विश्वास-प्रस्तुतिः …{Loading}…
बृहत्-साम तथा साम्नां
गायत्री छन्दसाम् अहम्।
+++(-1400तो -600 BCE वसन्तादिम् इवासूचयद् इति)+++ मासानां मार्गशीर्षो ऽहम्
ऋतूनां कुसुमाकरः॥10.35॥
मूलम् …{Loading}…
बृहत्साम तथा साम्नां गायत्री छन्दसामहम्।
मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः॥10.35॥
रामानुजः …{Loading}…
रामानुजः - मूलम्
॥10.35॥साम्नां बृहत्साम अहम्; छन्दसां गायत्रीम् अहम्; ऋतूनां कुसुमाकरः वसन्तः।
वेदान्तदेशिकः
॥10.35॥ सामसु बृहत्साम्न उत्कृष्टत्वं श्रुत्यैव सिद्धम्बृहच्च वा इदमग्र रथन्तरं च आस्तां वाक्च वै तन्मनञ्चास्तां वाग्वै रथन्तरं मनो बृहत्तद्बृहत्पूर्वं ससृजानं रथन्तरमत्यमन्यत तद्रथन्तरं गर्भमधत्त [म.ता. ] इति। गायत्र्याश्छन्दसां मातृत्वेनोत्कर्षः श्रुतिषु च्छन्दोविचित्यां च प्रपञ्चितः। यथा बह्वचोपनिषदि अग्रं वै छन्दसां गायत्री इति। मासेषु मार्गशीर्षस्यातिशयः वर्षगर्भाधानकालत्वान्मासाधिदेवेषु केशवादिषु प्रथमस्य केशवस्य मासत्वाद्ब्रतवर्गारम्भकालत्वाच्च। कुसुमाकरशब्देनैव वसन्तस्य प्रत्यक्षसिद्धः सर्वप्राणिसुखहेतुरतिशयो द्योतितः। वसन्ते वसन्ते ज्योतिषा यजेत वसन्ते दीक्षयेद्विप्रं ग्रीष्मै राजन्यमेव च इत्यादिभिश्च।
आदिदेवानन्दः
10.35 Of Saman hymns, I am the Brhatsaman. Of meters, I am the Gayatri. Of seasons, I am the season of flowers (spring).
शङ्करः …{Loading}…
शङ्करः - मूलम्
॥10.35॥ –,बृहत्साम तथा साम्नां प्रधानमस्मि। गायत्री च्छन्दसाम् अहं गायत्र्यादिच्छन्दोविशिष्टानामृचां गायत्री ऋक् अहम् अस्मि इत्यर्थः। मासानां मार्गशीर्षः अहम्; ऋतूनां कुसुमाकरः वसन्तः॥
गम्भीरानन्दः
10.35 I am tatha, also; the Brhat-sama, the foremost samnam, of the Sama-mantras. Chandasam, of the metres, of the Rk-mantras having the metres Gayatri etc.; I am the Rk called Gayatri. This is meaning. Masanam, of the months, I am Marga-sirsa (Agrahayana, November-December). Rtunam, of the seasons; kusumakarah, spring.
हरिकृष्णदासः
॥10.35॥ तथा सामवेदके प्रकरणोंमें जो बृहत्साम नामक प्रधान प्रकरण है वह मैं हूँ। छन्दोंमें मैं गायत्री छन्द हूँ अर्थात् जो गायत्री आदि छन्दोबद्ध ऋचाएँ हैं उनमें गायत्री नामक ऋचा मैं हूँ। महीनोंमें मार्गशीर्ष नामक महीना और ऋतुओंमें बसन्त ऋतु मैं हूँ।
आनन्दगिरिः
॥10.35॥ वेदानां सामवेदोऽस्मीत्युक्तं तत्रावान्तरविशेषमाह – बृहदिति। छन्दसां मध्ये गायत्री नाम यच्छन्दस्तदहमित्ययुक्तं छन्दसामृग्भ्योऽतिरेकेण स्वरूपभावादित्याशङ्क्याह – गायत्र्यादीति। ,द्विजातेर्द्वितीयजन्मजननीत्वादित्यर्थः। मार्गशीर्षो मृगशीर्षेण युक्ता पौर्णमास्यस्मिन्निति मार्गशीर्षो मासः सोऽहं पक्वसस्याढ्यत्वादित्याह – मासानामिति। वसन्तो रमणीयत्वादिति शेषः।
नीलकण्ठः
॥10.35॥ बृहत्सामत्वामिद्धि हवामहे इत्यस्यामृचि गीयमानं साम पृष्ठ्यस्तोत्रे विनियुक्तमिन्द्रदेवत्यं तत् साम्नां मध्येऽहमस्मि। छन्दसां मध्ये गायत्री द्विजत्वसंपादनात्सोमाहरणाच्च श्रेष्ठाहमस्मि। कुसुमाकरो वसन्तः।
धनपतिः
॥10.35॥ साम्नां गीतिविशेषाणआं वृहत्सामत्वामिद्धि हवामहे इत्यस्यामृचि गीतिविशेषे सर्वेश्वरत्वेनेन्द्रस्तुत्निरुपं अतिरात्रे पृष्ठस्तोत्रं श्रेष्ठत्वादहम्। नियताक्षरपादरुपच्छन्दोविशिष्ठानामृचां मध्ये द्विजत्वादिहेतुर्गायत्री ऋगहम्। मासानां मार्गशीर्षः सस्यादिसंपन्नत्वेन सुखजनकत्वात्। कुसुमाकरो वसन्तः पुषापकत्वेन शोभनत्वात्।
मधुसूदन-सरस्वती
॥10.35॥ वेदानां सामवेदोऽस्मीत्युक्तं तत्रायमन्यो विशेषः। साम्रामृगक्षरारूढानां गीतिविशेषाणां मध्येत्वामिद्धि हवामहे इत्यस्यामृचि गीतिविशेषो बृहत्साम। तच्चातिरात्रे पृष्ठस्तोत्रं सर्वेश्वरत्वेनेन्द्रस्तुतिरूपमन्यतः श्रेष्ठत्वादहम्। छन्दसां नियताक्षरपादत्वरूपच्छन्दोविशिष्टानामृचां मध्ये द्विजातेर्द्वितीयजन्महेतुत्वेन प्रातःसवनादिसवनत्रयव्यापित्वेन त्रिष्टुब्जगतीभ्यां सोमाहरणार्थं गताभ्यां सोमो न लब्धोऽक्षराणि च हारितानि जगत्या त्रीणि त्रिष्टुभैकमिति चत्वारि तैरक्षरैः सह सोमस्याहरणेन च सर्वश्रेष्ठा गायत्री ऋगहम्। चतुरक्षराणि हवा अग्रे छन्दांस्यासुस्ततो जगती सोममच्छापतत्सा त्रीण्यक्षराणि हित्वा जगाम ततस्त्रिष्टुप्सोममच्छापतत्सैकमक्षरं हित्वापतत्ततो गायत्रीसोममच्छापतत्सा तानि चाक्षराणि हरन्त्यागच्छत्सोमं च तस्मादष्टाक्षरा गायत्री त्युपक्रम्यतदाहुर्गायत्राणि वै सर्वाणि सवनानि गायत्री ह्येवैतदुपसृजामो नैतत् इति शतपथश्रुतेःगायत्री वा इदं सर्वं भूतम् इत्यादिछान्दोग्यश्रुतेश्च। मासानां द्वादशानां मध्येऽभिनवशालिवास्तूकशाकादिशाली शीतातपशून्यत्वेन च सुखहेतुर्मार्गशीर्षोऽहम्। ऋतूनां षण्णां मध्ये कुसुमाकरः सर्वसुगन्धिकुसुमानामाकरोऽतिरमणीयो वसन्तः। वसन्ते ब्राह्मण्यमुपनयीत;वसन्ते ब्राह्मणोऽग्नीनादधीत;वसन्तेवसन्ते ज्योतिषा यजेत;तद्वै वसन्त एवाभ्यारभेत;वसन्तो वै ब्राह्मणस्यर्तुः इत्यादिशास्त्रप्रसिद्धोऽहमस्मि।
रामरायः - ३५
बृहदिति। साम्नां मध्ये उत्कृष्टं बृहत्सामाख्यं साम, ‘बृहच्च वा इदमग्रे रथन्तरं चे’ति श्रुतेः। ‘त्वामिद्धि हवामहे’ इत्यस्यामृचि गीयमानं साम बृहत्साम। छन्दसाम् उष्णिगनुष्टुपत्रिष्टुप्प्रमुखानां मध्ये गायत्रीछन्दोऽहमिति व्याख्याने गायत्रीछन्दस उत्कर्षे हेतुर्नास्तीत्यभिप्रेत्याह— ऋचामिति। पादबद्धो वेदभाग ऋगित्युच्यते। गायत्री ऋक् गायत्रीछन्दोविशिष्टा ऋक्। गायत्रीछन्दस्तु षडक्षरपादबद्धम्। यथा— ‘मारायुधभूता बाला शफराक्षी। कान्तं हरिमागाल्लक्ष्मीस्तनुमध्या॥’ इति श्लोकः। एवं षडक्षरैश्चतुर्भिः पादैः बद्धा ऋक् गायत्रीछन्दोविशिष्टा।
(ननु) यद्येवं लोकवद् वेदेऽपि षडक्षरपादचतुष्टयवत एव छन्दसो गायत्रीसंज्ञत्वम् , तर्हि ‘तत्सवितु’रिति मन्त्रस्य गायत्रीछन्दस्कत्वं न स्यात् , ‘तत्सवितु’रित्यस्य मन्त्रस्य विश्वामित्र ऋषिः, सविता देवता, गायत्री छन्द इति तु मन्त्रशास्त्रे प्रसिद्धम्। तथा ‘उदु त्यं जातवेदस’मित्यादिमन्त्राणां च गायत्री छन्द इति प्रसिद्धम्। एवं गायत्री त्रिपदेत्यपि प्रसिद्धम् ,‘गायत्री चतुर्विंशत्यक्षरा त्रिपदा षट्कुक्षि’रिति मन्त्रप्रयोगे दर्शनात्। तस्माद् वेदेऽष्टाक्षरपदत्रयैव गायत्री। एवम्भूतगायत्रीछन्दोविशिष्टत्वादपि तत्सवितुरित्यस्य गायत्रीमन्त्रत्वव्यवहारः। न च ‘तत्सवितुर्वरेण्य’मिति सप्ताक्षरमेव प्रथमपाद इति वाच्यम् ; णियमित्यक्षरद्वयपाठात्। न च ‘परोरजसि सावदो’मिति चतुर्थपादोऽप्यस्तीति वाच्यम् ; तस्य मन्त्रान्तरत्वात्। त्रिपदाया एव गायत्र्याः सर्वत्रोपदेशादिषु प्रसिद्धत्वात्। एवम् ‘उदु त्यं जातवेदस’मित्यादिऋक्ष्वपि त्रिपदैव एकैका ऋक्, ‘उदु त्यं जातवेदसं देवं वहन्ति केतवः, दृशे विश्वाय सूर्यम्’ इत्यस्या एकऋक्त्वात्। न च ‘अप त्ये तायवो यथे’त्येतदप्यस्या एव पादभूतमिति वाच्यम् ; ‘नवाद्या गायत्री छन्दः’ इति वचनानुरोधेन ‘उदु त्यं जातवेदस’मिति 1 मन्त्रे नवगायत्रीऋचां भवितव्यत्वात्। सप्तविंशतिपादानां दृश्यमानत्वाच्च एकैकस्या ऋचः पादत्रयात्मकत्वेन भवितव्यत्वात्। तस्मादष्टाक्षरत्रिपदैव गायत्री। लोके तु चतुर्विंशत्यक्षरा गायत्री षडक्षरपादचतुष्टयत्त्वेन पिङ्गलमुनिना कल्पिता। चतुष्पात्त्वेऽपि चतुर्विंशत्यक्षरसङ्ख्यायाः सत्त्वाद् गायत्रीत्वम्। न च लोकवद् वेदेऽपि चतुर्विंशत्यक्षरामृचं चतुर्धा विभज्य षड्भिरक्षरैरेकः पाद इति कल्प्यतामिति वाच्यम् ; ‘उदु त्यं जातवेदस’मित्यत्र ‘उदु त्यं जातवे’ इति पादविभागस्य कर्तुमशक्यत्वात्। न ह्येकस्मिन् पदे यतिविच्छेदः स्यात्। [न च] तर्हि लोक एवाष्टाक्षरं पादत्रयं गायत्रीछन्दसः कल्प्यतामिति वाच्यम् ; लोके श्लोकानां चतुष्पादवत्त्वेन भाव्यत्वात्। तस्मादष्टाक्षरमेव गायत्रीपादः। न च गायत्र्यनुष्टुप्छन्दसोः साङ्कर्यमिति वाच्यम् ; गायत्र्याः त्रिपदत्वाद् अनुष्टुभश्चतुष्पदत्वाच्च , गायत्र्याश्चतुर्विंशत्यक्षरत्वाद् अनुष्टुभो द्वात्रिंशदक्षरत्वाच्च वैलक्षण्यात्। तथा च त्रिष्टुभादिच्छन्दोबद्धानामृचां मध्ये गायत्रीछन्दोबद्धैव ऋगुत्कृष्टा। सा च ऋग्दर्शिता— ‘तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि। धियो यो नः प्रचोदया’दिति। अस्य च मन्त्रस्य 2गायत्री- देवताकत्वाद् गायत्रीछन्दोबद्धत्वाच्च गायत्रीति व्यपदेशः। ‘उदु त्यं जातवेदस’मित्यादीनां तु गायत्रीछन्दस्कत्वेऽपि गायत्रीदेवताकत्वं नास्तीति, नास्ति तेषां गायत्रीमन्त्रव्यवहारः। एवं गायत्रीछन्दोविशिष्टऋचामपि गायत्रीमन्त्र एवोत्कृष्ट इति, त्रिष्टुभादिच्छन्दो- विशिष्टानामृचां मध्येऽपि गायत्रीमन्त्र एवोत्तमोत्तमः इति गायत्रीशब्देनात्र गायत्रीमन्त्र एव ग्रहीतुमर्हः, ‘न गायत्र्याः परो मन्त्रः’ इत्यनेन गायत्रीमन्त्रस्य प्राशस्त्यं स्फुटमुच्यते।
ननु काऽसौ गायत्रीदेवतेति चेत्? सवितुर्वरेण्यं यत्तेजस्तदेव। किं ज्योतिः? न, चैतन्यमेव। सूर्यमण्डलावच्छिन्नं चैतन्यं
[[५१६]]
गायत्रीत्युच्यते। सूर्यस्य तावत् सर्वसाक्षित्वेनेश्वरत्वप्रसिद्धेः, तस्यापि सूर्यस्य यदन्तरं चैतन्यं तदेवेश्वरो गायत्रीत्युच्यते। नैतावता अस्मदादिशरीरावच्छिन्नस्यानवच्छिन्नस्य वा चैतन्यस्य गायत्रीव्यवहाराभावः, चिच्छक्तेरेव गायत्रीत्वात्। तस्माच्चैतन्यं परं ब्रह्मैव गायत्री। न च स्त्रीलिङ्गप्रयोगात् कालीसरस्वत्यादिशक्तिर्गायत्रीति वाच्यम् ; चैतन्ये निर्विशेषे आत्मेति, ब्रह्मेति पुन्नपुंसकशब्दयोरिव गायत्रीति स्त्रीलिङ्गस्यापि प्रयोगसम्भवात्। एवं ब्रह्मपरत्वाज्जीवब्रह्माभेदरूपतत्त्वार्थबोधकत्वाच्च गायत्रीमन्त्रः सर्वमन्त्रोत्कृष्टः। अयं गायत्रीमन्त्रार्थः— यः ईश्वरो नः जीवानां धियः प्रचोदयात् प्रेरयति, ‘ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति। भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया’ इति वचनात् , ‘यो भूतेषु तिष्ठन्’ इत्याद्यन्तर्यामिब्राह्मणाच्च। यच्छब्दात् तच्छब्दाध्याहारः। तस्य सवितुः मायया जगत्सृष्टिस्थितिलयहेतुभूतस्य देवस्य क्रीडत ईश्वरस्य सम्बन्धि, तत् स्वरूपभूतम् , वस्तुत ईश्वरस्यैव ब्रह्मत्वादिति भावः। बिम्बभूतमिति वा, जीवेश्वरयोर्मायाविद्योपाधिद्वयप्रतिफलितब्रह्मचैतन्यप्रतिबिम्बरूपत्वादिति भावः। तत् नित्यापरोक्षतया सच्चिदानन्दरूपतया प्रसिद्धमिति वा। वरेण्यम् उत्कृष्टं [भर्गः] तेजः ज्ञानं, चैतन्यमिति यावत्। ब्रह्मेति भावः। धीमहि सोऽहमिति प्रत्यगभिन्नत्वेन पश्यामः इति। गायत्री छन्दसामहम् मन्त्राणां मध्ये गायत्रीमन्त्रोऽहमित्यर्थः, ऋचां मन्त्रत्वात्। एवं सति गायत्रीत्येकवचनमपि स्वरसतः सङ्गच्छते, गायत्रीमन्त्रस्यैकत्वात्। यद्वा गायत्रीछन्दोविशिष्टा या ऋचः ‘उदु त्यं जातवेदस’मित्यादयः ताः सर्वा अप्यहमेव। जात्यभिप्रायाद् गायत्री- त्येकवचनम्। गायत्रीछन्दस एकत्वादिति वा। छन्दोवाचिना हि गायत्रीशब्देन तद्विशिष्टा ऋग् लक्षिता। तदेवं गायत्रीमन्त्रस्य गायत्रीछन्दोविशिष्टमन्त्राणां वा भगवद्विभूतित्वमिति सिद्धम्। न च गायत्रीछन्दोबद्धमन्त्राणां कुत उत्कृष्टत्वमिति वाच्यम् ; तज्जातौ गायत्रीमन्त्रस्य पठितत्वादिति। यद्वा ‘अग्रं वै छन्दसां गायत्री’ इति श्रुतेर्गायत्र्याश्छन्दसामग्रत्वादुत्कृष्टत्वम्। न च ‘उक्तात्युक्ता तथा मध्ये’ति पिङ्गलवचनाद् 3उक्तैव छन्दः प्रथममिति वाच्यम् ; ‘अग्निमीळे पुरोहित’मिति ऋच एव सर्ववेदानामादित्वात् , तस्याश्च ऋचो गायत्रीछन्दोबद्धत्वात्। ‘अग्निमीळे’ इति मन्त्रस्य अग्निर्देवता, गायत्री छन्द इति मन्त्रपाठे दर्शनात्।
ननु गायत्रीछन्दोबद्धमन्त्राणामितरच्छन्दोबद्धमन्त्रेभ्य उत्कृष्टत्वे यदि गायत्रीछन्दोबद्धत्वमेव हेतुस्तर्हि छन्दसां मध्ये गायत्री- छन्दस उत्कृष्टत्वं सिद्धमेवेति गायत्री छन्दसामहमित्यस्याभिधासिद्ध एवार्थो वाच्यः। त्रिष्टुभा[बा]दिच्छन्दसां मध्ये गायत्रीछन्दो ऽहमिति। यथा च भाषितं रामानुजेन। तद् विहाय किमिति लाक्षणिकार्थकल्पनाक्लेश आचार्याणामिति चेत्? उच्यते— पादाक्षरसङ्ख्या- विशेषनियमस्य छन्दःशब्दार्थत्वात् तन्मात्रस्य नोत्कृष्टत्वम् , किन्तु तद्विशिष्टस्य शब्दसमूहस्यैवेति। न च श्रुतिविरोधः, तत्रापि छन्दोविशिष्टानां मध्ये गायत्रीछन्दोविशिष्टैवोत्कृष्टेति विवक्षया अविरोधात्। तादृशस्यैव मन्त्रस्य ‘अग्निमीळे’ इत्यस्य वेदादौ स्थितत्वेनाग्रत्वाच्च।
ननु ‘अग्निमीळे’ इति मन्त्रस्य वेदादौ स्थितस्य गायत्रीछन्दोविशिष्टत्वेन गायत्रीछन्दोविशिष्टा ऋच उत्कृष्टा इति यथोच्यते तथा वेदादौ ‘अग्निमीळे’ इति मन्त्रे गायत्रीछन्दसो वर्तमानत्वाद् गायत्रीछन्दोऽपि छन्दसामुत्कृष्टमिति वक्तुं शक्यमेवेति चेत्? सत्यम्। उक्तन्यायेन वेदादावग्नेः सत्त्वादग्निरेव देवोत्कृष्ट इति वक्तुमपि शक्यत्वात्। न चेष्टापत्तिः, ‘देवानामस्मि वासवः’ इति गीताविरोधात्। ‘अग्निर्वै देवानामवमो विष्णुः परमः’ इति श्रुतिविरोधाच्च।
ननु श्रुतिस्मृतिविरोधादग्नेर्वेदादिस्थितिप्रयुक्तमुत्कृष्टत्वं मास्तु नाम, तदविरोधाद् गायत्रीछन्दसो वेदाद्यमन्त्रस्थितिप्रयुक्त उत्कर्षः स्यादिति चेत्? मैवम् ; अग्निशब्दोत्तरद्वितीयाविभक्तेरग्निशब्दस्य वा वेदादिगतत्वेनोत्कृष्टत्वमिति वक्तव्यत्वात्।
अथवा भवतु छन्दोमात्रस्यापि तस्योत्कर्षः, तथापि यन्मन्त्राधीनश्छन्दोमात्रस्योत्कर्षः स एव मन्त्र इहोत्कृष्टत्वेन ग्राह्यो लाघवात्। तज्जातीयत्वादन्ये च तादृशा इति बोध्यम्।
[[५१७]]
वस्तुतस्तु ऋगतिरेकेण छन्दसोऽभावाद् ऋक्सत्तयैव छन्दसः सत्तावत्त्वम् , न तु छन्दसः स्वातन्त्येण सत्तेति कृत्वा छन्दःशब्देनेह स्वतन्त्रसत्ताशालिनी ऋगेव ग्राह्येति बोध्यम्। तस्मान्नात्र गायत्रीछन्दस ईश्वरविभूतित्वं प्रतिपादितम्।
मार्गशीर्षस्य सस्यादिसम्पत्तिहेतुत्वात् , व्रताद्युचितकालत्वाद्वा उत्कृष्टत्वम्। वसन्तस्य तु ‘वसन्ते वसन्ते ज्योतिषा यजेते’ति ज्योतिष्टोमकालत्वात् , पुष्पसमृद्धिमत्त्वेन प्राणिसुखकरत्वादिति वा उत्कृष्टत्वम्॥३५॥
मध्वः …{Loading}…
मध्वः - मूलम्
॥10.35॥ Sri Madhvacharya did not comment on this sloka.,
जयतीर्थः
॥10.35॥ Sri Jayatirtha did not comment on this sloka.
अभिनव-गुप्तः …{Loading}…
अभिनवगुप्तः - मूलम्
॥10.19 – 10.42॥ हन्त ते कथयिष्यामीत्यादि जगत्स्थित इत्यन्तम्। अहमात्मा (श्लो. 20) इत्यनेन व्यवच्छेदं वारयति। अन्यथा स्थावराणां हिमालय इत्यादिवाक्येषु हिमालय एव भगवान् नान्य इति व्यवच्छेदेन; निर्विभागत्वाभावात् ब्रह्मदर्शनं खण्डितम् अभविष्यत्। यतो यस्याखण्डाकारा व्याप्तिस्तथा चेतसि न उपारोहति; तां च [यो] जिज्ञासति तस्यायमुपदेशग्रन्थः। तथाहि उपसंहारे ( उपसंहारेण) भेदाभेदवादं,यद्यद्विभूतिमत्सत्त्वम् (श्लो – 41) इत्यनेनाभिधाय; पश्चादभेदमेवोपसंहरति अथवा बहुनैतेन – विष्टभ्याहमिदं – एकांशेन जगत् स्थितः (श्लो – 42) इति। उक्तं हि – पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि॥ इति – RV; X; 90; 3प्रजानां सृष्टिहेतुः सर्वमिदं भगवत्तत्त्वमेव तैस्तेर्विचित्रै रूपैर्भाव्यमानं +++(S तत्त्वमेतैस्तैर्विचित्रैः रूपैः ; N –,विचित्ररूपै – )+++ सकलस्य +++(S;N सकलमस्य)+++ विषयतां यातीति।
शङ्करनारायणः
10.35 See Comment under 10.42
वल्लभः …{Loading}…
वल्लभः - मूलम्
॥10.35॥ बृहत्सामेति। त्वामिद्धि हवामहे [ऋक्सं.4।7।21।1] इत्यस्यां ऋचि गीयमानं बृहत्साम तेन चेन्द्रः सर्वेश्वरत्वेन स्तूयत इति श्रैठ्यं दर्श्यते। छन्दसां वेदमन्त्राणां वा मध्ये गायत्री मे विभूतिः; मत्स्वरूपप्रतिपादकत्वाद्भगवत्सेवकैश्चिन्तनीया। मासानां मध्ये मार्गशीर्षोऽहं कुमारिकाकामपूरणकालत्वात् भोगयोग्यत्वाच्च मे विभूतिः। ऋतूनां मध्ये कुसुमाकरो वसन्तोऽहं वसन्तेऽग्नीनादधीत [ ] इति श्रुतौ प्राशस्त्यत्वाज्जडेष्वपि प्रमोदापादकत्वाद्वृन्दावनाविरतवृत्तित्वाच्च मे विभूतिः।
पुरुषोत्तमः
॥10.35॥ साम्नां सामऋचां मध्ये बृहत्साम मद्विभूतिरित्यर्थः। छन्दसां मध्ये गायत्री मद्विभूतिः। मासानां मध्ये मार्गशीर्षोऽहम्। ऋतूनां मध्ये कुसुमाकरो वसन्तोऽस्मि।
श्रीधर-स्वामी …{Loading}…
॥10.35॥**बृहत्सामेति।**त्वामिद्धि हवामहे इत्यस्यामृचि गीयमानं बृहत्साम तेन चेन्द्रः सर्वेश्वरत्वेन स्तूयत इति श्रैष्ठ्यं दर्शितम्। छन्दोविशिष्टानां मन्त्राणां मध्ये गायत्र्यहम्; द्विजत्वापादकत्वेन सोमाहरणेन च श्रेष्ठत्वात्। कुसुमाकरो वसन्तः।
English …{Loading}…
आदिदेवानन्दः
10.35 Of Saman hymns, I am the Brhatsaman. Of meters, I am the Gayatri. Of months, I am Margasira (Nov-Dec). And of seasons I am the season of flowers.
गम्भीरानन्दः
10.35 I am also the Brhat-sama of the Sama (-mantras); of the metres, Gayatri. Of the months I am Marga-sirsa, and of the seasons, spring.
पुरोहितस्वामी
10.35 Of hymns I am Brihatsama, of metres I am Garatri, among the months I am Margasheersha (December), and I am the Spring among seasons.
शङ्करनारायणः
10.35. Likewise, of the modes of singing [of the hymns], I am the Brhatsaman; of the metres, I am the Gayatri; of the months, I am the Margasirsa; of the seasons, I am the season abounding with flowers.
शिवानन्दः - अनुवादः
10.35 Among the hymns also I am the Brihatsaman; among metres Gayatri am I; among the montsh I am the Margasirsha; among the seasons (I am) the flowery season.
शिवानन्दः - टीका
10.35 बृहत्साम Brihatsaman; तथा also; साम्नाम् among Sama hymns; गायत्री Gayatri; छन्दसाम् among metres; अहम् I; मासानाम् among months; मार्गशीर्षः Margasirsha; अहम् I; ऋतूनाम् among seasons; कुसुमाकरः the flowery season (spring).Commentary Brihatsaman is the chief of the hymns of the SamaVeda. Brihat means big.Margasirsha From the middle of December to the middle of January. This has a temperate climate. In olden days it was usual to start with this month in counting the months of the year. The first place was given to this month.Kusumakara The beautiful flowery season; the spring.
हिन्दी …{Loading}…
रामसुखदासः - अनुवादः
।।10.35।। गायी जानेवाली श्रुतियोंमें बृहत्साम और वैदिक छन्दोंमें गायत्री छन्द मैं हूँ। बारह महीनोंमें मार्गशीर्ष और छः ऋतुओंमें वसन्त मैं हूँ।
रामसुखदासः - टीका
।।10.35।।**व्याख्या–‘बृहत्साम तथा साम्नाम्’–**सामवेदमें बृहत्साम नामक एक गीति है। इसके द्वारा इन्द्ररूप परमेश्वरकी स्तुति की गयी है। अतिरात्रयागमें यह एक पृष्ठस्तोत्र है। सामवेदमें सबसे श्रेष्ठ होनेसे इस बृहत्सामको भगवान्ने अपनी विभूति बताया है (टिप्पणी प₀ 564)।
चिन्मयानन्दः
।।10.35।। मैं सामों में बृहत्साम हूँ भगवान् ने पहले कहा था कि; वेदों में सामवेद मैं हूँ। अब यहाँ सामवेद में भी विशेषता बताते हैं कि मैं सामों में बृहत्साम हूँ। ऋग्वेद की जिन ऋचाओं को सामवेद में गाया जाता है; उन्हें साम कहते हैं। उनमें एक साम वह है; जिसमें इन्द्र की सर्वेश्वर के रूप में स्तुति की गई है; जिसे बृहत्साम कहते हैं; जिसका उल्लेख भगवान ने यहाँ किया है। साममन्त्रों का गायन विशिष्ट पद्धति का होने के कारण अत्यन्त कठिन है; जिन्हें सीखने के लिए वर्षों तक गुरु के पास रहकर साधना करनी पड़ती है। मैं छन्दों में गायत्री हूँ वेद मन्त्रों की रचना विविध छन्दों में की गई है। इन छन्दों में गायत्री छन्द मैं हूँ। जन्मत सभी मनुष्य संस्कारहीन होते हैं। हिन्दू धर्म में बालक का उपनयन संस्कार गायत्री मन्त्र के द्वारा ही होता है; जिसकी रचना गायत्री छन्द में है। अत इस छन्द को विशेष महत्व प्राप्त है। गायत्री में चौबीस अक्षर हैं और इस मन्त्र के द्वारा सविता देवता की उपासना की जाती है। ब्राह्मण लोग प्रातकाल और सांयकाल संध्यावन्दन के समय इस मन्त्रोच्चार के द्वारा सूर्य को अर्ध्य प्रदान करते हैं। विश्व के किसी भी धर्म में किसी एक मन्त्र का जप इतने अधिक भक्तों द्वारा निरन्तर इतने अधिक काल से नहीं किया गया है जितना कि गायत्री छन्द में बद्ध गायत्री मन्त्र का। यह मन्त्र अत्यन्त शक्तिशाली एवं प्रभावशाली माना जाता है। मैं मासों में मार्गशीर्ष हूँ अंग्रेजी महीनों के अनुसार दिसम्बर और जनवरी के भाग मार्गशीर्ष हैं। भारत में; इस मास को पवित्र माना गया है। जलवायु की दृष्टि से भी यह सुखप्रद होता है; क्योंकि इस मास में न वर्षा की आर्द्रता या सांद्रता होती है और न ग्रीष्म ऋतु की उष्णता। मैं ऋतुओं में बसन्त हूँ प्रकृति को सुस्मित करने वाली बसन्त ऋतु मैं हूँ। समस्त सृष्टि की दृश्यावलियों को अपने सतरंगी सन्देश और सुरभित संगीत से हर्ष विभोर करने वाला ऋतुराज पर्वत पुष्पों के परिधान पहनते हैं। भूमि हरितवसना होती है। सरोवर एवं जलाशय उत्फुल्ल कमलों की हंसी से खिलखिला उठते हैं। मैदानों में हरीतिमा के गलीचे बिछ जाते हैं। सभी हृदय किसी उत्सव की उमंग से परिपूर्ण हो जाते हैं। सृष्टि के हर्षातिरेक को राजतिलक करने के लिए चन्द्रिका स्वयं को और अधिक सावधानी से सँवारती है। मुझे न केवल भव्य और दिव्य में ही देखना है और न केवल सुन्दर और आकर्षक में; वरन् हीनतम से हीन में भी मुझे पहचानना है मैं हूँ; जो हूँ सुनो
तेजोमयानन्दः - अनुवादः
।।10.35।। सामों (गेय मन्त्रों) में मैं बृहत्साम और छन्दों में गायत्री छन्द हूँ; मैं मासों में मार्गशीर्ष (दिसम्बरजनवरी के भाग) और ऋतुओं में वसन्त हूँ।।