04 मया ततमिदम्

विश्वास-प्रस्तुतिः …{Loading}…

+++(वासुदेवेन)+++ मया ततम् इदं सर्वं
जगद् अव्यक्त-मूर्तिना +++(चेतसा)+++।
मत्स्थानि सर्व-भूतानि
न चाहं तेष्व् अवस्थितः॥9.4॥

रामानुजः …{Loading}…

रामानुजः - मूलम्

॥9.4॥इदं चेतनाचेतनात्मकं कृत्स्नं जगद् अव्यक्तमूर्तिना अप्रकाशितस्वरूपेण मया अन्तर्यामिणा ततम्। अस्य जगतो धारणार्थं नियमनार्थं च शेषित्वेन व्याप्तम् इत्यर्थः। यथा अन्तर्यामिब्राह्मणेयः पृथिव्यां तिष्ठन् ৷৷. यं पृथिवी न वेद (ब्र् उ॰ 3।7।3)यम् आत्मनि तिष्ठन् ৷৷. यमात्मा न वेद (श॰ प॰ ब्रा॰ 14।6।5।5।30) इति चेतनाचेतनवस्तुजातैर् अदृष्टेन अन्तर्यामिणा तत्र तत्र व्याप्तिर् उक्ता।

ततो मत्स्थानि सर्वभूतानि सर्वाणि भूतानि मय्य् अन्तर्यामिणि स्थितानि; तत्र एव ब्राह्मणेयस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयति (बृ॰ उ॰ 3।7।3)यस्यात्मा शरीरं य आत्मानमन्तरो यमयति (श॰ प॰ ब्रा॰ 14।6।6।5।30) इति शरीरत्वेन नियाम्यत्वप्रतिपादनात्। तदायत्ते स्थितिनियमने प्रतिपादिते शेषित्वं च; न च अहं तेष्व् अवस्थित्रः अहं तु न तदायत्तस्थितिः; मत्स्थितौ तैर् न कश्चिद् उपकार इत्यर्थः।

वेदान्तदेशिकः

॥9.4॥ एवमध्यायप्रधानार्थस्य प्रापकस्य माहात्म्यमुक्तम् अथ प्राप्यमाहात्म्यद्वाराऽपि तदेव स्थिरीक्रियत इत्यभिप्रायेणाहशृणु तावदिति। इदं सर्वम् इति निर्देशः प्रमाणसिद्धसमस्तवस्तुपर इत्यभिप्रायेणइदं चेतनाचेतनात्मकमित्युक्तम्। अव्यक्तमूर्तिना इत्यस्य विग्रहविषयत्वेऽत्रानुपयोगात्स्वरूपविषयोऽयमौपचारिकः प्रयोग इति दर्शयितुम्अप्रकाशितस्वरूपेणेत्युक्तम्। आकाशवत्सन्निधिमात्ररूपव्याप्तिव्युदासाय बहुप्रमाणसिद्धो व्याप्तिप्रकारःमया इत्यनेनाभिप्रेत इत्याहअन्तर्यामिणेति। उक्तप्रकाराया व्याप्तेः प्रयोजनं तन्निदानं च दर्शयतिअस्येति। अत्र धारणमनन्तरग्रन्थसिद्धम् अत एव नियमनमप्यर्थसिद्धम्। धारणं हि प्रशासनाधीनं श्रूयते। शेषित्वं तु प्रागुक्तं; शरीरित्वेनार्थसिद्धं च। अप्रकाशितस्वरूपत्वेन नियामकत्वेन च सर्वव्याप्तिं श्रुतौ दर्शयतियथेति। पृथिव्युदाहरणं तत्प्रकरणोक्तसर्वाचेतनोपलक्षणार्थम्। उक्तप्रकारव्यापकत्ववशात्मत्स्थानि इत्यनेन जगतः पृथक्सिद्धता निरस्यत इत्यभिप्रायेणाहतत इति। श्रीविश्वरूपादिषु विग्रहाश्रितत्वमपि सर्वस्योच्यते अत्र तु स्वरूपनिष्ठतेत्यपौनरुक्त्याय – मय्यन्तर्यामिणीत्युक्तम्। अनयोर्धारणनियमनयोरपि व्याप्त्या सहाधीततामाह – तत्रैवेति। स्थितिनियमने – स्थितिप्रवृत्ती इत्यर्थः। शरीरशरीरित्ववचनात् धृतिः शेषित्वं च तत्रार्थसिद्धे इत्यभिप्रायेणाहशेषित्वं चेति। मया ततमिदं सर्वम् इत्यभिधायैवन चाहं तेष्ववस्थितः इति वचनं व्याहतम्; यः पृथिव्यां तिष्ठन् इत्यादिश्रुतिविरुद्धं चेत्यत्राहअहं त्विति। मत्स्थानि सर्वभूतानि इति प्रस्तुतप्रकारा स्थितिरत्र निषिध्यते। स भगवः कस्मिन् प्रतिष्ठितः इत्यत्र स्वे महिम्नि यदि वा न महिम्नि [छां.उ.7।24।1] इति हि श्रूयत इति भावः। उक्तं विवृणोतिमत्स्थिताविति। न कश्चिदिति स्वरूपतः सङ्कल्पादृष्टादिना वेति भावः।

मत्स्थानिन च मत्स्थानि इत्येतद्व्याहतमित्यत्राह – न घटादीनामिति। मूर्त हि मूर्तान्तरं पतनप्रतिघातिना संयोगेन धारयति न तथाऽत्रेति भावः। लोकदृष्टविपरीतं न सम्भवतीत्यभिप्रायेण शङ्कतेकथमिति। शरीरशरीरिणोरिव सम्भवमभिप्रेत्याहमत्सङ्कल्पेनेति। स्वेच्छाधीनधारकत्वं हि विहितम्। अस्वतन्त्रतया धारकत्वं तु निषिध्यत इत्यविरोध इति भावः। ऐश्वरम् इत्यनेनानन्यसाधारणत्वं फलितम्। पश्य इत्यनेन चाश्चर्यता द्योतितेत्यभिप्रायेणाहअन्यत्रेति। योगः सन्नहनोपायध्यानसङ्गतियुक्तिषु [अमरः3।3।22] इति पाठात्सङ्कल्परूपं ध्यानमिह योगः; युज्यमानस्वभावादिर्वा। पश्य मे योगम् इत्युक्ते योगस्वरूपमेवानन्तरं वक्तव्यमिति तदाकाङ्क्षा दर्शयतिकोऽसाविति। भूतभृन्न च भूतस्थः इत्यत्रार्थौचित्यादहमित्येव विशेष्यम्। अथवाभूतभावनः इतिवत्ममात्मा इति निर्दिष्टसङ्कल्पविशेषणत्वेऽपि फलितकथनंसर्वेषां भूतानां भर्ताऽहमित्यादि। आत्मा इति विशेषनिर्देशः परिसङ्ख्यानयात्तदतिरिक्तसहकारिव्यवच्छेदार्थ इत्यभिप्रायेणाहममात्मैवेति। ममात्मा इति व्यधिकरणनिर्देशस्वारस्यसिद्धमात्मशब्दार्थमाहमम मनोमयः सङ्कल्प इति। एतेन देहादिसङ्घातेऽहङ्कारमध्यारोप्य लोकबुद्ध्यनुसारेणममात्मा इति व्यपदेश इतिशङ्करोक्तं प्रत्युक्तम्। सङ्कल्प एव मनःकार्यतयाऽन्यत्र प्रसिद्धो मनःप्रतिपादकेनात्मशब्देनात्र व्यपदिष्टः। यद्वा आत्मशब्दोऽत्र सङ्कल्परूपमनःपर एव;मनसैव जगत्सृष्टिं [वि.पु.5।22।15]मनोऽकुरुत (आत्मन्वी) स्यामिति [बृ.उ.1।2।1] इत्यादेः। तदर्थज्ञापनाय तु मनोमयशब्दः। धारणनियमनयोरेव प्रकृतत्वात्; अनन्तरश्लोके च निर्दिश्यमानत्वात्; सृष्टेश्च ततोऽप्यनन्तरं वक्ष्यमाणत्वादत्रभूतभावनः इत्येतत्सत्तातादधीन्यनियमनाद्युपलक्षणमित्यभिप्रायेणाहधारयिता नियन्ता चेति। अथवाभूतभृन्न च भूतस्थः इत्यस्यैवायमर्थः।

आदिदेवानन्दः

9.4 This ’entire universe,’ composed to sentient and non-sentient beings, is pervaded by Me, the inner controller, whose ‘form is not manifest,’ namely, whose essential nature is unmanifest. The meaning is that all this is pervaded by Me, the Principal (Sesi), so that I may sustain and rule this universe. This, the pervasion of all by the inner controller, who is invisible to the entire group of sentient and non-sentient beings, is taught in the following passage of the Antaryami-brahmana: ‘He who dwells in the earth ৷৷. whom the earth ‘does not know’ (Br. U., 3.7.3) and ‘He who dwells in the self ৷৷. whom the self does not know etc.,’ (Br. U. Madh., 3.7.22). Therefore ‘all beings abide in Me’; all beings rest in Me who am their inner controller. In the same Brahmana it is taught that their existence and control are dependent on Him, as they are subject to His control and as they constitute His body: ‘He whose body is the earth ৷৷. who controls the earth from within’ (Br. U., 3.7.3) and ‘He whose body is the self ৷৷. He who controls the self from within’ (Br. U. Madh., 3.7.22). So also His primacy over everything is taught. ‘I am not in them,’ namely, I do not ‘depend’ on them for My existence. There is no help derived from them for My existence.

शङ्करः …{Loading}…

शङ्करः - मूलम्

॥9.4॥ –,मया मम यः परो भावः तेन ततं व्याप्तं सर्वम् इदं जगत् अव्यक्तमूर्तिना न व्यक्ता मूर्तिः स्वरूपं यस्य मम सोऽहमव्यक्तमूर्तिः तेन मया अव्यक्तमूर्तिना; करणगोचरस्वरूपेण इत्यर्थः। तस्मिन् मयि अव्यक्तमूर्तौ स्थितानि मत्स्थानि; सर्वभूतानि ब्रह्मादीनि स्तम्बपर्यन्तानि। न हि निरात्मकं किञ्चित् भूतं व्यवहाराय अवकल्पते। अतः मत्स्थानि मया आत्मना आत्मवत्त्वेन स्थितानि; अतः मयि स्थितानि इति उच्यन्ते। तेषां भूतानाम् अहमेव आत्मा इत्यतः तेषु स्थितः इति मूढबुद्धीनां अवभासते अतः ब्रवीमि – न च अहं तेषु भूतेषु अवस्थितः; मूर्तवत् संश्लेषाभावेन आकाशस्यापि अन्तरतमो हि अहम्। न हि असंसर्गि वस्तु क्वचित् आधेयभावेन अवस्थितं भवति॥ अत एव असंसर्गित्वात् मम –,

गम्भीरानन्दः

9.4 Idam, this; sarvam, whole; jagat, world; is tatam, pervaded; maya, by Me; through the supreme nature, that I have, avyakta-murtina, in My unmanifest form, in that form in which My nature is not manifest, i.e. in My form which is beyond the range of the organs. Sarva-bhutani, all beings, from Brahma to a clump of grass; matsthani, exist in Me, are established in Me in that unmanifest form. For, no created thing that is bereft of the Self (i.e. of Reality) can be conceived of as an object of practical use. Therefore, being possessed of their reality through Me who am their Self, they exist in Me. Hence they are said to be established in Me. I Myself am the Self of those created things. Conseently, it appears to people of little understanding that I dwell in them. Hence I say: Na ca aham, but I am not; avasthitah, contained; tesu, in them, in the created things. Since unlike gross objects I am not in contact with anything, therefore I am certainly the inmost core even of space. For, a thing that has no contact with anything cannot exist like something contained in a receptacle. For this very reason that I am not in contact with anyting-

हरिकृष्णदासः

॥9.4॥ इस प्रकार ज्ञानकी प्रशंसाद्वारा अर्जुनको सम्मुख करके कहते हैं –, मुझ अव्यक्तरूप परमात्माद्वारा अर्थात् मेरा जो परमभाव है; जिसका स्वरूप प्रत्यक्ष नहीं है यानी मन; बुद्धि और इन्द्रियोंका विषय नहीं है; ऐसे मुझ अव्यक्तमूर्तिद्वारा यह समस्त जगत् व्याप्त है – परिपूर्ण है। उस अव्यक्तस्वरूप मुझ परमात्मामें ब्रह्मासे लेकर स्तम्बपर्यन्त समस्त प्राणी स्थित हैं। क्योंकि कोई भी निर्जीव प्राणी व्यवहारके योग्य नहीं समझा जाता। अतः वे सब मुझमें स्थित हैं अर्थात् मुझ परमात्मासे ही आत्मवान् हो रहे हैं; इसलिये मुझमें स्थित कहे जाते हैं। उन भूतोंका वास्तविक स्वरूप मैं ही हूँ इसलिये अज्ञानियोंको ऐसी प्रतीति होती है कि मैं उनमें स्थित हूँ; अतः कहता हूँ कि मैं उन भूतोंमें स्थित नहीं हूँ। क्योंकि साकार वस्तुओंकी भाँति मुझमें संसर्गदोष नहीं है। इसलिये मैं बिना संसर्गके सूक्ष्मभावसे आकाशके भी अन्तर्व्यापी हूँ। सङ्गहीन वस्तु कहीं भी आधेयभावसे स्थित नहीं होती; यह प्रसिद्ध है।

आनन्दगिरिः

॥9.4॥ स्तुतिनिन्दाभ्यां ज्ञाननिष्ठां महीकृत्य ज्ञानं व्याख्यातुमारभते – स्तुत्येति। सोपाधिकस्य व्याप्त्यसंभवमभिप्रेत्य विशिनष्टि – ममेति। अनवच्छिन्नस्य भगवद्रूपस्य निरुपाधिकत्वमेव साधयति – करणेति। व्याप्यव्यापकत्वेन जगतो भगवतश्च परिच्छेदमाशङ्क्याह – तस्मिन्निति। तथापि भगवतो भूतानां चाधाराधेयत्वेन भेदः स्यादित्याशङ्क्याह – नहीति। निरात्मकस्य व्यवहारानर्हत्वे फलितमाह – अत इति। ईश्वरस्य भूतात्मत्वे तेषु स्थितिः स्यादित्याशङ्क्याह – तेषामिति। तस्य तेषु स्थित्यभावं व्यवस्थापयति – मूर्तवदिति। संश्लेषाभावेऽपि किमिति नाधेयत्वमत आह – नहीति।

नीलकण्ठः

॥9.4॥ एवं स्तुत्यादिमुखीकृत्य यद्वक्तव्यं तदाह – मयेति। मया इदं सर्वं जगत् ततं व्याप्तं उपादानत्वात् कनकेनेव कुण्डलादीनि। ननु प्रागेवैतदुक्तंअहं सर्वस्य जगतः प्रभवः प्रलयस्तथा इति। तथा चराजविद्या इत्यादिस्तुतिरस्थाने एव कृता स्यात्। वक्तव्यविशेषाभावादितिचेत्। अत्र ब्रूमः। यथायतो वा इमानि भूतानि जायन्ते। येन जातानि जीवन्ति। यत्प्रयन्त्यभिसंविशन्ति। तद्विजिज्ञासस्व। तद्ब्रह्मेति इति ज्ञेयस्य ब्रह्मणो लक्षणं जगज्जन्मादिहेतुत्वमुक्त्वा तस्यानुगमं अन्नादिशब्दशब्दितेषु विराडादिषु दर्शयतिअन्नाद्ध्येव खल्विमानि भूतानि जायन्ते प्राणाद्ध्येव इत्यादिना। तस्य निर्णयवाक्यं तुआनन्दाद्ध्येव खल्विमानि भूतानि जायन्ते इतिसैषा भार्गवी वारुणी विद्या इति तत्रैव विद्यायाः पर्यवसानाभिधानात्; एवमिहापि सप्तमेभूमिरापोऽनलो वायुः इत्यादिना सर्वभूतात्मकस्य विराजो जगज्जन्मादिहेतुत्वं प्रदर्श्य पश्चात्अहं सर्वस्य जगतः प्रभवः प्रलयस्तथा इत्यनेन मायाशबलेऽपि तत्प्रदर्श्य इदानीं शुद्धे प्रत्यगात्मन्येव तद्दर्शयति स्थूलारुन्धतीन्यायेन प्रतिपत्तिसौकर्यार्थमिति गम्यते। राजविद्येत्यादिना स्तुतत्वात्। यथा कश्चिद्दुर्लक्ष्यां सूक्ष्मामरुन्धतीं दिदर्शयिषुस्तत्समीपस्थां स्थूलां तारामरुन्धतीति ग्राहयति; प्रतिपद्यते चानेनैव क्रमेण प्रतिपत्ता; एवमिहापि कार्यकारणप्रतिपत्तिद्वारा अकार्यकारणस्य शुद्धस्य प्रतिपत्तिर्युक्ता। अतएव भगवान्भाष्यकारो मया ततमिदं सर्वमित्यत्र मया मम यः परो भावस्तेन ततं व्याप्तमिति व्याचख्यौ। नत्वहं सर्वस्य जगतः प्रभव इत्यत्र मम यः परो भावः स सर्वस्य जगतः प्रभव इति। सच भागवतः कारणात्मनः परो भावः परमानन्द एव तेनैव चेदं ततम्। आनन्दाद्ध्येवेत्युदाहृतश्रुतेस्तस्यैव जगदुपादानत्वेन तदीयसत्तास्फूर्तिभ्यां जगतो व्याप्तत्वात्। ,अतएवाव्यक्तमूर्तिनेति विशेषणम्। मायाशबलं हि कारणं बुद्धिग्राह्यत्वात्करणगोचरः; शुद्धं हि बुद्धेः परत्वाकरणागोचर इति। किंभूताकारेणानन्दः परिणमत इत्यत आह – मत्स्थानीति। मयि प्रत्यगानन्दे रज्ज्वां स्रक्सर्पदण्डधारादय इव सर्वभूतानि स्थितानि अतो मत्स्थानीत्युपचारादुच्यन्ते। अधिष्ठानाध्यस्तयोर्वास्तवसंबन्धायोगात्। एतदेवाह – न चेति। नचाहं परमानन्दस्तेषु भूतेष्ववस्थितोऽस्मि घटादाविव मृत्। अपरिणामित्वादेव।

धनपतिः

॥9.4॥ एवमन्ययमुखेन व्यतिरेकमुखेन च ज्ञानं स्तुत्वा श्रोतारमभिमुखीकृत्य तत्स्वरुपमाह – मयेति। मया परमात्मना सच्चिदानन्दघनेनाव्यक्तमूर्तिना न व्यक्ता इन्द्रियागोचरा मूर्तिः स्वरुपं यस्य मम तेन मया इदं सर्वं जगत् ब्रह्मदिस्तम्बपर्यन्तं,चराचरात्मकं ततं व्याप्तं शुक्त्या तत्र कल्पितं रुप्यमिव; अतएवाव्यक्तस्वरुपे सच्चिदान्दघने परमात्मनि अधिष्ठानरुपे मयि स्थितानि कल्पितानि सर्वभूतानि। अधिष्ठानमेव हि अध्यस्तस्य स्वरुपं भवति। नहि रुपयस्य शुक्त्यतिरिक्तं स्वरुपं केनचिन्निरुपयितुं शक्यम्। अहं च तेषामधिष्टानत्वादात्मनि स्वरुपभूते मयि सर्वाणि भूतानि स्थितानि नान्यत्रेत्यर्थः। तेषामात्मत्वेन परमात्मापि तेष्ववस्थित इति मूर्खणामवभासतेऽतो ब्रवीमि। नचाहं तेषु मयि कल्पितेषु सर्वभूतेष्ववस्थितः। अमूर्तस्य मम केनापि संबन्धेन तत्रावस्थिरेतनिरुपणत्।

मधुसूदन-सरस्वती

॥9.4॥ तदेवं वक्तव्यतया प्रतिज्ञातस्य ज्ञानस्य विधिमुखेनेतरनिषेधमुखेन च स्तुत्याभिमुखीकृतमर्जुनं प्रति तदेवाह द्वाभ्याम् – इदं जगत्सर्वं भूतभौतिकतत्कारणरूपं दृश्यजातं मदज्ञानकल्पितं मयाधिष्ठानेन परमार्थसत्ता सद्रूपेण स्फुरणरूपेण च ततं व्याप्तं रज्जुखण्डेनेव तदज्ञानकल्पितं सर्पधारादि। त्वया वासुदेवेन परिच्छिन्नेन सर्वं जगत्कथं व्याप्तं प्रत्यक्षविरोधादिति; नेत्याह – अव्यक्ता सर्वकरणागोचरीभूता स्वप्रकाशाद्वयचैतन्यसदानन्दरूपा मूर्तिर्यस्य तेन मया व्याप्तमिदं सर्वं न त्वनेन देहेनेत्यर्थः। अतएव सन्तीव स्फुरन्तीव मद्रूपेण स्थितानि मत्स्थानि सर्वभूतानि स्थावराणि जङ्गमानि च। परमार्थतस्तु नच नैवाहं तेषु कल्पितेषु भूतेष्ववस्थितः। कल्पिताकल्पितयोः संबन्धायोगात्। अतएवोक्तं यत्र यदध्यस्तं तत्कृतेन गुणेन दोषेण वाणुमात्रेणापि न स संबध्यत इति।

रामरायः - ४

मयेति। इदं सर्वं जगदव्यक्तमूर्तिना मया ततम्। सर्वभूतानि मत्स्थानि भवन्ति। अहं तेषु न चावस्थितः। भावः स्वरूपम्। ईश्वरस्य परमपरं चेति स्वरूपद्वयमस्ति। तत्र परं स्वरूपं ब्रह्म सच्चिदानन्दम् , अपरं तु आध्यासिकमोङ्कारादिरूपं बहुविधम्। तत्र परेण भावेन जगतो व्याप्तिरित्याह— ममेत्यादि। मया प्रत्यगभिन्नेन परमात्मनेति यावत्। ततमिति। परमात्मनः सच्चिदानन्दरूपत्वात् तेनैव रूपेण व्याप्तं जगदिदं सर्वम् , जगदस्ति, जगद्भाति, जगत्प्रियमिति प्रतीतिभिर्जगति सच्चिदानन्दान्वयदर्शनात्। जगति परमात्मा- व्याप्तौ तु नैताः प्रतीतय उपपद्येरन्। कार्ये हि घटे कारणमृदंशव्याप्त्यैव हि मृद्घट इति प्रतीतिः। जगतश्च ब्रह्मकार्यत्वं स्पष्टम्। कीदृशस्तव परो भावः? अत आह— अव्यक्तमूर्तिनेति। यदि मनइन्द्रियात्मककरणगोचरस्तर्हीदृश इति वक्तुं शक्येत, न तु तथा करणगोचर इति नास्त्यस्मिन्नीदृक्ता, निर्विशेषचिन्मात्रत्वात्। करणगोचरेण सच्चिदानन्दात्मकेन मम परस्वरूपेण जगदिदं सर्वं व्याप्तमिति निष्कृष्टार्थः। करणागोचरत्वं चास्य ‘यतो वाचो निवर्तन्ते। अप्राप्य मनसा सह’ इत्यादिश्रुतिसिद्धम्। न चानन्दः मनःकरणगोचर इति वाच्यम् , वैषयिकसुखस्यैव तद्गोचरत्वादिति। तस्मिन् पूर्वोक्ते सच्चिदानन्दरूपे ब्रह्मणि मयि ब्रह्मादीनि सर्वाणि भूतानि कार्यकरणसंघातात्मकानि स्थितानि, रज्जौ सर्पवदित्यर्थः। मय्येव भूतानां मायया कल्पितत्वादिति भावः। कुतस्त्वयि स्थितानीत्यत आह— न हीति। निरधिष्ठानभ्रमायोगाद् भ्रमस्य चाधिष्ठानात्मकत्वान्निरात्मकं किञ्चिदपि वस्तु न व्यवहारयोग्यं भवति। अन्यथा शशशृङ्गादेरपि व्यवहारार्हत्वापत्तेरिति भावः। निरात्मकं निस्तत्त्वं स्वरूपशून्यमिति यावत्। शशशृङ्गादिरूपमिति भावः। न च रज्जुसर्पादिरूपमिति वाच्यम् , रज्जुस्वरूपेणैव रज्जुसर्पस्य स्वरूपवत्त्वेन भ्रमस्य सर्पाधिष्ठानभूतरज्ज्वात्मत्वेन सात्मकत्वात्। भ्रमस्य ह्यधिष्ठानमेव स्वरूपम् , अधिष्ठानातिरिक्तस्वरूपाभावात्। न चायं न्यायो भ्रमस्थले एव, किन्तु कार्यमात्रेऽपि - मृत्कार्यस्य घटस्य स्वाधिष्ठानमृद्रूपातिरिक्तरूपाभावेऽपि मृद्रूपेणैव सरूपत्वदर्शनात्। तस्माद् भ्रमरूपं प्रमारूपं वा सर्वमपि कार्यं स्वाधिष्ठानभूतकारणा- त्मकत्वेन न निरात्मकम् , किन्तु शशशृङ्गादिकमेव निरात्मकमिति स्थितम्। कार्यस्य च कारणमेवाधिष्ठानं मृद्येव घटदर्शनादिति च स्थितम्। एवं सति सर्वेषां ब्रह्मादिस्तम्बपर्यन्तानां भूतानां ब्रह्मकार्यत्वाद् ब्रह्मण्येव स्थितिः। ब्रह्माधिष्ठानत्वाच्च ब्रह्मात्मकत्वं, ब्रह्मात्मकत्वादेव व्यवहारयोग्यत्वमिति सिद्धम्। तथा च व्यवहारयोग्यानां ब्रह्मकार्याणां ब्रह्मात्मकानां चामीषां भूतानां ब्रह्मणि स्थितिरुचिता, जलाहरणादियोग्यस्य मृत्कार्यस्य मृदात्मकस्य घटस्य मृदि स्थितिवदिति भावः।

[[४५९]]

अत इति। व्यवहारयोग्यस्य जगतः सात्मकत्वेन भाव्यत्वादित्यर्थः। ननु कुण्डे बदराणामिव कारणे मृदादौ कार्यस्य घटादेः स्थित्यदर्शनात् कथं भूतानां त्वत्स्थत्वम्? अत आह— मयेति। आत्मना स्वरूपभूतेन मया भूतानाम् आत्मवत्त्वेन स्वरूपवत्त्वेन हेतुना स्थितान्यासन्नित्यतो हेतोर्मयि स्थितानीत्युच्यन्ते। यथा मृत्स्वरूपेणैव स्वरूपवत्त्वाद् घटस्य मृदि स्थितत्वं, तथा मत्स्वरूपेणैव स्वरूपवत्त्वाद् भूतानां मयि स्थितत्वमिति भावः।

न चानृतजडदुःखात्मकानां भूतानां कथं परमात्मस्वरूपत्वमिति वाच्यम् , सर्पस्य रज्जुस्वरूपत्वदर्शनात् , नैल्यस्य गगन- स्वरूपत्वदर्शनात् , उदकस्य किरणस्वरूपत्वदर्शनाच्च सच्चिदानन्दलक्षणपरमात्मस्वरूपस्य भूतेष्वप्यन्वयदर्शनाच्च, मृदंशातिरिक्त- घटस्येव सच्चिदानन्दांशातिरिक्तभूतपदवाच्यस्यादर्शनाच्च सच्चिदानन्दात्मकान्येव भूतानि। तेषु च भूतेषूपलभ्यमानोऽनृताद्यंशो मायाकार्यम् , नामाकारौ च मायाकार्यमेव। मृदि कम्बुग्रीवाद्याकारघटनाम्नोरिव ब्रह्मणि मनुष्यत्वाद्याकारमनुष्यादिनाम्नां मायया कल्पितत्वात्। तत्रापि नामाकारयोर्वर्तमानः सत्ताद्यंशो ब्रह्मधर्म एवेति नामाकारयोरप्यस्ति ब्रह्मात्मकत्वम्। तस्माद् युक्तमुक्तं सच्चिदानन्दांशातिरिक्तं भूतपदवाच्यं किमपि वस्तु नास्तीति।

एवं भूतानां सच्चिदानन्दब्रह्मात्मकत्वेन ब्रह्मणि स्थितत्वमुचितम्। एवं सर्वस्य ब्रह्मात्मकत्वादेव ‘सर्वं ब्रह्म’ इति श्रुत्युपपत्तिः। ‘वासुदेवः सर्व’मिति गीतोपपत्तिश्च। न चैवं ‘ब्रह्म सत्यं जगन्मिथ्या’ इत्यस्य विरोध इति वाच्यम् ; जगतः स्वेन रूपेण मिथ्यात्वात् , कारणभूतब्रह्मरूपेण सत्यत्वाच्च। यथा घटः स्वेन रूपेणासत्योऽपि कारणमृद्रूपेण सत्यः। उक्तं हि श्रुत्या— ‘वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्य’मिति।

[[४६०]]

एवं मृदात्मकानां घटानां यथा मृदेव स्वरूपम् , तथा ब्रह्मात्मकानां भूतानां ब्रह्मैव स्वरूपमिति भूतानामात्मा ब्रह्म; आत्मा हि स्वरूपम्। एवं भूतानामात्मत्वादेव ब्रह्म भूतेषु स्थितम्। यथा घटानामात्मा मृदंशो घटेषु स्थित इत्याह— तेषामित्यादि। इतीति। भूतानामात्मत्वाद्भूतेष्वहं स्थित इति इतिशब्दार्थः। मूढबुद्धीनाम् अल्पज्ञानाम् अवभासते प्रतिभाति। एवंविधभ्रान्तिज्ञानवन्तस्ते इत्यर्थः। अतः एवं मूढानामवभासमानत्वादित्यर्थः। ब्रवीमि तद्भ्रान्तिनिरासार्थमिति भावः। अहं तेषु भूतेषु नैवावस्थित इति ब्रवीमि। तत्र हेतुमाह— मूर्तवत्संश्लेषाभावेनेति। पृथिव्यादीनां मूर्तत्वात् परस्परं संश्लेषोऽस्तीति पृथिव्यां जलं, जले पृथिवी वा वर्तत इति यथा वक्तुं शक्यते, तथा नाहं क्वचिद् वर्त इति वक्तुं शक्यः, अमूर्तत्वादिति भावः। नन्वमूर्तोऽप्याकाशो घटेऽस्ति, घटश्चाकाश इत्यमूर्तस्याप्यस्ति संश्लेषः खलु मूर्तेनेत्यत आह— आकाशादप्यत्यन्तं विलक्षणतमो ह्यहमिति। सुतराममूर्तश्चेदाकाशश्चक्षुरिन्द्रिया- विषय एव स्यात् , तथा अविषयत्वे ‘अयमाकाशः’ इति प्रतीतिरेव न स्यात्। 1दृश्यते त्वाकाशः।

इदं चाकाशस्य चक्षुर्विषयत्वं स्वावसृष्टप्रकाशप्रयुक्तम् , अथवा स्वावसृष्टतमःप्रयुक्तम्। न हि तमःप्रकाशान्यतरातिरिक्तः कश्चनाकाश इति पदार्थः केनापि दृश्यते। तदेवं वस्तुतोऽमूर्तत्वेऽपि तमःप्रकाशान्यतरसंश्लेषेण मूर्तत्वादाकाशस्य भवेदेव घटेन संश्लेषः। न चामूर्तस्याकाशस्य तमःप्रकाशसंश्लेषो वा कथमिति वाच्यम् ; तमःप्रकाशाभिव्याप्तत्वस्यैव तमःप्रकाशसंश्लेषत्वात्। सा चाभिव्याप्तिः प्रत्यक्षसिद्धेति न तत्रातिशङ्क्यम्। तस्मादाकाशस्य तमःप्रकाशान्यतराभिव्याप्तेरपरिहार्यायाः सत्त्वेन मूर्तत्वाद् भवेदेव घटेन संश्लेषः। न तथा मम सुतराममूर्तस्य। एवमाकाशस्यापि घटादिसङ्गसद्भावादेवासङ्गोऽहमकाशादप्यत्यन्तविलक्षणः। न च तवाप्यस्त्यज्ञानसङ्ग इति वाच्यम् ; चैतन्यस्याप्यज्ञानावृतत्वे जगदान्ध्यप्रसङ्गात्। ‘असङ्गो ह्ययं पुरुषः’ इति श्रुतिविरोधाच्च। तस्माद् अज्ञानमप्यसङ्गे मयि असंसृष्टमेव वर्तते, यथा भूतानि। न चात्र विप्रतिपत्तव्यम् , मायया सर्वस्याप्युपपत्तेः।

ननु भवतु तवामूर्तत्वात् केनापि संश्लेषाभावः, किं ततः? अत आह— न हीति। असंसर्गि वस्तु क्वचिदाधेयभावेन स्थितं न हि भवति। आधाराधेयभावस्य संसर्गिवस्तुविषयत्वादिति भावः। क्वचित् कुत्रचिदाधारे इत्यर्थः। आधेयभावेन कुत्रचित् सत्त्वे तस्य तेनैव संसर्गसम्भवेनासंसर्गित्वभङ्गप्रसङ्गादिति भावः।

‘आकाशस्याप्यन्तरतमो ह्यहम्’ इति पाठान्तरम्। तत्पक्षे - नन्वाकाश एवामूर्तः, न त्वमित्यत आह— आकाशस्याप्यन्तर- तम इति। अव्याकृतकार्यत्वात् तावदाकाशस्याव्याकृतमन्तरम् , कारणं हि कार्यस्यान्तरं भवति। कारणव्याप्तत्वात् कार्यस्य। तच्चाव्याकृतं चैतन्यस्योपाधित्वाच्चैतन्येन व्याप्तमेव, यथा आकाशस्योपाधिर्घटः आकाशेन व्याप्तः। व्यापकं हि वस्तु व्याप्यस्यान्तरं भवति। किञ्च चैतन्येऽध्यस्तत्वादपि चैतन्येन व्याप्तमेवाव्याकृतम् , यथा रज्जावध्यस्तः सर्पो रज्जुना2 व्याप्तः। अपि च 3‘यः प्रकृतौ तिष्ठन्नि’त्यन्तर्यामिब्राह्मणमपि चैतन्यस्याव्याकृतान्तःस्थत्वं वदति प्रकृतेरेवाव्याकृतत्वात्। अत एवाव्याकृताच्चैतन्यं परमिति वदति श्रुतिः— ‘अव्यक्तात्पुरुषः परः’ इति। अव्यक्तम् अव्याकृतम् , पुरुषः पूर्णः चैतन्यमेवेति। तस्मादाकाशान्तरस्याप्यव्याकृतस्यान्तर- त्वादाकाशस्यान्तरतमः परमात्मा। तथा च आकाशस्यैवामूर्तत्वे तदन्तरतमस्य परमात्मनश्चैतन्यस्यामूर्तत्वं किं वक्तव्यमिति भावः। न चाव्याकृतस्याप्यन्तर इति कुतो न भाषितमाचार्यैरिति वाच्यम् ; अव्याकृतस्य सर्वजनाविदितत्वात्। अमूर्त आकाश इति सार्वजनीनत्वाच्च आकाशस्याप्यन्तरतम इति भाषितम्। आकाशस्यैवामूर्तत्वे आकाशस्याप्यतिशयेनान्तरः परमात्मा अमूर्त इति किं वक्तव्यमिति भावं द्योतयितुं येऽव्याकृतपदार्थानभिज्ञास्तेषाम्4। न चात्मन आकाशान्तरत्वे विवदितव्यम् , ‘आकाशशरीरं ब्रह्म’ ‘य आकाशे तिष्ठन्नि’त्यादिश्रुतिप्रामाण्यात्। ‘आत्मन आकाशः सम्भूतः’ इति श्रुतेराकाशस्यात्मकार्यत्वेनात्मन आकाशान्तरत्वाच्च।

न चाव्याकृतशरीरस्याव्याकृतकार्यस्य चाकाशस्य कथमात्मशरीरत्वमात्मकार्यत्वं चेति वाच्यम् ; अव्याकृतोपहितस्य ब्रह्मणः शरीरं कार्यं चाकाश इत्यदोषात्। अव्याकृतद्वारा आत्मनः कार्यं शरीरं चाकाश इति वा। आत्मशरीरभूतस्य कार्यभूतस्य चाव्याकृतस्य शरीरभूतं कार्यभूतं चाकाशमात्मनः शरीरभूतं कार्यभूतं च भवत्येव परम्परयेति वा इति।

हिशब्दो हेत्वर्थे। हि यस्मादहमाकाशस्याप्यन्तरतमः, तस्मादिति शेषः। यद्वा हिः प्रसिद्धौ। सा च ‘आकाशशरीरं ब्रह्म’ इत्यादिश्रुतिस्मृतिसिद्धेति भाव इति व्याख्येयम्॥४॥

[[४६१]]

मध्वः …{Loading}…

मध्वः - मूलम्

॥9.4॥ प्रत्यक्षावगमशब्देनापरोक्षज्ञानसाधनत्वमुक्तम्। तज्ज्ञानाद्याह – मयेति। तर्हि किमिति न दृश्यते इत्यत आह – अव्यक्तमूर्तिनेति।

जयतीर्थः

॥9.4॥ एवं तर्हि पुनरुक्तिः स्यात्; ब्रह्मविषयं ज्ञानमित्यस्य ब्रह्मावगम्यते विषयीक्रियतेऽनेन ज्ञानेनेत्यस्य च भेदाभावादित्यत आह – प्रत्यक्षेति। नावगमशब्देन विषयीकरणमुच्यते; किन्तु अवगतिसाधनत्वम्। न च ज्ञानस्य तद्विरुद्धम्; परोक्षज्ञानस्यापरोक्षज्ञानसाधनत्वोपपत्तेरिति भावः। ज्ञानं विज्ञानसहितं प्रवक्ष्यामि इति प्रतिज्ञाययज्ज्ञात्वा [9।1] इत्यादिना तत्प्रशंसादिकमुक्तम्। अतःमया ततं इत्यादिकमपि किं तथाभूतमेव किञ्चिदुत प्रतिज्ञातमुच्यते इति शङ्कायामाह – तदिति। प्रतिज्ञातमित्यर्थः। यस्यापरोक्षज्ञानसाधनत्वमुक्तं तदिति वा। कृत्स्नाध्यायप्रतिपाद्योक्तिरियम्। विशेषणवैयर्थ्यमाशङ्क्याह – तर्हीति। सर्वव्यापी चेदित्यर्थः। न दृश्यते सर्वत्रेति शेषः।

अभिनव-गुप्तः …{Loading}…

अभिनवगुप्तः - मूलम्

॥9.4॥ मयेति। मत्स्थानि सर्वभूतानीति। सुचिरमपि गत्वा अन्यस्य प्रतिष्ठाधाम्नः अविद्यमानत्वात्। भूतरूपबोध्यात्मकप्रसिद्धतदीयजडरूपपुरःसरीकारेण तदवभासे तद्विपरीतबोधस्वभाववर्तिरोधानम्,+++(N तत्तद्विपरीत – )+++ इत्येतदाह – न चाहं तेष्यवस्थितः इति।

शङ्करनारायणः

9.4 Maya etc. All beings exist in Me : Because no other abode of rest is available, even if one wanders [in search of it] for long. The beings (or elements) that form the objects of knowledge possess their well-known nature of insentiency. When these beings manifest with this nature foremost, their other innate nature viz., sentiency, that is opposed to this [former nature], remain hidden. This is what He says by I do not exist in them.

वल्लभः …{Loading}…

वल्लभः - मूलम्

॥9.4॥ एवं ज्ञानं प्रस्तुत्याऽर्जुनमभिमुखीकृत्य स्वस्य महिमज्ञानं पूर्वमुपदिशतिमयेति। अव्यक्तोऽक्षरोऽविरुद्धधर्मप्रकृतिपुरुषात्मकः स्वेच्छया पृथग्भासि (वि) तोऽपि महिमरूपः कालात्मा च स बहिर्मर्यादामार्गाधिदैवतं अध्यात्मस्वरूपं तन्मूर्त्तिना मयाऽन्तर्यामिणा च तदिदं सर्वं चेतनाचेतनात्मकं जगत्प्राकृतं ततम्। अन्तश्चिदन्तर्यामितदङ्घ्रिरूपोऽक्षरश्चाव्यक्तपदवाच्यः इति स्थितमाकरे। स चान्तर्यामी चाहं अन्तर्यामिब्राह्मणे यः पृथिव्यां तिष्ठन्पृथिवी यं न वेद य आत्मनि तिष्ठन्यमात्मा न वेद [बृ.उ.3।7।3] इत्यादि निरूपितम्।

पुरुषोत्तमः

॥9.4॥ एवं प्रतिज्ञाय तत्स्वरूपं च स्तुत्वा ज्ञानमेवाह द्वाभ्याम् – मयेति। अव्यक्तातिरिक्तेषु लौकिकेन्द्रियागोचरा स्वक्रियेच्छैकदृश्या मूर्तिः स्वरूपं यस्य। वक्ष्यति चाग्रेदिव्यं ददामि ते चक्षुः [11।8]भक्त्या त्वनन्यया [11।54] इत्यादि। एतादृशेन मया इदं जगत् सर्वं जडजङ्गमात्मकमातृणस्तम्बान्तं ततं व्याप्तं; मत्क्रीडार्थं मदात्मकं मया सृष्टमित्यर्थः। यद्वा अव्यक्तमूर्तिना मया व्याप्तमिदं सर्वं जगत् अस्तीति शेषः। अयं भावः – आतृणस्तम्बान्तं सर्ववस्तुषु तत्तत्स्वरूपोऽहमेवास्मि; अव्यक्तत्वात्तथा सवैर्न ज्ञायते एवं चेत्सर्वेषु भूतेषु तद्रूपः प्रविष्टो भवानाधिदैविकन्यायेन भविष्यतीत्यत आह – मत्स्थानीति। मत्स्वरूपस्थानि सर्वाणि सन्ति; सर्वाधारत्वात्। क्रीडेच्छया पृथक् तत्तद्रूपं प्रकटयामीति भावः। अपरिच्छिन्नत्वात् प्रकटमपि जगन्मय्येव तिष्ठति। तेषु न च अहम्। तेषु परिच्छिन्नतया न तिष्ठामीत्यर्थः।

श्रीधर-स्वामी …{Loading}…

॥9.4॥ तदेवं वक्तव्यतया प्रस्तुतस्य ज्ञानस्य स्तुत्या श्रोतारमभिमुखीकृत्य तदेव ज्ञानं कथयति – मयेति द्वाभ्याम्। अव्यक्ता अतीन्द्रिया मूर्तिः स्वरूपं यस्य तादृशेन मया कारणभूतेन सर्वमिदं जगत्ततं व्याप्तन्तत्सृष्ट्वा तदेवानुप्राविशत् इति श्रुतेः। अतएव कारणभूते मयि तिष्ठन्तीति मत्स्थानि सर्वाणि चराचराणि भूतानि। एवमपि घटादिषु स्वकार्येषु मृत्तिकेव तेषु भूतेषु नाहमवस्थित आकाशवदसङ्गत्वात्।

English …{Loading}…

आदिदेवानन्दः

9.4 This entire universe is pervaded by Me, in an unmanifest form. All beings abide in Me, but I do not abide in them.

गम्भीरानन्दः

9.4 This whole world is prevaded by Me in My unmanifest form. All beings exist in Me, but I am not contained in them!

पुरोहितस्वामी

9.4 The whole world is pervaded by Me, yet My form is not seen. All living things have their being in Me, yet I am not limited by them.

शङ्करनारायणः

9.4. This entire universe is pervaded by Me, having the unmanifest form (aspect); all beings exist in Me and I do not exist in them.

शिवानन्दः - अनुवादः

9.4 All this world is pervaded by Me in My unmanifest aspect; all beings exist in Me, but I do not dwell in them.

शिवानन्दः - टीका

9.4 मया by Me; ततम् pervaded; इदम् this; सर्वम् all; जगत् world; अव्यक्तमूर्तिना by the unmanifested form; मत्स्थानि exist in Me; सर्वभूतानि all beings; न not; च and; अहम् I; तेषु in them; अवस्थितः placed.Commentary Avyaktamurti is Para Brahman or the Supreme Unmanifested Being invisible to the senses but cognisable through intuition. All beings from Brahma; the Creator; down to the blade of grass or an ant; dwell in the transcendental Para Brahman. They have no independent existence they exist through the Self which is the support for everythin; which underlies them all.Nothing here contains It. As Brahman is the Self of all beings; one may imagine that It dwells in them. But it is not so. How could it be How can the Infinite be contained in a finite object Brahman has no connection or contact with any material object; just as a chair or a table has contact with the ground or a man or a book. So It does not dwell in those beings. That which has no connection or contact with objects or beings cannot be contained anywhere as if in a vessel; trunk; room or receptacle. The Self is not rooted in all these forms. It is not contained by any of these forms just as the ether is not contained in any form though all forms are derived from the ether.All beings appear to be living in Brahman; but this is an illusion. If this illusion vanishes; nothing remains anywhere except Brahman. When ignorance; the cause of this illusion; disappears; the very idea of the existence of these beings also will vanish.In verses 4 and 5 the Lord uses a paradox or an apparent contradiction All beings dwell in Me and yet do not dwell in Me I do not dwell in them. For a thinker there is no real contradiction at all. Just as space contains all beings and yet is not touched by them; so also Para Brahman contains everything and yet is not touched by them. Even Mulaprakriti; the source or womb of this world; is supported by Brahman. Brahman has no support or root. It rests in Its own pristine glory. (Cf.VII.12;24VIII.22)

हिन्दी …{Loading}…

रामसुखदासः - अनुवादः

।।9.4 – 9.5।। यह सब संसार मेरे निराकार स्वरूपसे व्याप्त है। सम्पूर्ण प्राणी मेरेमें स्थित हैं; परन्तु मैं उनमें स्थित नहीं हूँ तथा वे प्राणी भी मुझ में स्थित नहीं हैं – मेरे इस ईश्वर-सम्बन्धी योग-(सामर्थ्य-) को देख ! सम्पूर्ण प्राणियोंको उत्पन्न करनेवाला और उनका धारण, भरण-पोषण करनेवाला मेरा स्वरूप उन प्राणियोंमें स्थित नहीं है।

रामसुखदासः - टीका

।।9.4।।व्याख्या–‘मया ततमिदं सर्वं जगदव्यक्तमूर्तिना’–मन-बुद्धि-इन्द्रियोंसे जिसका ज्ञान होता है, वह भगवान्का व्यक्तरूप है और जो मन-बुद्धि-इन्द्रियोंका विषय नहीं है अर्थात् मन आदि जिसको नहीं जान सकते, वह भगवान्का अव्यक्तरूप है। यहाँ भगवान्ने ‘मया’ पदसे व्यक्त(साकार-) स्वरूप और‘अव्यक्तमूर्तिना’ पदसे अव्यक्त-(निराकार-) स्वरूप बताया है। इसका तात्पर्य है कि भगवान् व्यक्तरूपसे भी हैं और अव्यक्तरूपसे भी हैं। इस प्रकार भगवान्की यहाँ व्यक्त-अव्यक्त (साकार-निराकार) कहनेकी गूढ़ाभिसन्धि समग्ररूपसे है अर्थात् सगुण-निर्गुण, साकार-निराकार आदिका भेद तो सम्प्रदायोंको लेकर है, वास्तवमें परमात्मा एक हैं। ये सगुण-निर्गुण आदि एक ही परमात्माके अलग-अलग विशेषण हैं, अलग-अलग नाम हैं।

गीतामें जहाँ सत्-असत् शरीरशरीरीका वर्णन किया गया है, वहाँ जीवके वास्तविक स्वरूपके लिये आया है–‘येन सर्वमिदं ततम्’ (2। 17) क्योंकि यह परमात्माका साक्षात् अंश होनेसे परमात्माके समान ही सर्वत्र व्यापक है अर्थात् परमात्माके साथ इसका अभेद है। जहाँ सगुणनिराकारकी उपासनाका वर्णन आया है, वहाँ बताया है – येन सर्वमिदं ततम् (8। 22), जहाँ कर्मोंके द्वारा भगवान्का पूजन बताया है, वहाँ भी कहा है–येन सर्वमिदं ततम् (18। 46)। इन सबके साथ एकता करनेके लिये ही भगवान् यहाँ कहते हैं – मया ततमिदं सर्वम्। ‘मतस्थानि सर्वभूतानि’– सम्पूर्ण प्राणी मेरेमें स्थित हैं अर्थात् पराअपरा प्रकृतिरूप सारा जगत् मेरेमें ही स्थित है। वह मेरेको छोड़कर रह ही नहीं सकता। कारण कि सम्पूर्ण प्राणी मेरेसे ही उत्पन्न होते हैं, मेरेमें ही स्थित रहते हैं और मेरेमें ही लीन होते हैं अर्थात् उनका उत्पत्ति, स्थिति और प्रलयरूप जो कुछ परिवर्तन होता है, वह सब मेरेमें ही होता है। अतः वे सब प्राणी मेरेमें स्थित हैं।‘न चाहं तेष्ववस्थितः’– पहले भगवान्ने दो बातें कहीं – पहली ‘मया ततमिदं सर्वं जगदव्यक्तमूर्तिना’ और दूसरी ‘मत्स्थानि सर्वभूतानि। ‘ अब भगवान् इन दोनों बातोंके विरुद्ध दो बातें कहते हैं। पहली बात(मैं सम्पूर्ण जगत्में स्थित हूँ) के विरुद्ध यहाँ कहते हैं कि मैं उनमें स्थित नहीं हूँ। कारण कि यदि मैं उनमें स्थित होता तो उनमें जो परिवर्तन होता है, वह परिवर्तन मेरेमें भी होता उनका नाश होनेसे मेरा भी नाश होता और उनका अभाव होनेसे मेरा भी अभाव होता। तात्पर्य है कि उनका तो परिवर्तन, नाश और अभाव होता है परन्तु मेरेमें कभी किञ्चिन्मात्र भी विकृति नहीं आती। मैं उनमें सब तरहसे व्याप्त रहता हुआ भी उनसे निर्लिप्त हूँ, उनसे सर्वथा सम्बन्धरहित हूँ। मैं तो निर्विकाररूपसे अपनेआपमें ही स्थित हूँ। वास्तवमें मैं उनमें स्थित हूँ – ऐसा कहनेका तात्पर्य यह है कि मेरी सत्तासे ही उनकी सत्ता है, मेरे होनेपनसे ही उनका होनापन है। यदि मैं उनमें न होता, तो जगत्की सत्ता ही नहीं होती। जगत्का होनापन तो मेरी सत्तासे ही दीखता है। इसलिये कहा कि मैं उनमें स्थित हूँ।

‘न च मत्स्थानि भूतानि’ (टिप्पणी प₀ 489) अब भगवान् दूसरी बात(सम्पूर्ण प्राणी मेरेमें स्थित हैं) के विरुद्ध यहाँ कहते हैं कि वे प्राणी मेरेमें स्थित नहीं हैं। कारण कि अगर वे प्राणी मेरेमें स्थित होते तो मैं जैसा निरन्तर निर्विकाररूपसे ज्योंकात्यों रहता हूँ, वैसा संसार भी निर्विकाररूपसे ज्योंकात्यों रहता। मेरा कभी उत्पत्तिविनाश नहीं होता, तो संसारका भी उत्पत्तिविनाश नहीं होता। एक देशमें हूँ और एक देशमें नहीं हूँ, एक कालमें हूँ, और एक कालमें नहीं हूँ, एक व्यक्तिमें हूँ और एक व्यक्तिमें नहीं हूँ – ऐसी परिच्छिन्नता मेरेमें नहीं है, तो संसारमें भी ऐसी परिच्छिन्नता नहीं होती। तात्पर्य है कि निर्विकारता, नित्यता, व्यापकता, अविनाशीपन आदि जैसे मेरेमें हैं, वैसे ही उन प्राणियोंमें भी होते। परन्तु ऐसी बात नहीं है। मेरी स्थिति निरन्तर रहती है और उनकी स्थिति निरन्तर नहीं रहती, तो इससे सिद्ध हुआ कि वे मेरेमें स्थित नहीं हैं। अब उपर्युक्त विधिपरक और निषेधपरक चारों बातोंको दूसरी रीतिसे इस प्रकार समझें। संसारमें परमात्मा हैं और परमात्मामें संसार है तथा परमात्मा संसारमें नहीं हैं और संसार परमात्मामें नहीं है। जैसे, अगर तरंगकी सत्ता मानी जाय तो तरंगमें जल है और जलमें तरंग है। कारण कि जलको छोड़कर तरंग रह ही नहीं सकती। तरंग जलसे ही पैदा होती है, जलमें ही रहती है और जलमें ही लीन हो जाती है अतः तरंगका आधार, आश्रय केवल जल ही है। जलके बिना उसकी कोई स्वतन्त्र सत्ता नहीं है। इसलिये तरंगमें जल है और जलमें तरंग है। ऐसे ही संसारकी सत्ता मानी जाय तो संसारमें परमात्मा हैं और परमात्मामें संसार है। कारण कि परमात्माको छोड़कर संसार रह ही नहीं सकता। संसार परमात्मासे ही पैदा होता है, परमात्मामें ही रहता है और परमात्मामें ही लीन हो जाता है। परमात्माके सिवाय संसारकी कोई स्वतन्त्र सत्ता नहीं है। इसलिये संसारमें परमात्मा हैं और परमात्मामें संसार है। अगर तरंग उत्पन्न और नष्ट होनेवाली होनेसे तथा जलके सिवाय उसकी स्वतन्त्र सत्ता न होनेसे तरंगकी सत्ता न मानी जाय, तो न तरंगमें जल है और न जलमें तरंग है अर्थात् केवल जलहीजल है और जल ही तरंगरूपसे दीख रहा है। ऐसे ही संसार उत्पन्न और नष्ट होनेवाला होनेसे तथा परमात्माके सिवाय उसकी स्वतन्त्र सत्ता न होनेसे संसारकी सत्ता न मानी जाय, तो न संसारमें परमात्मा हैं और न परमात्मामें संसार है अर्थात् केवल परमात्माहीपरमात्मा हैं और परमात्मा ही संसाररूपसे दीख रहे हैं। तात्पर्य यह हुआ कि जैसे तत्त्वसे एक जल ही है, तरंग नहीं है, ऐसे ही तत्त्वसे एक परमात्मा ही हैं, संसार नहीं है–‘वासुदेवः सर्वम्’ (7। 19)। अब कार्यकारणकी दृष्टिसे देखें तो जैसे मिट्टीसे बने हुए जितने बर्तन हैं, उन सबमें मिट्टी ही है क्योंकि वे मिट्टीसे ही बने हैं, मिट्टीमें ही रहते हैं और मिट्टीमें ही लीन होते हैं अर्थात् उनका आधार मिट्टी ही है। इसलिये बर्तनोंमें मिट्टी है और मिट्टीमें बर्तन हैं। परन्तु वास्तवमें देखा जाय तो बर्तनोंमें मिट्टी और मिट्टीमें बर्तन नहीं हैं। अगर बर्तनोंमें मिट्टी होती, तो बर्तनोंके मिटनेपर मिट्टी भी मिट जाती। परन्तु मिट्टी मिटती ही नहीं। अतः मिट्टी मिट्टीमें ही रही अर्थात् अपनेआपमें ही स्थित रही। ऐसे ही अगर मिट्टीमें बर्तन होते, तो मिट्टीके रहनेपर बर्तन हरदम रहते। परन्तु बर्तन हरदम नहीं रहते। इसलिये मिट्टीमें बर्तन नहीं हैं। ऐसे ही संसारमें परमात्मा और परमात्मामें संसार रहते हुए भी संसारमें परमात्मा और परमात्मामें संसार नहीं है। कारण कि अगर संसारमें परमात्मा होते तो संसारके मिटनेपर परमात्मा भी मिट जाते। परन्तु परमात्मा मिटते ही नहीं। इसलिये संसारमें परमात्मा नहीं हैं। परमात्मा तो अपनेआपमें स्थित हैं। ऐसे ही परमात्मामें संसार नहीं है। अगर परमात्मामें संसार होता तो परमात्माके रहनेपर संसार भी रहता परन्तु संसार नहीं रहता। इसलिये परमात्मामें संसार नहीं है। जैसे, किसीने हरिद्वारको याद किया तो उसके मनमें हरिकी पैड़ी दीखने लग गयी। बीचमें घण्टाघर बना हुआ है। उसके दोनों ओर गङ्गाजी बह रही हैं। सीढ़ियोंपर लोग स्नान कर रहे हैं। जलमें मछलियाँ उछलकूद मचा रही हैं। यह सबकासब हरिद्वार मनमें है। इसलिये हरिद्वारमें बना हुआ सब कुछ,(पत्थर, जल, मनुष्य, मछलियाँ आदि) मन ही है। परन्तु जहाँ चिन्तन छोड़ा, वहाँ फिर हरिद्वार नहीं रहा, केवल मनहीमन रहा। ऐसे ही परमात्माने ‘बहु स्यां प्रजायेय’संकल्प किया, तो संसार प्रकट हो गया। उस संसारके कणकणमें परमात्मा ही रहे और संसार परमात्मामें ही रहा क्योंकि परमात्मा ही संसाररूपमें प्रकट हुए हैं। परन्तु जहाँ परमात्माने संकल्प छोड़ा, वहाँ फिर संसार नहीं रहा, केवल परमात्माहीपरमात्मा रहे। तात्पर्य यह हुआ कि परमात्मा हैं और संसार है– इस दृष्टिसे देखा जाय तो संसारमें परमात्मा और परमात्मामें संसार है। परन्तु तत्त्वकी दृष्टिसे देखा जाय तो न संसारमें परमात्मा हैं और न परमात्मामें संसार है क्योंकि वहाँ संसारकी स्वतन्त्र सत्ता ही नहीं है। वहाँ तो केवल परमात्माहीपरमात्मा हैं –‘वासुदेवः सर्वम्। ‘ यही जीवन्मुक्तोंकी, भक्तोंकी दृष्टि है।

‘पश्य मे योगमैश्वरम्’ (टिप्पणी प₀ 490) मैं सम्पूर्ण जगत्में और सम्पूर्ण जगत् मेरेमें होता हुआ भी सम्पूर्ण जगत् मेरेमें नहीं है और मैं सम्पूर्ण जगत्में नहीं हूँ अर्थात् मैं संसारसे सर्वथा निर्लिप्त हूँ, अपनेआपमें ही स्थित हूँ – मेरे इस ईश्वरसम्बन्धी योगको अर्थात् प्रभाव(सामर्थ्य) को देख। तात्पर्य है कि मैं एक ही अनेकरूपसे दीखता हूँ और अनेकरूपसे दीखता हुआ भी मैं एक ही हूँ अतः केवल मैंहीमैं हूँ।‘पश्य’ क्रियाके दो अर्थ होते हैं – जानना और देखना। जानना बुद्धिसे और देखना नेत्रोंसे होता है। भगवान्के योग(प्रभाव) को जाननेकी बात यहाँ आयी है और उसे देखनेकी बात ग्यारहवें अध्यायके आठवें श्लोकमें आयी है।‘भूतभृन्न च भूतस्थो ममात्मा भूतभावनः’ मेरा जो स्वरूप है, वह सम्पूर्ण प्राणियोंको पैदा करनेवाला, सबको धारण करनेवाला तथा उनका भरणपोषण करनेवाला है। परन्तु मैं उन प्राणियोंमें स्थित नहीं हूँ अर्थात् मैं उनके आश्रित नहीं हूँ, उनमें लिप्त नहीं हूँ। इसी बातको भगवान्ने पंद्रहवें अध्यायके सत्रहवें श्लोकमें कहा है कि क्षर (जगत्) और अक्षर (जीवात्मा) – दोनोंसे उत्तम पुरुष तो अन्य ही है, जिसको,परमात्मा नामसे कहा गया है और जो सम्पूर्ण लोकोंमें व्याप्त होकर सबकाभरणपषण करता हुआ सबका शासन करता है। तात्पर्य यह हुआ कि जैसे मैं सबको उत्पन्न करता हुआ और सबका भरणपोषण करता हुआ भी अहंताममतासे रहित हूँ और सबमें रहता हुआ भी उनके आश्रित नहीं हूँ, उनसे सर्वथा निर्लिप्त हूँ। ऐसे ही मनुष्यको चाहिये कि वह कुटुम्बपरिवारका भरणपोषण करता हुआ और सबका प्रबन्ध, संरक्षण करता हुआ उनमें अहंताममता न करे और जिसकिसी देश, काल, परिस्थितिमें रहता हुआ भी अपनेको उनके आश्रित न माने अर्थात् सर्वथा निर्लिप्त रहे। भक्तके सामने जो कुछ परिस्थिति आये, जो कुछ घटना घटे, मनमें जो कुछ संकल्पविकल्प आये, उन सबमें उसको भगवान्की ही लीला देखनी चाहिये। भगवान् ही कभी उत्पत्तिकी लीला, कभी स्थितिकी लीला और कभी संहारकी लीला करते हैं। यह सब संसार स्वरूपसे तो भगवान्का ही रूप है और इसमें जो परिवर्तन होता है, वह सब भगवान्की ही लीला है – इस तरह भगवान् और उनकी लीलाको देखते हुए भक्तको हरदम प्रसन्न रहना चाहिये।

मार्मिक बात

सब कुछ परमात्मा ही है – इस बातको खूब गहरा उतरकर समझनेसे साधकको इसका यथार्थ अनुभव हो जाता है। यथार्थ अनुभव होनेकी कसौटी यह है कि अगर उसकी कोई प्रशंसा करे कि आपका सिद्धान्त बहुत अच्छा है आदि, तो उसको अपनेमें बड़प्पनका अनुभव नहीं होना चाहिये। संसारमें कोई आदर करे या निरादर – इसका भी साधकपर असर नहीं होना चाहिये। अगर कोई कह दे कि संसार नहीं है और परमात्मा हैं – यह तो आपकी कोरी कल्पना है और कुछ नहीं आदि, तो ऐसी काटछाटँसे साधकको किञ्चिन्मात्र भी बुरा नहीं लगना चाहिये। उस बातको सिद्ध करनेके लिये दृष्टान्त देनेकी, प्रमाण खोजनेकी इच्छा ही नहीं होनी चाहिये और कभी भी ऐसा भाव नहीं होना चाहिये कि यह हमारा सिद्धान्त है, यह हमारी मान्यता है, इसको हमने ठीक समझा है आदि। अपने सिद्धान्तके विरुद्ध कोई कितना ही विवेचन करे, तो भी अपने सिद्धान्तमें किसी कमीका अनुभव नहीं होना चाहिये और अपनेमें कोई विकार भी पैदा नहीं होना चाहिये। अपना यथार्थ अनुभव स्वाभाविकरूपसे सदासर्वदा अटल और अखण्डरूपसे बना रहना चाहिये। इसके विषयमें साधकको कभी सोचना ही नहीं पड़े।

***सम्बन्ध–***अब भगवान् पीछेके दो श्लोकोंमें कही हुई बातोंको दृष्टान्तद्वारा स्पष्ट करते हैं।

चिन्मयानन्दः

।।9.4।। यह सम्पूर्ण जगत् मेरे अव्यक्त स्वरूप के द्वारा व्याप्त है किसी वस्तु की सूक्ष्मता उसकी व्यापकता से नापी जाती है और इसलिए सूक्ष्मतम वस्तु का सर्वव्यापक होना अनिवार्य है। देशकाल से परिच्छिन्न (सीमित) सभी वस्तुओं का आकार तथा नाश होता है अत सर्वव्यापी वस्तु निराकार और नाशरहित होगी। इस प्रकार आत्मतत्त्व अपने मूल अव्यक्तस्वरूप से सम्पूर्ण जगत् में व्याप्त है; जैसे मिट्टी के बने सभी रूपों और आकारों वाले घटों में मिट्टी व्याप्त होती है। यदि; इस प्रकार; अनन्तपरिच्छिन्न तत्त्व सान्त और परिच्छिन्न जगत् को व्याप्त किये है; तो इन दोनों में निश्चित रूप से क्या संबंध है क्या यह जगत् अनन्ततत्त्व से प्रकट हुआ है अथवा क्या अनन्त ने सान्त का निर्माण किया है या फिर क्या अनन्त वस्तु स्वयं विकार को प्राप्त होकर यह जगत् बन गयी; जैसे दूध दही बनता है अथवा; क्या इन दोनों में पितापुत्र या स्वामीभृत्य का संबंध है विश्व के विभिन्न धर्म ऐसे प्रश्नों से भरे हुए हैं। द्वैतवादी लोग ही अनन्त और सान्त; ईश्वर और भक्त के मध्य किसीनकिसी प्रकार के काल्पनिक संबंध में रम सकते हैं। परन्तु अद्वैती ऐसे किसी भी प्रकार के संबंध को स्वीकार नहीं कर सकते; क्योंकि संबंध किन्हीं दो वस्तुओं में ही हो सकता है; जब कि उनके सिद्धांतानुसार केवल आत्मा ही एकमेव अद्वितीय पारमार्थिक सत्य वस्तु है। इस श्लोक की दूसरी पंक्ति में सत्य और मिथ्या के बीच के इस संबंधरहित संबंध का शास्त्रीय वर्णन किया गया है। समस्त भूत मुझमें स्थित हैं; परन्तु मैं उनमें अवस्थित नहीं हूँ। शास्त्रीय पद्धति से अनभिज्ञ उतावले पाठकों को यह कथन एक अनाकलनीय विरोधाभास प्रतीत होगा; जिसे अर्थशून्य शब्दों के जमघट के द्वारा व्यक्त किया गया है। परन्तु जिसने अध्यास के सिद्धांत को सम्यक् प्रकार से समझ लिया है; उसके लिए उक्त कथन का अर्थ अत्यन्त सरल है। किसी वस्तु के अज्ञान से उस पर किसी अन्य वस्तु की कल्पना करना अध्यास है जैसे एक स्तम्भ पर प्रेत की कल्पना। शास्त्रीय भाषा में स्तम्भ को अधिष्ठान और प्रेत को अध्यास कहेंगे। इस दृष्टान्त में स्तम्भ (अधिष्ठान) के बिना प्रेत का आभास नहीं हो सकता था। अब स्तम्भ की दृष्टि से उसमें और उस अध्यस्त प्रेत में निश्चित रूप से कौन सा संबंध है कल्पना करें कि स्तम्भ में प्रेत देखकर मोहित हुए व्यक्ति को वह स्तम्भ स्वयंका सम्यक् ज्ञान कराना चाहता है; तो वह किस प्रकार उपदेश देगा वह निर्दोष स्तम्भ उस मूढ़ पुरुष के प्रति असीम प्रेम के कारण भगवान् श्रीकृष्ण के समान ही उपदेश देगा। वह कहेगा निसन्देह ही वह प्रेत मुझमें स्थित है; परन्तु मैं उसमें नहीं हूँ और इसलिए; मैने कदापि किसी भी मूढ़ यात्री को भयभीत नहीं किया है। इसी प्रकार भगवान् यहाँ कहते हैं; मैं अपने अव्यक्त स्वरूप से इस सम्पूर्ण व्यक्त जगत् का अधिष्ठान हूँ। यद्यपि परमात्मा इस नानारूपमय सृष्टि का अधिष्ठान है; तथापि वह उनके गुण दोष; सुख दुख; जन्ममृत्यु आदि से लिप्त नहीं होता; क्योंकि मैं उनमें अवस्थित नहीं हूँ। इस पंक्ति में पूर्व1 कथित सिद्धांत ही प्रतिध्वनित होता है; जहाँ सम्भवत और अधिक लहरदार भाषा में इसे व्यक्त किया गया था कि; मैं उनमें नहीं हूँ; वे मुझमें है। संक्षेप में; यहाँ सूचित किया गया है कि जड़ उपाधियों से तादात्म्य के कारण आत्मा उनमें स्थित हुआ मानो दुखीसंसारी जीव बना है और इस मिथ्या तादात्म्य की निवृत्ति से उसे बोध होता है कि वास्तव में; मैं अविनाशी; अव्यक्तस्वरूप आत्मा उनमें स्थित नहीं हूँ। उपर्युक्त कथन से मन में यह विचार आ सकता है कि तब अनन्त तत्त्व में परिच्छिन्न का किसी अन्य प्रकार का अस्तित्व हो सकता है परन्तु भगवान् कहते हैं –

तेजोमयानन्दः - अनुवादः

।।9.4।। यह सम्पूर्ण जगत् मुझ (परमात्मा) के अव्यक्त स्वरूप से व्याप्त है; भूतमात्र मुझमें स्थित है, परन्तु मैं उनमें स्थित नहीं हूं।।


  1. आकाशस्य चाक्षुषत्वं भाट्टमीमांसकानां मतम्। वेदान्तिनां तु साक्षिवेद्यत्वमिष्टम्। ↩︎

  2. ‘रज्ज्वा’ इति पाठो युक्तः। ↩︎

  3. इयमानुपूर्वी अन्तर्यामिब्राह्मणे नोपलभ्यते। ‘एतस्मिन्नु खल्वक्षरे गार्गि आकाश ओतश्च प्रोतश्च’(बृ.उ. ३-८-११) इति श्रुतिरपि उक्तार्थे ज्ञेया। ↩︎

  4. ‘येऽव्याकृतपदार्थानभिज्ञास्तेषाम् पूर्वोक्तं भावं द्योतयितुम् आकाशस्याप्यन्तरतम इति भाषितम्’ इति योजना। तमप्प्रत्ययस्वारस्यायाव्याकृतं मध्ये योजितमिति बोध्यम्। ↩︎