(सं) विश्वास-प्रस्तुतिः ...{Loading}...
+++(श्री भगवानुवाच)+++
अक्षरं ब्रह्म परमं,
स्व-भावो ऽध्यात्मम् उच्यते।
+++(मनुष्यादि-)+++भूत-भावोद्भवकरो
विसर्गः कर्म-संज्ञितः॥8.3॥
(सं) मूलम् ...{Loading}...
श्री भगवानुवाच
अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते।
भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः।।8.3।।
रामानुज-सम्प्रदायः
(सं) रामानुजः मूलम् ...{Loading}...
।।8.3।। श्रीभगवानुवाच – तद् ब्रह्म इति निर्दिष्टं परमम् अक्षरं न क्षरति इति अक्षरं क्षेत्रज्ञं समष्टिरूपम् तथा च श्रुतिःअव्यक्तमक्षरे लीयते अक्षरं तमसि लीयते (सुबालो॰ 2) इत्यादिका। परमम् अक्षरं प्रकृतिविनिर्मुक्तात्मस्वरूपम्। स्वभावः अध्यात्मम् उच्यते स्वभावः प्रकृतिः अनात्मभूतम् आत्मनि संबद्ध्यमानं भूतसूक्ष्मतद्वासनादिकं पञ्चाग्निविद्यायां ज्ञातव्यतया उदितम् तदुभयं प्राप्यतया त्याज्यतया च मुमुक्षुभिः ज्ञातव्यम्।
भूतभावो मनुष्यादिभावः तदुद्भवकरो यो विसर्गःपञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति (छा॰ उ॰ 5।3।3) इति श्रुतिसिद्धो योषित्संबन्धजः स कर्मसंज्ञितः तत् च अखिलं सानुबन्धम् उद्वेजनीयतया परिहरणीयतया च मुमुक्षुभिः ज्ञातव्यम्। परिहरणीयता च अनन्तरम् एव वक्ष्यतेयदिच्छन्तो ब्रह्मचर्यं चरन्ति (गीता 8।11) इति।
(सं) रामानुजः वेङ्कटनाथः ...{Loading}...
।।8.3।। अक्षरं ब्रह्म परमम् इत्यत्र उद्देश्योपादेयान्यथाभावनिरासायाह – तद्ब्रह्मेति निर्दिष्टमिति। ब्रह्मशब्दोऽत्र परमात्मसाधर्म्यादुपचारवृत्त्येति भावः। अक्षरः शब्दस्य निर्वचनं प्रतिपाद्यं च दर्शयतिन क्षरतीत्यादिना। क्षेत्रज्ञसमष्टौ श्रौतं प्रयोगं दर्शयतितथा चेति। लयोऽत्र संश्लेषविशेषः। अथवा श्रुतावक्षरशब्देन उन्मग्नचेतनांशः प्रकृत्यवस्थाविशेष एव अभिधीयत इति साक्षात्प्रलयार्थत्वेऽपि न विरोधः। तथापि शब्दप्रवृत्तिद्वारभूतचिदंशे तात्पर्यात्तदुदाहरणम्। परममक्षरम् इत्यत्र विशेषणाभिप्रेतमाह – प्रकृतिविनिर्मुक्तमात्मस्वरूपमिति। स्वभावशब्दार्थःप्रकृतिरिति। नियतसम्बद्धमिति यावत्। किं तदित्याकाङ्क्षायां अध्यात्मशब्दानुसारेणाह – अनात्मेति। आत्मन्यधिवसनात् सम्बध्यमानमित्यध्यात्मशब्दनिर्वचनम्। तत एव सिद्धमनात्मत्वम्। तद्वासनादिकं तत्संसर्गोपाधिकाज्ञानकर्मवासनादिकम्। भूतसूक्ष्मादेर्ज्ञातव्यत्वे श्रुतिं दर्शयति – पञ्चाग्निविद्यायामिति। वेत्थ यथा पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति इत्युपक्रम्य इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति इत्युक्त्वा तद्य इत्थं विदुः [छां.उ.5।10।1] इत्यप्छब्दोपलक्षितपञ्चभूतसूक्ष्मवेद्यत्वं ह्युक्तमिति भावः। ननूपायकर्तृभूतेदानीन्तनात्मस्वरूपपरित्यागेन परिशुद्धात्मस्वरूपकथनं मुमुक्षोः क्वोपयुक्तं भूतसूक्ष्मादिकथनं च किमर्थं इत्यत्राहतदुभयमिति। यथाक्रममन्वयः। अत्र पञ्चमाहुतेर्विवक्षितत्वाद्योनिजभूतविषयोऽयं भूतशब्द इत्यभिप्रायेणाह – भूतभावो मनुष्यादिभाव इति। मनुष्यत्वादिविशिष्टशरीरयोग इत्यर्थः। विशिष्टस्य विसर्गस्य ज्ञातव्यत्वे तस्य मनुष्यादिभावहेतुत्वे च श्रुतिं दर्शयति – पञ्चम्यामिति। अत्र मूत्रमरुन्मलादिविसर्गव्यवच्छेदार्थमुक्तंभूतभावोद्भवकर इति। तदेव दर्शयति – योषित्सम्बन्धज इति। विसर्गविशेषणसामर्थ्यादेतत्सिद्धम्। एवं कर्मसंज्ञितरेतोविसर्गज्ञानस्य सप्रयोजनतामाह – तच्चाखिलमिति। अत्र कर्माभिप्रायेण नपुंसकनिर्देशः। अखिलं मनुष्यत्वमृगत्वादिजातिभेदहेतुतयाऽनेकप्रकारम्। सानुबन्धं हेतुभूतैः कर्मभिः फलभूतैश्च गर्भवासादिभिः सहितमित्यर्थः। पञ्चाग्निविद्यायामुदितसर्वावस्थानुयायित्वदुस्त्यजत्वजन्मादिदुःखकरत्वादेः फलितत्वाज्जुगुप्सनीयतारूपा भयावहत्वरूपा चोद्वेजनीयता युक्ता। परिहरणीयता तु कुतः सिद्ध्येत् इत्यत्राहपरिहरणीयता चेति।
(सं) रामानुजः (Eng) आदिदेवानन्दः ...{Loading}...
8.3 The Lord said That which is the Supreme Imperishable (Aksara) has been named ’that brahman’ The Aksara is that which cannot be destroyed and forms the totality of all individual selves. The Srutis say to this effect: ‘The Avyakta is dissolved into the Aksara, the Aksara is dissolved into Tamas’ (Su. U., 2). The supreme Aksara is the essential form of the self, separated from Prakrti. One’s own material nature (the body) is spoken of as Adhyatma or that which dwells with the self. This material nature (Svabhava) is Prakrti. It does not form the self but attaches itself to the self in the form of subtle elements, impressions etc. This has been taught in the Vidya of Five Fires (Cha. U., 5). Both these (the Aksara and the Adhyatma) should be known by the aspirants for liberation (Kaivalya) - the former as what should be attained and the latter as what should be relinished. Karma is that force which produces the origination of mundane beings. ‘Beings’ here means beings such as the human beings. The creative force which produces their origination is contact with woman. It has been described in the Sruti passage thus: ‘The waters sacrificed in the fifth oblations become those who are named Purusas’ (Cha. U., 5.3.3). That creative force is called Karma. All the acts associated with that should be considered by aspirants after release as calling for abstention. This abstention will also be inculcated immediately in the text, ‘Desiring which they practise the vow of continence’ (8.11).
अभिनवगुप्त-सम्प्रदायः
(सं) अभिनव-गुप्तः मूलम् ...{Loading}...
।।8.3।। अक्षरमिति। बृहत्त्वात् बृंहत्त्वात् बृंहकत्वाच्च परं ब्रह्म। अत एव अध्यात्मशब्दवाच्यं यतः स्वः अनिवृत्तिधर्मा +++(N निवृत्तिधर्मा K अनिवृत्तधर्मा)+++ चैतान्याख्यो ( चैतन्यभावः) भावः। तस्य च चैतन्यस्वभावस्य ब्रह्मणोऽपरिच्छिन्नबाह्यलक्षणतया क्रोडीकृतविश्वशक्तेः ऐश्वर्यलक्षणात् स्वातन्त्र्यात् बहिर्भावावभासनात्मा +++(N – भासनात्सः)+++ बहिर्भूतभावान्तरावभासनात्मा +++(S – भावान्तरभासनात्मा यो विसर्गः)+++ च यो विसर्गः क्रमेण भूतानां ब्रह्मादिप्रमातॄणां भावानां जडानामुद्भवकारी जडाजडवैचित्र्यनिर्भासकः। तथा भूतभावस्य विगलितसकलवितथप्रपञ्चस्य सत्यत्वस्य उद्भवं करोतीति [स कर्मसंज्ञितः]।
(सं) अभिनव-गुप्तः (Eng) शङ्करनारायणः ...{Loading}...
8.3 Aksaram etc. the Supreme is [called] Brahman because It is big and causes everything to grow [in It]. On the same ground, what is termed ‘as the Lord-of-self’ is that thing which bears the name Consciousness which never ceases to be in It (Brahman) and which is nothing but the Brahman (svah bhavah). This Brahman, which is nothing but Consciousness, embraces the Power of [creating] the universe because of Its unlimited aspect of being external; and on account of Its freedom in the form of supremacy there arises the emitting (i.e. creative) activity [in it] in the form of manifesting Itself as the external inanimate beings and also as various external animate ones. [These two aspects of] this activity cause respectively the birth of the inanimate beings - i.e. the insentient beings, and the animate ones i.e. the sentient beings like Brahman etc. [In other words], It manifests as varigated insentient and sentient beings. Again this activity bestows on what is real, its intrinsic nature i.e. creates a reality for the one from which all that is false is excluded. this emitting activity is what is known as ‘action’.
माध्व-सम्प्रदायः
(सं) मध्वः मूलम् ...{Loading}...
।।8.3।। परममक्षरं ब्रह्म। वेदादिशङ्काव्यावृत्त्यर्थमेतत्। आत्मन्यधि यत्तदध्यात्मम्। आत्माधिकारे यत्तदिति वा। तथा हि – जैवः स्वभावः। स्वाख्यो भावः स्वभाव इति व्युत्पत्त्या जीवो वा स्वभावः सर्वदा अस्त्येव एकप्रकारेणेति भावः। अन्तःकरणादिव्यावृत्त्यर्थो भावशब्दः। न ह्येकप्रकारेण स्थितिरन्तःकरणादेः विकारित्वात्। स्वशब्द ईश्वरव्यावृत्त्यर्थः। भूतानां जीवानां भावानां जडपदार्थानां चोद्भवकरीश्वरक्रिया विसर्गः विशेषेण सर्जनं विसर्ग इत्यर्थः।
(सं) मध्वः जयतीर्थः ...{Loading}...
।।8.3।। ननु पूर्वाध्याये[29]ते ब्रह्म इति निर्विशेषणमेवोपक्षिप्तम् अतएवात्रकिं तद्ब्रह्म इति तथैव पृष्टम्। उत्तरे तु कस्मात्अक्षरं परमं ब्रह्म इति सविशेषणमुपादीयते इत्यत आह – परममिति। अक्षरस्यैव परमत्वविशेषणम् न ब्रह्मण इत्यर्थः। तर्हिअक्षरं इत्येवालं किं विशेषणेन इत्यत आह – वेदेति। आदिपदेन प्रकृतिर्गृह्यते तयोरपि ब्रह्माक्षरशब्दवाच्यत्वात् प्रसक्तिः। स्वभावोऽध्यात्मं [8।3] इति शब्दद्वयस्यैकविषयत्वसिद्धयेऽध्यात्मशब्दं तावत् द्वेधा व्याचष्टे – आत्मनीति। आत्मानं जीवमधिकृत्य तदुपकारित्वेन वर्तमानं वस्त्वित्यर्थः। आत्माधिकार इति ग्रन्थविशेषस्य संज्ञा यत्प्रतिपाद्यं तदध्यात्ममिति वेत्यर्थः। अत्राध्यात्मशब्दं प्रथमान्तं गृहीत्वा प्रथमं व्याख्यानम्। सप्तम्यन्तमुपादाय द्वितीयं आत्मशब्दं देहविषयमादाय व्याख्याने परमेश्वरप्रसक्तेर्न तथा व्याख्यातम्। एवं तर्हि स्वभावः इत्युभयस्य कथमुत्तरं इत्यतस्तावत्तद्व्याख्यानं प्रतिजानीते – तथा हीति। ,तत्राद्योत्तरत्वेनादौ व्याचष्टे – जैव इति। जीवस्यायं जैवोऽन्तःकरणादिर्देहपर्यन्तः पदार्थः स्वभावः स्वस्य भाव इति व्युत्पत्त्या। ते ब्रह्म तद्विदुः [7।29] इति जीवानां प्रकृतत्वात् स्वशब्दो जीववाची तथा चात्मन्यधि यत् तदित्येवं व्याख्याताध्यात्मशब्दार्थप्रश्नस्येदमुत्तरं भवतीति भावः। इदानीं द्वितीयोत्तरत्वेन व्याख्याति – स्वाख्य इति। पूर्ववदत्रापि स्वशब्दो जीववाची तथा चात्माधिकार इति व्याख्याताध्यात्मशब्दार्थप्रश्नस्येदमुत्तरं भवतीत्याशयः। ननु जैववाचित्वे भावशब्दः सार्थकः षष्ठ्याः साकाङ्क्षत्वात् जीववाचित्वे तु तस्य पदार्थत्वाव्यभिचारात्। स्वशब्देनैवालं किंभावशब्देन इत्यतो भावशब्दं तावदन्यथा व्याचष्टे – सर्वदेति। यद्यपि भवनकर्ता भावः तथापि विशेषानुपादाने मुख्यस्य ग्राह्यत्वात्सर्वदेत्यादि सिध्यति तथापि तस्य किं प्रयोजनम् इत्यत आह – अन्तःकरणादीति। स्वशब्दमात्रोपादाने तस्यात्मीयेऽपि प्रयोगादन्तःकरणादिकमपि प्रसज्येत तथा च द्वितीयस्येदमुत्तरं स्यात्। आत्मैव ह्यात्माधिकारे प्रतिपाद्यो वक्तव्यः नान्तःकरणादिकम् अतस्तद्व्यावृत्त्यर्थो भावशब्दः प्रयुक्तः। कथं तेन तद्व्यावृत्तिः इत्यत आह – न हीति। अन्नमयं हि सोम्य मनः [छां.उ.6।5।4] इत्यादेरिति भावः। तथा चान्तःकरणादौ व्यावृत्ते स्वशब्द आत्मार्थतया व्याख्यातो भवतीति हृदयम्। एवं तर्हि भाव इत्येवास्तु किं स्वशब्देन इत्यत आह – स्वशब्द इति। ईश्वरोऽपि हि सर्वदैकप्रकारेणास्त्येव अतो भाव इत्येवोक्ते तत्प्रसक्तौ पूर्ववत् द्वितीयोत्तरत्वासम्भवे तद्व्यावृत्त्यर्थः स्वशब्दः। न हि ईश्वरो जीवानां स्वः भेदप्रमाणविरोधात्। अत एवेश्वरस्वभावो जीव इति व्याख्यानमपास्तम्। नन्वेवमपि स्वशब्दस्यात्मीयार्थत्वादीश्वरप्रसक्तिः मैवन्द्विष्ठो यद्यपि सम्बन्धः षष्ठ्युत्पत्तिः प्रधानतः इति वचनात्तस्यात्मीत्यात्वाभावात् षष्ठ्यन्तात्खल्वयं छः। सकलकार्योत्पत्तिनिमित्तभूतो देवतोद्देशेन च पुरोडाशादिद्रव्यपरित्यागस्तज्जन्यमपूर्वमिति यावदिति व्याख्यानमसत्। तस्याध्यात्मपदेनैव गृहीतत्वादिति भावेन भूतभावेत्यादिकं व्याख्याति – भूतानामिति। उद्भवकरी च सेश्वरक्रिया चेति विग्रहः। ईश्वरक्रियाग्रहणं कर्मशब्देनैकार्थ्यप्रतिपत्त्यर्थम्। एवंलक्षणो यो विसर्गः स कर्मसंज्ञितः न तु कुलालादिसम्बन्धीत्यर्थः। ननु,विसर्गशब्दस्त्यागार्थस्तत्कथमेवं व्याख्यानं इत्यत आह – विशेषेणेति।
शाङ्कर-सम्प्रदायः
(सं) शङ्करः मूलम् ...{Loading}...
।।8.3।। – अक्षरं न क्षरतीति अक्षरं परमात्मा एतस्य वा अक्षरस्य प्रशासने गार्गि (बृह0 उ₀ 3।8।9 इति श्रुतेः। ओंकारस्य च ओमित्येकाक्षरं ब्रह्म (गीता 8।13) इति परेण विशेषणात् अग्रहणम्। परमम् इति च निरतिशये ब्रह्मणि अक्षरे उपपन्नतरम् विशेषणम्। तस्यैव परस्य ब्रह्मणः प्रतिदेहं प्रत्यगात्मभावः स्वभावः स्वो भावः स्वभावः अध्यात्मम् उच्यते। आत्मानं देहम् अधिकृत्य प्रत्यगात्मतया प्रवृत्तं परमार्थब्रह्मावसानं वस्तु स्वभावः अध्यात्मम् उच्यते अध्यात्मशब्देन अभिधीयते। भूतभावोद्भवकरः भूतानां भावः भूतभावः तस्य उद्भवः भूतभावोद्भवः तं करोतीति भूतभावोद्भवकरः भूतवस्तूत्पत्तिकर इत्यर्थः। विसर्गः विसर्जनं देवतोद्देशेन चरुपुरोडाशादेः द्रव्यस्य परित्यागः स एष विसर्गलक्षणो यज्ञः कर्मसंज्ञितः कर्मशब्दित इत्येतत्। एतस्मात् हि बीजभूतात् वृष्ट्यादिक्रमेण स्थावरजङ्गमानि भूतानि उद्भवन्ति।।
(सं) शङ्करः (हि) हरिकृष्णदासः ...{Loading}...
।।8.3।। इन प्रश्नोंका क्रमसे निर्णय करनेके लिये श्रीभगवान् बोले –, परम अक्षर ब्रह्म है अर्थात् हे गार्गि इस अक्षरके शासनमें ही यह सूर्य और चन्द्रमा धारण किये हुए स्थित हैं इत्यादि श्रुतियोंसे जिसका वर्णन किया गया है जो कभी नष्ट नहीं होता वह परमात्मा ही ब्रह्म है। परम विशेषणसे युक्त होनेके कारण यहाँ अक्षर शब्दसे ओमित्येकाक्षरं ब्रह्म इस वाक्यमें वर्णित ओंकारका ग्रहण नहीं किया गया है क्योंकि परम वह विशेषण निरतिशय अक्षर ब्रह्ममें ही अधिक सम्भव – युक्तियुक्त है। उसी परब्रह्मका जो प्रत्येक शरीरमें अन्तरात्मभाव है उसका नाम स्वभाव है वह स्वभाव ही अध्यात्म कहलाता है। अभिप्राय यह कि आत्मा यानी शरीरको आश्रय बनाकर जो अन्तरात्मभावसे उसमें रहनेवाला है और परिणाममें जो परमार्थ ब्रह्म ही है वही तत्त्व स्वभाव है उसे ही अध्यात्म कहते हैं अर्थात् वही अध्यात्म नामसे कहा जाता है। भूतभावउद्भवकर अर्थात् भूतोंकी सत्ता भूतभाव है। उसका उद्भव ( उत्पत्ति ) भूतभावोद्भव है उसको करनेवाला भूतभावोद्भवकर यानी भूतवस्तुको उत्पन्न करनेवाला ऐसा जो विसर्ग अर्थात् देवोंके उद्देश्यसे चरु पुरोडाश आदि ( हवन करने योग्य ) द्रव्योंका त्याग करना है वह त्यागरूप यज्ञ कर्म नामसे कहा जाता है इस बीजरूप यज्ञसे ही वृष्टि आदिके क्रमसे स्थावरजङ्गम समस्त भूतप्राणी उत्पन्न होते हैं।
(सं) शङ्करः (Eng) गम्भीरानन्दः ...{Loading}...
8.3 Aksaram means that which does not perish (na ksarati), the supreme Self. This agrees with the Upanisadic text, ‘Under the mighty rule of this Immutable, O Gargi৷৷.’ (Br. 3.8.9). And (the letter) Om is not accept here [as the meaning of aksara (lit. letter)], because of its being mentioned (as a letter) later on in, ‘The single letter Om, which is Brahman’ (13). Besides, the adjective ‘supreme’ is more apporpriate with regard to the absolute, immutable Brahman. By svabhava, self-hood, is meant the eixtence of that very supreme Brahman in every body as the indwelling Self. Svabhavah ucyate, self-hood is said to be, is referred to by the word; adhyatmam, the entity which, as the indwelling Self, exists in the body (atma) by making it its habitat (adhikrtya), and which in the ultimate analysis is the supreme Brahman. Visargah, the offerings, the giving away to gods of things like porridge [Caru: An oblations of rice, barley and pulse boiled-together to be offered to gods.], cake, etc.; bhuta-bhava-udbhava-karah, which bring about the origin of the existence of things; is karma-sanjnitah, meant by action. This sacrifice consisting in pouring of oblations is called action. The existence (bhava) of (moving and nonmoving) things (bhuta) is bhuta-bhava. The coming into being (udbhava) of that (existence) is bhuta-bhava-udbhavah. That which causes (karoti) this is bhuta-bhava-udbhava-karah, i.e. the originator of existing things. It is needed from this source that all bengs, moving and non-moving, originate thorugh the successive processes of railfall etc. (see 3.14-15).
(सं) शङ्करः आनन्दगिरिः ...{Loading}...
।।8.3।। व्याख्यातप्रश्नसप्तकस्य प्रतिवचनं भागवतमवतारयति – एषामिति। क्रमेण कृतानां प्रश्नानां क्रमेणैव प्रतिवचने प्रष्टुरभीष्टप्रतिपत्तिसौकर्यं सिध्यतीति बुध्यमानो विशिनष्टि – यथाक्रममिति। तत्र प्रश्नत्रयं निर्णेतुं भगवद्वचनमुदाहरति – अक्षरमिति। किं तद्ब्रह्मेति प्रश्नस्य प्रतिवचनम् – अक्षरं ब्रह्म परममिति। तत्राक्षरशब्दस्य निरुपाधिके परस्मिन्नात्मन्यविनाशित्वव्याप्तिमत्त्वसंबन्धात्प्रवृत्तिं व्युत्पादयति – अक्षरमित्यादिना। कथं पुनरक्षरशब्दस्य यथोक्ते परमात्मनि वृद्धप्रयोगमन्तरेण व्युत्पत्त्या प्रवृत्तिराश्रीयते व्युत्पत्तेरर्थान्तरेऽपि संभवादित्याशङ्क्य द्यावापृथिव्यादिविषयनिरङ्कुशप्रशासनस्य परस्मादन्यस्मिन्नसंभवात्तथाविधप्रशासनकर्तृत्वेन श्रुतमक्षरं ब्रह्मैवेत्याह – एतस्येति। रूढिर्योगमपहरतीति न्यायादोंकारे वर्णसमुदायात्मन्यक्षरशब्दस्य रूढ्या प्रवृत्तिराश्रयितुमुचितेत्याशङ्क्याह – ओंकारस्येति। प्रतिवचनोपक्रमे प्रक्रान्तमोंकाराख्यमक्षरमेवोत्तरत्र विशेषितं भविष्यतीत्याशङ्क्य परमविशेषणविरोधान्न तस्य प्रक्रमः संभवतीत्याह – परममिति चेति। किमध्यात्ममिति प्रश्नस्योत्तरं स्वभावोऽध्यात्ममित्यादि। तद्व्याचष्टे – तस्यैवेति। स्वकीयो भावः स्वभावः श्रोत्रादिकरणग्रामः स चात्मनि देहेऽहंप्रत्ययवेद्यो वर्तत इत्यमुं प्रतिभासं व्यावर्त्य स्वभावपदं गृह्णाति – स्वो भाव इति। एवं विग्रहपरिग्रहे स्वभावोऽध्यात्ममुच्यत इत्यस्यायमर्थो निष्पन्नो भवतीत्यनुवादपूर्वकं कथयति – स्वभाव इति। तस्यैव परस्येत्यादिनोक्तं न विस्मर्तव्यमिति विशिनष्टि – परमार्थेति। परमेव हि ब्रह्म देहादौ प्रविश्य प्रत्यगात्मभावःमनुभवतितत्सृष्ट्वा तदेवानुप्राविशत् इति श्रुतेरित्यर्थः। किं कर्मेति प्रश्नस्योत्तरमुपादत्ते – भूतेति। भूतान्येव भावास्तेषामुद्भवः समुत्पत्तिस्तां करोतीति व्युत्पत्तिं सिद्धवत्कृत्य विधान्तरेण व्युत्पादयति – भूतानामिति। भावः सद्भावो वस्तुभावोऽतएव भूतवस्तूत्पत्तिकर इति वक्ष्यति। वैदिकं कर्मात्रोक्तविशेषणं कर्मशब्दितमिति विसर्गशब्दार्थं दर्शयन्विशदयति – विसर्ग इत्यादिना। कथं पुनर्यथोक्तस्य यज्ञस्य सर्वेषु भूतेषु सृष्टिस्थितिप्रलयहेतुत्वेन तदुद्भवकरत्वमित्याशङ्क्य अग्नौ प्रास्ताहुतिः इत्यादिस्मृतिमनुस्मृत्याह – एतस्माद्धीति।
(सं) शङ्करः मधुसूदन-सरस्वती ...{Loading}...
।।8.3।। एवं सप्तानां प्रश्नानां क्रमेणोत्तरं त्रिभिः श्लोकैः श्रीभगवानुवाच – प्रश्नक्रमेण हि निर्णये प्रष्टुरभीष्टसिद्धिरनायासेन स्यादित्यभिप्रायवान्भगवानत्र श्लोके प्रश्नत्रयं क्रमेण निर्धारितवान्। एवं द्वितीयश्लोकेऽपि प्रश्नत्रयं तृतीयश्लोके त्वेकमिति विभागः। निरुपाधिकमेव ब्रह्मात्र विवक्षितं ब्रह्मशब्देन नतु सोपाधिकमिति प्रथमप्रश्नस्योत्तरमाह – अक्षरं न क्षरतीत्यविनाशि अश्नुते वा सर्वमिति सर्वव्यापकं [अक्षरत्वात्]एतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्त्यस्थूलमनणु इत्याद्युपक्रम्यएतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतःनान्यदतोऽस्ति द्रष्टृ इत्यादिमध्ये परामृश्यएतस्मिन्नु खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्च इत्युपसंहृतं श्रुत्या। सर्वोपाधिशून्यं सर्वस्य प्रशासितृ अव्याकृताकाशान्तस्य कृत्स्नस्य प्रपञ्चस्य धारयितृ अस्मिंश्च शरीरेन्द्रियसंघाते विज्ञातृ निरुपाधिकं चैतन्यं तदिह ब्रह्मेति विवक्षितम्। एतदेव विवृणोति – परममिति। परमं स्वप्रकाशपरमानन्दरूपं प्रशासनस्य कृत्स्नजडवर्गधारणस्य च लिङ्गस्य तत्रैवोपपत्तेःअक्षरमम्बरान्तधृतेः इति न्यायात्। न त्विहाक्षरशब्दस्य वर्णमात्ररूढत्वाच्छ्रुतिलिङ्गाधिकरणन्यायमूलकेनरूढिर्योगमपहरति इति न्यायेन रथकारशब्देन जातिविशेषवत्प्रणवाख्यमक्षरमेव ग्राह्यं तत्रोक्तलिङ्गसंभवात्ओमित्येकाक्षरं ब्रह्म इति च परेण विशेषणात्आनर्थक्यप्रतिहतानां विपरीतं बलाबलम् इति न्यायात्वर्षासु रथकार आदधीत इत्यत्र तु जातिविशेषे नास्त्यसंभव इति विशेषः। अनन्यथासिद्धेन तु लिङ्गेन श्रुतेर्बाधःआकाशस्तल्लिङ्गात् इत्यादौ विवृतः। एत्तावांस्त्विह विशेषः। अनन्यथासिद्धेन लिङ्गेन श्रुतेर्बाधे यत्र योगः संभवति तत्र स एव गृह्यते मुख्यत्वात् यथाआज्यैः स्तुवते पृष्ठैः स्तुवते इत्यादौ। यथा चात्रैवाक्षरशब्दे। यत्र तु योगोऽपि न संभवति तत्र गौणी वृत्तिर्यथाऽऽकाशप्राणादिशब्देषु। आकाशशब्दस्यापि ब्रह्मणि आसमन्तात्काशत इति योगः संभवतीति चेत्स एव गृह्यतामिति पञ्चपादीकृतः। तथाच पारमर्षं सूत्रंप्रसिद्धेश्च इति। कृतमत्र विस्तरेण। तदेवं किं तद्ब्रह्मेति निर्णीतम्। अधुना किमध्यात्ममिति निर्णीयते – यदक्षरं ब्रह्मेत्युक्तं तस्यैव स्वभावः स्वो भावः स्वरूपं प्रत्यक्चैतन्यं नतु स्वस्य भाव इति षष्ठीसमासः लक्षणाप्रसङ्गात्। षष्ठीतत्पुरुषबाधेन कर्मधारयपरिग्रहस्य श्रुतपदार्थान्वयेन निषादस्थपत्यधिकरपासिद्धत्वात्। तस्मान्न ब्रह्मणः संबन्धि किंतु ब्रह्मस्वरूपमेव। आत्मानं देहमधिकृत्य भोक्तृतया वर्तमानमध्यात्ममुच्यतेऽध्यात्मशब्देनाभिधीयते न करणग्राम इत्यर्थः। यागदानहोमात्मकं वैदिकं कर्मैवात्र कर्मशब्देन विवक्षितमिति तृतीयप्रश्नोत्तरमाह। भूतानां भवनधर्मकाणां सर्वेषां स्थावरजङ्गमानां भावमुत्पत्तिमुद्भवं वृद्धिं च करोति यो विसर्गस्त्यागस्तत्तच्छास्त्रविहितो यागदानहोमात्मकः स इह कर्मसंज्ञितः कर्मशब्देनोक्त इति यावत्। तत्र देवतोद्देशेन द्रव्यत्यागो याग उत्तिष्ठद्धोमो वषट्कारप्रयोगान्तः स एव उपविष्टहोमः स्वाहाकारप्रयोगान्त आसेचनपर्यन्तो होमः। परस्वत्वापत्तिपर्यन्तः स्वत्वत्यागो दानं सर्वत्र च त्यागांशोऽनुगतः तस्य च भूतभावोद्भवकरत्वम्अग्नौ प्रास्ताहुतिः,सम्यगादित्यमुपतिष्ठते। आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः इति स्मृतेः। ते वा एते आहुती हुते उत्क्रामतः इत्यादिश्रुतेश्च।
(सं) शङ्करः नीलकण्ठः ...{Loading}...
।।8.3।। क्रमेणैषां प्रश्नानामुत्तरमाह – अक्षरमित्यादिभिस्त्रिभिः। तत्र किं तद्ब्रह्मेत्यस्योत्तरमक्षरं परमं ब्रह्मेति। यत्परमक्षरं तद्ब्रह्मेति योजना। अक्षरशब्दस्य वर्णेषु रूढत्वात्ओमित्येतदक्षरम् इत्यादिश्रुतौओमित्येकाक्षरं ब्रह्म इति स्मृतौ च दर्शनेनात्रापि प्रणवस्याक्षरशब्देन ग्रहणे प्रसक्ते परममिति विशेषणं प्रणवस्य परब्रह्मत्वासंभवात्। अतश्चएतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्त्यस्थूलमनण्वह्रस्वमदीर्घम् इति श्रुतिप्रसिद्धमखण्डैकरसं वस्तु अक्षरशब्दितं तद्ब्रह्मेति प्राञ्चः। यद्वा अक्षरशब्देन जीवःकूटस्थोऽक्षर उच्यते। उत्तमः पुरुषस्त्वन्यः इति गीतासुक्षरं प्रधानममृताक्षरं हरः क्षरात्मानावीशते देव एकः इति श्रुतौ च कूटस्थपदेनामृतपदेन च विशेषितस्याक्षरपदस्य जीववाचित्वदर्शनात्। अमृतोक्षरमित्यपेक्षिते उत्वाभावश्छान्दसः। तथाचाक्षरं जीवाख्यं परमं ब्रह्म। परममिति विशेषणेन सोपाधिकस्य पूर्वाध्यायोक्तस्य व्यावृत्तिः। नहि जीवस्य सोपाधिकस्य ब्रह्मभावः संभवति। व्यावर्तकोपाधौ मायादर्पणे जाग्रति तयोरभेदायोगात्। किं तद्ब्रह्म इति प्रश्ने परममिति विशेषणाभावेऽपिते ब्रह्म तद्विदुः कृत्स्नम् इति प्रश्नोत्थापके सूत्रे परमत्ववाचिना कृत्स्नपदेन ब्रह्मणो विशेषितत्वादुत्तरेऽपि ब्रह्मण एव परममिति विशेषं युज्यत एव। प्रश्नेऽपि तच्छब्देन कृत्स्नत्वस्यैव ग्रहात्। ततश्च किं तत्कृत्स्नं प्रश्ने यदक्षरं जीवाख्यं तदेवापेतोपाधिसंबन्धं सत् कृत्स्नं ब्रह्मेति तत्त्वमसीति महावाक्यार्थः प्रतीचो ब्रह्मभावः प्रतिपादितो भवतीति ह्यद्यम्। तथा स्वोऽनागन्तुको भावः स्वरूपं स्वभावः शुद्धस्त्वंपदार्थः सोऽध्यात्ममुच्यते। भाष्ये तु तस्यैव परस्य ब्रह्मणः प्रतिदेहं प्रत्यगात्मभावः स्वो भावः स्वभावोऽध्यात्ममुच्यते अध्यात्मशब्देनाभिधीयत इति। विसर्गो देवतोद्देशेन द्रव्यत्यागात्मको यागः स कर्मसंज्ञितः। तमेव विशिनष्टि – भूतेति। भूतानां भावः सात्विकादिः स्वभावः उद्भवश्च तयोः करणात् भूतभावोद्भवकरः। तथाहिबुद्धिः कर्मानुसारिणी इति कर्मानुसारित्वं भावस्य स्मर्यते। तथा उद्भवोऽपि कर्मत एव स्मर्यते। अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते। आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः इति।
(सं) शङ्करः धनपतिः ...{Loading}...
।।8.3।। क्रमेण कृतानां प्रश्नानां तथैव प्रतिवचने प्रश्नकर्तुरिष्टं सुखेन प्रश्नोत्तरदानं सिध्यतीत्याशयवानर्जुनकृतप्रश्नानां क्रमेण निर्णयाय श्रीभगवानुवाच। तत्रते ब्रह्म तद्विदुः कृत्स्त्रमि त्यत्र निर्गुणं ब्रह्म विविक्षितमिति प्रथमप्रश्नस्योत्तरमाह – अक्षरं ब्रह्मेति। यदुक्तं किं तदब्रह्मेति तदक्षरं न क्षरतीत्यक्षरं विनाशरहितं अश्रुते व्याप्नोति सर्वमिति व्युत्पत्त्या वाक्षरं सर्वत्र व्यापकम्। रुढ्याक्षरशब्देनोंकारप्रतिपत्तिभ्रमं वारयति – परममिति। परत्वं निरतिशयं परमात्मन एव पृथिव्याद्याकाशान्तस्य विकारजातस्य धारणात्। तथाच सूत्रंअक्षरमम्बरान्तधृतेः इतिकस्मिन्नु खल्वाकाश ओतश्च प्रोतश्चेति सहोवाचैतद्वैतदक्षरं गार्गि ब्राह्मणा अभिवदन्त्यस्थूलमनणु इत्यादि श्रुयते। तत्र संशयः किमक्षरशब्देनि वर्ण उच्यते किंवा परमेश्वर इति। तत्राक्षरसमाम्राय इत्यादावक्षरशब्दस्य वर्णे प्रसिद्धत्वात् प्रसिद्य्धतिक्रमस्य चायुक्तत्वादोंकार एवेदं सर्वमित्यादौ च श्रुत्यन्तरे वर्णस्याप्युपास्यत्वेन सर्वात्मत्वावधारणात् वर्ण एवाक्षरशब्दवाच्य इत्येवं प्राप्त उच्यते। परएव आत्माक्षरशब्दवाच्यः कस्मादम्बरान्तधृतेः पृथिव्यादेराकाशान्तस्य विकारजातस्य धारणात्। तत्र हि पृथिव्यादेः समस्तस्य विकारजातस्य कालत्रयप्रविभक्तस्याकाशएव तदोतं च प्रोतं चेत्याकाशप्रतिष्ठत्वमुकत्वा कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्चेत्यनेन प्रश्नेनेदमक्षरमवतीरितं। तथाचोपसंहृतमेतस्मिन्खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्चेति। नचेयमम्बरान्तधृतिर्ब्रह्मणोऽन्यत्र संभवति। यदप्योंकार एवेदं सर्वमिति तदपि ब्रह्मप्रतिपत्तिसाधनत्वात्स्तुत्यर्थं द्रष्टव्यम्। तस्मान्न क्षरत्यश्रुते वेति नित्यत्वव्यापित्वाभ्यामक्षरं परमेव ब्रह्मेति परममिति विशेषणादक्षरशब्देन जीवप्रधानप्रतिभ्रमोऽपि चारितः।। तृतीयप्रश्नस्योत्तरमाह – भूतभावोद्भवकरः भूतानां भावो भूतभावः तस्योद्भवो भूतभावोद्भवस्तं करोतीति भूतभावोद्भवकरो भूतवस्तूत्पत्तिकर इति। भाष्ये भूतान्येव भावास्तेषामुद्भवः समुत्पत्तिस्तां करोतीति व्युत्पत्तिं सिद्धवत्कृत्य विधान्तरेण व्युत्पादयति – भूतानामिति। भावः सद्भावो वस्तुभाव इति तट्टीकाकाराः। एवंच भूतानां भवनधर्मकाणां भाव उत्पत्तिः उद्भवो वृद्धिश्च तयोः करः भूतभावोद्भवकर इत्यादिष्युत्पत्तिसिद्धवत्करोऽपि बोध्यः। विसर्जन विसर्गः देवतोद्देशेन चरुपुरोडाशादेर्द्रव्यस्य परित्यागः सएव विसर्गलक्षणो यज्ञादिरुपो वेदविहितः कर्म संज्ञितः कर्मशब्देन मयोक्त इत्यर्थः। अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते। आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः।। इत स्मृतिभूतानां चराचराणामुद्भवमेतस्मात्कर्मणो दर्शयति।
वल्लभ-सम्प्रदायः
(सं) वल्लभः मूलम् ...{Loading}...
।।8.3।। प्रश्नक्रमेणोत्तरमाह श्रीभगवान् – अक्षरमिति त्रिभिः। अत्रवदन्ति तत्तत्त्वविदस्तत्त्वं यज्ज्ञानमद्वयम्। ब्रह्मेति परमात्मेति भगवानिति शब्द्यते इति भागवतपद्ये [1।2।11] ब्रह्माक्षरोऽव्यक्तोऽगणितानन्दकः यः परमात्मा सत्त्वदर्शनीयाङ्गः प्रकटानन्दांशः भगवान् पुरुषोत्तमो दर्शनीयाङ्गो निर्गुणः सदानन्द इत्युपपादितम्। यत् ब्रह्मेति निर्दिष्टं परमं प्रधानं उत्कृष्टमक्षरं न क्षरतीत्यक्षरं क्षेत्रज्ञं समष्टिव्यष्टिमूलं कूटस्थं गणितानन्दकमध्यात्मरूपं भगवतोऽभिन्नमपि पृथगुच्यते भगवद्धामत्वादित्यग्रे वक्ष्यते। यथा च सात्वततंत्रे – विष्णोस्तु त्रीणि रूपाणि पुरुषाख्यान्यथो विदुः। प्रथमं महतः स्रष्टृ द्वितीयं खण्डसंस्थितम्। तृतीयं सर्वभूतस्थं तानि ज्ञात्वा विमुच्यते इति प्रथमं अक्षरं द्वितीयं समष्टिरूपं तृतीयं व्यष्टिजीवरूपमिति बोध्यम्। अध्यात्मं आत्मनि अधिगम्यमान षोडशकलं सूक्ष्मं सेन्द्रियमनोरूपं स्वभावः। भूतेति – भूतानां पञ्चानां भावो भौतिकं शरीरं तस्योद्भवकरो (भावेन वासनया उद्भवकरो) विसर्गःअग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठति (ते) इति पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति [छा.उ.5।3।3] इति श्रुतिप्रतिपादितः कर्मपदस्यार्थः विशेषेण सर्जनस्वभावत्वात् इति पूर्वेषां वेद्यं निर्णीत्तम्।
(सं) वल्लभः पुरुषोत्तमः ...{Loading}...
।।8.3।। एतत्प्रश्नोत्तरं साभिप्राय-ज्ञानार्थं श्रीभगवानुवाच – अक्षरमिति त्रयेण।
न क्षरति न चलतीत्य् अक्षरं सदैक-रस-रूपं पुरुषोत्तम-चरणात्मकं भक्त-हृदयाद् अ-चलं गृहात्मकं वा स्थिरं तत्। परमं परः पुरुषोत्तमो मीयत अस्मिन्निति परमं ब्रह्म बृहत् व्यापकं च।
स्वभावः स्वस्य भगवतो दास्यादि-सेवा-सिद्ध्यर्थं जीव-रूपेण भवनम्। अध्यात्मम् आत्मानमविकृतं सेवा-योग्यं देहम् अधिकृत्य तद्-अनुभवे वर्त्तमानो जीव-भावो ऽध्यात्म-शब्देनोच्यत इत्यर्थः।
भूतानां जीवानां भावस्य भगवद्-रस-रूपस्य +उद्भवकरः प्रकटकारको यो विसर्गो भगवद्-अर्थ-द्रव्यादि-विनियोगेन सेवा-रूपः स कर्म-संज्ञितः क्रिया-रूपः कर्मशब्दवाच्य इत्यर्थः।
संस्कृतटीकान्तरम्
(सं) श्रीधर-स्वामी ...{Loading}...
।।8.3।। प्रश्नक्रमेणोत्तरं श्रीभगवानुवाच – अक्षरमिति त्रिभिः। न क्षरति न चलतीत्यक्षरम्। ननु जीवोऽप्यक्षरस्तत्राह – परमं यदक्षरं जगतां मूलकारणं तद्ब्रह्मएतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्ति इति श्रुतेः। स्वस्यैव ब्रह्मण एवांशतो जीवरूपेण भवनं स्वभावः स एवात्मानं देहमधिकृत्य भोक्तृत्वेन वर्तमानोऽध्यात्मशब्देनोच्यत इत्यर्थः। भूतानां जरायुजादीनां भाव उत्पत्तिः उद्भवश्च उत्कृष्टत्वेन भवनमुद्भवःआदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः इत्युक्तक्रमेण वृद्धिः तौ भूतभावोद्भवौ करोति यः विसर्गः देवतोद्देशेन द्रव्यत्यागरूपो यज्ञः। सर्वकर्मणामुपलक्षणमेतत्। स कर्मशब्दवाच्यः।
हिन्दी-टीकाः
(हि) चिन्मयानन्दः ...{Loading}...
।।8.3।। No commentary.
(हि) तेजोमयानन्दः अनुवादः ...{Loading}...
।।8.3।। श्रीभगवान् ने कहा – परम अक्षर (अविनाशी) तत्त्व ब्रह्म है; स्वभाव (अपना स्वरूप) अध्यात्म कहा जाता है; भूतों के भावों को उत्पन्न करने वाला विसर्ग (यज्ञ, प्रेरक बल) कर्म नाम से जाना जाता है।।
(हि) रामसुखदासः अनुवादः ...{Loading}...
।।8.3।। श्रीभगवान् बोले – परम अक्षर ब्रह्म है और जीवका अपना जो होनापन है, उसको अध्यात्म कहते हैं। प्राणियों का उद्भव (सत्ता को प्रकट) करनेवाला जो त्याग है उसको कर्म कहा जाता है।
(हि) रामसुखदासः टीका ...{Loading}...
।।8.3।।**व्याख्या–‘अक्षरं ब्रह्म परमम्’–**परम अक्षरका नाम ब्रह्म है। यद्यपि गीतामें ब्रह्म शब्द प्रणव वेद प्रकृति आदिका वाचक भी आया है तथापि यहाँ ब्रह्म शब्दके साथ परम और अक्षर विशेषण देनेसे यह शब्द सर्वोपरि सच्चिदानन्दघन अविनाशी निर्गुणनिराकार परमात्माका वाचक है।
आङ्ग्ल-टीकाः
(Eng) शङ्करनारायणः ...{Loading}...
8.3. The Bhagavat said The immutable Absolute is the Brahman. Its intrinsic nature is called the Lord of the self. The emitting activity that causes the birth of both the animate and the inanimate is named ‘action ‘.
(Eng) गम्भीरानन्दः ...{Loading}...
8.3 The Blessed Lord said The Immutable is the supreme Brahman; self-hood is said to the entity present in the individual plane. By action is meant the offerings which bring about the origin of the existence of things.
(Eng) पुरोहितस्वामी ...{Loading}...
8.3 The Lord Shri Krishna replied: The Supreme Spirit is the Highest Imperishable Self, and Its Nature is spiritual consciousness. The worlds have been created and are supported by an emanation from the Spirit which is called the Law.
(Eng) शिवानन्दः अनुवादः ...{Loading}...
8.3 The Blessed Lord said Brahman is the Imperishable, the Supreme; Its essential nature is called Self-knowledge; the offering (to the gods) which causes existence and manifestation of beings and which also sustains them is called action.
(Eng) शिवानन्दः टीका ...{Loading}...
8.3 अक्षरम् imperishable; ब्रह्म Brahman; परमम् Supreme; स्वभावः (His) Nature; अध्यात्मम् Selfknowledge; उच्यते is called; भूतभावोद्भवकरः that which causes the origin and growth of beings; विसर्गः offering (to gods); कर्मसंज्ञितः is called action.Commentary Brahman is imperishable; immutable; eternal; selfexistent; selfluminous; unchanging and allpervading. It is the source; root and womb of everything. In It all beings that are manifested live; move and have their very being. Hence; It is Paramam; the Supreme and Akshara.Its essential nature or Svabhava is Adhyatma. Brahmans dwelling in each individual body as the innermost Self (the Pratyagatma) is called Adhyatma. Yajnavalkya (a great sage of the Upanishadic period) said O Gargi Heaven and earth stand upheld in their places. The Brahmanas call this (Brahman) the Akshara (the imperishable). It is neither red nor white It is not shadow; not darkness; nor air; not ehter; without adhesion; without smell; without eyes; without ears; without speech; without mind; without light; without breath; without a mouth or door; without measures; having nothing within and nothing outside It. It does not consume anything; nor does anyone consume It. Akshara is the Supreme Brahman only.Akshara here does not mean the holy word Om; or the Avyakta (the unmanifested source of all that is in Nature). There is Laya (absorption) for Om. There is destruction for the unmanifested Nature also. Therefore Brahman is the Akshara; the Imperishable; the Supreme Being.Offering All virtuous work.The sacrificial act which consists of offering cooked rice; cakes; etc.; to the gods and which causes the genesis and support of beings is called Karma. The oblations in the sacrifice assume a subtle form and reach the sphere of the sun. Through the sun there is rain; and various sorts of grains; vegetables and fruits crop up. The living beings (Bhutas) live and develop on account of rice and other foodstuffs. Therefore Yajnas are the cause of the genesis and support of all beings.