31 पवनः पवतामस्मि

विश्वास-प्रस्तुतिः …{Loading}…

पवनः पवताम् अस्मि
रामः शस्त्रभृतामहम्।
झषाणां मकरश् चास्मि
स्रोतसाम् अस्मि जाह्नवी॥10.31॥+++(5)+++

रामानुजः …{Loading}…

रामानुजः - मूलम्

॥10.31॥पवतां गमनस्वभावानां पवनः अहम्। शस्त्रभृतां रामो ऽहम्। शस्त्रभृत्त्वम् अत्र विभूतिः; अर्थान्तराभावात्। आदित्यादयश् च क्षेत्रज्ञा आत्मत्वेन अवस्थितस्य भगवतः शरीरतया धर्मभूता इति शस्त्रभृत्त्वस्थानीयाः।

वेदान्तदेशिकः

॥10.31॥ पवताम् इत्यनेन पवनासाधारणक्रिया विवक्षिता चेन्निर्धारणं नोपपद्येतेति तदुपपत्तयेगमनस्वभावानामित्युक्तम्। अजस्रगमनशीलानामित्यर्थः। पवनप्रेरिता एव हि तारकादयोऽप्यजस्रं परिभ्रमन्ति। सोमपवनादिष्विवात्र शोधनान्वयिगमनमिहाविवक्षितम्। रामः शस्त्रभृतामहम् इति परशुरामस्यापि जेता रावणहन्ता रामो विवक्षित इति तदुचितममोघशस्त्रत्वलक्षणमतिशयमाह – शस्त्रभृत्त्वमत्र विभूतिरिति। पूर्वोत्तरेष्विव राम एव विभूतिः किं न स्यात् इत्यत्राहअर्थान्तराभावादिति। अचिद्विशेषस्य चेतनान्तरस्य वा शस्त्रमृच्छब्दवाच्यस्यात्रासम्भवादित्यर्थः। अर्थान्तराणां मध्ये स्वासाधारणधर्मविशेषनिर्देशे रीतिभङ्गः स्यादित्यत्राहआदित्यादयश्चेति। शस्त्रभृत्त्वस्यान्येषां च भगवन्तं धर्मिणं प्रति धर्मत्वमविशिष्टमित्येकैव रीतिः निर्धारणानिर्धारणभेदवन्मुखभेदमात्रं न दोष इति भावः। तत्रादित्यशब्देनज्योतिषां रविरंशुमान् [10।21] इत्युक्तो रविर्विवक्षितः। आदित्यानामहं विष्णुः [10।21] इत्युक्तस्त्वादित्यो रामतुल्यः। मकरो मत्स्यराजः। स्रोतस्सु जाह्नव्याः विष्णुपदोद्भवत्वसर्वज्ञशिरोधृतत्वत्रैलोक्यप्रवृत्तत्वादिभिरतिशयः।

आदिदेवानन्दः

10.31 Of moving things, namely, of things whose nature is to move, I am the wind. Of those who bear weapons, I am Rama. Here the ality of bearing weapons is the Vibhuti, as no other sense is possible. Aditya etc., being individual selves, constitute attributes of the Lord, who is their Self as they constitute His body. Therefore they stand in the same position of the attribute as that of bearing weapons.

शङ्करः …{Loading}…

शङ्करः - मूलम्

॥10.31॥ –,पवनः वायुः पवतां पावयितॄणाम् अस्मि। रामः शस्त्रभृताम् अहं शस्त्राणां धारयितॄणां दाशरथिः रामः अहम्। झषाणां मत्स्यादीनां मकरः नाम जातिविशेषः अहम्। स्रोतसां स्रवन्तीनाम् अस्मि जाह्नवी गङ्गा॥

गम्भीरानन्दः

10.31 Pavatam, of the purifiers; I am pavanah, air. Sastra-bhrtam, among weilders of weapons, I am Rama, son of Dasaratha. Jhasanam, among fishes etc; I am the particular species of fish called makarah shark. I am jahnavi, Ganga; srotasam, among rivers, among streams of water.

हरिकृष्णदासः

॥10.31॥ पवित्र करनेवालोंमें वायु और शस्त्रधारियोंमें दशरथपुत्र राम मैं हूँ; मछली आदि जलचर प्राणियोंमें मकर नामक जलचरोंकी जातिविशेष मैं हूँ; स्रोतोंमें – नदियोंमें मैं जाह्नवी – गङ्गा हूँ।

आनन्दगिरिः

॥10.31॥ अहमादिश्चेत्यादावुक्तमेव पुनरिहोच्यते। तथाच न पुनरुक्तिरित्याशङ्क्याह – भूतानामिति। सर्गशब्देन सृज्यन्त इति सर्वाणि कार्याणि गृह्यन्ते – अध्यात्मविद्येति। आत्मन्यन्तःकरणपरिणतिरविद्यानिवर्तिका गृहीता। प्रवदतां संबन्धी वादो वीतरागकथा तत्त्वनिर्णयावसाना। यदा प्रवदतामिति लक्षणया कथाभेदोपादानं तदा निर्धारणे षष्ठीत्याह – प्रवक्त्रिति।

नीलकण्ठः

॥10.31॥ पवतां पावयितॄणां वेगवतां वा। रामो दाशरथिः। रामादीनां परमेश्वराणामपि विभूतिमध्ये गणनं ध्यानार्थम्। झषाणां मत्स्यादीनां मकरो जातिभेदः। स्रोतसां नदीनाम्।

धनपतिः

॥10.31॥ No commentary.

मधुसूदन-सरस्वती

॥10.31॥ पवतां पावयितॄणां वेगवतां वा मध्ये पवनो वायुरहमस्मि। शस्त्रभृतां शस्त्रधारिणां युद्धकुशलानां मध्ये रामो दाशरथिरखिलराक्षसकुलक्षयकरः परमवीरोऽहमस्मि। साक्षात्स्वरूपस्याप्यनेन रूपेण चिन्तनार्थं वृष्णीनां वासुदेवोऽस्मीतिवदत्र पाठ इति प्रागुक्तम्। झषाणां मत्स्यानां मकरो नाम तज्जातिविशेषः। स्रोतसां वेगेन चलज्जलानां नदीनां मध्ये सर्वनदीश्रेष्ठा जाह्नवी गङ्गाहमस्मि।

रामरायः - ३१

पवन इति। पवतां जगत्परिशुद्धिहेतूनां जलाग्न्यादीनां मध्ये वायुरुत्कृष्टः। तस्य निखिलगगनभागचारित्वेन सर्वव्यापित्वात् सर्वपावनत्वमिति। राम इति परशुरामबलरामयोर्व्युदासायाह— दाशरथिरिति। न च दाशरथेरेव कथमुत्कृष्टत्वमिति वाच्यम् ; रामबाणस्य सप्ततालपर्वतभूमीनां युगपत् क्षणादेव भेदकत्वेन, अमोघत्वेन च, रामस्यापि सर्वक्षत्रियहन्तृपरशुरामजेतृत्वेन च राम उत्कृष्टः शस्त्रधारिष्विति। यद्यपि परशुरामोऽप्युत्कृष्टस्तथापि तस्मादपि राम उत्कृष्ट इति दाशरथिरिह निर्दिष्टः। शस्त्रभृतः शस्त्रादिभिर्युद्धकारिणो वीरपुरुषाः भीष्मद्रोणाश्वत्थामकर्णार्जुनरावणकुम्भकर्णादयः। रामस्यापि शस्त्रभृत्त्वात् तदन्तःप्रवेशः। शस्त्र- भृत्त्वम् अत्र जातिः। रामस्तु व्यक्तिरिति विवेकः। अतो राम एवात्र विभूतिः; न तु शस्त्रभृतः। शस्त्रभृतां वृक्षादिस्थानीयत्वाद् रामस्य चाश्वत्थस्थानीयत्वात् तत्तज्जातीयोत्कृष्टपदार्थस्यैव विभूतित्वात्।

न च रामस्य सक्षाद् भगवत्त्वात् कथं विभूतित्वमिति वाच्यम् ; योऽत्र दशरथादुत्पन्ने कार्यकरणसङ्घातात्मके देहे स्फुरति तस्य चिन्मयस्यात्मनो रामस्य साक्षाद् भगवत्त्वेऽपि सङ्घातस्य जडस्यानित्यस्य कार्यस्य सविकारस्य भगवत्त्वाभावात्। भगवति परमात्मनि मायया देवादिसङ्घातानामिव तत्सङ्घातस्यापि कल्पितत्वात्। तस्यैव सङ्घातस्य भूतशब्दवाच्यस्य प्राणिनः इह दाशरथिरामत्वेन विवक्षितत्वात्। तस्य च भगवति कल्पितत्वेन भगवद्विभूतित्वात्। न च चिन्मय एव विवक्षित इति वाच्यम् ; चिन्मयस्य शस्त्रभृज्जातीयत्वायोगात्। शस्त्रभृतो हि प्राणिनः, प्राणिहस्तधार्यत्वाच्छस्त्राणाम्।

एतेन रामानुजोक्तं शस्त्रभृत्त्वं विभूतिरर्थान्तराभावादिति भाष्यम् , अचिद्विशेषस्य चेतनान्तरस्य वा शस्त्रभृच्छब्दवाच्यस्य अत्रासम्भवादिति वेदान्तदेशिकव्याख्यानं च प्रत्याख्यातम्।

शस्त्रभृच्छब्दवाच्यस्य दाशरथिशरीरेऽहमित्यभिमन्यमानस्य कार्यकरणसङ्घातात्मकस्य प्राणिनश्चिन्मयादात्मनोऽन्यस्य प्रमातुरीश्वरस्य सत्त्वात्। अचिद्विशेषस्य रामदेहस्यैव साक्षाच्छस्त्रसम्बन्धसत्त्वात् , चेतनस्य चिदाभासस्य च देहद्वारा शस्त्रसम्बन्ध- सत्त्वादस्त्येव शस्त्रभृद् देहरूपश्चिदाभासरूपो वा। अस्मदादिशरीरेषु वर्तमानश्चिदाभासो जीवः, रामकृष्णादिशरीरेषु वर्तमानस्तु ईश्वर इति व्यवहारविवेकः।

[[५११]]

न चेश्वरस्य चिदाभासत्वमयुक्तम् , चिदाभासस्य संसारित्वादिति वाच्यम् ; ‘जीवेश्वरावाभासेन करोती’ति श्रुत्यैव जीववद् ईश्वरस्यापि चिदाभासत्वस्योक्तत्वात्। मायायां चित्प्रतिबिम्बो हीश्वरः। आभासश्च प्रतिबिम्ब एवेति चिदाभासस्यापीश्वरस्य सर्वज्ञत्वाद् आत्मस्वरूपज्ञत्वाच्च न संसारित्वम् , यथा वा जीवस्यापि ज्ञानिन इति। तस्माद् मायिकत्वाद् रामावतारो विभूतिरेव, न तु भगवान्। न च रामः परमात्मेति व्यवहारविरोध इति वाच्यम् ; तत्र रामशब्देन चिन्मयस्यैव विवक्षितत्वात्। न चात्रापि सैव विवक्षेति वाच्यम् ; शस्त्रभृत्त्वस्य तद्विवक्षाऽभावगमकत्वादित्युक्तत्वात्।

किञ्च ‘आदित्यादयः क्षेत्रज्ञा ईश्वरशरीरत्वाच्छस्त्रभृत्स्थानीयाः, रामस्त्वीश्वरः स्वयमेवे’ति यदुक्तं रामानुजेन ; तच्चासत् । शस्त्रभृतां जीवानां मध्ये शस्त्रभृतो जीवस्यैवोत्कृष्टस्य भगवद्विभूतित्वेन वक्तव्यत्वात् , तं प्राकरणिकमर्थं विहाय जीवेभ्य ईश्वर उत्कृष्ट इति शस्त्रभृद्भ्योऽशस्त्रभृत ईश्वरस्योत्कृष्टीकरणमिहानुचितमिति।

मकर इति। तस्य जलजन्तुषु मत्स्येषूत्कृष्टत्वं बलक्रौर्यादिमत्त्वेन। अत एव तस्य मत्स्यराजत्वव्यपदेशः। स्रवन्त्यो नद्यः। विष्णुपादोद्भवत्वादिना गङ्गायाः प्राशस्त्यम्॥३१॥

मध्वः …{Loading}…

मध्वः - मूलम्

॥10.31॥ आनन्दरूपत्वात्पूर्णत्वाल्लोकरमणत्वाच्च रामः। आनन्दरूपो निष्परिमाण एष लोकश्चैतस्माद्रमते तेन रामः इति शाण्डिल्यशाखायाम्। रश्च अमश्चेति व्युत्पत्तिः।

जयतीर्थः

॥10.31॥ रामः शस्त्रभृतामहं इति रामशब्दं व्याख्याति – आनन्देति। आनन्दरूपत्वात्पूर्णत्वादित्येकोऽर्थः। रमत इति रः। रमु क्रीडायां [धा.पा.1।878] इत्यतो अमन्ताड्ड इति डः। न विद्यते मा प्रमा परिच्छेदोऽस्येत्यमः लोक इत्यपरोऽर्थः। रमतेर्घञ्। अत्र श्रुतिमाह – आनन्देति। आद्येऽर्थे विग्रहं दर्शयति – रश्चेति। रश्चासावमश्चेत्यर्थः।

अभिनव-गुप्तः …{Loading}…

अभिनवगुप्तः - मूलम्

॥10.19 – 10.42॥ हन्त ते कथयिष्यामीत्यादि जगत्स्थित इत्यन्तम्। अहमात्मा (श्लो. 20) इत्यनेन व्यवच्छेदं वारयति। अन्यथा स्थावराणां हिमालय इत्यादिवाक्येषु हिमालय एव भगवान् नान्य इति व्यवच्छेदेन; निर्विभागत्वाभावात् ब्रह्मदर्शनं खण्डितम् अभविष्यत्। यतो यस्याखण्डाकारा व्याप्तिस्तथा चेतसि न उपारोहति; तां च [यो] जिज्ञासति तस्यायमुपदेशग्रन्थः। तथाहि उपसंहारे ( उपसंहारेण) भेदाभेदवादं,यद्यद्विभूतिमत्सत्त्वम् (श्लो – 41) इत्यनेनाभिधाय; पश्चादभेदमेवोपसंहरति अथवा बहुनैतेन – विष्टभ्याहमिदं – एकांशेन जगत् स्थितः (श्लो – 42) इति। उक्तं हि – पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि॥ इति – RV; X; 90; 3प्रजानां सृष्टिहेतुः सर्वमिदं भगवत्तत्त्वमेव तैस्तेर्विचित्रै रूपैर्भाव्यमानं +++(S तत्त्वमेतैस्तैर्विचित्रैः रूपैः ; N – विचित्ररूपै – )+++ सकलस्य +++(S;N सकलमस्य)+++ विषयतां यातीति।

शङ्करनारायणः

10.31 See Comment under 10.42

वल्लभः …{Loading}…

वल्लभः - मूलम्

॥10.31॥ पवन इति। त्रिविधगुणवान् भगवदुपयोगितया चिन्तनीयः। शस्त्रभृतां मध्ये रामो नाम्ना जामदग्न्योऽहंरामः शस्त्रभृतां वरः इति सर्वैः स्तुतत्वात्। दाशरथिस्तु न भगवतोंऽशः किन्तु पूर्णपुरुषोत्तम एवांशीति ब्रह्मशुकाचार्यचरणानामाशयः; अतो न विभूतित्वं तस्य युज्यते इति वयं ब्रूमः। झषाणां मध्ये मकरोऽहं बलवत्त्वान्मत्स्यरूपो वा कुण्डलगतत्वनिरूपणाद्वा चिन्तनीयः। गङ्गा भगवत्पदीति चिन्त्या।

पुरुषोत्तमः

॥10.31॥ पवतां वेगवतां मध्ये पवनः वायुरस्मि। शस्त्रभृतां रामः दशरथात्मजोऽस्मि। झषाणां मध्ये मकरः मत्स्यजातिविशेषोऽस्मि। स्रोतसां प्रवहज्जलानां मध्ये जाह्नवी गङ्गाऽस्मि।

श्रीधर-स्वामी …{Loading}…

॥10.31॥ पवन इति। पवतां पावयितॄणां वेगवतां वा मध्ये वायुरस्मि। शस्त्रभृतां वीराणां रामो दाशरथिः। यद्वा परशुरामः। झषाणां मत्स्यानां मकरो मत्स्यविशेषस्तिमिंगिलः। स्रोतसां प्रवाहोदकानां मध्ये भागीरथी।

English …{Loading}…

आदिदेवानन्दः

10.31 Of moving things, I am the wind. Of those who bear weapons, I am Rama. Of fishers, I am Makara, and of rivers, I am Ganga.

गम्भीरानन्दः

10.31 Of the purifiers I am air; among the wielders of weapons I am Rama. Among fishes, too, I am the shark; I am Ganga among rivers.

पुरोहितस्वामी

10.31 I am the Wind among purifiers, the King Rama among warriors; I am the Crocodile among the fishes, and I am the Ganges among rivers.

शङ्करनारायणः

10.31. Of the progenies of Diti (the demons), I am Prahlada; of the measuring ones, I am the shark; of rivers, I am the daughter of Jahnu (the Ganga).

शिवानन्दः - अनुवादः

10.31 Among the purifiers (or the speeders) I am the wind; Rama among the warriors am I; among the fishes I am the shark; among the streams I am the Ganga.

शिवानन्दः - टीका

10.31 पवनः the wind; पवताम् among purifiers or the speeders; अस्मि (I) am; रामः Rama; शस्त्रभृताम् among wielders of weapons (warriors); अहम् I; झषाणाम् among fishes; मकरः Makara (shark); च and; अस्मि (I) am; स्रोतसाम् among streams; अस्मि (I) am; जाह्नवी the Ganga.Commentary The holy river Ganga (spelt Ganges in English) was swallowed by Jahnu when she was being brought down by Bhagiratha from heaven. Hence the name Jahnavi for Ganga.

हिन्दी …{Loading}…

रामसुखदासः - अनुवादः

।।10.31।। पवित्र करनेवालोंमें वायु और शास्त्रधारियोंमें राम मैं हूँ। जल-जन्तुओंमें मगर मैं हूँ। बहनेवाले स्त्रोतोंमें गङ्गाजी मैं हूँ।

रामसुखदासः - टीका

।।10.31।।व्याख्या–पवनः पवतामस्मि– वायुसे ही सब चीजें पवित्र होती हैं। वायुसे ही नीरोगता आती है। अतः भगवान्ने पवित्र करनेवालोंमें वायुको अपनी विभूति बताया है।‘रामः शस्त्रभृतामहम्’–**ऐसे तो राम अवतार हैं, साक्षात् भगवान् हैं, पर जहाँ शस्त्रधारियोंकी गणना होती है, उन सबमें राम श्रेष्ठ हैं। इसलिये भगवान्ने रामको अपनी विभूति बताया है।

चिन्मयानन्दः

।।10.31।। मैं पवित्र कर्त्ताओं में वायु हूँ किसी स्थान की स्वच्छता के लिए सूर्य और वायु के समान प्रभावशाली अन्य कोई स्वास्थयकर और अपूतिक (घाव को सड़ने से रोकने वाली औषधि) साधऩ उपलब्ध नहीं है। यदि यहाँ केवल वायु का ही उल्लेख किया गया है; तो उसका कारण यह है कि महर्षि व्यास जानते थे कि सूर्य की उष्णता में ही वायु की गति हो सकती है। जहाँ सदा वायु बहती है; वहाँ सूर्य का होना भी सिद्ध होता है। किसी गुफा में न सूर्य का प्रकाश होता है और न वायु का स्पन्दन। मैं शस्त्रधारियों में राम हूँ भारत के आदि कवि महर्षि बाल्मीकि ने एक सम्पूर्ण काव्य की छन्दबद्ध रचना के लिए रामायण के नायक मर्यादापुरुषोत्तम भगवान् श्री रामचन्द्र का चित्रण किया है। यह चित्रण अत्यन्त विस्तृत एवं विशुद्ध है; जिसमें श्री राम को जीवन के समस्त क्षेत्रों में एक पूर्ण पुरुष के रूप में चित्रित किया गया है। श्रीराम एक पूर्ण एवं आदर्श पुत्र; पति; भ्राता; मित्र; योद्धा; गुरु; शासक और पिता थे। सामान्य जनता के दोषों तथा अत्यन्त उत्तेजना और भ्रम उत्पन्न करने वाली परिस्थितियों की पृष्ठभूमि में श्रीराम की सार्वपाक्षिक पूर्णता और भी अधिक चमक उठती है। ऐसे सर्वश्रेष्ठ आदर्श पुरुष के हाथ में ही वह योग्यता है; जो उस धनुष को धारण करे; जिसमें से सदैव अमोघ बाणों की ही वर्षा होती है। मैं मत्स्यों में मकर तथा नदियों में जाह्नवी हूँ जह्नु ऋषि की पुत्री जाह्नवी कहलाती है; जो गंगानदी का एक नाम हैं। आख्यायिका यह है कि एक बार जह्नु ऋषि ने सम्पूर्ण गंगा नदी का पान कर उसे सुखा दिया; और तत्पश्चात्; लोककल्याण के लिए उसे अपने कानों के द्वार से बाहर बहा दिया हम पहले भी देख चुके हैं कि गंगा नदी का यह रूप सांकेतिक है। हिन्दू लोग गंगा को अध्यात्म ज्ञान अथवा भारत की आध्यात्मिक संस्कृति का प्रतीक मानते हैं। अपने गुरु से प्राप्त ऋषियों की ज्ञान सम्पदा को; साधक शिष्य ध्यानाभ्यास के द्वारा आत्मसात् कर लेता है यही नदी का आचमन है। ज्ञान के झरने से पान कर ज्ञानपिपासा को शान्त करना आदि वाक्यों का प्रयोग प्राय सभी भाषाओं में होता है; जिनका मूल संस्कृत भाषा है। आख्यायिका में कहा गया है कि इस नदी का उद्गम ऋषि के कानों से हुआ। वास्तव में; यह अत्यन्त सुन्दर काव्यात्मक कल्पना है; जो कान का संबंध श्रुति से स्थापित करती है। उपनिषद् ही श्रुति हैं; जिसमें गुरु शिष्य के संवाद द्वारा आत्मज्ञान का बोध कराया गया है। भारत में; समयसमय पर आचार्यों का अवतरण होता है; जो अपने युग के सन्दर्भ से प्राचीन ज्ञान की पुर्नव्यवस्था करते हैं परन्तु यह प्रचार कार्य वे तभी प्रारम्भ करते हैं; जब उन्होंने स्वयं वैदिक सत्य का साक्षात् अनुभव कर लिया हो। इस स्वानुभूति के बिना कोई भी श्रेष्ठ आचार्य जगत् में आकर इस प्राचीन सत्य का नवीन भाषा में प्रचार करने का साहस नहीं करेगा। गंगा के अनेक पर्यायवाची नामों में से जाह्नवी का यहाँ उल्लेख उपर्युक्त विशेष अभिप्राय को दर्शाने के लिए ही किया गया है। समुद्री मत्स्यों में मकर सर्वाधिक भयंकर होने के कारण यहाँ भगवान् ने उसे अपनी विभूति कहा है। आगे कहते है

तेजोमयानन्दः - अनुवादः

।।10.31।। मैं पवित्र करने वालों में वायु हूँ और शस्त्रधारियों में राम हूँ; तथा मत्स्यों (जलचरों) में मैं मगरमच्छ और नदियों में मैं गंगा हूँ।।