18 उदाराः सर्व

विश्वास-प्रस्तुतिः …{Loading}…

+++(बुद्धि-पूर्वक-सेवया मद्-गुणाविष्कारावकाश-दानेन)+++
उदाराः सर्व एवैते,
ज्ञानी +++(→स्व-शेषतैक-रसः)+++ त्व् आत्मैव - +++(इति)+++ मे मतम्।
+++(आत्म-धारणार्थम् इव)+++ आस्थितः स हि +++(मयि→)+++ युक्तात्मा
माम् एवानुत्तमां गतिम्॥7.18॥

रामानुजः …{Loading}…

रामानुजः - मूलम्

॥7.18॥

वेङ्कटनाथः

॥7.18॥ तेषाम् 7।17 इति श्लोकस्यार्थ एवउदाराः इत्यनेनापि दृढीक्रियते।
ज्ञानिनो ऽत्यर्थप्रियत्व-वचनाद्
अन्येषाम् अपि किञ्चित्-प्रियत्वं फलितं,
तद् एव “उदाराः सर्वे” इति पादेन विशदीकृतम्।
तद्-एकोपायत्वस्य साधारण्यम् “माम् एवोपासत” इत्यनेन दर्शितम्।

सर्वे एव एते
माम् एव उपासते
इति उदाराः वदान्याः।

वेङ्कटनाथः

उदार-शब्दस्यात्र
मन्द-प्रयोजनोत्कर्ष-मात्र-परत्व-व्युदासाय
प्रसिद्ध्य्-अनुरोधेनाह वदान्या इति।

ये मत्तो यत् किञ्चिद् अपि गृह्णन्ति
ते हि मम सर्व-स्व-दायिनः।

वेङ्कटनाथः

अर्थित्वेनावस्थितानां कथं वदान्यत्वम्?

इत्य्-अत्राह “ये मत्त” इति।

सकल-फल-प्रदत्व-लक्षणं परमौदार्यम् एव हि मम सर्वस्वं
तच् च प्रतिग्रहीतृ-सापेक्षं
तद्-अभावे कथं स्याद्?

इत्य् उक्तं भवति।

ज्ञानी त्व् आत्मा +एव मे मतं
तद्-आयत्तात्म-धारणो ऽहम्
इति मन्ये +++(→उत्प्रेक्षे)+++।

वेङ्कटनाथः

अयम् अर्थः -

त्रय्यन्त-सिद्धान्तो भवतु वा मा वा
कृष्ण-सिद्धान्तस् त्व् अयम्

इति भावः।

वेङ्कटनाथः

आत्म-शब्दस्यात्र बहु-प्रमाण-विरुद्धत्वान्
न तादात्म्यादि-विषयत्वं,
तथा सति व्यतिरेक-निर्देश-बाधश् च।
अतस् तद्-अभिप्रेतम् आह - तद्-आयत्तेति।

शरीरं प्रति धारको ह्य् आत्मा।
प्रियत्वातिशय-प्रतिपादनाय
सावधारणो ऽयम् आत्मत्वारोपः।

कस्माद् एवं?

वेङ्कटनाथः

अस्मिन्न् अभिमान-मात्र-सारे भवत्-सिद्धान्ते
किं प्रमाणम् अभिमतम्?

इत्य् आकाङ्क्षायाम्

आस्थितः इत्य्-आदिकम् उच्यत

इत्य् आह कस्माद् एवम् इति।

यस्माद् अयं मया विना आत्म-धारणा-सम्भावनया
माम् एव +अनुत्तमं प्राप्यम् आस्थितः।

वेङ्कटनाथः

हिर् हेतौ।

युक्तात्मा इत्य् आशंसायां क्तः -
परमात्म-योगाशंसा-विशिष्ट एव आत्मा यस्य
सोऽत्र युक्तात्मा,
तद्-एतद्-अभिप्रेत्योक्तं -
मया विना ऽऽत्म-धारणासम्भावनयेति।

मद्-अनुसन्धानाभावे सति
अर्थान्तरानुसन्धान-प्रवृत्तेर् असमर्थ-स्वभावतयेत्य् अर्थः। +++(5)+++

“माम् एवे"ति
अयुक्त-दशायाम् असत्त्वम् एव हि स्याद्
इति भावः।

माम् एव उपाय-भूतम् एव
न तु फलान्तर-लवम् इत्यर्थः।

प्राप्यम् इति गति-शब्दोऽत्र गन्तव्य-परः।

अतस् तेन विना
मम अप्य् आत्म-धारणं न सम्भवति।

वेङ्कटनाथः

अस्त्व् एवं तद्-आयत्त-धारणो यथाप्रमाणं ज्ञानी,
ततः किम् आयातं भगवतस् तद्-आयत्त-धारणत्वस्य?

इत्य्-अत्राह - अतस्तेन विनेति।

सहृदयानां मद्-अभिप्राय-विदां चैतद्-व्यक्तम्

इत्य् अभिप्रायः।
तथा हि

न तस्यान्यः प्रियतरः
प्रतिबुद्धैर् महात्मभिः।
विद्यते त्रिषु लोकेषु
ततोऽस्म्य् एकान्तितां गतः।
नारदैतद्धि ते सत्यं
वचनं समुदाहृतम्।
नास्य भक्तैः प्रियतरो
लोके कश्चन विद्यते

इति।

ततो मम अप्य् आत्मा हि सः

वेङ्कटनाथः

ततो ममात्मा हि स

इति-
आधारत्वादि-विशेषो ह्य् आत्म-लक्षणमिति भावः।

ऐश्वर्यादि-कामाः सर्व एव
मत्-स्व-रूपस्यातिशय-हेतवः।
ज्ञानी तु मम स्व-रूप-सत्ता-हेतुर् +++(4)+++

इति स्व-भक्त-स्तुति-परः श्लोकः।

वेदान्तदेशिकः

(रामानुजीये॥)

आदिदेवानन्दः

7.18 Because they worship Me alone, all these are generous i.e., benefactors. For, those who receive from Me anything, however small they are, I consider them as contributing everything to Me (and thus as benefactors). But I deem the man of knowledge to be My very self. I consider Myself as depending on him for My support. Why is it so; Because this person considers Me to be the highest and finds it impossible to support himself without Me; I also find it impossible to be without him. Thus, verily, he is My self. The attainment of this state of mind reires innumerable auspicious births. It is attained after gaining the knowledge of the real nature of the self and the self feels that Its happiness consists in being a dependant (Sesa) of Myself.

शङ्करः …{Loading}…

शङ्करः - मूलम्

न तर्हि आर्तादयः त्रयः वासुदेवस्य प्रियाः? न। किं तर्हि -

॥7.18॥ उदाराः उत्कृष्टाः सर्व एव एते त्रयोऽपि मम प्रिया एवेत्यर्थः।
न हि कश्चित् मद्भक्तः मम वासुदेवस्य अप्रियः भवति।
ज्ञानी तु अत्यर्थं प्रियो भवतीति विशेषः।
तत् कस्मात् इत्यत आह ज्ञानी तु आत्मैव न अन्यो मत्तः इति मे मम मतं निश्चयः।
आस्थितः आरोढुं प्रवृत्तः सः ज्ञानी हि यस्मात्
अहमेव भगवान् वासुदेवः न अन्योऽस्मि इत्येवं युक्तात्मा समाहितचित्तः सन्
मामेव परं ब्रह्म गन्तव्यम् अनुत्तमां गतिं गन्तुं प्रवृत्त इत्यर्थः॥

गम्भीरानन्दः

7.18 Sarve, ete, all of these three, without exception; are eva, indeed, udarah, noble, i.e.; they are verily dear to Me. For, no devotee of Mine can become disagreeable to Me who am Vasudeva. But the man of Knowledge becomes very much dear. This is the difference. Why is this so; In answer the Lord says: Tu but; jnani, the man of Knowledge; is atma eva, the very Self, not different from Me. This is me, My; matam, opinion, conviction. Hi, for; yuktatma, with a steadfast mind-having his mind absorbed in the idea, ‘I am verily Vasudeva, the Lord, and none else’, that man of Knowledge asthitah, is set on the path leading to, he is engaged in ascending to, going to; mam eva, Me alone, to the supreme Brahman; who am the anuttamam gatim, super-excellent Goal to be reached. The man of Knowledge is being eulogized again:

हरिकृष्णदासः

॥7.18॥ तो फिर क्या आर्त आदि तीन प्रकारके भक्त आप वासुदेवके प्रिय नहीं हैं यह बात नहीं तो क्या बात है

ये सभी भक्त उदार हैं श्रेष्ठ हैं। अर्थात् वे तीनों भी मेरे प्रिय ही हैं। क्योंकि मुझ वासुदेवको अपना कोई भी भक्त अप्रिय नहीं होता परंतु ज्ञानी मुझे अत्यन्त प्रिय होता है इतनी विशेषता है। ऐसा क्यों है सो कहते हैं ज्ञानी तो मेरा स्वरूप ही है वह मुझसे अन्य नहीं है यह मेरा निश्चय है क्योंकि वह योगारूढ़ होनेके लिये प्रवृत्त हुआ ज्ञानी स्वयं मैं ही भगवान् वासुदेव हूँ दूसरा नहीं ऐसा युक्तात्मा समाहितचित्त होकर मुझ परम प्राप्तव्य गतिस्वरूप परब्रह्ममें ही आनेके लिये प्रवृत्त है।

आनन्दगिरिः

॥7.18॥ ज्ञानी चेदत्यर्थमीश्वरस्य प्रियो भवति तर्हि विशेषणसामर्थ्यादितरेषामप्रियत्वं प्राप्तमिति शङ्कते न तर्हीति। तेषां भगवन्तं प्रति प्रियत्वमत्र विवक्षितमित्याह नेति। अत्यर्थमिति विशेषणस्य तर्हि किं प्रयोजनमिति पृच्छति किं तर्हीति। सर्वेषां भगवदभिमुखत्वादुत्कर्षेऽपि ज्ञानिनि तदतिरेकमङ्गीकृत्य विशेषणमित्याह उदारा इति। किं तत्र प्रमाणमित्याशङ्क्येश्वरज्ञानमित्याह मे मतमिति। ज्ञानी त्वात्मैवेत्यत्र हेतुमाह आस्थित इति। सर्वशब्दस्य ज्ञानिव्यतिरिक्तविषयत्वमाह त्रयोऽपीति। ज्ञानिव्यतिरिक्तानां भगवदभिमुखत्वेऽपि ज्ञानाभावापराधान्न भगवत्प्रीतिविषयतेत्याशङ्क्याह नहीति। कस्तर्हि ज्ञानवति विशेषस्तत्राह ज्ञानी त्विति। तमेव विशेषं प्रश्नपूर्वकं प्रकटयति तत्कस्मादित्यादिना। सर्वमात्मानं पश्यतोऽपि तस्य तव कथं यथोक्तो निश्चयः स्यादित्याशङ्क्यास्थित इत्येतद्व्याकरोति आरोढुमिति। आरोहे हेतुं सूचयति स ज्ञानीति। आरोढुं प्रवृत्तत्वमेव स्फुटयति मामेवेति।

नीलकण्ठः

॥7.18॥उदारा इति। सर्वेऽप्येते उदारा उत्कृष्टा एव। ज्ञानी तु ममात्मैवेति मम मतं निश्चितम्। हि यतः स युक्तात्मा अहमेव भगवान्वासुदेव इत्यभेदेन मयि समाहितचित्तो मामेवानुत्तमां श्रेष्ठां गतिमास्थितो नतु मत्तोऽन्यदारोग्यादिकं कामयमानो मद्भक्तिं करोति। किंतर्हि मत्प्राप्त्यर्थमेव मां भजत इत्यर्थः।

धनपतिः

॥7.18॥ तर्हि किमार्तादयस्तवाप्रियाः न आत्मत्वेनात्यर्थमिति विशेषणादित्याह उदारा इति। उदाराः सर्व एते त्रयोऽप्यन्यभ्य आर्तादिभ्यः। आर्त्यादिनिवृत्त्यर्थमितरदेवतादिभक्तेभ्य उत्कृष्टाः मम प्रिया एवेत्यर्थः। नहि कश्चिदार्तो वा जिज्ञासुर्वाऽर्थार्थी आर्तादिभ्यः। आर्त्यादिनिवृत्त्यर्थमितरदेवतादिभक्तेभ्य उत्कृष्टाः मम प्रिया एवेत्यर्थः। नहि कश्चिदार्थो वा जिज्ञासुर्वाऽर्थार्थी वा मद्भक्तो मम वासुदेवस्याप्रियो भवति। परंतुये यथा मां प्रपद्यन्ते तांस्तथैव भजाभ्यहम् इत्युक्तत्वात् यो यदर्थ मां भजति तमहमपि तत्फलदानेन भजामि। यस्तु निष्कामी प्रेमातिशयेन मां भजति तमहमपि तथैव भजाम्यतो ज्ञानी इत्यर्थं प्रियो भवतीति विशेषः। तत्कुत इति तत्राह। ज्ञानी तु ममात्मैव नान्यो यत इति मे मतं निश्चयः। ब्रह्म वेद ब्रह्मैव भवति इति श्रुतेः। तुशब्दस्तेभ्यो विशेषद्योतनार्थः। ज्ञानी त्वात्मैवेत्यत्र हेतुमाह आस्थित इति। हि यस्मात्स ज्ञानी अहमेव भगवान्वासुदेवो नान्योऽहमस्मीत्येवं युक्तः समाहित आत्मा चित्तं यस्य सः मामेव परं ब्रह्मानुत्तमां गतिं निरतिशयं गन्तव्यं गन्तुं प्रवृत्त इत्यर्थः।

मधुसूदन-सरस्वती

॥7.18॥ तत्किमार्तादयस्तव न प्रियाः न अत्यर्थमिति विशेषणादित्याह एते आर्तादयः सकामा अपि मद्भक्ताः सर्वे त्रयोऽप्युदारा एव उत्कृष्टा एव पूर्वजन्मार्जितानेकसुकृतराशित्वात्। अन्यथा हि मां न भजेयुरेव। आर्तस्य जिज्ञासोरर्थार्थिनश्च मद्विमुखस्य क्षुद्रदेवताभक्तस्यापि बहुलमुपलम्भात्। अतो मम प्रिया एव ते। नहि ज्ञानवानज्ञो वा कश्चिदपि भक्तो ममाप्रियो भवति किंतु यस्य यादृशी मयि प्रीतिर्ममापि तत्र तादृशी प्रीतिरिति स्वभावसिद्धमेवैतत्। तत्र सकामानां त्रयाणां काम्यमानमपि प्रियमहमपि प्रियः। ज्ञानिनस्तु प्रियान्तरशून्यस्याहमेव निरतिशयप्रीतिविषयः। अतः सोऽपि मम निरतिशयप्रीतिविषय इति विशेषः। अन्यथा हि मम कृतज्ञता न स्यात् कृतघ्नता च स्यात्। अतएवात्यर्थमिति विशेषणमुपात्तं प्राक्। तथा हियदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति इत्यत्र तरबर्थस्य विवक्षितत्वाद्विद्यादिव्यतिरेकेण कृतमपि कर्म वीर्यवद्भवत्येव तथात्यर्थं ज्ञानी भक्तो मम प्रिय इत्युक्तेर्योज्ञानव्यतिरेकेण भक्तः सोऽपि प्रिय इति पर्यवस्यत्येव अत्यर्थमिति विशेषणस्य विवक्षितत्वात्। उक्तंहिये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् इति। अतो मामात्मत्वेन ज्ञानवाञ्ज्ञानी आत्मैव न मत्तो भिन्नः किं त्वहमेव स इति मम मतं निश्चयः। तुशब्दः सकामभेददर्शित्रितयापेक्षया निष्कामत्वभेदादर्शित्वविशेषद्योतनार्थः। हि यस्मात्स ज्ञानी युक्तात्मा सदा मयि समाहितचित्तः सन् मां भगवन्तमनन्तमानन्दघनमात्मानमेवानुत्तमां सर्वोत्कृष्टां गतिं गन्तव्यं परमं फलमास्थितोऽङ्गीकृतवान् नतु मद्भिन्नं किमपि फलं स मन्यत इत्यर्थः।

रामरायः - १८

उदारा इति। ननु सर्वसमस्य वासुदेवस्य कुतो ज्ञान्येव प्रियः, इतरे त्रयो न प्रिया इति शङ्कायामाहन हीति। आर्तादयस्त्रयो वासुदेवस्य प्रिया न हीति न। किं तर्हि? किन्तु। सर्वशब्दः पूर्वोक्तत्रित्वपर इत्याहत्रयोऽपीति। उदारशब्दस्य फलितार्थमाहप्रिया एवेति। यथा राजभक्तो राज्ञः प्रियस्तद्वदिति भावः। तत् ज्ञानिनोऽत्यर्थं प्रियत्वमित्यर्थः। कस्माद्धेतोरित्यपेक्षायाम् आह भगवानिति शेषः। आत्मैव अहमेवेत्यर्थः। एवकारार्थमाहनान्य इति। पञ्चम्यास्तसिः मत्तः इति।

ननु ‘विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि। शुनि चैव श्वपाके च पण्डिताः समदर्शिनः॥’ इति त्वदुक्तरीत्या तव सर्वसमस्य सर्वमप्यात्मैवेति कुतो ज्ञान्येवात्मा, नेतरे त्रयः? इत्यत आहआस्थितः स हीत्यादि। हि सः युक्तात्मा सन् मामेवानुत्तमां गतिमास्थितः। आस्थितः आरोढुं प्रवृत्त इत्यस्य फलितार्थमाहगन्तुं प्रवृत्त इति। युक्तः समाहित आत्मा मनो यस्य स युक्तात्मा। अस्यैव चित्तसमाधानस्याकारमाहअहमेवेत्यादि। स भगवान् वासुदेवोऽहमेव। अहं वासुदेवादन्यो नास्मि न भवामि। अहं ब्रह्मास्मीति महावाक्यार्थजन्यं ज्ञानमिदमिति भावः। गम्यते प्राप्यत इति गतिः, न विद्यते उत्तमा यस्याः सा अनुत्तमा सर्वोत्तमेत्यर्थः। परब्रह्मण आत्मन एव परमप्राप्यत्वादनुत्तमगतित्वमिति भावः। ‘ब्रह्मविदाप्नोति परम्’ इति, ‘ब्रह्मविद् ब्रह्मैव भवति’ इति च श्रुतेरिति भावः।

[[३८६]]

अयमाशयः— यद्यप्यार्तादयः सर्वेऽप्यात्मभूता एव, तथापि यः अहं ब्रह्मास्मीति वेद, स एवाहम् , ‘ब्रह्मविद् ब्रह्मैव भवती’ति श्रुतेः। यस्तु नाहं ब्रह्मेति वेद, स नैवाहम् , ब्रह्मविद आत्मत्वादब्रह्मविदोऽनात्मत्वाच्च। ब्रह्मविद्धि कूटस्थमात्मानं मन्यते, स च कूटस्थो ब्रह्मैव चिन्मात्रत्वात्। अब्रह्मवित्तु अकूटस्थं कर्तारं भोक्तारं च जीवमात्मानं मन्यते। स चाकूटस्थो न ब्रह्म, विकारित्वादकूटस्थस्य, ब्रह्मणश्चाविकारित्वात्। तथा च आर्तादिभिरात्मत्वेनाभिमतः संसारी जीवो नाहमित्यार्तादयो नाहम्। ज्ञानिना कूटस्थश्चिदात्मै- वात्मत्वेनाभिमत इति स चिदात्माऽहमेवेति ज्ञानी त्वहमेव। तस्मादार्तादयः संसारिणश्चिदाभासा मत्प्रिया एव। ज्ञानी तु चिदात्मा कूटस्थोऽहमेवेति स्थितम्।

ननु अहमेव स भगवान् वासुदेवो नान्योऽस्मीत्ये(वा)[व] समाहितचित्तो ज्ञानी चिदात्मत्वात् परं ब्रह्म प्राप्त एवेति कथमुच्यते ‘परं ब्रह्म गन्तुं प्रवृत्तः’ इति चेत्? उच्यते— यः परं ब्रह्मात्मानं गतः स हि केवलानुभवानन्दरूपेणैवावतिष्ठते, न त्वहं ब्रह्मास्मीत्यनुसन्धत्ते, सर्वोपाधिलयेन तादृशानुसन्धानहेतोश्चित्तोपाधेरभावात्। तस्माद् यो ब्रह्मात्मनाऽवस्थास्यति स युक्तात्मा भवतीत्यभिप्रायाद् गन्तुं प्रवृत्त इत्युक्तम्। न च चिदात्मनो ज्ञानिनः कथं गन्तुं प्रवृत्तिरिति वाच्यम् , चिदात्माऽपि मायया बुद्ध्यादि- तादात्म्यं प्रतिपद्य संसारी भूत्वा शनैस्तत्तादात्म्यं विहाय कूटस्थात्मस्वरूपानुसन्धानेन स्वचिदात्मत्वं पुनः प्राप्तुं प्रवृत्त इव प्रतिभाति। सर्वस्य बन्धमुक्त्यादिव्यवहारस्य मायामयत्वाद् वस्तुतस्तदसिद्धेरस्माकमलङ्कार एवेति।

1ननु त्रिगुणात्मिका देवेन विष्णुना क्रीडार्थं निर्मिता प्रकृतिर्माया। अस्या मायाशब्दवाच्यत्वम् आसुरराक्षसास्त्रादीनामिव विचित्रकार्यकरत्वेन। यथा च ‘ततो भगवता तस्य रक्षार्थं चक्रमुत्तमम्। आजगाम समाज्ञप्तं ज्वालामालि सुदर्शनम्॥ तेन मायासहस्रं तच्छम्बरस्याशुगामिना। बालस्य रक्षता देहमेकैकश्येन सूदितम्॥’ इत्यादौ। अतो मायाशब्दो न मिथ्यार्थवाची। ऐन्द्रजालिकादिष्वपि केनचिन्मन्त्रौषधादिना मिथ्यार्थविषयायाः पारमार्थिक्या एव बुद्धेरुत्पादकत्वेन मायावीति प्रयोगः। तथा मन्त्रौषधादिरेव च तत्र माया। सर्वप्रयोगेष्वनुगतस्यैकस्यैव शब्दार्थत्वात्। तत्र मिथ्यार्थेषु मायाशब्दप्रयोगो मायाकार्यबुद्धिविषयत्वेनौपचारिकः, मञ्चाः क्रोशन्तीति- वत्। अतः सत्यैव माया, ‘मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वर’मिति श्रुतेः। ‘त्वं हि लोकगतिर्देव न त्वां केचित् प्रजानते। ऋते मायां विशालाक्षीं तव पूर्वपरिग्रहाम्॥ योगनिद्रा महामाया’ इत्यादिप्रयोगाच्च। प्रकृतितत्त्वाभिमानिदेवता वा माया। उभयथाऽपि सत्यैव माया, न मिथ्येति कृत्वा कथं बन्धमुक्त्यादिव्यवहारस्य मिथ्यात्वम् , तद्धेतुमायाया वा? इति रामानुजीयपूर्वपक्षः।

अत्रोच्यते— एषा गुणमयी पारमार्थिकी भगवन्मायैवेति मायायाः पारमार्थिकत्वं सत्यत्वं ब्रूते स्म रामानुजः। किमिदं मायानिष्ठं सत्यत्वम् ? अविनाशित्वरूपम् , यद्वा अर्थक्रियाकारिविचित्रकार्यजनकत्वरूपम्? नाद्यः, प्रकृतिपुरुषयोः परमात्मनि लयस्य त्वयैवोपन्यस्तत्वात्। ‘तस्मान्न विज्ञानमृतेऽस्ति किञ्चित् क्वचित् कदाचिद् द्विज वस्तुजातम्।’ ‘सद्भाव एवं भवतो मयोक्तो ज्ञानं यथा सत्यमसत्यमन्यत्’, ‘अनाशी परमार्थश्च प्राज्ञैरभ्युपगम्यते। तत्तु नाशि न सन्देहो नाशिद्रव्योपपादितम्॥ यत्तु कालान्तरेणापि नान्यसंज्ञामुपैति वै। परिणामादिसम्भूतां तद्वस्तु नृप तच्च किम्’ इति पराशरेणोक्तमिति त्वयैवोदाहृतत्वात् , ‘नासतः’ इति श्लोकव्याख्यानावसरे नाशिद्रव्योपपादितस्य नाशित्वेन नाशिनो जगतः उपादानस्य प्रकृतेरपि नाशवत्त्वेन भाव्यत्वात् प्रकृतेः सत्यत्वे तदुपपादितस्य जगतोऽपि सत्यत्वप्रसङ्गात्। ‘ज्ञानं यथा सत्यमसत्यमन्यदि’त्यात्मनो ज्ञानाकारस्यैकस्यैव सत्यत्वम् , अन्यस्य प्रकृतित्वादेरज्ञानस्य चासत्यत्वं स्फुटमुक्तं हि पराशरेण। तस्मान्नास्ति मायायाः अविनाशित्वरूपं सत्यत्वं त्वन्मतेनापि।

न द्वितीयः, अर्थक्रियाकारिकार्यजनकत्वस्य सत्यत्वे निद्राया अपि सत्यत्वप्रसङ्गात्। सा हि स्वाप्नप्रपञ्चं सृजति, माया यथा जाग्रत्प्रपञ्चम्। रज्जुसर्पभ्रमजनकाविद्याऽपि सत्या स्यादर्थक्रियाकारिकार्यजनकत्वात्। न च रज्जुसर्पादिर्नार्थक्रियाकारीति वाच्यम् , भ्रमकम्पादिकारित्वात्। भवतु वा प्रातिभासिकरजतस्य व्यावहारिकरजतवत् कटकाद्यर्थक्रियाकारित्वाभावः, न तावता व्यावहारिक- रजतस्य पारमार्थिकसत्यत्वम् , परमार्थतो रजतस्यैवाभावात्। न हि सुषुप्तावात्मनि रजतादिप्रपञ्चः प्रतिभाति। तस्माद् अर्थक्रियाकारि- विचित्रकार्यजनकत्वमात्रेण न मायायाः पारमार्थिकत्वम् , परमार्थतो मायायाः अभावात्। न हि विनाशि वस्तु परमार्थतोऽवतिष्ठते, परमार्थतोऽवस्थानविनाशयोर्विरुद्धत्वात्। यच्च विनाशि, वस्तुतस्तु तन्मिथ्यैव, यथा घटः, यथा वा रज्जुसर्पः। तस्माद् विनाशित्वान्मायाऽपि मिथ्यैव। अविनाशित्वमेव सत्यत्वप्रयोजकम् , नार्थक्रियाकारित्वादिकमिति सिद्धान्तात्।

[[३८७]]

अथ यदीश्वरस्याविनाभूता शक्तिर्माया सत्यैव, ईश्वरवदित्युच्यते, तच्चासत् ; ‘जहात्येनां भुक्तभोगामजोऽन्यः’ इतीश्वरेण प्रकृतेः त्यक्तत्वश्रवणात्2। न ह्यविनाभूता त्यक्तुं शक्यते। नापि सत्येनेश्वरेण त्यक्ता माया सत्या भवितुमर्हति, मायायाः सत्यत्वे च ‘मायामेतां तरन्ति ते’ इति मायायास्तर्तव्यत्ववचनं च न सङ्गच्छते। न च - सत्यस्यापि नदीजलस्य बाहुभ्यां तरणवत् सत्याया अपि मायायाः प्रपदनेन तरणमुपपद्यत इति - वाच्यम् , नाशरहितत्वेन मायायाः पारायोगात् , पारप्राप्तेरेव तरणत्वात् , पारस्य च नाश- रूपत्वात्। न हि पारे नदीस्वरूपमस्ति। नदीस्वरूपाभावस्यैव पारत्वात् , तद्वन्मायाया अपि पारो नाश एव। न च - संसारमण्डले मायाऽस्ति, विष्णुपदे तु नास्ति, अतो मायातरणमुपपद्यत इति - वाच्यम् , सत्याया विष्णुपदेऽसत्त्वायोगात्। ‘नासतो विद्यते भावो नाभावो विद्यते सतः’ इति ह्युक्तं भगवता। तथा विष्णुपदे अविद्यमानाया मायायाः सत्त्वं चायुक्तम्। अत एव माया मिथ्येत्युक्त- मस्माभिः। या हि सर्वत्र नास्ति सा मिथ्या, यथा घटः। व्यतिरेकेण यथा आत्मा। आत्मा हि सर्वत्रास्ति। अत एव तस्य न कदाचिद- प्यभावः। अत एव स सत्यः। उक्तं हि पराशरेणापि‘ज्ञानं सत्यमसत्यमन्यद्’ इति। तस्मान्माया विनाशित्वान्मिथ्यैव, न सत्या।

विचित्रकार्यकरत्वेनास्याः मायाशब्दवाच्यत्वमित्येतदस्माकमिष्टमेव, ऐन्द्रजालिकशक्तेरपि विचित्रकार्यकारिण्या मायाशब्द- वाच्यत्वात्। सर्वस्यापि प्रपञ्चस्य मायामयत्वे राक्षसास्त्रादीनां मायामयत्वमस्माकमिष्टमेव। शम्बरस्य मायासहस्रमित्यत्रापि मायाशब्दो मिथ्यार्थ पर एव, चक्रनाश्यत्वलक्षणमिथ्यात्वस्य सत्त्वात्। किञ्चासुरकल्पिता मायाः प्रातिभासिक्य एव रज्जुसर्पादिवन्न पुनर्व्यावहारि- क्योऽपि, ऐन्द्रजालिकादयश्च प्रातिभासिक्य एव।

यदुक्तम् ऐन्द्रजालिकमणिमन्त्रादिकल्पितार्थानां मिथ्यात्वेऽपि मणिमन्त्रादिरूपा माया सत्यैवेति, तदपहासास्पदम्। सर्वत्र शक्तेरेव मायापदवाच्यत्वादीश्वरशक्तिर्मायेति त्वयाऽप्यभ्युपगम्यत्वात् , मणिमन्त्रादिगतविचित्रशक्तेश्च मायायाः विचित्रकार्यानुमेयायाः सत्यत्वस्य दुर्वचत्वात् , मिथ्याकार्यजनकशक्तेरमिथ्यात्वस्यासम्भवात् , शक्तेः सत्यत्वे तत्कार्यस्यापि सत्यत्वापत्तेः, गन्धर्वनगरादि- कार्यानुमेयाया मणिमन्त्रादिशक्तेः कार्यकाल एव सत्त्वेन कार्यकालात् प्राक् पश्चाच्चाभावेन रज्जुसर्पस्येव प्रातिभासिकत्वसिद्धेः; प्रातिभासिकत्वस्यैव मिथ्यात्वात्। इन्द्रजालशक्तिमत्सु मणिमन्त्रादिषु मायाशब्दवाच्यत्वे सति ऐन्द्रजालिकेऽपि तद्वाच्यत्वप्रसङ्गात् , लोके तथा प्रसिद्ध्यभावात् , न ह्यैन्द्रजालिकं तन्मण्यादिकं वा लोको मायेति प्रपद्यते, किं तर्हि? इन्द्रजालमेव। मण्यादिकं तु मायासाधनमिति प्रत्येति। पिञ्छाभ्रमणमात्रेण ऐन्द्रजालिको गगने गन्धर्वनगरं निर्मातीत्युक्तौ पिञ्छाभ्रमणपदस्य मायेत्यर्थ इति न हि कोऽपि विवेकी ब्रूते, किं तर्हि? मायामयत्वाद् गन्धर्वनगरमेव मायेति वक्ति। पिञ्छाभ्रमणं तु तादृशमायाजननसाधनमिति। तथा च मणिमन्त्रादयो मायावत् पदार्था एव, न तु माया। मणिमन्त्रादिशक्तिस्तु माया। सा तु मणिमन्त्रादेः सकाशात् पृथक्सत्त्वासत्त्वाभ्यां दुर्निरूपेति मिथ्यैव। यत्तु अर्थस्य मिथ्यात्वेऽपि तद्विषयबुद्धिः पारमार्थिकीति, तदसत् , बुद्धेः पारमार्थिकत्वव्यावहारिकत्वप्रातिभासिकत्वानां विषयाधीनत्वात्। ब्रह्मेति बुद्धिः पारमार्थिकी, विषयस्य ब्रह्मणः पारमार्थिकत्वात्। घट इति बुद्धिर्व्यावहारिकी, विषयस्य घटस्य व्यावहारिकत्वात्। रज्जौ सर्प इति बुद्धिः प्रातिभासिकी, विषयस्य रज्जुसर्पस्य प्रातिभासिकत्वादिति सिद्धान्तात्। विषयस्यैव मिथ्यात्वे तद्विषयकविज्ञानस्य सत्यत्वं ह्ययुक्तम्। अन्यथा भ्रमप्रमाज्ञानयोरैक्यप्रसङ्गात्। न च भ्रान्तिज्ञानमपि स्वरूपतः सत्यमिति वाच्यम् , रज्जौ ‘अयं सर्पः’ इति ज्ञाने विषयस्य सर्पस्यासत्यत्वे ‘अयं सर्पः’ इति ज्ञानस्य कथं सत्यत्वम्?

यत्तु विषयातिरिक्तं शुद्धं ज्ञानस्वरूपं, तदात्मैव; तस्य चोत्पादकं किमपि नास्ति, अजत्वादविक्रियत्वाच्चात्मनः; अतो न मिथ्यार्थविषयस्य ज्ञानस्य पारमार्थिकत्वम् , ‘तदभाववति तत्प्रकारकानुभवोऽयथार्थानुभवः’ इति न्यायशास्त्राच्च, विषयसत्यत्वासत्यत्वयोरेव ज्ञानसत्यत्वासत्यत्वप्रयोजकत्वस्य लोकतः सिद्धत्वाच्च। एवं मिथ्यार्थविषयज्ञानस्यापि सत्यत्वे ‘अग्निना सिञ्चेदि’ति वाक्यजन्यज्ञानस्यापि सत्यत्वापत्तेरप्रामाण्यमेव स्यात् सर्प[ज्ञान]स्य। तस्मादनिर्वचनीयेश्वरशक्तिरेव माया, इन्द्रजालशक्तिवत्। एवमनिर्वचनीयत्वादेव मायाकार्ये जगत्यपि मायात्व- व्यवहारः।3(अनिर्वचनीयत्वं मिथ्यात्वस्य लक्षणम्।)

[[३८८]]

न चैवम् ‘ऋते मायां विशालाक्षी’मित्यादिप्रयोगानिर्वाह इति वाच्यम् , मायावत्यां विशालाक्ष्यां मायाशब्दप्रयोगात्। अन्यथा लक्ष्म्याद्याकारपरिणतमायावच्छिन्नचैतन्ये कथं मायाशब्दप्रयोगः स्यात्? न हि लक्ष्म्यादयश्चैतन्यशून्यजडप्रकृतिरूपाः। न च प्रकृतिरपि चेतनैवेति वाच्यम् , ‘ईक्षतेर्नाशब्दम्’ इति प्रकृतेरचेतनत्वस्य शारीरकसूत्रे सिद्धान्तितत्वात्। लक्ष्मीपार्वत्यादीनां ब्रह्म- विष्ण्वादीनां वा शरीरगत एव स्त्रीत्वपुंस्त्वभेदो, न त्वात्मगत इति कथं लक्ष्म्यादीनां स्त्रीणां प्रकृतित्वं, ब्रह्मादीनां पुंसामीश्वरत्वं च? न कथमपि। जगन्नियमनादिकं तु विष्णोरिव लक्ष्म्या अपि सङ्गच्छत एवात्मत्वात्। अतो विष्णुरिव लक्ष्मीरपीश्वर एव, न माया। एवं ईश्वरत्वेन मायावत्त्वादेव लक्ष्म्यां मायाशब्दप्रयोगः। यदा तु लक्ष्म्या ईश्वरशक्तित्वेन परिग्रहस्तदा लक्ष्मीर्मायैव, न त्वीश्वरः, विवक्षाधीनत्वाच्छब्दप्रवृत्तेः।

कथमन्यथा ‘तव पूर्वपरिग्रहा’मित्युच्येत पूर्वपरिग्रहत्वम्? लक्ष्म्या विष्णोरनपायिन्याः परिग्रहात्प्राग् विष्णोर्मायावित्वासिद्धेः। न च - प्रकृतिर्देहाद्याकारपरिणता, माया तु तदभिमानिदेवता लक्ष्मीरिति - वाच्यम् , देहाद्याकारपरिणतप्रकृतेरेव मायात्वात् , अग्न्यादीनां वागाद्यभिमानिदेवतात्वात् , विराट् पुरुषस्यैव कृत्स्नप्रपञ्चाभिमानिदेवतात्वात् , लक्ष्म्या एव विराट् पुरुषत्वे तल्लाभेऽपि मायात्वालाभात्। सति तु मायात्वे लक्ष्म्या अपि मिथ्यात्वापत्तेः। न हि निर्विशेषचैतन्यरूपा लक्ष्मीर्माया भवितुमर्हति, किन्तु मायाविन्येव, जगज्जननादिसामर्थ्यरूपमायायाः लक्ष्म्यामपि सत्त्वात्।

तस्माल्लक्ष्म्याः शक्तिरेव माया, न तु लक्ष्मीः। सा च शक्तिः ‘निस्तत्त्वा कार्यगम्याऽस्य शक्तिर्मायाऽग्निशक्तिवद्’ इति पञ्चदश्युक्तरीत्या निस्तत्त्वा मिथ्यैव। तदेवं मायामयत्वाद् बन्धमुक्त्यादिव्यवहारस्य मिथ्यात्वं सुस्थितम्॥१८॥

[[३८९]]

मध्वः …{Loading}…

मध्वः - मूलम्

॥7.18॥ Sri Madhvacharya did not comment on this sloka.

जयतीर्थः

॥7.18॥ Sri Jayatirtha did not comment on this sloka.

अभिनव-गुप्तः …{Loading}…

अभिनवगुप्तः - मूलम्

॥7.16 7.19॥ चतुर्विधा इत्यादि सुदुर्लभ इत्यन्तम्। ये तु मां भजन्ते ते सुकृतिनः। ते च चत्वारः। सर्वे चैते उदाराः। यतः अन्ये कृपणबुद्धयः आर्त्तिनिवारणम् अर्थादि च तुल्यपाणिपादोदरशरीरसत्त्वेभ्योऽधिकतरं वा आत्मन्यूनेभ्यो मार्गयन्ते। ज्ञान्यपेक्षया तु ते न्यूनसत्त्वाः यतः तेषां तावत्यपि भेदोऽस्ति भगवतः इदमहमभिलष्यामि इति भेदस्य स्फुटप्रतिभासात्। ज्ञानी तु मामेवाभेदतया अवलम्बते इति +++(S omits इति)+++ ततोऽहमभिन्न एव। तस्य च अहमेव प्रियः न तु फलम्। अत एव स वासुदेव एव सर्वम् इत्येव +++(S वासुदेवः सर्वमेवम्)+++ दृढप्रतिपत्तिपवित्रीकृतहृदयः।

शङ्करनारायणः

7.18 See Comment under 7.19

वल्लभः …{Loading}…

वल्लभः - मूलम्

॥7.18॥ तर्हि किमितरे त्वद्भक्तास्त्रिविधाः संसृताः इति नहि नहीत्याह उदाराः सर्व इति। एते मद्भक्ताः सर्व एवोदारा देवान्तरोपासकेभ्यो महान्तो वदान्याश्च मत्तो यत्किञ्चित् गृह्णन्ति मम सर्वसमर्पकाः प्रथमं अन्यथा फलसिद्धिर्न स्यात्। परं व्यावहारिकरीत्या तद्भजनं प्राकृतमिति न तत्र प्रियत्वमुक्तम्। संसृतिरपि प्राकृतानामिव न भविष्यति यथा कथञ्चिद्भजनात्। उक्तं च भागवते 1।5।17त्यक्त्वा स्वधम चरणाम्बुजं इत्युपक्रम्ययत्र क्व वाऽभद्रमभूदमुष्य किं को वाऽर्थ आप्तो भजतां स्वधर्मतः इत्यादिनाकामं क्रोधं भयंस्नेहमैक्यं सौहृदमेव च। नित्यं हरौ विदधते यान्ति तन्मयतां हि ते भाग.10।29।15 इति चान्ते तन्मयत्वफलमननादुदारास्ते। यथाकथञ्चित्कार्यापेक्षयापि भगवत्सम्बन्धिभावे प्रवृत्तिरुचिततरेति सङ्क्षेपः। मम महिमतत्त्वज्ञानी पुनरात्मैवेति मे मतम्। ब्रह्मवादानुरोधि भगवन्मतं वा आस्थितः आश्रितः मामेवानुत्तमां गतिं मुक्तिं फलभूतामास्थितश्च मे मतः। तत्रात्मत्वं मन्ये। तदधीन इत्यर्थसिद्धम्। तत उत्तमः।

पुरुषोत्तमः

॥7.18॥ नन्वेषु चतुर्विधेषु ज्ञानी उत्तम उक्तस्ततोऽपि भक्तस्तदा पूर्वोक्तानां किं फलं इत्यपेक्षायामाह उदारा इति। एते सर्व एव स्वार्थपरित्यागेन मदर्थधर्मादित्रयभजनकर्त्तारः उदाराः मोक्षाधिकारिणः। तु पुनः ज्ञानी आत्मैव मदात्मक एव मुक्त एवेत्यर्थ इति मे मतम्। हीति निश्चयेन। अनन्यमनसा सर्वत्यागेन अनुत्तमां न विद्यते उत्तमा यस्यास्तादृशीं गतिं प्राप्य स्थानं ज्ञात्वा मामेवास्थितः स युक्तात्मा मत्संयोगयुक्तो दास्यादिभावेनेत्यर्थः। स उत्तम इति भावः।

श्रीधर-स्वामी …{Loading}…

॥7.18॥ तर्हि किमितरे त्रयस्त्वद्भक्ताः संसरन्ति नहि नहीत्याह उदारा इति। सर्वेऽप्येत उदारा महान्तः। मोक्षभाज एवेत्यर्थः। ज्ञानी पुरात्मैवेति मे मतं निश्चयः। हि यस्मात् स ज्ञानी युक्तात्मा मदेकचित्तः सन् न विद्यत उत्तमा यस्यास्तामनुत्तमां सर्वोत्तमां गतिं मामेवास्थित आश्रितवान्। मद्व्यतिरिक्तमन्यत्फलं न मन्यत इत्यर्थः।

English …{Loading}…

आदिदेवानन्दः

7.18 All these are indeed generous (udarah), but I deem the man of knowledge to be My very self; for he, integrated, is devoted to Me alone as the highest end.

गम्भीरानन्दः

7.18 All of these, indeed, are noble, but the man of Knowledge is the very Self. (This is) My opinion. For, with a steadfast mind, he is set on the path leading to Me alone who am the super-excellent Goal.

पुरोहितस्वामी

7.18 Noble-minded are they all, but the wise man I hold as my own Self; for he, remaining always at peace with Me, makes me his final goal.

शङ्करनारायणः

7.18. All these are noble persons, indeed. But the man of wisdom is considered as the very Soul of [Mine]. For, with his self (mind) that has mastered the Yoga, he has resorted to nothing but Me as his most supreme goal.

शिवानन्दः - अनुवादः

7.18 Noble indeed are all these; but I deem the wise man as My very Self; for, steadfast in mind he is established in Me alone as the supreme goal.

शिवानन्दः - टीका

7.18 उदाराः noble; सर्वे all; एव surely; एते these; ज्ञानी the wise; तु but; आत्मा Self; एव very; मे My; मतम् opinion; आस्थितः is established; सः he; हि verily; युक्तात्मा steadfastminded; माम् Me; एव verily; अनुत्तमाम्,the supreme; गतिम् goal.Commentary Are not the other three kinds of devotees dear to the Lord They are. They are all noble souls. But the wise man is exceedingly dear because he has a steady mind he has fixed his mind on Brahman. He does not want any worldly object; but only the Supreme Being. He seeks Brahman alone as the supreme goal. He practises Ahamgraha Upasana (meditation on the Self as the all). He tries to realise that he is identical with the Supreme Self. Therefore I regard a wise man as My very Self. (Cf.II.49)

हिन्दी …{Loading}…

रामसुखदासः - अनुवादः

।।7.18।। पहले कहे हुए सब-के-सब भक्त बड़े उदार (श्रेष्ठ भाववाले) हैं। परन्तु ज्ञानी (प्रेमी) तो मेरा स्वरूप ही है – ऐसा मेरा मत है। कारण कि वह युक्तात्मा है और जिससे श्रेष्ठ दूसरी कोई गति नहीं है, ऐसे मेरेमें ही दृढ़ आस्थावाला है।

रामसुखदासः - टीका

।।7.18।।**व्याख्या–उदाराः सर्व एवैते ये सब-के-सब भक्त उदार हैं, श्रेष्ठ भाववाले हैं। भगवान्ने यहाँ जो **‘उदाराः’**शब्दका प्रयोग किया है, उसमें कई विचित्र भाव हैं; जैसे– (1) चौथे अध्यायके ग्यारहवें श्लोकमें भगवान्ने कहा है कि ‘भक्त जिस प्रकार मेरे शरण होते हैं, उसी प्रकार मैं उनका भजन करता हूँ। ’ भक्त भगवान्को चाहते हैं और भगवान् भक्तको चाहते हैं। परन्तु इन दोनोंमें पहले भक्तने ही सम्बन्ध जोड़ा है और जो पहले सम्बन्ध जोड़ता है, वह उदार होता है। तात्पर्य यह है कि भगवान् सम्बन्ध जोड़ें या न जोड़ें, इसकी भक्त परवाह नहीं करता। वह तो अपनी तरफसे पहले सम्बन्ध जोड़ता है और अपनेको समर्पित करता है। इसलिये वह उदार है।

(2) देवताओंके भक्त सकामभावसे विधिपूर्वक यज्ञ दान, तप आदि कर्म करते हैं तो देवताओंको उनकी कामनाके अनुसार वह चीज देनी ही पड़ती है; क्योंकि देवतालोग उनका हित-अहित नहीं देखते। परन्तु भगवान्का भक्त अगर भगवान्से कोई चीज माँगता है तो भगवान् अगर उचित समझें तो वह चीज दे देते हैं अर्थात् देनेसे उसकी भक्ति बढ़ती हो, तो दे देते हैं और भक्ति न बढ़ती हो संसारमें फँसावट होती हो तो नहीं देते। कारण कि भगवान् परम पिता हैं और परम हितैषी हैं। तात्पर्य यह हुआ कि अपनी कामनाकी पूर्ति हो अथवा न हो, तो भी वे भगवान्का ही भजन करते हैं, भगवान्के भजनको नहीं छोड़ते–यह उनकी उदारता ही है।

(3) संसारके भोग और रुपये-पैसे प्रत्यक्ष सुखदायी दीखते हैं और भगवान्के भजनमें प्रत्यक्ष जल्दी सुख नहीं दीखता, फिर भी संसारके प्रत्यक्ष सुखको छोड़कर अर्थात् भोग भोगने और संग्रह करनेकी लालसाको छोड़कर भगवान्का भजन करते हैं, यह उनकी उदारता ही है।

(4) भगवान्के दरबारमें माँगनेवालोंको भी उदार कहा जाता है–यहि दरबार दीनको आदर रीति सदा चलि आई। (विनयपत्रिका 165। 5) अर्थात् कोई कुछ माँगता है, कोई धन चाहता है, कोई दुःख दूर करना चाहता है–ऐसे माँगनेवाले भक्तोंको भी भगवान् उदार कहते हैं, यह भगवान्की विशेष उदारता ही है।

(5) भक्तोंका लौकिक-पारलौकिक कामनापूर्तिके लिये अन्यकी तरफ किञ्चिन्मात्र भी भाव नहीं जाता। वे केवल भगवान्से ही कामनापूर्ति चाहते हैं। भक्तोंका यह अनन्यभाव ही उनकी उदारता है।‘ज्ञानी त्वात्मैव मे मतम्’ यहाँ **‘तु’**पदसे ज्ञानी अर्थात् प्रेमी भक्तकी विलक्षणता बतायी है कि दूसरे भक्त तो उदार हैं ही, पर ज्ञानीको उदार क्या कहें, वह तो मेरा स्वरूप ही है। स्वरूपमें किसी निमित्तसे, किसी कारणविशेषसे प्रियता नहीं होती, प्रत्युत अपना स्वरूप होनेसे स्वतः-स्वाभाविक प्रियता होती है। प्रेममें प्रेमी अपने-आपको प्रेमास्पदपर न्योछावर कर देता है अर्थात् प्रेमी अपनी सत्ता अलग नहीं मानता। ऐसे ही प्रेमास्पद भी स्वयं प्रेमीपर न्योछावर हो जाते हैं। उनको इस प्रेमाद्वैतकी विलक्षण अनुभूति होती है। ज्ञानमार्गका जो अद्वैतभाव है, वह नित्य-निरन्तर अखण्डरूपसे शान्त, सम रहता है। परन्तु प्रेमका जो अद्वैतभाव है, वह एक-दूसरेकी अभिन्नताका अनुभव कराता हुआ प्रतिक्षण वर्धमान रहता है। प्रेमका अद्वैतभाव एक होते हुए भी दो हैं और दो होते हुए भी एक है। इसलिये प्रेम-तत्त्व अनिर्वचनीय है। शरीरके साथ सर्वथाअभिन्नता (एकता) मानते हुए भी निरन्तर भिन्नता बनी रहती है और भिन्नताका अनुभव होनेपर भी भिन्नता बनी रहती है। इसी तरह प्रेमतत्त्वमें भिन्नता रहते हुए भी अभिन्नता बनी रहती है और अभिन्नताका अनुभव होनेपर भी अभिन्नता बनी रहती है। जैसे, नदी समुद्रमें प्रविष्ट होती है तो प्रविष्ट होते ही नदी और समद्रके जलकी एकता हो जाती है। एकता होनेपर भी दोनों तरफसे जलका एक प्रवाह चलता रहता है अर्थात् कभी नदीका समुद्रकी तरफ और कभी समुद्रका नदीकी तरफ एक विलक्षण प्रवाह चलता रहता है। ऐसे ही प्रेमीका प्रेमास्पदकी तरफ और प्रेमास्पदका प्रेमीकी तरफ प्रेमका एक विलक्षण प्रवाह चलता रहता है। उनका नित्ययोगमें वियोग और वियोगमें नित्ययोग–इस प्रकार प्रेमकी एक विलक्षण लीला अनन्तरूपसे अनन्तकालतक चलती रहती है। उसमें कौन प्रेमास्पद है और कौन प्रेमी है–इसका खयाल नहीं रहता। वहाँ दोनों ही प्रेमास्पद हैं और दोनों ही प्रेमी हैं। यही ‘ज्ञानी त्वात्मैव मे मतम्’पदोंका तात्पर्य है।‘आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम्’ क्योंकि जिससे उत्तम गति कोई हो ही नहीं सकती, ऐसे सर्वोपरि मेरेमें ही उसकी श्रद्धा, विश्वास और दृढ़ आस्था है। तात्पर्य है कि उसकी वृत्ति किसी अनुकूल-प्रतिकूल परिस्थितिको लेकर मेरेसे हटती नहीं, प्रत्युत एक मेरेमें ही लगी रहती है। ‘केवल भगवान् ही मेरे हैं’–इस प्रकार मेरेमें उसका जो अपनापन है, उसमें अनुकूलता-प्रतिकूलताको लेकर किञ्चिन्मात्र भी फरक नहीं पड़ता, प्रत्युत वह अपनापन दृढ़ होता और बढ़ता ही चला जाता है। वह युक्तात्मा है अर्थात् वह किसी भी अवस्थामें मेरेसे अलग नहीं होता, प्रत्युत सदा मेरेसे अभिन्न रहता है।

***सम्बन्ध–***पूर्वश्लोकमें कहे हुए ज्ञानी अर्थात् प्रेमी भक्तकी वास्तविकता और उसके भजनका प्रकार आगेके श्लोकमें बताते हैं।

चिन्मयानन्दः

।।7.18।। विशाल हृदय के भक्तानुग्रहकारक भगवान् श्रीकृष्ण यहाँ स्पष्ट कहते हैं कि जो कोई भी भक्त मेरी भक्ति करता है वह अन्य जनों की अपेक्षा उत्कृष्ट ही है फिर चाहे वह अपने कष्ट निवारणार्थ मेरा भक्त हो अथवा वह अर्थार्थी हो। किसानकिसी प्रकार से वह मुझ अनन्तस्वरूप की ओर ही अग्रसर हो रहा होता है। अत वह उत्कृष्ट है। तथापि इन चतुर्विध भक्तों में ज्ञानी तो मेरी आत्मा ही है। हम सब जानते हैं कि किसी मन्त्री का मित्र होना और स्वयं ही मन्त्री बनना इन दोनों में बहुत अन्तर है। इसमें कोई सन्देह नहीं कि मन्त्री की मित्रता प्राप्त होने मात्र से भी मनुष्य को समाज में एक विशेष प्रभावपूर्ण स्थान प्राप्त होता है परन्तु मन्त्री पद की समस्त गरिमा एवं अधिकार तो स्वयं मन्त्री बनने पर ही प्राप्त होते हैं। इसी प्रकार किसी फल विशेष के लिए ईश्वर की आराधना करना उसका आह्वान करना निश्चय ही एक दैवी गुण है किन्तु ज्ञानी पुरुष निष्काम होकर मन और बुद्धि के अतीत अपने परमात्मस्वरूप को पहचान कर परिच्छिन्न अहंकार को ही समाप्त कर देता है और परमात्मा के साथ वह एकत्वभाव को प्राप्त हो जाता है। तत्पश्चात् ऐसा ज्ञानी पुरुष सदा आत्मस्वरूप में ही स्थित होता है। इसलिए अन्य भक्तों की तुलना में ज्ञानी पुरुष श्रेष्ठ है यह श्रीकृष्ण का मत है।

तेजोमयानन्दः - अनुवादः

।।7.18।। (यद्यपि) ये सब उत्कृष्ट हैं, परन्तु ज्ञानी तो मेरा स्वरूप ही है ऐसा मेरा मत है, क्योंकि वह स्थिर बुद्धि ज्ञानी अति उत्तम गतिस्वरूप मुझमें अच्छी प्रकार स्थित है।।


  1. अयं पूर्वपक्षः(७-१४) श्लोके रामानुजभाष्ये दृश्यते। ↩︎

  2. अस्मिन् मन्त्रे अजो जीवः, नेश्वरः। अतः ईश्वरेण मायायास्त्यक्तत्वे कथमिदं प्रमाणमिति चिन्त्यम्। ↩︎

  3. अयं पाठः कुण्डलित एव दृष्टः। सदसद्विलक्षणत्वम् अनिर्वचनीयत्वम्। तद् मिथ्यात्वरूपमपि भवति। प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगित्वादिरूपमपि मिथ्यात्वं निरुक्तं ग्रन्थकारैः। प्रकृते च अनिर्वचनीयत्वोक्त्या मिथ्यात्वमात्रं विवक्षितमिति कुण्डलितपाठार्थः। ↩︎