26 वेदाहं समतीतानि

विश्वास-प्रस्तुतिः …{Loading}…

वेदाहं समतीतानि
वर्तमानानि चार्जुन।
भविष्याणि च भूतानि
मां तु वेद न कश्चन॥7.26॥

रामानुजः …{Loading}…

रामानुजः - मूलम्

॥7.26॥अतीतानि वर्तमानानि अनागतानि सर्वाणि भूतान्य् अहं वेद जानामि मां तु वेद न कश्चन। मया अनुसन्धीयमानेषु कालत्रयवर्तिषु भूतेषु माम् एवंविधं वासुदेवं सर्वसमाश्रयणीयतया अवतीर्णं विदित्वा माम् एव समाश्रयं न कश्चिद् उपलभ्यत इत्यर्थः। अतो ज्ञानी सुदर्लभ एव।

वेदान्तदेशिकः

॥7.26॥ अयं लोको नाभिजानातीत्येतावता वर्तमानमात्रपरत्वं नाशङ्कनीयं किन्तु त्रैकाल्यवर्तीन्यपि भूतानि न जानन्तीत्युच्यतेवेदाहम् इत्यादिना। अत्रअतीतानि इति पृथङ्निर्दिष्टत्वात् भूतानि इत्येतत्क्षेत्रज्ञपरम्। स्वस्य सर्वज्ञत्वमत्र किमर्थमुच्यते इत्यत्राहमयेति। तद्वेदनफलं हि तदेकसमाश्रयणमिति दर्शयितुम्मामेव समाश्रयन्नित्युक्तम्। परमप्रकृतेन सङ्गमयति अत इति।

आदिदेवानन्दः

7.26 I know all being that have passed away, those that live now and those that will hereafter. But no one knows Me. Among the beings existing in the three-fold divisions of time whom I look after, no one understands Me as of the nature described and as Vasudeva incarnated to be a refuge for all. So no one resorts to Me. Therefore, the one who knows Me really (Jnanin) is extremely difficult to be found. Such is the meaning. So also:

शङ्करः …{Loading}…

शङ्करः - मूलम्

॥7.26॥ अहं तु वेद जाने समतीतानि समतिक्रान्तानि भूतानि वर्तमानानिअर्जुन भविष्याणिभूतानि वेद अहम्। मां तु वेद न कश्चन मद्भक्तं मच्छरणम् एकं मुक्त्वा मत्तत्त्ववेदनाभावादेव न मां भजते॥ केन पुनः मत्तत्त्ववेदनप्रतिबन्धेन प्रतिबद्धानि सन्ति जायमानानि सर्वभूतानि मां न विदन्ति इत्यपेक्षायामिदमाह

गम्भीरानन्दः

7.26 O Arjuna, aham, I, however; veda, know; samatitani, the past beings; and vartamanani, the present. I know ca, also; bhavisyani, the future; bhutani, beings. Tu, but; na kascana, no one; veda, knows; mam, Me. Except the one person who is My devotee and has taken refuge in Me, no one adores Me, jus because he does not know My reality. ‘What, again,is the obstruction to knowing Your reality, being prevented by which the creatures that are born do not know You;’ In anticipation of such a estion, the Lord says this:

हरिकृष्णदासः

॥7.26॥ जिस योगमायासे छिपे हुए मुझ परमात्माको संसार नहीं जानता वह योगमाया मेरी ही होनेके कारण मुझ मायापति ईश्वरके ज्ञानका प्रतिबन्ध नहीं कर सकती जैसे कि अन्य मायावी ( बाजीगर ) पुरुषोंकी माया भी उनके ज्ञानको ( आच्छादित नहीं करती ) इसलिये हे अर्जुन जो पूर्वमें हो चुके हैं उन प्राणियोंको एवं जो वर्तमान हैं और जो भविष्यमें होनेवाले हैं उन सब भूतोंको मैं जानता हूँ। परंतु मेरे शरणागत भक्तको छोड़कर मुझे और कोई भी नहीं जानता और मेरे तत्त्वको न जाननेके कारण ही ( अन्य जन ) मुझे नहीं भजते।

आनन्दगिरिः

॥7.26॥ मायया भगवानावृतश्चेत्तस्यापि लोकस्यैव ज्ञानप्रतिबन्धः स्यादित्याशङ्क्याह ययेति। नहीयं माया मायाविनो विज्ञानं प्रतिबध्नाति मायात्वाल्लौकिकमायावत् अथवा नेश्वरो मायाप्रतिबद्धज्ञानो मायावित्वाल्लौकिकमायाविवदित्यर्थः। भगवतो मायाप्रतिबद्धज्ञानत्वाभावेन सर्वज्ञत्वमप्रतिबद्धं सिद्धमित्याह यत इति। लोकस्य मायाप्रतिबद्धविज्ञानत्वादेव भगवदाभिमुख्यशून्यत्वमित्याह मां त्विति। कालत्रयपरिच्छिन्नसमस्तवस्तुपरिज्ञाने प्रतिबन्धो नेश्वरस्यास्तीति द्योतनार्थस्तुशब्दः। मां त्विति लोकस्य भगवत्तत्त्वविज्ञानप्रतिबन्धं द्योतयति। तर्हि तद्भक्तिर्विफलेत्याशङ्क्याह मद्भक्तमिति। तर्हि सर्वोऽपि त्वद्भक्तिद्वारा त्वां ज्ञास्यति नेत्याह मत्तत्त्वेति। विवेकवतो मद्भजनं नतु विवेकशून्यस्य सर्वस्यापीत्यर्थः।

नीलकण्ठः

॥7.26॥ ननु त्वदभिन्नं लोकं त्वन्माया मोहयति चेत्त्वां कुतो न मोहयतीत्यत आह वेदाहमिति। सत्यम्। सत्यपि लोकस्य मम चाभेदे औपाधिकभेदस्य सत्त्वादुपाधिधर्माभिमानित्वाल्लोको मूढः तदभावाच्चाहं सर्वज्ञ इति विशेषः। अक्षरार्थः स्पष्टः।

धनपतिः

॥7.26॥ मायया त्वमावृतश्चेत्तवापि लोकस्येव ज्ञानप्रतिबन्धः स्यादित्याशङ्कयाह वेदेति। अहमप्रतिबद्धज्ञानशक्तिः समतीतानि समतिक्रान्तानि वर्तमानानि भविष्याणि च भूतानि चराचरात्मकानि सर्वाणि वेद जानामि। त्वमपि योगद्यभ्यासेन स्वच्छान्तःकरणः सन् ज्ञातुं शक्तोऽसि। अगं तु नित्यशुद्धः सर्वोपाधिधर्माभिमानमलशून्यो जानामीति किमु वक्त्वयमितति सूचयन्संबोधयति अर्जुनेति। मां तु परमात्मानं मद्भक्तं मच्छरणमेकं त्यक्त्वा न कश्चन वेद जानाति। तथाच यया मायया समावृतं मां लोको नाभिजानाति नासौ मदीया सती ममेश्वरस्य मायाविनो ज्ञानं प्रतिबध्नाति मायात्वात् लौकिकमायावत्। यद्वा नाहं मायय प्रतिबन्द्धज्ञानं मायावित्वात् लौकिकमायाविवदिति भावः।

मधुसूदन-सरस्वती

॥7.26॥ अतो मायया स्वाधीनया सर्वव्यामोहकत्वात्स्वयं चाप्रतिबद्धज्ञानात्वात् अहमप्रतिबद्धसर्वविज्ञानो मायया सर्वांल्लोकान्मोहयन्नपि समतीतानि चिरविनष्टानि वर्तमानानि च भविष्याणि च। एवं कालत्रयवर्तीनि भूतानि स्थावरजङ्गमानि सर्वाणि वेद जानामि। हे अर्जुन अतोऽहं सर्वज्ञः परमेश्वर इत्यत्र नास्ति संशय इत्यर्थः। मां तु। तुशब्दो ज्ञानप्रतिबन्धद्योतनार्थः। मां सर्वदर्शनमपि मायाविनमिव मन्मायामोहितः कश्चन कोऽपि मदनुग्रहभाजनं मद्भक्तं विना न वेद मन्मायामोहितत्वात्। अतो मत्तत्त्ववेदनाभावादेव प्रायेण प्राणिनो मां न भजन्त इत्यभिप्रायः।

रामरायः - २६

वेदेति। यत इति। यस्मादेवं पूर्वोक्तरीत्या परमेश्वरस्य ज्ञानं माययाऽप्रतिबद्धम् ; लोकस्य ज्ञानं तु मायया प्रतिबद्धम् , अतः एवं ममामायावृतत्वाल्लोकस्य च मायावृतत्वादित्यर्थः।

हे अर्जुन! अहं समतीतानि वर्तमानानि भविष्याणि च भूतानि वेद, मां तु कश्चन न वेद। अहं त्विति तुशब्दो जीववैलक्ष- ण्यार्थः। प्रत्यगभिन्नः परमात्मा परमेश्वरोऽहंशब्दार्थः।

न च मायावच्छिन्नचैतन्यस्य परमेश्वरस्य अन्तःकरणोपहितचैतन्यस्य प्रत्यगात्मनश्च कथमभेद इति वाच्यम् , मायावच्छि- न्नेश्वरस्य मायोपहितब्रह्मणश्चैक्यं तावत् सर्वविदितम् , अवच्छिन्नत्वोपहितत्वयोर्भेदेऽपि मायाया अभेदेनेश्वरब्रह्मणोरप्यभेदात्। एवं मायोपहितान्तःकरणोपहितयोः प्रत्यग्ब्रह्मणोरप्यभेद एव, उपाध्योर्भेदेऽप्युपहिताभेदात्। तथा मायावच्छिन्नान्तःकरणोपहितयोरप्यभेद एव, उपाध्योर्भेदेऽप्युपहिताभेदात्। यदेव चैतन्यं मायावच्छिन्नं मायोपहितं च तदेवान्तःकरणोपहितमपीति। न चैवम् अन्तःकरणा- वच्छिन्नं चैतन्यमपि तदेवेति जीवोऽपि प्रत्यगीश्वरब्रह्माभिन्न एवेति वाच्यम् , इष्टापत्तेः।

तर्हि लोको मां न वेद अहं सर्वं वेदेति कुतो भेदेन निर्देशो जीवेश्वरयोरिति चेत्? उच्यते— उपाधिकृताज्ञत्वप्राज्ञत्व- संसारित्वासंसारित्वादिभेदादिति।

न चैवं प्रत्यग्ब्रह्मणोरभेदेऽप्यस्ति प्रत्यगीश्वरयोर्भेद इति वाच्यम् , जीवस्येवेश्वरस्यापि स्वरूपत्वात् प्रत्यगात्मनः। न च ब्रह्मैवेश्वरस्य स्वरूपमिति वाच्यम् , प्रतीच एव ब्रह्मत्वात् , ब्रह्मणोऽन्तःकरणप्रदेशोपलभ्यमानत्वमात्रेण प्रत्यक्त्वस्योक्तत्वात्। तस्मात् प्रत्यगभिन्न एव परमेश्वरः।

[[४०१]]

भविष्याणीति। भविष्यन्तीत्यर्थः। भूतानीति। प्राणिन इत्यर्थः। वेद जानामि; स्वरूपचैतन्येन मायावृत्त्या वेति भावः। सृष्टेः प्रागीश्वरस्य मायावृत्तिरूपेण सद्भावश्रवणात्। मां तु कश्चनाप्यविद्वान् प्राणी न वेद न जानाति। अविदुषामीश्वरस्यानात्मत्वेन परोक्षत्वादित्यभिप्रायः।

न च - विद्वानिति किम् , सर्वोऽपि न वेदैवेति - वाच्यम् , सर्वस्याप्यनीश्वरत्वे शास्त्रप्रवृत्त्यनुपपत्तेः। न हीश्वरमविद्वांसः आचार्यव्यासादयः शुकादिभ्यः शिष्येभ्य ईश्वरतत्त्वमुपदिशेयुः। अत एवाह— मद्भक्तं मच्छरणमेकं मुक्त्वेति। आत्मभक्त आत्मैकशरणश्च स एक एव मां वेद, तस्यात्मतत्त्वज्ञत्वान्न ह्यात्मतत्त्वज्ञानं विना पुंसामात्मरत्यादिकं भवितुमर्हति। तस्य चात्मज्ञस्येश्वरोऽपरोक्ष एवात्मत्वादीश्वरस्य।

यद्यपि विदुषामिवाविदुषामपीश्वर आत्मैव, तथाप्यविद्वांस ईश्वरमात्मानं न मन्यन्ते, किन्त्वन्यमेवेत्यत उक्तम्— विदुषामात्मैवेश्वरो, न त्वविदुषामिति। अविद्वांसो ह्यनात्मन्यन्तःकरणादावात्मबुद्धिं दधत इति तेषामन्तःकरणादिरेवात्मेति अन्तःकरणादिसङ्घाता एवाविद्वांसः प्राणिनः। विद्वांस्तु आत्मनीश्वरे एवात्मबुद्धिं धत्त इति विदुष ईश्वर एवात्मेति विद्वानात्मैवेश्वरः। न तु कार्यकरणसङ्घातरूपः प्राणी। तथा च विद्वानात्मैव मामात्मानं वेत्ति, न त्वन्यः कोऽपि प्राणीति युक्तमुक्तम्— मां तु वेद न कश्चनेति।

सर्वाणि भूतानि अहमेव वेद, मामप्यहमेव वेद, किमपि भूतं मां न वेद, यो विद्वान् मां वेद स विद्वानात्माऽहमेवेति न ममान्यवेद्यत्वसम्भव इति फलितार्थः।

‘चक्षुषश्चक्षुः श्रोत्रस्य श्रोत्रम्’ ‘यन्मनसा न मनुते येनाहुर्मनो मतम्’ ‘विज्ञातारमरे केन विजानीयात्’ इति श्रुतिभ्यः ज्ञाता ऽऽत्मा केनापि न दृश्यते। दृश्यत्वे सति घटस्येवात्मनो जडत्वमिथ्यात्वादिप्रसक्तेः, दृग्रूपेणात्मना कार्यकरणसङ्घाताद्यात्मकसर्व- प्रपञ्चस्य भास्यमानत्वेनैव सर्वस्य दृश्यत्वात्। ‘तस्य भासा सर्वमिदं विभाती’ति श्रुतेः। प्रपञ्चावभासकादित्यादिज्योतिषामपि तेनैव भास्यमानत्वात् , तस्य चानन्यभास्यत्वात्। अत एव स्वयञ्ज्योतिष्ट्वप्रसिद्धिः, प्रत्यक्त्वप्रसिद्धिश्च। दीपादिप्रातिलोम्येन सर्वं जगदात्मानं चात्मने भासयतीति प्रत्यक्पदनिरुक्तेर्दर्शितत्वात्। अनन्यभास्यत्वे सति सर्वावभासकत्वस्य स्वयञ्ज्योतिर्लक्षणत्वात् , स्वयञ्ज्योतिषि दीपादौ दर्शितलक्षणसमन्वयात् , अनन्यभास्यत्वे सत्यात्मने सर्वावभासकत्वस्य प्रत्यक्स्वयञ्ज्योतिर्लक्षणत्वात्। अथवा अनन्यभास्यत्वे सति सर्वावभासकत्वमित्येव प्रत्यक्स्वयञ्ज्योतिर्लक्षणम्। दीपादीनां च चक्षुरादिभास्यत्वसत्त्वान्न तत्रातिव्याप्तिर्लक्षणस्य। प्रकृतश्लोकेन च मां तु वेद न कश्चनेत्यनेनानन्यभास्यत्वस्य, अहं सर्वं वेदेत्यनेन सर्वावभासकत्वस्य चोक्तत्वात् प्रत्यक्स्वयञ्ज्योतिर्लक्षणपर एवायं श्लोकः।

ननु अनन्यभास्यत्वे सति सर्वावभासकत्वमित्येतदात्मनो लक्षणमसम्भवि, आत्मनि ‘दृश्यते त्वग्र्यया बुद्ध्या’ इति बुद्धिवेद्यत्व- श्रवणादिति चेत् , मैवम् ; विचारात्मिकया बुद्ध्या आत्मतत्त्वमीदृशमिति ज्ञानमात्रं जायते, न त्वात्मसाक्षात्कारः, तस्यानन्याधीन- त्वादिति। कथमन्यथा ‘विज्ञातारमरे केन विजानीयाद्’ इत्यादिश्रुतिविरोधनिरासः? अथवा जाग्रत्स्वप्नवद् विक्षेपशून्यायां, सुषुप्तिवद् लयशून्यायां च शान्तायामेकाग्रायां बुद्धौ1 पूर्वोक्तलक्षणः स्वयम्प्रभः आत्मा स्फुरतीति बुद्धिवेद्यत्वोपचारः आत्मनः इति बोध्यम्।

[[४०२]]

इदं चैतच्छ्लोकोक्तमनन्यावभास्यत्वे सति सर्वावभासकत्वमात्मनो लक्षणं द्वैतादिमतेषु न सिध्यति , भिन्नयोर्जीवेश्वरयोः परस्परवेद्यत्वसत्त्वेनानन्यावभास्यत्वाभावात्। न चेश्वरावभास्यत्वस्य जीवे सत्त्वेन जीवे प्रकृतिलक्षणासम्भवेऽपीश्वरे जीवावभास्य- त्वाभावाल्लक्षणसङ्गतिरिति वाच्यम् , ‘तमेवं विदित्वाऽतिमृत्युमेती’त्यादिना जीवज्ञेयत्वसत्त्वादीश्वरे। ‘यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः’ इतीहैवोक्तत्वात्। मुक्तौ जीवानामीश्वरसाक्षात्कारसत्त्वाच्च।

अस्मन्मते त्वात्मन एव वेदितृत्वाद् वेद्यत्वाच्च न लक्षणानुपपत्तिः, आत्मावभास्यत्वस्यान्यावभास्यत्वप्रतियोगित्वात्। आत्मा खल्वन्यप्रतियोगी; न ह्यन्यं यः कोऽप्यात्मत्वेन प्रत्येति। न चैकस्यैव कर्तृकर्मत्वं कथमिति वाच्यम् , मायया तदुपपत्तेः। न चास्त्यन्तर्यामिण ईश्वरस्य जीवानवभास्यत्वमिति वाच्यम् , सुतरामन्तर्यामिण ईश्वरस्य जीवप्रमाऽविषयत्वे अन्तर्यामिण एवासिद्धेः।

‘मां तु वेद न कश्चने’त्युक्तम् ; तस्य फलमाहमत्तत्त्वेति। आत्मज्ञानं विना आत्मभजनासम्भवादिति भावः।

ननु अयं श्लोक ईश्वरपर एव, सर्वज्ञेश्वरश्रीकृष्णपरमात्मना अहमिति मामिति चोक्तत्वात्। अत एव अतीतानागतवर्तमान- सर्वभूतज्ञानरूपसर्वज्ञत्वोपपत्तिरिति चेत् , नेति केनोक्तम्? न च प्रत्यगात्मपर इति त्वयोक्तमिति वाच्यम् , प्रत्यगात्मा हीश्वरः। न च - अन्तःकरणावच्छिन्नः प्रत्यगात्मा, मायावच्छिन्नः परमात्मेश्वर इति - वाच्यम् , कृष्णस्यापि तच्छरीरान्तरान्तःकरणावच्छिन्नत्वेन प्रत्यगात्मत्वात्। न हि कृष्णशरीरेऽन्तःकरणाभावः, न वा तदवच्छिन्नप्रत्यगात्माभावः। कथमेवं प्रत्यगात्मनः कृष्णस्यापीश्वरत्वम्? यदि प्रत्यगात्मा जीवः स्यात्। न च - कृष्णशरीरगतान्तःकरणं साक्षान्मायापरिणामत्वान्मायैवेति - वाच्यम् , महत्तत्त्वात्मकस्या- स्मदन्तःकरणस्यापि साक्षान्मायापरिणामत्वेन मायात्वापत्तेः। न च शुद्धसत्त्वात्मकत्वात् कृष्णान्तःकरणं मायेति वाच्यम् , योगिचित्तस्यापि शुद्धसत्त्वमयत्वेन मायात्वापत्तेः। न च कृष्णस्य सर्वभूतसाक्षात्काररूपसर्वज्ञत्ववत्त्वादीश्वरत्वमिति वाच्यम् , वसिष्ठादियोगिनामपि जीवानां तद्वत्त्वेनेश्वरत्वापत्तेः। न च योगाद्यजन्यं सर्वज्ञत्वं कृष्णस्यास्तीति कृष्णः सर्वज्ञ ईश्वर इति वाच्यम् , तत्रापि कृष्णशरीरान्तरान्तःकरणावच्छिन्नप्रत्यगात्मन एव सर्वज्ञत्वेनेश्वरत्वात्। आत्माभासवशादेवान्तःकरणस्यापि ज्ञातृत्वलाभात्। न च - यदि कृष्णोऽपि प्रत्यगात्मा अस्मदादिवत् तर्ह्यसर्वज्ञ एव स्यात् ; न हि प्रत्यगात्मनामस्माकं सर्वज्ञत्वमनुभवसिद्धम् ; न ह्यनुभवसिद्धं प्रत्यगात्मनामसार्वज्ञ्यं शास्त्रशतेनापि निराकर्तुं शक्यते; तस्मात् सर्वज्ञः कृष्णः परमात्मैव, न प्रत्यगात्मेति - वाच्यम् , यदि प्रत्यगात्मनां किञ्चिज्ज्ञत्वं स्वाभाविकं स्यात् तर्हि सदैकरूपमेव स्यात् तत्किञ्चिज्ज्ञत्वं; न तु तथा दृश्यते। बालस्या- काराद्यक्षरापरिज्ञानात् , तस्यैव तरुणस्य वेदवेदाङ्गादिवित्त्वात् , तस्यैव वृद्धस्य पुनस्तद्विस्माराच्च। किञ्च सुषुप्तावपि तत् किञ्चिज्ज्ञत्वं दृश्येत, न तु दृश्यते। तस्मादन्तःकरणधर्म एव किञ्चिज्ज्ञत्वम्। अन्तःकरणं च सङ्कोचविकासादिकं प्राप्नोति। लीने चास्मिन्नन्तःकरणे सुषुप्तौ नास्ति किञ्चिज्ज्ञत्वोपलम्भः। एवमन्तःकरणे सति किञ्चिज्ज्ञत्वसत्त्वम् , तदभावे तदभाव इत्यन्वयव्यतिरेकाभ्यां किञ्चिज्ज्ञत्व- स्यान्तःकरणधर्मत्वं स्थितम्। यथा किञ्चिज्ज्ञत्वं तथा सर्वज्ञत्वमप्यन्तःकरणधर्म एव। योगाभ्यासादिना योग्यन्तःकरणस्य विकसितस्य सर्वज्ञत्वसम्भवाद् वसिष्ठविश्वामित्राद्यन्तःकरणस्य सर्वज्ञत्वसर्वकर्तृत्वादिश्रवणात्।

अन्तःकरणस्य चायं धर्मः केवलं जडस्य चित्प्रतिबिम्बसम्बन्धकृत एवेति तद्धर्म आरोप्यते चिति— ‘सर्वज्ञः आत्मा, किञ्चिज्ज्ञः आत्मा’ इति। वस्तुतस्तु आत्मनः अन्तःकरणादिसर्वावभासकत्वात् सर्वज्ञत्वम्। सर्वज्ञस्य किञ्चिज्ज्ञस्य वा अन्तःकरणस्य सर्वस्यापि साक्षी खल्वात्मा। तथा च सर्वज्ञान्तःकरणसाक्षित्वात् प्रत्यगात्मनि सर्वज्ञत्वोपचारः, किञ्चिज्ज्ञान्तःकरणसाक्षित्वात् किञ्चिज्ज्ञत्वोपचारश्च।

न चैवमनन्यावभास्यत्वे सति सर्वावभासकत्वलक्षणस्य सर्वज्ञान्तःकरणेऽतिव्याप्तिरिति वाच्यम् , तस्य साक्षिभास्यत्वेनानन्य- भास्यत्वाभावात्। 2सर्वावभासकत्वं स्वतः सर्वावभासकत्वमिति विवक्षितम्। तथा चान्तःकरणस्य चित्प्रतिफलनसामर्थ्यादेव भासकत्वम् , न तु स्वत इति न तत्रातिव्याप्तिरिति वा।

[[४०३]]

अनेन च सर्वज्ञान्तःकरणेनात्मनस्तादात्म्याध्यासात् सर्वज्ञः परात्मेति, किञ्चिज्ज्ञान्तःकरणेनात्मनस्तादात्म्याध्यासात् किञ्चिज्ज्ञः प्रत्यगात्मेति च भ्रान्ता व्यवहरन्ति। विवेकिनस्तु आत्मान्तःकरणयोस्तादात्म्याध्यासं निरस्य अन्तःकरणादिसर्वसाक्षित्वेन सर्वावभासकत्वात् प्रत्यगात्मानमेव सर्वज्ञमीश्वरं वदन्तीति स्थितम्।

नन्वेवमीश्वरस्य कृष्णस्य स्वाभाविकानवधिकातिशयासङ्ख्येययोगविभववदन्तःकरणत्वात् सर्वज्ञत्वम् , अर्जुनादीनां तु तादृशान्तःकरणराहित्यादसर्वज्ञत्वमितीमं व्यवहारसिद्धमेव जीवेश्वरभेदमाश्रित्य ‘अहं सर्वाणि भूतानि वेद, मां तु न कश्चन’ इत्युक्तं कृष्णेन; न तु तत्त्वदृष्ट्या, तत्त्वत आत्मनि सर्वभूतज्ञानादिरूपान्तःकरणधर्मसर्वज्ञत्वाभावादिति चेत् , मैवम् ; तत्त्वकथनसमये शास्त्रदृष्टेरेव आश्रयणीयत्वेन लोकदृष्टेरनाश्रयणीयत्वात्। तादृशान्तःकरणादिसहितेश्वरस्य साकारस्य रामकृष्णादेः सर्वविदितत्वेन ‘मां तु वेद न कश्चन’ इति वचनस्यायुक्तत्वात्।

न च प्रत्यगात्मनः परिच्छिन्नस्य सर्वभूतसाक्षात्कारो न सम्भवतीति वाच्यम् , प्रत्यगात्मनः परिच्छिन्नत्वे घटादिवदनित्यत्व- प्रसङ्गात्। ‘नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः’ इति वाक्यविरोधात्। परिपूर्ण एव प्रत्यगात्मा। स च सर्वगतत्वात् सर्वं वेदैव; तदन्यस्य सर्वस्यापि जडत्वात् स एवं सर्वं वेद ; तं तु कोऽपि न वेद तदाभासयुक्तमप्यन्तःकरणं तन्नैव भासयेत्। न हि सूर्यादिप्रतिबिम्बं सूर्यादिकं भासयति। इदं चान्तःकरणगतं वेत्तृत्वं तदन्तर्गतचिदाभासस्यैवेति चिद्धर्म एवायमिति न जडस्यान्तःकरणस्य वेत्तृत्वप्रसङ्गः। तस्मात् स्वतो नास्त्येवान्तःकरणस्य किञ्चिज्ज्ञत्वं, सर्वज्ञत्वं वा जडस्येति सिद्धमात्मन एव सर्वद्रष्टृत्वम्।

‘नान्योऽतोऽस्ति द्रष्टा’ इति श्रुतिरप्यमुमेवार्थमाह; अतोऽस्मादात्मनः अन्यो द्रष्टा नास्तीति श्रुत्यर्थः। यदि श्रुतिगतस्य अतः इत्यस्य जीवोऽर्थः, तर्हि द्रष्टुरीश्वरस्य जीवादन्यस्य सिद्धत्वेन तदपलापः सम्भवति। यदि त्वीश्वरोऽर्थस्तर्हीश्वरादन्यस्य जीवस्य द्रष्टुरपलापः। अथवा जीवस्य दृश्यत्वेन जडत्वमनित्यत्वं चेति द्वैतिमते न श्रुत्युपपत्तिः। एवं श्रुतिविरुद्धत्वादेव तार्किकादिद्वैत- मतान्यप्रमाणानि। श्रुतेरेव प्रबलप्रमाणत्वात् , तदनुग्रहादेव स्मृतीनां प्रामाण्यात्। एवं प्रत्यगभिन्नपरमात्मन एकस्यैव सर्वद्रष्टृत्वं, तदन्यस्यान्तःकरणादिसर्वप्रपञ्चस्यापि दृश्यत्वमिति सिद्धम्।

न च - भूतानि प्रत्यगात्मानः, अहंशब्दार्थस्तु परमात्मेति - वाच्यम् , कार्यकरणसङ्घाताभिमानिनस्तदात्मकाः साभासबुद्धयः प्राणिनो जीवा एवेह भूतानीति सिद्धान्तात्। भवन्तीति भूतानीति हि व्युत्पत्तिः। प्रत्यगात्मनोऽन्यत् सर्वमपि जगत् कार्यत्वेन भूतशब्द- वाच्यं हि। प्रत्यगात्मा तु ‘अजो नित्यः’ इति मन्त्रात् न कार्यभूतः। स एवेहाहंशब्दार्थः, तदन्यस्य परमात्मनोऽभावात्। स चैक एव, द्रष्ट्रन्तरनिषेधश्रवणात्। स एव सर्वज्ञः, क्षेत्रज्ञत्वात् सर्वस्य च क्षेत्रत्वात्। आभासोऽपि चित्कार्यत्वान्मिथ्यात्वाच्च क्षेत्रमेव बुद्ध्यादिवत्।

आभासः सत्य एव चिद्रूपत्वात् , तस्य च चिद्भेदः कल्पित इति केचित्। तन्मते तु आभासोऽपि प्रत्यगात्मैवेति न तस्य क्षेत्रत्वम्। बुद्ध्यादय एव क्षेत्रम्।

न च - चिच्चिदाभासयोः कथं प्रत्यगात्मत्वमिति - वाच्यम् , चिच्चिदाभासभेदस्य कल्पितत्वेन तदभेदस्य सिद्धत्वात्। एकैव चिद् उपाधिवशाद् बिम्बप्रतिबिम्बभावेन दृश्यते। यथा एकमेव मुखं दर्पणोपाधिवशादिति, बिम्बप्रतिबिम्बभावस्यौपाधिकत्वेनातात्त्विक- त्वादिति।

अत्र च एकस्मिन्नेवाज्ञाने चित् प्रतिफलति; तत्र बिम्बभूता चिदीश्वरः; प्रतिबिम्बभूता तु जीव इति बिम्बप्रतिबिम्बभावेन जीवे- श्वरयोः कल्पितं भेदमाहुः। 3एकस्मिन्नेवान्तःकरणे चित् प्रतिफलति। तत्र बिम्बभूता चित् कूटस्थः प्रत्यगात्मा, प्रतिबिम्बभूतस्तु जीव इति केचित्।

अमुं च बिम्बभूतं प्रत्यगात्मानमीश्वरं वक्ष्यति कृष्ण एव— ‘ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठती’ति, प्रत्यग्रूपेण तिष्ठतीति तदर्थात्। सर्वथाऽपि बिम्बचैतन्यमीश्वरः, प्रतिबिम्बचैतन्यं जीवः। (श्लोकः) ‘त्वत्प्रभुजीवप्रियमिच्छसि चेन्नरहरिपूजां कुरु सततं, प्रतिबिम्बालङ्कृतिविधिकुशला बिम्बालङ्कृतिमादधते॥ भवमरुभूमौ विरसायां त्वं चेतोभृङ्ग भ्रमसि वृथा, भज भज श्रीलक्ष्मीनरसिंहा- नघपदसरसिजमकरन्दम्॥’ इति शङ्कराचार्योक्तेश्च।

[[४०४]]

अयं च प्रतिबिम्बो जीवः उपाधिभूतबुद्धिधर्मान् कर्तृत्वादीनात्मन्यध्यस्य संसरतीव, यथा सूर्यप्रतिबिम्बस्तज्जलचलना- च्चलतीव। बिम्बस्य तूपाधिसंयोगाभावादुपाधिसंयोगे सति प्रतिबिम्बस्यैवानुदयाद् नोपाधिधर्मसम्बन्धः इति प्रत्यगात्मेश्वरो निर्विकारः। प्रतिबिम्बोऽपि वस्तुतो बिम्बाभिन्नत्वादविकार एव, उपाधितादात्म्यभ्रमात्तु विकारीवेति सिद्धं जीवस्यास्य संसारित्वमीश्वराभेदश्च। अयं च प्रतिबिम्बः बुद्धितादात्म्याध्यासात् क्षेत्रत्वं, प्रत्यग्बिम्बतादात्म्यात्तु क्षेत्रज्ञत्वं च प्रतिपद्यत इति प्रतिबिम्बस्य भूतत्वेन प्रत्यक्त्वेन च निर्देशः सङ्गच्छते, विवक्षाभेदात्। तथा च यः प्रतिबिम्बः आत्मानं चिद्रूपं वेद स ज्ञानी प्रत्यगात्मैव; यस्तु प्रतिबिम्बः आत्मानं कर्तारं भोक्तारं च वेद बुद्धितादात्म्याध्यासात् सोऽविद्वान् जीव एव, न प्रत्यगात्मा, केवलप्रतिबिम्बस्य जीवत्वाभावेऽपि उपाधिधर्माध्यस्तप्रतिबिम्बस्य संसारित्वेन जीवत्वात्। अमुमेव जीवेश्वरविभागमाश्रित्य प्रवृत्तोऽयं श्लोकः— वेदाहमिति। बिम्बभूतः ईश्वरोऽहं प्रत्यगात्मा सर्वाणि वेद भूतानि। यः प्रतिबिम्बो बिम्बप्रतिबिम्बैक्यरूपं तत्त्वं वेत्ति स च प्रत्यगात्मैवेति सर्वाणि वेद भूतानि, मां च वेद स्वाभिन्नमात्मानम्। यस्तूपाधि- तादात्म्यमापन्नः प्रतिबिम्बः स सर्वाणि वेद [भूतानि], मां च न वेदेत्यर्थः। यः प्रतिबिम्बः एवं प्रत्यगात्मानं न वेद स किञ्चिज्ज्ञः; यस्तु प्रतिबिम्ब आत्मानं वेद स सर्वज्ञ इति सिद्धं बिम्बस्येव प्रतिबिम्बस्यापि सर्वज्ञत्वम्। बिम्बैक्येऽपीमे प्रतिबिम्बाः अनेका[केऽ] न्तःकरणानामनेकत्वात् , सूर्यैक्येऽपि तत्प्रतिबिम्बानेकत्ववत्। अत एवैकः ईश्वरः, जीवाः अनेके इति व्यवहारः। वस्तुतस्तु बिम्बप्रतिबिम्बैक्याज्जीवेश्वरयोरभेद एव। कृष्णश्च वसिष्ठादिवदस्मदादिवच्च प्रतिबिम्ब एव। परन्तु वसिष्ठादिवद् बिम्बतादात्म्यमापन्नः, न त्वस्मदादिवद् बुद्धितादात्म्यमापन्नः। अत एव बिम्बाभेदमात्मनि सिद्धवत्कृत्य सर्वेश्वरं सर्वज्ञं प्रत्यगात्मानम् ‘अह’मित्यात्मत्वेन व्यवहरति। एवं वामदेवोऽपि ‘अहं मनुरभव’मित्यादि प्रोवाच। प्रह्लादश्च ‘मत्तः सर्वमहं सर्वं मयि सर्वं सनातने’ इति। यस्तु बिम्बभूत ईश्वरः स शुद्धचैतन्यं ब्रह्मैव, तस्य नास्ति वक्तृत्वादिव्यवहारः, शरीराद्यभावात्। परन्तु सर्वं केवलं वेद , चैतन्यरूपत्वात्। ‘न तस्य कार्यं करणं च विद्यते’ ‘स सर्वज्ञः सर्वविदि’ति श्रुतेः। तस्मात् सिद्धं प्रत्यगात्मन ईश्वरस्य सर्वज्ञत्वम् अनन्यवेद्यत्वं च। न च ज्ञानिप्रतिबिम्बजीववेद्यत्वमस्तीति वाच्यम् , तस्य बिम्बानन्यत्वाज्ज्ञानिनः प्रतिबिम्बस्य। एतेनान्तःकरणादौ अहमभिमानी प्रतिबिम्बो जीवः किञ्चिज्ज्ञः परतन्त्रः संसारी, बिम्बस्तु सर्वज्ञ ईश्वरः प्रत्यगात्मेति औपाधिको जीवेश्वरभेदः, तत्प्रयुक्तः सर्वव्यवहारः, वस्तुतो जीवेश्वरैक्यादद्वैतं चेति सर्वमनवद्यं सिद्धम्। यथा मुखमेव दर्पणवशात् प्रतिमुखत्वेन प्रतीयते, तथा चैतन्यमेवोपाधिवशाज्जीवत्वेन प्रतीयते; न तु वस्तुतो जीवोऽस्ति, यथा प्रतिमुखं वस्तुतो नास्ति। तथा च ब्रह्मैव मायया प्राप्तजीवभावं सत् संसरति, विद्यया च विमुच्यत इव। 4न तु मायाद्युपाधिषु नीरूपेषु ब्रह्मणो नीरूपस्य कश्चिदस्ति प्रतिबिम्बः, असम्भवात्। तदेवं परमार्थदृष्ट्या जीवस्यैव ब्रह्मत्वाज्जीव एव प्रत्यगात्मा सर्वज्ञश्च। तदन्यत् सर्वं जडं दृश्यं च। अत एवोक्तम्— सर्वमहं वेद , मां तु वेद न कश्चनेति। य एवमात्मानं न वेद स ब्रह्मापि जीवः किञ्चिज्ज्ञोऽज्ञ एव। स चोपाधिभेदादनेक एव, तस्यैवेह भूतशब्देन ग्रहणम्। अयं हि कार्यकरणसङ्घाते भूतशब्दवाच्येऽहमभिमानी। यश्चैवमात्मानं वेद स जीवोऽपि ब्रह्मैव, तस्य च पूर्णत्वादात्मन एकत्वं ब्रह्मणः। तस्मात् तत्त्वविद् दृष्ट्या एक एवात्मा सर्वज्ञ ईश्वरः। अतत्त्वविद् दृष्ट्या त्वीश्वराद्भिन्ना अनेके जीवाः संसारिणः। तदनुसारेण चायं श्लोकः, तत्त्वविदां सर्वज्ञ आत्माऽन्ये त्वनात्मानो जडाः प्राणिन इति वाक्यार्थम् , अतत्त्वविदां तु सर्वज्ञ ईश्वरो, जीवास्तु किञ्चिज्ज्ञाः, नेश्वरज्ञाः इति वाक्यार्थं 5 च जनयतीति युक्तम्।

यत्तु रामानुजः— मां कृष्णं कश्चनापीश्वरमवतीर्णं न वेदेति, तदसत् , ‘मां न वेदे’त्येव मूले स्थितत्वेन ‘ईश्वरमवतीर्ण’मिति मूलाद् बहिः कल्पनस्याप्रमाणत्वात्। ‘मां कृष्णं न वेदे’ति वर्णनं त्वयुक्तम् , कृष्णस्य सर्वतात्कालिकजनविदितत्वात्॥२६॥

[[४०५]]

मध्वः …{Loading}…

मध्वः - मूलम्

॥7.26॥ न मां माया बध्नातीत्याह वेदेति। न कश्चनातिसमर्थोऽपि स्वसामर्थ्यात्।

जयतीर्थः

॥7.26॥ अकस्मात्स्वस्य सार्वज्ञं किमित्युच्यते इत्यत आह नेति। यवनिकाद्युभयभागवर्तिनोः परस्पराज्ञानवत्तवापि भूतविषये ज्ञानं न स्यादिति शङ्कानिरासार्थमिति शेषः। तथापिमां तु वेद न कश्चन इति पुनरुक्तमित्यत आह न कश्चनेति। असमर्थो लोको न जानातु अतिसमर्थस्तु ब्रह्मादिर्ज्ञास्यतीति शङ्कानिरासार्थमेतदुक्तम्। कश्चनेति विशेषणादिति भावः। तर्हिज्ञानी च भरतर्षभ 7।16 इत्यादिविरोध इत्यत उक्तम् स्वेति।

अभिनव-गुप्तः …{Loading}…

अभिनवगुप्तः - मूलम्

॥7.25 7.26॥ नाहमिति। वेदाहमिति। सर्वेषां नाहं गोचरतां प्राप्नोमि।

शङ्करनारायणः

7.25-26 Naham etc. Vadaham etc. I am not perceivable to all. But the actions themselves, if performed, would beget emancipation at the time of dissolution [of the world]. otherwise, how does the total dissolution come to be there ; When this doubt arises, [the Bhagavat] commences [to answer] as :

वल्लभः …{Loading}…

वल्लभः - मूलम्

॥7.26॥ सर्वोत्तमं मत्स्वरूपं अजानन्त इत्युक्तं तदेव स्वसर्वोत्तमत्वं परत्वमनावृतज्ञानादिशक्तिमत्त्वेन दर्शयन्नन्येषामज्ञानमाह वेदाहमिति। अतीतानि वर्त्तमानान्यनागतानि च सर्वाणि भूतानि जानामि। मां तु कश्चन न जानाति। मयाऽनुसन्धीयमानेषु कालत्रयवर्त्तिषु मामेवंविधमहिमानं वासुदेवं सर्वमुक्त्यर्थमवतीर्णं ज्ञात्वा मामेव प्रपद्यमानो न कश्चिदुपलभ्यत इत्यर्थः। अतो भगवन्मार्गीयो ज्ञानी दुर्लभ एव।

पुरुषोत्तमः

॥7.26॥ ननु याँस्त्वं स्वसेवार्थं प्रकटीकृतान् पुनः स्वकीयत्वेन न जानासि तदा माया तान् व्यामोहयति उतान्यथा वा इत्याशङ्क्याह वेदाहमिति। अहं समतीतानि सेवामकृत्वा नष्टानि वर्त्तमानानि साम्प्रतं सेवां कुर्वाणानि भविष्याणि सेवार्थं प्रकटानि यानि भूतानि मत्सत्तया प्रकटानि स्थावरजङ्गमानि त्रिकालवर्तीनि मदीयत्वेन वेद जानामि। तु पुनः मज्ज्ञानानन्तरमपि कश्चन त्रिकालवर्तिषु मां प्रभुत्वेन न वेद। न जानातीत्यर्थः।

श्रीधर-स्वामी …{Loading}…

॥7.26॥ सर्वोत्तमं मत्स्वरूपमजानन्त इत्युक्तम् तदेव स्वस्य सर्वोत्तमत्वमनावृतज्ञानशक्तित्वेन दर्शयन्नन्येषामज्ञानमेवाह वेदेति। समतीतानि विनष्टानि वर्तमानानि भावीनि च त्रिकालवर्तीनि भूतानि स्थावरजंगमानि सर्वाण्यहं वेद जानामि मायाश्रयत्वान्मम तस्याः स्वाश्रयव्यामोहकत्वाभावादिति प्रसिद्धम्। मां तु न कोऽपि वेत्ति मन्मायामोहितत्वात्। प्रसिद्धं हि लोके मायायाः स्वाश्रयाधीनत्वमन्यमोहकत्वं च।

English …{Loading}…

आदिदेवानन्दः

7.26 I know all beings, O Arjuna, past, present and those to come; but no one knows Me.

गम्भीरानन्दः

7.26 O Arjuna, I know the past and the present as also the future beings; but no one knows Me!

पुरोहितस्वामी

7.26 I know, O Arjuna, all beings in the past, the present and the future; but they do not know Me.

शङ्करनारायणः

7.26. O Arjuna, I know the beings that are gone off, that are present and are yet to be born; but no one, knows Me.

शिवानन्दः - अनुवादः

7.26 I know, O Arjuna, the beings of the past, the present and the future, but no one knows Me.

शिवानन्दः - टीका

7.26 वेद know; अहम् I; समतीतानि the past; वर्तमानानि the present; च and; अर्जुन O Arjuna; भविष्याणि the future; च and; भूतानि beings; माम् Me; तु verily; वेद knows; न not; कश्चन any one.Commentary Persons who are deluded by the three alities of Nature do not know the Lord. As they lack in the knowledge of His real nature; they do not adore Hi. But the Lord knows through His omniscience the beings of the past; the present and the future. He who worships the Lord with singleminded devotion knows Him in essence. He has knowledge of His real nature.

हिन्दी …{Loading}…

रामसुखदासः - अनुवादः

।।7.26।। हे अर्जुन ! जो प्राणी भूतकालमें हो चुके हैं, तथा जो वर्तमानमें हैं और जो भविष्यमें होंगे, उन सब प्राणियोंको तो मैं जानता हूँ; परन्तु मेरेको कोई (मूढ़ मनुष्य) नहीं जानता।

रामसुखदासः - टीका

।।7.26।।**व्याख्या–‘वेदाहं समतीतानि ৷৷. मां तु वेद न कश्चन’–**यहाँ भगवान्ने प्राणियोंके लिये तो भूत, वर्तमान और भविष्यकालके तीन विशेषण दिये हैं; परन्तु अपने लिये ‘अहं वेद’ पदोंसे केवल वर्तमानकालका ही प्रयोग किया है। इसका तात्पर्य यह है कि भगवान्की दृष्टिमें भूत, भविष्य और वर्तमान–ये तीनों काल वर्तमान ही हैं। अतः भूतके प्राणी हों, भविष्यके प्राणी हों अथवा वर्तमानके प्राणी हों–सभी भगवान्की दृष्टिमें वर्तमान होनेसे भगवान् सभीको जानते हैं। भूत, भविष्य और वर्तमान–ये तीनों काल तो प्राणियोंकी दृष्टिमें हैं, भगवान्की दृष्टिमें नहीं। जैसे सिनेमा देखनेवालोंके लिये भूत, वर्तमान और भविष्य-कालका भेद रहता है, पर सिनेमाकी फिल्ममें सब कुछ वर्तमान है, ऐसे ही प्राणियोंकी दृष्टिमें भूत, वर्तमान और भविष्यकालका भेद रहता है, पर भगवान्की दृष्टिमें सब कुछ वर्तमान ही रहता है। कारण कि सम्पूर्ण प्राणी कालके अन्तर्गत हैं और भगवान् कालसे अतीत हैं। देश, काल, वस्तु, व्यक्ति, घटना, परिस्थिति आदि बदलते रहते हैं और भगवान् हरदम वैसे-के-वैसे ही रहते हैं। कालके अन्तर्गत आये हुए प्राणियोंका ज्ञान सीमित होता है और भगवान्का ज्ञान असीम है। उन प्राणियोंमें भी कोई योगका अभ्यास करके ज्ञान बढ़ा लेंगे तो वे ‘युञ्जान योगी’ होंगे और जिस समय जिस वस्तुको जानना चाहेंगे, उस समय उसी वस्तुको वे जानेंगे। परन्तु भगवान् तो ‘युक्त योगी हैं’ अर्थात् बिना योगका अभ्यास किये ही वे मात्र जीवोंको और मात्र संसारको सब समय स्वतः जानते हैं। भूत, भविष्य और वर्तमानके सभी जीव नित्य-निरन्तर भगवान्में ही रहते हैं, भगवान्से कभी अलग हो ही नहीं सकते। भगवान्में भी यह ताकत नहीं है कि वे जीवोंसे अलग हो जायँ! अतः प्राणी कहीं भी रहें, वे कभी भी भगवान्की दृष्टिसे ओझल नहीं हो सकते।

चिन्मयानन्दः

।।7.26।। विश्व के सभी धर्मों में ईश्वर को सर्वज्ञ माना गया है किन्तु केवल वेदान्त में ही सर्वज्ञता का सन्तोषजनक विवेचन मिलता है। उपनिषदों के सन्दर्भ ग्रन्थ के रूप में गीता का विशेष स्थान है जिसमें यह स्पष्ट किया गया है कि वास्तव में सर्वज्ञता का अर्थ क्या है। आत्मा ही वह चेतन तत्त्व है जो मनबुद्धि की समस्त वृत्तियों का प्रकाशित करता है। बाह्य भौतिक जगत् का ज्ञान हमें तभी होता है जब इन्द्रियां विषय ग्रहण करती हैं जिसके फलस्वरूप मन में विषयाकार वृत्तियां उत्पन्न होती हैं। इन वृत्तियों का वर्गीकरण करके विषय का निश्चय करने का कार्य बुद्धि का है। मन और बुद्धि की वृत्तियां नित्य चैतन्य स्वरूप आत्मा से ही प्रकाशित होती हैं। सूर्य का प्रकाश जगत् की समस्त वस्तुओं को प्रकाशित करता है। जब मेरे नेत्र या श्रोत रूप या शब्द को प्रकाशित करते हैं तब मैं कहता हूँ कि मैं देखता हूँ या मैं सुनता हूँ। संक्षेप में वस्तु का भान होने का अर्थ है उसे जानना और जानने का अर्थ है प्रकाशित करना। जैसे सूर्य को जगच्चक्षु कहा जा सकता है क्योंकि उसके अभाव में हमारी नेत्रेन्द्रिय निष्प्रयोजन होकर गोलक मात्र रह जायोगी वैसे ही आत्मा को सर्वत्र सदा सबका ज्ञाता कहा जा सकता है। आत्मा की सर्वज्ञता भगवान् के इस कथन में कि मैं भूत वर्तमान और भविष्य के भूतमात्र को जानता हूँ स्पष्ट हो जाती है। यहाँ ध्यान देने योग्य बात यह है कि आत्मा न केवल वर्तमान का ज्ञाता है बल्कि अनादिकाल से जितने विषय भावनाएं एवं विचार व्यतीत हो चुके है उन सबका भी प्रकाशक वही था और अनन्तकाल तक आने वाले भूतमात्र का ज्ञाता भी वही रहेगा विद्युत से पंखा घूमता है परन्तु पंखा विद्युत को गति नहीं दे सकता एक व्यक्ति दूरदर्शी यन्त्र से नक्षत्रों का निरीक्षण करता है किन्तु वह यन्त्र उस द्रष्टा व्यक्ति का निरीक्षण नहीं कर सकता इन्द्रिय मन और बुद्धि को चेतना प्रदान करने वाले द्रष्टा आत्मा को किस प्रकार कोई जान सकता है भगवान् श्रीकृष्ण इस आत्मदृष्टि से कहते हैं यद्यपि मैं सबको सर्वत्र सदा जानता हूँ लेकिन मुझे कोई भी नहीं जानता है। वेदान्त में वर्णित पारमार्थिक दृष्टि से तो आत्मा को ज्ञाता या द्रष्टा भी नहीं कहा जा सकता जैसे शुद्ध तार्किक दृष्टि से यह कहना गलत होगा कि सूर्य जगत् को प्रकाशित करता है। हमें रात्रि के अन्धकार में वस्तुएं दिखाई नहीं देतीं इस कारण दिन में उनके दृष्टिगोचर होने पर सूर्य को प्रकाशित करने के धर्म से युक्त मानते हैं। तथापि नित्य प्रकाश स्वरूप सूर्य की दृष्टि से ऐसा कोई क्षण नहीं है जब वह वस्तुओं को प्रकाशित करके उन्हें अनुग्रहीत न करता हो। अत यह कहना कि सूर्य जगत् को प्रकाशित करता है उतना ही अर्थहीन है जितना यह कथन कि आजकल मैं श्वासोच्छ्वास में अत्यन्त व्यस्त हूँ आत्मा का ज्ञातृत्व औपाधिक है अर्थात् माया की उपाधि से उसे प्राप्त हुआ है। शुद्ध सत्त्वगुण प्रधान माया में व्यक्त आत्मा या ब्रह्मा को ही वेदान्त में ईश्वर कहा जाता है। भगवान् श्रीकृष्ण सत्य का साकार रूप या ईश्वर का अवतार हैं और इसलिए उनका स्वयं को सर्वज्ञ घोषित करना समीचीन ही है। परन्तु दुर्भाग्य से आत्मकेन्द्रित र्मत्य जीव परिच्छिन्न संकीर्ण और सीमित मन तथा बुद्धि के छिद्र से जगत् को देखते हुए समष्टि की तालबद्ध लय को पहचान नहीं पाता। जो व्यक्ति स्वनिर्मित अज्ञान के बन्धनों को तोड़कर विश्व के साथ तादात्म्य कर सकता है वही व्यक्ति श्रीकृष्ण के दृष्टिकोण को निश्चय ही समझ सकता है उसका अनुभव कर सकता है। जो व्यक्ति सफलतापूर्वक समष्टि मन के साथ तादात्म्य प्राप्त कर जीता है वह व्यक्ति अपने तथा तत्पश्चात् आने वाले युग का कृष्ण ही है। यदि सभी औपाधिक ज्ञानों का प्रकाशक आत्मा ही है तो किन प्रतिबन्धों के कारण आत्मा का साक्षात्कार नहीं हो पाता है भगवान् कहते हैं

तेजोमयानन्दः - अनुवादः

।।7.26।। हे अर्जुन ! पूर्व में व्यतीत हुए और वर्तमान में स्थित तथा भविष्य में होने वाले भूतमात्र को मैं जानता हूँ, परन्तु मुझे कोई भी पुरुष नहीं जानता हैं।।


  1. असंप्रज्ञातसमाधाविति भावः। ↩︎

  2. प्रकारान्तरेण सर्वज्ञान्तःकरणेऽतिव्याप्तिं वारयति—सर्वेति। ‘न तत्र सूर्यो भाति न चन्द्रतारकम्’ इत्यादिना आत्मनि अन्यावभास्यत्वं प्रतिषिध्य, ‘तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति’ इति स्वतः सर्वावभासकत्वमात्मन एव श्रुत्योक्तमिति बोध्यम्। ↩︎

  3. एकजीववादे एकस्मिन्नेवाज्ञाने चित् प्रतिफलतीति पक्षः प्रसिद्धः। एकस्मिन्नेवान्तःकरणे इति तु चिन्त्यं भाति। ↩︎

  4. बिम्बप्रतिबिम्बभाववाचोयुक्त्या विवक्षितमंशं निरूप्यात्मनो मुख्यं प्रतिबिम्बं निराकरोति—न त्विति। प्रतिबिम्बत्वं नाम उपाधिप्रयुक्त-व्याप्यवृत्ति-स्वप्रतियोगिक- भेदवत्त्वेनोपाधिसंसृष्टतया प्रतिभातत्वम्। बिम्बत्वं तु तादृशभेदवत्त्वेनोपाध्यसंसृष्टतया प्रतीतत्वम्।(द्र.अद्वैतसिद्धान्तसारसंग्रहःपृ. ३७)। ↩︎

  5. वाक्यार्थबोधमित्यर्थः। ↩︎