोक्तं वचो वाक्यं तेन वाक्येनाहमेषां हन्ता मयैते हन्यन्त इत्यादिविविधविपर्यासलक्षणो मोहोऽयमनुभवसाक्षिको विगतो विनष्टो मम। तत्रासकृदात्मनः सर्वविक्रियाशून्यत्वोक्तेः।

रामरायः - १

पूर्वाध्यायान्ते ‘विष्टभ्याहम्’ इत्यनेन भगवता जगदात्मको मदेकांशः इत्युक्तं स्वस्य जगदात्मकत्वम्। तदेव प्रधानमी- श्वरस्यैश्वर्यम्। तद्दिदृक्षया पृच्छत्यर्जुन इत्याह— भगवतेति।

ननु भगवति ब्रह्मणि सर्वं जगत् कल्पितमिति भगवतो जगदात्मत्वमुक्तम्। 1तच्च दृश्यत एव, आकाशादिजगतो दर्शनादिति चेत्? मैवम् ; केवलं जगद् दृश्यते, न त्विदं जगद् ब्रह्मणि वर्तमानत्वेन दृश्यत इति।

ननु जगतो ब्रह्मणि वर्तमानत्वं द्रष्टुमशक्यम् , ब्रह्मदर्शनं विना तदयोगात् ; ब्रह्म च दृग्रूपत्वान्न दृश्यम् ; ततश्च जगतो ब्रह्मणि वर्तमानत्वं शास्त्रैकवेद्यमेवेति चेत्? सत्यम् ; ब्रह्मणि वर्तमानत्वेन जगतो दुर्दर्शत्वेऽपीश्वरे वर्तमानत्वेन सुदर्शमेव। ईश्वरस्य मायावच्छिन्नचैतन्यलक्षणस्य माययैव जगन्मयशरीरोपपत्तेः।

अयं भावः— ईश्वरस्य बहूनि रूपाणि सन्ति। तत्र प्रधानं रूपं चैतन्यं ब्रह्म, तत्त्वत्वात् तस्य; द्वितीयं तु मायावच्छिन्न- चैतन्यम् ; तृतीयमन्तःकरणावच्छिन्नम् ; चतुर्थं विराड्रूपम् ; ततः पद्मनाभरामकृष्णादीनि। तत्र ब्रह्मरूपेणेश्वरस्य जगदात्मत्वं शास्त्रैकवेद्यम्। मायावच्छिन्नचैतन्यरूपेण च। अनुमानमप्यत्र प्रमाणमेव। अन्तःकरणावच्छिन्नमात्मत्वान्नित्यापरोक्षमेव। विराड्- रूपेण जगदात्मत्वं तु प्रत्यक्षप्रमाणवेद्यमेवेतीश्वरस्य विराड्रूपदिदृक्षया पृच्छत्यर्जुन इति।

ननु विश्वरूप ईश्वरोऽपि नित्यापरोक्ष एव; विश्वस्य चक्षुरादिप्रमाणवेद्यत्वादिति चेत्? सत्यम् ; विश्वरूपस्येश्वरस्य विश्वमेव रूपम् ; तत्तु सर्वं न कस्यचित् प्रत्यक्षं, किन्त्वणुमात्रमेव। अतः साकल्येन विश्वस्य दिदृक्षया पृच्छत्यर्जुन इति।

अथवा विश्वं प्रत्यक्षं भवतु नाम, विश्वेन रचितावयवसन्निवेशः ईश्वरविग्रहस्त्वप्रत्यक्षः इति तद्दर्शनाय पृच्छत्यर्जुनः।न च - [न] ईश्वरेण तादृशं रूपं ममास्तीत्युक्तम् , येनार्जुनस्य प्रश्नावकाशः स्यादिति - वाच्यम् ; ‘विष्टभ्याह’मित्यनेनोक्तत्वात्। न च - ब्रह्मण्येकदेशे जगदस्तीति हि तच्छ्लोकार्थ इति - वाच्यम् ; यत्र जगदस्ति तस्यैव ब्रह्मपादस्येश्वरभूतत्वात्।

[[५२३]]

अथवा यदि त्वमेव जगदात्मकस्त्वय्येव जगदस्ति, तर्हि तादृशं तव रूपं दर्शय, तव च तादृग्रूपमस्तीति यशोदादिभिरुच्यत इति पृच्छत्यर्जुन इति।

मदनुग्रहायेति। प्रथमपादेऽक्षराधिक्यमार्षम्। आत्मानमधिकृत्य वर्तमानमध्यात्मम् , तदिति संज्ञा अस्य सञ्जातमित्यध्यात्म- संज्ञितम्। आत्मानात्मविवेको विषयः प्रतिपाद्यं यस्य तद् आत्मानात्मविवेकविषयम्। त्वया मदनुग्रहाय परमं गुह्यमध्यात्मसंज्ञितं यद् वचः उक्तम् , तेन ममायं मोहो विगतः॥१॥

मध्वः …{Loading}…

मध्वः - मूलम्

॥11.1॥ म्। यथा श्रुते ध्यानं शक्यं तथा स्वरूपस्थितिरनेनाध्यायेनोच्यते।

जयतीर्थः

॥11.1॥ एतदध्यायप्रतिपाद्यमर्थमाह – यथेति। दशमान्ते [42]विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् इति व्याप्तोपासनं सङ्क्षेपेणोक्तम्। न च सङ्क्षेपोक्तस्य ध्यानं शक्यम्; बुद्धावनारोहात्। अतो यथाभूते व्याप्तरूपे विस्तरेण श्रुते ध्यानं शक्यं भवति; तथाभूतस्वरूपस्थितिरर्जुनाय प्रदर्शितस्यानुवादेन अनेनैकादशेनाध्यायेनोच्यते। स्वरूपग्रहणेन विश्वरूपस्य मायादिना तदैव निर्माय विसृष्टत्वं निवारयति।

अभिनव-गुप्तः …{Loading}…

अभिनवगुप्तः - मूलम्

॥11.1॥ No commentary.

शङ्करनारायणः

11.1 Now Arjuna seeks to perceive, with his own sense-organ (11.eye), what has been taught in the last chapter. The subject matter, learnt through the [teacher’s] instructions, becomes ite clear if it is grasped by the knowledge of perception. For that end only the following conversation is made -

वल्लभः …{Loading}…

वल्लभः - मूलम्

॥11.1॥ अथातोऽष्टभिरध्यायैर्गुणैराश्रयधर्मतः। पुष्ट्यात्मना भगवता मोचितः स इतीर्यते॥1॥

स्वनिगमवचसा महिमज्ञाने भक्त्या स्वधर्ममर्यादा। कुण्डलावृतमुखभगवत्समाश्रयेणैव धर्मतः पुष्टिः॥2॥

मर्यादावचने पुष्टिः स्वकार्यार्थप्रदर्शने। इति मर्यादया मिश्रं पुष्टिरूपं प्रदर्श्यते॥3॥ पूर्वाध्यायान्ते परमासाधारणयोगः विभूतेरक्षरैश्वर्यस्य स्वस्य विष्टभ्याहमिति श्लोके योगाख्यमैश्वर्यमुदीरितं तद्विशिष्टरूपं दिदृक्षुः पूर्वोक्तमभिनन्दयन्नर्जुन उवाच मदनुग्रहायेति चतुर्भिः। गुह्यमध्यात्मसंज्ञितंअहं सर्वस्य प्रभवः [10।8] इति स्वमाहात्म्यनिरूपकं मर्यादारूपं यत्त्वयोक्तं वचस्तेन मम गतो मोहः ऐश्वर्याज्ञानरूपः। माहात्म्यनिरूपकं वाक्यमेव ते श्रुतं; न तु तथा स्वरूपं दृष्टं तवेति भावः।

पुरुषोत्तमः

॥11.1॥ कृष्णात्मत्वं हि जगतो विभूतिकथनान्नरः। अवगत्य च तद्रूपं द्रष्टुं हरिमथाऽब्रवीत्॥1॥

पूर्वाध्यायान्तेविष्टम्याहं [10।42] इत्यनेन स्वक्रीडात्मकत्वेन विश्वस्य स्वात्मकत्वं प्रतिपादितम्; तद्रूपदर्शनेच्छुरर्जुनो भगवन्तं विज्ञापयति – मदनुग्रहायेति चतुर्भिः। मदनुग्रहाय मम स्वीयत्वेन ग्रहणाय परमं परः पुरुषोत्तमो मीयते अनुमीयते यस्मात्तादृशम्। अतएव गुह्यं सर्वेषामनाख्येयम्। अध्यात्मसंज्ञितं आत्मानात्मविवेकविषयत्वेन सर्वात्मरूपं यत् त्वया वचोविष्टभ्याहं इत्युक्तं; तेन ममाऽयं रूपे मोहो विशेषेण गतो नष्ट इत्यर्थः।

श्रीधर-स्वामी …{Loading}…

॥11.1॥ विभूतिवैभवं प्रोच्य कृपया परया हरिः। दिदृक्षोरर्जुनस्याथ विश्वरूपमदर्शयत्॥1॥

पूर्वाध्यायान्तेविष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् इति विश्वात्मकं पारमेश्वरं रूपमुपक्षिप्तं तद्दिदृक्षुः पूर्वोक्तमभिनन्दन्नर्जुन उवाच – मदनुग्रहायेति चतुर्भिः। ममानुग्रहाय शोकनिवृत्तये परमं परमार्थनिष्ठं गुह्यं गोप्यमप्यध्यात्ममितिसंज्ञितमात्मानात्मविवेकविषयं यत्त्वयोक्तं वचःअशोच्यानन्वशोचस्त्वम् इत्यादि षष्ठाध्यायपर्यन्तं यद्वाक्यं तेन ममायं मोहोऽहं हन्ता एते हन्यन्त इत्यादिलक्षणो भ्रमो विगतो विनष्टः; आत्मनः कर्तृत्वाद्यभावोक्तेः।

English …{Loading}…

आदिदेवानन्दः

11.1 Arjuna said To show favour to Me, You have told me that most profound mystery concerning the self; by that, this delusion of mine is dispelled.

गम्भीरानन्दः

11.1 Arjuna said This delusion of mine has departed as a result of that speech which is most secret and known as pertaining to the Self, and which was uttered by You for my benefit.

पुरोहितस्वामी

11.1 “Arjuna said: My Lord! Thy words concerning the Supreme Secret of Self, given for my blessing, have dispelled the illusions which surrounded me.

शङ्करनारायणः

11.1. Arjuna said My delusion has completely gone thanks to the great and mysterious discourse which is termed as a science governing the Soul and which You have delivered by way of favouring me.

शिवानन्दः - अनुवादः

11.1 Arjuna said By this word (explanation) of the highest secret concerning the Self which Thou hast spoken, for the sake of blessing me, my delusion is gone.

शिवानन्दः - टीका

11.1 मदनुग्रहाय for the sake of blessing me; परमम् the highest; गुह्यम् the secret; अध्यात्मसंज्ञितम् called Adhyatma; यत् which; त्वया by Thee; उक्तम् spoken; वचः word; तेन by that; मोहः delusion; अयम् this; विगतः gone; मम my.Commentary After hearing the glories of the Lord; Arjuna has an intense longing to have the wonderful vision of the Cosmic Form with his own eyes. His bewilderment and delusion have now vanished.Adhyatma That which treats of the discrimination between the Self and the notSelf metaphysics.I was worried about the sin involved in killing my relations and preceptors. I had the ideas; I am the agent in killing them they are to be killed by me.This delusion has vanished now after receiving Thy most profound and valuable instructions. Thou hast dispelled this delusion of ignorance from me.The vision of the Cosmic Form is not the ultimate goal. If that were so; the Gita would have ended with this chapter. The vision of the Cosmic Form is also one more in a series of graded experiences. It is a terrible experience too. That is the reason why Arjuna said to the Lord; stammering with fear What an awful form Thou hast I have seen that which none hath seen before. My heart is glad; yet faileth me on account of fear. Show me; O God; Thine other form again. O God of gods; support of all the worlds; let me see Thy form with the diadem; and with the mace and discus in Thy hands. Again I wish to see Thee as before assume Thy fourarmed form; O Lord of thousand arms and of forms innumerable.Arjuna heard the Lords statement; viz.; Having pervaded this whole universe with one fragment of Myself; I remain. This induced him to have the vision of the Lords Cosmic Form. He says; O Lord of compassion; Thou hast taught me the spiritual wisdom which can hardly be found in the Vedas. Thou hast saved me. My delusion has disappeared. Thou hast disclosed to me the nature of the Supreme Self; the secrets of Nature and Thy divine glories. My greatest ambition at the present moment is that I should behold with my own eyes Thy entire Cosmic Form.

हिन्दी …{Loading}…

रामसुखदासः - अनुवादः

।।11.1।।****अर्जुन बोले – केवल मेरेपर कृपा करनेके लिये ही आपने जो परम गोपनीय अध्यात्मतत्तव जाननेका वचन कहा, उससे मेरा यह मोह नष्ट हो गया है।

रामसुखदासः - टीका

।।11.1।।**व्याख्या–‘मदनुग्रहाय’–**मेरा भजन करनेवालोंपर कृपा करके मैं स्वयं उनके अज्ञानजन्य अन्धकारका नाश कर देता हूँ (गीता 10। 11) – यह बात भगवान्ने केवल कृपा-परवश होकर कही। इस बातका अर्जुनपर बड़ा प्रभाव प़ड़ा, जिससे अर्जुन भगवान्की स्तुति करने लगे (10। 12 – 15)। ऐसी स्तुति उन्होंने पहले गीतामें कहीं नहीं की। उसीका लक्ष्य करके अर्जुन यहाँ कहते हैं कि केवल मेरेपर कृपा करनेके लिये ही आपने ऐसी बात कही है (टिप्पणी प₀ 573.2)

चिन्मयानन्दः

।।11.1।। पूर्व अध्याय में वर्णित भगवान् की विभूतियों को जानते से हुए अपने परम सन्तोष को; अर्जुन इस प्रारम्भिक श्लोक में व्यक्त करता है। अपने शिष्य पर केवल अनुग्रह करने और उसे मोहदशा से बाहर निकालने के लिए भगवान् ने जो इतना अधिक परिश्रम किया; अर्जुन उसकी भी प्रशंसा करता है। अनेकता में एकता का दर्शन करने का अर्थ संसार के दुख से सुरक्षित रहने के लिए रोग निरोधक टीका लगवाना है। अर्जुन की इस स्वीकारोक्ति से कि; मेरा मोह दूर हो गया है; व्यासजी; एक उत्तम विद्यार्थी पर पड़ने वाले पूर्व अध्याय के प्रभाव को बड़ी सुन्दरता से हमारे ध्यान में लाते हैं। मोह निवृत्ति; सत्य के ज्ञान का एक पक्ष है; न कि वह अपने आप में ज्ञान की प्राप्ति। अर्जुन अज्ञान के कारण नामरूपमय इस सृष्टि में अपना अलग और स्वतन्त्र अस्तित्व अनुभव कर रहा था। वह अब इस भेद के मोह से मुक्त हो चुका था। उसे वह दृष्टि मिल गयी; जिसके द्वारा वह इस भेदात्मक दृश्य जगत् में ही व्याप्त एक सत्ता को देख पाने में समर्थ हो जाता है। परन्तु फिर भी उसने अनेकता में एकता का प्रात्यक्षिक दर्शन नहीं किया था। यद्यपि सिद्धान्तत उसे इस एकत्व का ज्ञान स्वीकार्य था। राजपुत्र अर्जुन यह भलीभांति जानता है कि श्रीकृष्ण ने विभूतियोग का इतना विस्तृत वर्णन केवल उसके ऊपर अनुग्रह करने के लिए ही किया था। यह हमें इस बात का स्मरण कराता है कि किस प्रकार भगवान् अपने भक्तों के हृदय में स्थित उनके अज्ञानजनित अंधकार को नष्ट कर देते हैं। ये अध्यात्मविषयक वचन क्या थे अर्जुन कहता है

तेजोमयानन्दः - अनुवादः

।।11.1।। अर्जुन ने कहा – मुझ पर अनुग्रह करने के लिए जो परम गोपनीय, अध्यात्मविषयक वचन (उपदेश) आपके द्वारा कहा गया, उससे मेरा मोह दूर हो गया है।।


  1. तच्च = भगवतो जगदात्मकं रूपम्। ↩︎