विश्वास-प्रस्तुतिः …{Loading}…
मां हि पार्थ व्यपाश्रित्य +++(→साङ्ग-प्रपत्त्या)+++
येऽपि स्युः पापयोनयः।
+++(द्विज-)+++स्त्रियो वैश्यास् +++(→सत्त्रानधिकारतः)+++ तथा शूद्रास्
तेऽपि यान्ति परां गतिम् +++(तज्-जन्मन्य् एव)+++॥9.32॥
विश्वास-टिप्पनी
नात्र च श्री-शूद्रयोर् भक्तियोगे ऽधिकारो वर्णितः -
नैकत्र तन्निषेधस्य सिद्धत्वात्।
पत्नीत्व-मात्रेण पत्य्-उपासन-फलं न भवति।
अतः स्त्रियो ऽत्र परिगणिताः।
जन्मान्तर–भगवत्-प्राप्ति-पक्षे श्लोकोऽयं नापेक्षितो ऽभविष्यत्।
अतो ऽस्मिन्न् एव जन्मनि परा गतिर् उक्ताऽत्र।
मूलम् …{Loading}…
मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः।
स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम्॥9.32॥
रामानुजः …{Loading}…
रामानुजः - मूलम्
॥9.32॥स्त्रियो वैश्याः शूद्राः च पापयोनयो ऽपि मां व्यपाश्रित्य परां गतिं यान्ति।
वेदान्तदेशिकः
विस्तारः (द्रष्टुं नोद्यम्)
ऎऩ्ऱु भगवद्-आश्रयण-मात्रं सर्व-साधारणम् आग
शरण्यऩ् ताऩुम् अरुळिच् चॆय्दाऩ्।
इति रहस्य-त्रय-सारे स्वतन्त्र-प्रपत्त्य्-अधिकार-प्रकरणे।
॥9.32॥ “अपि चेत् सु-दुर्-आचारः” [9।30] इत्य् आगन्तुक-पापोक्तिः।
अथ जन्मत एव पापिष्ठानां
जात्याद्यपकर्षे ऽपि
स्व-समाश्रयण-मात्रेण फल-सिद्धिं प्राक्-प्रस्तुतां प्रपञ्च्य
तत एव जात्याद्य्-उत्कर्षे भक्ति-पौष्कल्ये च
कैमुतिक-न्यायम् उक्त्वा
जात्य्-आदिभिर् उत्कृष्टस् त्वं
फले निस्सन्देह उपायम् आतिष्ठ
इत्य् उच्यते –
“मां हि” इत्यादि-श्लोक-द्वयेन।
स्त्री-वैश्य-शूद्राणां
पर-गति-विरोधितया शङ्किताकारानुवादार्थः पाप-योनि-शब्दः।
तत्र “ये पाप-योनयो ऽपि स्युः” इत्य् अन्वयः।
त्रैवर्णिकस्य विद्यादिमतो ऽपि वैश्यस्य
शूद्रादिभिः सह पाप-योनित्वेन परिगणनं
सत्त्रानधिकारित्वात्।
ऋत्विज एव हि सर्वे सत्त्रेषु यजमानाः;
आर्त्विज्यं च ब्राह्मणस्य;
स च सत्त्राधिकार-रूप उत्कर्षः।
तस्माद् “वाजपेय-याज्य् आर्त्विजीनः” इति क्षत्रियस्यापि श्रुतः।
आदिदेवानन्दः
9.32 - 9.33 Women, Vaisyas and Sudras, and even those who are of sinful birth, can attain the supreme state by taking refuge in Me. How much more then the well-born Brahmanas and royal sages who are devoted to me! Therefore, roayl sage that you are, do worship Me, as you have come to this transient and joyless world stricken by the threefold afflictions. Sri Krsna now describes the nature of Bhakti:
शङ्करः …{Loading}…
शङ्करः - मूलम्
॥9.32॥ –,मां हि यस्मात् पार्थ व्यपाश्रित्य माम् आश्रयत्वेन गृहीत्वा येऽपि स्युः भवेयुः पापयोनयः पापा योनिः येषां ते पापयोनयः पापजन्मानः। के ते इति; आह – स्त्रियः वैश्याः तथा शूद्राः तेऽपि यान्ति गच्छन्ति परां प्रकृष्टां गतिम्॥
गम्भीरानन्दः
9.32 Hi, for; O son of Prtha, ye api, even those; papayonayah syuh, who are born of sin;-as to who they are, the Lord says-striyah, women; vaisyah, Vaisyas, tatha, as also; sudrah, Sudras; te api, even they; yanti, reach, go to; the param, highest; gatim, Goal vyapasritya, by taking shelter; mam, under Me-by accepting Me as their refuge.
हरिकृष्णदासः
॥9.32॥ तथा –, क्योंकि हे पार्थ जो कोई पापयोनिवाले हैं अर्थात् जिनके जन्मका कारण पाप है ऐसे प्राणी हैं – वे कौन हैं सो कहते हैं – वे स्त्री; वैश्य और शूद्र भी मेरी शरणमें आकर – मुझे ही अपना अवलम्बन बनाकर परम – उत्तम गतिको ही पाते हैं।
आनन्दगिरिः
॥9.32॥ इतश्च भगवद्भक्तिर्विधातव्येत्याह – किञ्चेति। न मे भक्तः प्रणश्यतीत्यन्न हेतुमाचक्षाणो भक्त्यधिकारे जातिनियमो नास्तीत्याह – मां हीति।
नीलकण्ठः
॥9.32॥ किं च हे पार्थ; हि प्रसिद्धं मां व्यपाश्रित्य आश्रित्य येऽत्यन्तं पापयोनयः स्त्र्यादयस्तेऽपि परां गतिं यान्ति।
धनपतिः
॥9.32॥ किंच हे पार्थ; येऽपि पापं योनिर्येषां ते पापयोनयः पापजन्मानस्तेऽपि मां वासुदेवं व्यपाश्रित्य ईश्वर एव भक्त्या प्रदादितोऽस्माकमुद्धर्तेत्याश्रयत्वेन गृहीत्वा परां प्रकृष्टां गतिं यान्ति गच्छन्ति। के ते पापयोनय इत्यत आह – स्त्रियो वैश्यास्तथा शूद्रा इति। तत्र स्त्रीशूद्राणां वेदाध्ययनादावनधिकृतानां पापबाहुल्याल्लब्धस्त्रीजन्मानां पापयोनित्वं स्पष्टमेव। वैश्या अपि पूर्वजन्मनि ब्राह्मणाः क्षत्रिया वा पापकर्मणा वैश्ययोनिमापन्नाः कृष्यादिरता ग्राह्याः। ननु येऽपि स्युः पापयोनयोऽन्यत्यजास्तिर्यञ्जचो वा जातिदोषेण दुष्टाः तथा स्त्रियो वैश्यास्था शूद्रास्तेऽपि यान्ति परां गतिमित्याचार्यैः कुतो न व्याख्यातमिति चेदुच्यते। निकृष्टा अपि मां व्यपाश्रित्य परां गतिं यान्ति किं पुनरुत्कृष्टा इति ह्यर्थोऽत्र विवक्षितः। तत्र पापनिबन्धना निकृष्टता पुण्यनिमित्ता चोत्कृष्टता। तथाच स्त्रियादीनां निकृष्टत्वेन पापयोनित्वावश्यकत्वेनेदमेव पापयोनय इतिपदं स्त्रियातौ संबध्यते। अन्यथा पापयोनयोऽन्त्यजादयोऽपि ये स्युस्तेऽपि मामुपाश्रित्य परां गतिं यान्तीत्येतावतैव निर्वाहे स्त्रियाद्युपादानस्यि वैयर्थ्यं स्यादिति दिक्। त्वं तु मत्पैतृष्वस्त्रेयत्वादत्युत्कृष्ट इति सूचयन्त्संबोधयति पार्थेति।
मधुसूदन-सरस्वती
॥9.32॥ एवमागन्तुकदोषदुष्टानां भगवद्भक्तिप्रभावान्निस्तारमुक्त्वा स्वाभाविकदोषदुष्टानामपि तदाह – हि निश्चितं हे पार्थ; मां व्यपाश्रित्य शरणमागत्य येऽपि स्युः पापयोनयोऽन्त्यजास्तिर्यञ्चो वा जातिदोषेण दुष्टाः; तथा वेदाध्ययनादिशून्यतया निकृष्टाः स्त्रियो वैश्याः कृष्यादिमात्ररताः तथा शूद्राः जातितोऽध्ययनाद्यभावेन च परमगत्ययोग्यास्तेऽपि यान्ति परां गतिं। अपिशब्दात्प्रागुक्तदुराचारा अपि।
रामरायः - ३२
मामिति। ये पापयोनयः स्युः, ते स्त्रियो वैश्याः शूद्रा अपि हे पार्थ! मां व्यपाश्रित्य परां गतिं यान्ति। हि यस्मादेवं तस्मा- दीश्वरभक्तो न प्रणश्यतीति त्वमेव प्रतिजानीहि। शूद्राणां वेदेषु वैदिकेषु कर्मसु चानधिकारत्वात् पापजन्मत्वम्। वैश्यानां द्विजत्वेन तत्राधिकारेऽपि धान्यादिक्रयविक्रियवृत्त्या पापित्वं तेषाम्। कलौ वैश्यानां शूद्रप्रायत्वादिति वा॥३२॥
[[४८९]]
मध्वः …{Loading}…
मध्वः - मूलम्
॥9.32॥ Sri Madhvacharya did not comment on this sloka.,
जयतीर्थः
॥9.32॥ Sri Jayatirtha did not comment on this sloka.
अभिनव-गुप्तः …{Loading}…
अभिनवगुप्तः - मूलम्
॥9.32 – 9.34॥
मां हि इत्यादि
मत्परायण इत्यन्तम्।
पापयोनयः पशुपक्षिसरीसृपादयः।
स्त्रिय इति अज्ञाः।
वैश्या इति कृष्यादिकर्मान्तररताः।
शूद्रा इति कार्त्स्येन वैदिकक्रियानधिकृताः परतन्त्रवृत्तयश्च।
तेऽपि मदाश्रिता मामेव यजन्ते।
केचिद् आचक्षते -
द्वि-ज–राजन्य-प्रशंसा-परम् एतद् वाक्यम्,
न तु स्त्र्य्-आदिषु अपवर्ग-प्राप्ति-तात्पर्येण
इति ।
ते हि भगवतः सर्वानुग्राहिको शक्तिं मितविषयतया खण्डयन्तः;
तथा परमेश्वरस्य परम-कृपालुत्वम् असहमानाः +++(S omits तथा – मसहमानाः)+++;
‘न मे द्वेष्योऽस्ति वा प्रियः’,
‘अपि चेत्सुदुराचारः’
इत्य्-आदीन्य् अन्यानि चैवं-प्रकार-स्फुटार्थ-प्रतिपादकानि वाक्यानि विरोधयन्तः;
निरतिशय-युक्ति-प्रपञ्च-साधिताद्वैत-भगवत्-तत्त्वे +++(S;;N भगवत्तत्त्वम्)+++
भेद-लिङ्गं +++(S; भेदभङ्गम् N भेदभङ्ग – )+++ बलाद् एवानयन्तः;
अन्यांश्च आगम-विरोधान् अचेतयमानाः;
‘कथमिदं कथमिदम्’ इति पर्यनुयोज्यमाना +++(;N पर्यनुयुज्यमानः)+++ यदि,
परम् अन्तर्-गर्भी-कृत-जात्य्-आदि-महाग्रहाविष्टान्तः+++(; N
– ग्रहगृहीताविष्टान्तः – )+++-करणाः;
मात्सर्यावहित्था-लज्जा-चिह्नी-कृतावाङ्-मुख-दृष्टयः;
समग्रस्य जनस्य ‘असत्-प्रलापिन’ इति हास्य-रस-विषय-भावम् +++(S omits – विषय – )+++
आत्मन्य् आरोपयन्ति ।
यत् पूर्वैव व्याख्या सर्वस्य करोति शिवम् इति ॥ ३३-३५॥
शङ्करनारायणः
9.32-34 Man hi etc; upto Matparayanah. Those who are of sinful birth : I.e., the animals, birds, reptiles etc. Women denotes the ignorant. Men of working class denotes those who find pleasure in different vocations, like agriculture etc. Men of the fourth caste : those who do not have any claim whatsoever for [performing] the Vedic rituals and whose livelihood depend on others. By taking refuge [solely] in Me, even these all attain Me alone.
The deeds of the exceedingly compassionate Bhagavat, like the one granting liberation to a chief of the elephants are heard in thousands [in the Puranas]. Certainly it must be so, for those whose behaviour is just the opposite to that of these persons.
Some (commentators] declare :
The present sentence [of the Lord] intends to glorify the twice-born and members of the ruling class, and it is not uttered with the intention of speaking of the attainment of liberation in the case of the women etc. Indeed these persons [aim to] break into pieces the Graceous-to-all Power of the Bhagavat by foistering upon It, a limited applicability; likwise they do not tolerate the profoundly compassionate nature of the Absolute Lord; they contradict the [Lord’s own] statements ‘To Me none is hateful and none is dear (IX, 30)’, ‘Even a highly evil-doer etc. (IX, 31)’, and other similar statements, very clearly of the same import; with all effort they [strive to] bring in something indicative of duality even in the Absolute-being, Whose non-dual nature has been well established firmly by the diversity of the best reasonings; they are not mindful of other contradictions [that lurk in their theory] with the revealed literature; when simply estioned ‘How is this ;’ and ‘How is that ;’, these persons, having their internal organ totally possessed by the mighty devil of the caste [considerations], concealed within, and having their tongue, face and eyes all twisted by their sense of jealously, hypocrisy and shame-they prattle evil for the entire humanity; and thus they put upon themselves the status of being an object of ridicule. Therefore the above explanation [of ours] does good to all.
वल्लभः …{Loading}…
वल्लभः - मूलम्
॥9.32॥ सर्वोद्धारकत्वमेवाह – मां हीति। तथाहि पापयोनयः पूतनाद्याः स्त्रिय इतिते नाधीतश्रुतिगणा नोपासितमहत्तमाः [11।12।7] नासां द्विजातिसंस्कारो न निवासो गुरावपि। न तपो नात्ममीमांसा न शौचं न क्रियाः शुभाः [10।23।42] इति भागवतवाक्यैः सर्वसाधनरहिततया प्रतिपाद्यमानाकेवलेनैव भावेन गोप्यः [भाग.11।12।7] इति लौकिके सति भावमात्रवत्यः प्रसिद्धाः स्त्रियो व्रजपुरवनिताः वैश्यास्तुलाधारादयो भारते ख्याताः; नन्दादयो वा व्रजवासिन एव प्रसिद्ध एव; शूद्य्रामुत्पन्नाः शूद्रा विदुरादयश्च; ये वा पापयोनयः हीनजातयो हूणयवनशबरादयः पुलिन्द्यश्च मां पुरुषोत्तमं वात्सल्यजलधिं करुणावरुणालयं महापतितपावनमशरणशरणागतव्रजपालकं येन केनचिद्भावेनाश्रित्य साक्षात्कृतस्य मे आश्रयमात्रेण परां गतिं यान्ति। अत्र याताश्च केचिद्यान्तीति भावेन वर्त्तमान उक्तः।
पुरुषोत्तमः
॥9.32॥ नन्वेवं भक्ते हीनाधिकारित्वं स्यादित्यत आह – मां हीति। हे पार्थ मातृसम्बन्धेनोत्पन्नभक्तिरूप हीति निश्चयेन मां व्यपाश्रित्य विशेषेण आश्रित्य संसेव्य ये पापयोनयोऽपि स्युः नीचयोनयः अन्त्यजादयो म्लेच्छादयश्च; स्त्रियः परतन्त्रैकयोनयः; वैश्याः केवलं कृष्यादिपरा उदरम्भराः; तथा शूद्राः शोकेन द्रवीभूता अनुपदेश्याः तेऽपि परां गतिं मोक्षं सायुज्यं यान्ति प्राप्नुवन्तीत्यर्थः। तत्रये इतिपदेन स्वसेवार्थोत्पादितातिरिक्ता इति ज्ञापितम्।
श्रीधर-स्वामी …{Loading}…
॥9.32॥ आचारभ्रष्टं मद्भक्तिः पवित्रीकरोतीति किमत्र चित्रम्; यतो मद्भक्तिर्दुष्कुलानप्यनधिकारिणोऽपि संसारान्मोचयतीत्याह – मां हीति। येऽपि पापयोनयः स्युः निकृष्टजन्मानोऽन्त्यजादयो भवेयुः; येऽपि वैश्याः केवलं कृष्यादिनिरताः; स्त्रियः; शूद्रादयश्चाध्ययनादिरहिताः; तेऽपि मां व्यपाश्रित्य संसेव्य परां गतिं यान्ति। हि निश्चितम्।
English …{Loading}…
आदिदेवानन्दः
9.32 By taking refuge in Me even men of evil birth, women, Vaisyas and also Sudras attain the supreme state.
गम्भीरानन्दः
9.32 For, O son of Prtha, even those who are born of sin-women, Vaisyas, as also Sudras [S.’s construction of this portion is: women, Vaisyas as also Sudras, and even others who are born of sin (i.e., those who are born low and are of vile deeds, viz Mlecchas, Pukkasas and others). M.S. also takes papa-yonayah (born of sin) as a separate phrase, and classifies women and others only as those darred from Vedic study, etc.-Tr.]-, even they reach the highest Goal by taking shelter under Me.
पुरोहितस्वामी
9.32 For even the children of sinful parents, and those miscalled the weaker sex, and merchants, and labourers, if only they will make Me their refuge, they shall attain the Highest.
शङ्करनारायणः
9.32. O son of Prtha, even those who are of sinful birth, [besides] women, men of working class, and the members of the fourth caste-even they, having taken refuge in Me, attain the highest goal.
शिवानन्दः - अनुवादः
9.32 For, taking refuge in Me, they also who, O Arjuna, may be of a sinful birth women, Vaisyas as well as Sudras attain the Supreme Goal.
शिवानन्दः - टीका
9.32 माम् Me; हि indeed; पार्थ O Partha; व्यपाश्रित्य taking refuge in; ये who; अपि even; स्युः may be; पापयोनयः of sinful birth; स्त्रियः women; वैश्याः Vaisyas; तथा also; शूद्राः Sudras; ते they; अपि also; यान्ति attain; पराम् the Supreme; गतिम् Goal.Commentary Chandalas or outcastes are of a sinful birth. Women and Sudras are darred by social rules from the study of the Vedas. What is wanted is devotion. There is no need for family traditions. The elephant Gajendra remembered Me with devotion and attained Me in spite of his being an animal. The lowest of the low and the vilest of the vile can attain Me if they have faith and devotion; if they sing and repeat My Name and if they think of Me always and think of no worldy object.Prahlada was a demon and yet by his devotion forced Me to incarnate as Narasimha. Birth is immaterial. Devotion is everything. The Gopis attained Me through their devotion. Kamsa and Ravana attained Me through fear. Sisupala reached Me through hatred. Narada; Dhruva; Akrura; Suka; Sanatkumara and others attined Me through their devotion. Nandan; a man of low caste but a great devotee of Lord Siva; had direct vision of the Lord in Chidambaram in South India. Raidas; a cobbler; was a great devotee. In the spiritual life or in the Adhyatmic sphere all the external distinctions of caste; colour and creed disappear altogether. Shabari; though a Bhilni (a tribe) by birth; was a great devotee of Lord Rama.Hindu scriptures are full of such instances. Hinduism does not restrict salvation to any one group or section of humanity. All can attain God if they have devotion.
हिन्दी …{Loading}…
रामसुखदासः - अनुवादः
।।9.32।। हे पृथानन्दन ! जो भी पापयोनिवाले हों तथा जो भी स्त्रियाँ, वैश्य और शूद्र हों, वे भी सर्वथा मेरे शरण होकर निःसन्देह परमगतिको प्राप्त हो जाते हैं।
रामसुखदासः - टीका
।।9.32।।***व्याख्या–’*मां हि पार्थ व्यपाश्रित्य ৷৷. यान्ति परां गतिम्’–**जिनके इस जन्ममें आचरण खराब हैं अर्थात् जो इस जन्मका पापी है, उसको भगवान्ने तीसवें श्लोकमें ‘दुराचारी’ कहा है। जिनके पूर्वजन्ममें आचरण खराब थे अर्थात् जो पूर्वजन्मके पापी हैं और अपने पुराने पापोंका फल भोगनेके लिये नीच योनियोंमें पैदा हुए हैं, उनको भगवान्ने यहाँ ‘पापयोनि’ कहा है।
यहाँ ‘पापयोनि’ शब्द ऐसा व्यापक है, जिसमें असुर, राक्षस, पशु, पक्षी आदि सभी लिये जा सकते हैं (टिप्पणी प₀ 526) और ये सभी भगवद्भक्तिके अधिकारी माने जाते हैं। शाण्डिल्य ऋषिने कहा है –’आनिन्द्ययोन्यधिक्रियते पारम्पर्यात् सामान्यवत्। ‘ (शाण्डिल्य-भक्तिसूत्र 78) अर्थात् जैसे दया, क्षमा, उदारता आदि सामान्य धर्मोंके मात्र मनुष्य अधिकारी हैं, ऐसे ही भगवद्भक्तिके नीची-से-नीची योनिसे लेकर ऊँची-से-उँची योनितकके सब प्राणी अधिकारी हैं। इसका कारण यह है कि मात्र जीव भगवान्के अंश होनेसे भगवान्की तरफ चलनेमें, भगवान्की भक्ति करनेमें, भगवान्के सम्मुख होनेमें अनधिकारी नहीं हैं। प्राणियोंकी योग्यताअयोग्यता आदि तो सांसारिक कार्योंमें हैं क्योंकि ये योग्यता आदि बाह्य हैं और मिली हुई हैं तथा बिछुड़नेवाली हैं। इसलिये भगवान्के साथ सम्बन्ध जोड़नेमें योग्यताअयोग्यता कोई कारण नहीं है अर्थात् जिसमें योग्यता है, वह भगवान्में लग सकता है और जिसमें अयोग्यता है, वह भगवान्में नहीं लग सकता – यह कोई कारण नहीं है। प्राणी स्वयं भगवान्के हैं अतः सभी भगवान्के सम्मुख हो सकते हैं। तात्पर्य हुआ कि जो हृदयसे भगवान्को चाहते हैं, वे सभी भगवद्भक्तिके अधिकारी हैं। ऐसे पापयोनिवाले भी भगवान्के शरण होकर परमगतिको प्राप्त हो जाते हैं, परम पवित्र हो जाते हैं।
चिन्मयानन्दः
।।9.32।। पूर्व के श्लोकद्वय की व्याख्या और परिशिष्ट के रूप में; भगवान् आगे कहते हैं कि बाह्य जगत् की प्रतिकूल परिस्थितियों के दुष्प्रभाव के वशीभूत हुए केवल दुराचारी लोग ही ईश्वर के अखण्ड स्मरण से बन्धमुक्त हो जाते हों; ऐसी बात नहीं है। जो लोग जन्म से ही मानसिक और बौद्धिक क्षमताओं की कमी एवं आंतरिक दुर्व्यवस्था के शिकार हैं; वे ही आत्मा के अखण्ड स्मरण की इस साधना से अन्तकरण को शुद्ध एवं सुसंगठित कर सकते हैं। इसमें कोई सन्देह नहीं कि श्रुति; स्मृति और पुराणों में ऐसी उक्तियाँ हैं; जो इस श्लोक की भाषा के समान ही प्रतीत होती हैं। स्त्रियों; वैश्यों और शूद्रों को पापयोनि में जन्मे हुए कहकर उनकी निन्दा करने का अर्थ यह होगा कि धर्म का इष्ट प्रभाव समाज के केवल कुछ मुट्ठी भर लोगों पर ही है। ऐसा समझना माने प्रारम्भ से भगवान् श्रीकृष्ण जिस सिद्धांत का प्रतिपादन बारम्बार बल देकर कर रहे हैं; उस सबको नकारना हैं। इसलिए; यहाँ भगवान् श्रीकृष्ण के शब्दों के वास्तविक अभिप्राय को हमें समझना होगा। धर्म की साधना न शारीरिक विकास के लिए है और न ही शरीर के द्वारा पूर्ण करने योग्य है। विकास की जिस उन्नति को धर्म लक्ष्य के रूप में इंगित करता है; उसमें शरीर के लिंग; जाति आदि से किञ्चिन्मात्र प्रयोजन नहीं है। आध्यात्मिक साधनाओं का प्रयोजन मन और बुद्धि को सुगठित करना है; जो विकास की अपनी परिपक्व अवस्था में स्वयं स्थिर हो जाती है; और; फिर; आत्मा सर्वोपाधिविनिर्मुक्त होकर स्वमहिमा में प्रतिष्ठित रहता है। अत यहाँ प्रयुक्त स्त्रियादि शब्दों से तात्पर्य अन्तकरण के कुछ विशेष गुणों से समझना चाहिए जो समयसमय पर विभिन्न व्यक्तियों में विभिन्न तारतम्य में व्यक्त होते हैं। स्त्रियों से तात्पर्य स्त्री के समान मन से है। ऐसे मन के लोग अत्यन्त भावुक प्रवृत्ति के होते हैं तथा जगत् की वस्तुओं में उनकी अत्यधिक आसक्ति होती है। इसी प्रकार; समाज में अनेक लोग अपने विचारों एवं कर्मों में व्यापारिक वृत्ति के होते हैं। ये लोग अपने आन्तरिक मानसिक जीवन में वैश्य के समान रहते हैं वे सदा इसकी ही गणना और चिन्ता करते रहते हैं कि ईश्वर स्मरण आदि में वे मन की जो पूँजी लगा रहे हैं; उससे उन्हें क्या लाभ होगा। ऐसी गणना करने वाला और सदा अधिकाधिक लाभ की आशा लगाये रहने वाला मन ध्यानयोग के द्वारा विकसित होने योग्य नहीं होता है। मन को स्थिर करके क्षणभर के लिए सारभूत अनन्तस्वरूप में जीवन्त रहने का एकमात्र उपाय है सब कर्मों को ईश्वरार्पण कर देना। इस प्रकार; जब अध्यात्मशास्त्र में वैश्यों की निन्दा की जाती है; तो; वास्तव में; यह हमारे मन की वैश्य वृत्ति की निन्दा समझनी चाहिए। ऐसी वृत्ति का पुरुष इस दिव्य मार्ग पर प्रगति की आशा नहीं कर सकता है। अन्त में; शूद्र शब्द के द्वारा आलस्य; निद्रा और प्रमाद जैसी मन की वृत्तियों को दर्शाया गया है। भगवान् श्रीकृष्ण ने अपने युग में सर्वपरिचित शब्दों के उपयोग के द्वारा अन्तकरण के विशेष गुणों को इंगित किया है। इन शब्दों को उपर्युक्त अर्थ में जब हम समझते हैं; तभी इस श्लोक का वास्तविक तात्पर्य समझ में आता है। उनके विपरीत अर्थ करके; गीता को अपनी योग्यता के आधार पर प्राप्त मानव मात्र के धर्मशास्त्र होने की प्रतिष्ठा से नीचे गिराने की आवश्यकता नहीं है। इस श्लोक के द्वारा भगवान् वचन देते हैं कि अनन्य भक्ति तथा आत्मस्वरूप के सतत् निदिध्यासन से न केवल दुराचारी लोग; वरन् जन्म से ही किसी प्रकार की मानसिक और बौद्धिक हीनता के शिकार हुए लोग भी सफलतापूर्वक आध्यात्मिक लक्ष्य को प्राप्त कर सकते हैं। पापयोनि से जन्मे हुए वेदान्त के अनुसार; पाप मन की वह दूषित प्रवृत्ति है; जो उसके भूतकाल के नकारात्मक और दोषपूर्ण जीवन के कारण मन में उत्पन्न हो जाती है। मन की ये कुवासनायें दुर्निवार होती हैं और मनुष्य को बलपूर्वक झूठे आदर्शों का जीवन व्यतीत करने को बाध्य करती हैं। फलत उस व्यक्ति के अपने तथा अन्यों के जीवन में भी भ्रम; अशान्ति और दुर्व्यवस्था उत्पन्न हो जाती है। ये वासनायें ही उपर्युक्त स्त्री; वैश्य और शूद्र वृत्तियों का मूल स्रोत हैं। केवल एक मन्द बुद्धि पंडित में ही वह धृष्टता होगी जो शास्त्रों के वाच्यार्थ के प्रति दृढ़ निष्ठा रखते हुए इस श्लोक की व्याख्या उसी के अनुसार करने की मूर्खता करेगा। ऐसा करने में वह; स्वयं भगवान् श्रीकृष्ण द्वारा परिभाषित वर्णाश्रम धर्म के अर्थ को आराम से भूल जायेगा। संक्षेप में; जब मन इन दुष्प्रवृत्तियों से भरा होता है; तब ऐसे मन वाले व्यक्ति का वेदाध्ययन करना निर्रथक होता है। इस कारण; केवल करुणावश ऋषियों ने उनके लिए वेदाध्ययन का निषेध किया है। इसका अर्थ यह कदापि नहीं था कि ऐसे व्यक्तियों को सदा के लिए अध्ययन से वंचित रखा जाय। इस पवित्र ब्रह्मविद्या का सफल अध्ययन करने हेतु आवश्यक योग्यताओं की प्राप्ति के लिए ही आध्यात्मिक साधनाओं का विधान किया गया है। ऐसी सभी साधनाओं में सबसे अधिक प्रभावशाली साधना है उपासना अर्थात् भक्तिपूर्ण हृदय से ईश्वर का अखण्ड स्मरण करना। वेदान्त का यह घोषणा है कि उपासना के द्वारा मन की शुद्धि होती है। मन की अशुद्धियों अथवा कमजोरियों को यहाँ स्त्रियो वैश्यास्तथा शूद्रा इन शब्दों के द्वारा सूचित किया गया है। एक बार जब ये नकारात्मक प्रवृत्तियाँ समाप्त हो जाती हैं; तब मन में एकाग्रता; अनन्यता और ध्यान की ऊँची उड़ान की क्षमता आ जाती है। इस प्रकार यदि; यात्रा के लिए वाहन पूर्णरूप से तैयार हो जाय; तो गन्तव्य की प्राप्ति शीघ्र ही हो जायेगी। इसलिए भगवान् वचन देते है; वे भी परम गति को प्राप्त होते हैं। भगवान् श्रीकृष्ण अर्जुन को आत्मसाक्षात्कार के मार्ग पर चलने के लिए प्रेरित करते हैं।
तेजोमयानन्दः - अनुवादः
।।9.32।। हे पार्थ ! स्त्री, वैश्य और शूद्र ये जो कोई पापयोनि वाले हों, वे भी मुझ पर आश्रित (मेरे शरण) होकर परम गति को प्राप्त होते हैं।।