(सं) विश्वास-प्रस्तुतिः ...{Loading}...
दैवी ह्य् एषा गुणमयी
मम माया दुरत्यया।
माम् एव ये प्रपद्यन्ते
मायाम् एतां तरन्ति ते॥7.14॥
(सं) मूलम् ...{Loading}...
दैवी ह्येषा गुणमयी मम माया दुरत्यया।
मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते।।7.14।।
रामानुज-सम्प्रदायः
(सं) रामानुजः मूलम् ...{Loading}...
कथं स्वत एव अनवधिकातिशयानन्दे नित्ये
सदा एकरूपे लौकिक-वस्तु-भोग्यता-प्रकारैः च उत्कृष्टतमे
त्वयि स्थिते अपि
अत्यन्तनिहीनेषु गुणमयेषु अस्थिरेषु भावेषु
सर्वस्य भोक्तृ-वर्गस्य भोग्यत्व-बुद्धिः उपजायते इत्यत्र आह -
।।7.14।।मम एषा गुणमयी सत्त्वरजस्तमोमयी माया यस्माद् दैवी देवेन क्रीडाप्रवृत्तेन मया एव निर्मिता तस्मात्सर्वैः दुरत्यया दुरतिक्रमा।
अस्याः मायाशब्दवाच्यत्वम् आसुरराक्षसास्त्रादीनाम् इव विचित्रकार्यकरत्वेन यथा चततो भगवता तस्य रक्षार्थं चक्रमुत्तमम्। आजगाम समाज्ञप्तं ज्वालामालि सुदर्शनम्।। तेन मायासहस्रं तच्छम्बरस्याशुगामिना। बालस्य रक्षता देहमेकैकांशेन सूदितम्।। (वि॰ पु॰ 1।19।1920) इत्यादौ। अतो मायाशब्दो न मिथ्यार्थवाची। ऐन्द्रजालिकादिषु अपि केनचिद् मन्त्रौषधादिना मिथ्यार्थविषयायाः पारमार्थिक्या एव बुद्धेः उत्पादकत्वेन मायावी इति प्रयोगः। तथा मन्त्रौषधादिः एव च तत्र माया सर्वप्रयोगेषु अनुगतस्य एकस्य एव शब्दार्थत्वात्। तत्र मिथ्यार्थेषु मायाशब्दप्रयोगो मायाकार्यबुद्धिविषयत्वेन औपचारिकःमञ्चाः क्रोशन्ति इतिवत्।
एषा गुणमयी पारमार्थिकी भगवन्माया एवमायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् (श्वेता॰ 4।10) इत्यादिषु अभिधीयते। अस्याः कार्यं भगवत्स्वरूपतिरोधानं स्वस्वरूपभोग्यत्वबुद्धिः च अतो भगवन्मायया मोहितं सर्वं जगद् भगवन्तम् अनवधिकातिशयानन्दस्वरूपं न अभिजानाति। मायाविमोचनोपायाम् आह माम् एव सत्यसंकल्पं परमकारुणिकम् अनालोचितविशेषाशेषलोकशरण्यं ये शरणं प्रपद्यन्ते ते एतां मदीयां गुणमयीं मायां तरन्ति। मायाम् उत्सृज्य माम् एव उपासत इत्यर्थः। किमिति भगवदुपासनापादिनीं भगवत्प्रपत्तिं सर्वे न कुर्वन्ति इत्यत्र आह
(सं) रामानुजः वेङ्कटनाथः ...{Loading}...
।।7.14।। उक्तायामर्थस्थितौ मोह एवायं न घटत इति शङ्कायांदैवी इत्यादिकमवतारयति कथमिति। सर्वस्येति सत्त्वोत्तरतया तत्त्वज्ञानप्रच्युतिरहिताया देवजातेरिति भावः। उत्कृष्टापकृष्टसन्निधावुत्कृष्टग्रहणशीलताभोक्तृवर्गस्येत्यनेन सूचिता। हिशब्दोऽत्र दुरतिक्रमत्वहेत्वर्थः। देवेन निर्मिता दैवीति तद्धितार्थः। दिवु क्रीडा इत्यादिधातौ देवशब्दनिष्पतिः एतेनदेवात्मशक्तिम् श्वे.उ.1।3 इति श्रुतिसूचनम्। दैवी मम इति शब्दाभ्यां मायाप्रवर्तकस्य देवस्य मायिनश्च कृष्णस्य भेदभ्रमव्युदासायमयैवेत्युक्तम्। नहि स्वच्छन्देनाघटितघटनासमर्थेनेश्वरेण लीलार्थं प्रवर्तिता माया अनीश्वरैः सर्वभूतैरपि लङ्घितुं शक्यत इतिसर्वैरित्यस्य भावः। अत्ययशब्दस्यात्र नाशार्थत्वव्युदासायाह दुरतिक्रमेति। दुःखेनातिक्रमणीया भगवत्प्रपत्तिरहितैर्लङ्घयितुमशक्यैव। मायाशब्दस्य पराभिमतमर्थं दूषयिष्यन् स्वाभिमतमर्थं तावदाहअस्या इति। सत्येष्वेवासुरराक्षसास्त्रादिषु मायाशब्दप्रयोगो न मिथ्यात्वनिबन्धन इति भावः।
यथा चेतितेन मायासहस्रम् इत्यत्र न मिथ्यार्थविषयत्वमुत्प्रेक्षितुमपि शक्यम् मिथ्याभूतस्य शस्त्रनिषूदनीयत्वाभावादिति भावः। आदिशब्देनमायया सततं वेत्ति प्राणिनां च शुभाशुभन्देवमायेव निर्मिता इत्यादिप्रयोगसङ्ग्रहः। अपिच दण्डनीतौ सामाद्युपायचतुष्टयादन्ये मायोपेक्षेन्द्रजालरूपा अमुख्यास्त्रय उपाया उपदिष्टाः तत्र माया अन्यथाभूतस्य वस्तुनोऽन्यथाकरणशक्तिः। इन्द्रजालं तु तथाप्रतिभासनशक्तिरिति विभागः। तस्मात्सत्यविषय एव मायाशब्द इत्यभिप्रायेणाह अत इति। मायाशब्दप्रयोगस्य सत्यविषयत्वादित्यर्थः। ननु मिथ्याभूतार्थप्रदर्शकेषु तत्सम्बन्धान्मायाविशब्दः प्रयुज्यते अतो मायाशब्दो मिथ्यार्थेऽपि प्रयुक्त इत्यत्राहऐन्द्रजालिकेति। असत्यत्ववदसत्योत्पादकत्वमपि न मायाशब्दप्रवृत्तिनिमित्तमिति दर्शयितुंपारमार्थिक्या एवेत्युक्तम्। भ्रान्तिज्ञानमपि स्वरूपतः सत्यम् आरोपितस्तु विषयो मिथ्येत्युच्यते। तथाप्यन्ततो मिथ्यार्थसम्बन्धो निमित्तमित्यत्राहतथेति। मन्त्रौषधादेर्मिथ्यार्थस्य च सन्निधाने किं विशेषनियामकं इत्यत्राहसर्वेति। न ह्येकशक्त्यैव निर्वाहे सम्भवत्यनेकशक्तिकल्पना युक्तेति भावः। मिथ्याभूतेष्वेवार्थेषु मायेयमिति प्रयोगो भवति तत्र च विचित्रकार्यकरत्वाभावान्मिथ्यात्वमेव निमित्तमाश्रयणीयमित्यत्राहतत्रेति। अयं भावः यत्र सम्बन्धाद्गुणयोगाद्वा प्रयोगो दुर्निर्वहः तत्र हि शक्त्यन्तरकल्पनागौरवं सह्यम् सम्भवति चात्र परम्परया सम्बन्धः मायाकार्यज्ञानविषयत्वात्। न मिथ्यात्वे प्रवृत्तिनिमित्ततया स्वीकृतेऽस्त्रादिषु तत्सम्बन्धगन्धः। मिथ्यार्थस्य च गुणाभावादेव तद्गुणयोगो दूरनिरस्तः। अपिच मिथ्याभूतेषु शुक्तिकारजतादिषु तत्प्रयोगाभावान्मिथ्यात्वविशेषे निष्कृष्यमाणे अस्मदुक्त एव विशेषेऽन्तर्भवतीति। त्वं हि लोकगतिर्देव न त्वां केचित्प्रजानते। ऋते मायां विशालाक्षीं तव पूर्वपरिग्रहाम्योगनिद्रा महामाया इत्यादिष्वपि भगवतो विचित्रकार्यविशेषोपयोगितया वा प्रकृतितत्त्वाभिमानिदेवतात्वादिरूपेण वा मायेत्युक्तम्। अतो युक्तं विचित्रकार्यकरत्वमेव मायाशब्दप्रवृत्तिनिमित्तमिति। श्रुतावपि विचित्रसृष्ट्युपादाने प्रकृतौ सत्यायामेव मायाशब्दः प्रयुक्त इत्याह एषेति। महेश्वरशब्दस्यात्र रुद्रविषयत्वभ्रमव्युदासाय भगवच्छब्दः। श्वेताश्वतरोपनिषदपि पुरुषसूक्तप्रत्यभिज्ञानमहापुरुषशब्दसत्त्वप्रवर्तकत्वादिभिर्भगवद्विषयतयैव प्रतीयते। महेश्वरशिवादिशब्दास्तु तस्मिन्नवयवशक्त्या गुणयोगेन वा प्रवृत्ताः रुद्रस्यान्यत्र कार्यत्वकर्मवश्यत्वसम्प्रतिपत्तेरिति भावः। मायां तु प्रकृतिं विद्यात् श्वे.उ.4।10 इति न तत्र प्रकृत्यनुवादेन मायात्वं विधीयते किन्तु मायाशब्दार्थानुवादेन प्रकृतित्वमिति वाक्यस्वारस्यावगतम्। पूर्वत्र अस्मान्मायी सृजते विश्वमेतत्तस्मिंश्चान्यो मायया सन्निरुद्धः श्वे.उ.4।9 इत्यभिहिते केयं मायत्याकाङ्क्षायां प्रवृत्तत्त्वादिति भावः। अस्मिन्प्रकरणे मायाशब्दप्रयोगनिदानमत्रोपयुक्तं विचित्रकार्यं दर्शयतिअस्या इति। तदेतदखिलमभिप्रेत्य भगवद्यामुनमुनिभिरुक्तंस्वयाथात्म्यं प्रकृत्याऽस्य तिरोधिः शरणागतिः गी.सं.11 इति। चोद्यपरिहारतां दर्शयन्नुपसंहरति अत इति। प्रकृत्यास्य तिरोधिः शरणागतिः इति संग्रहश्लोके तन्निवृत्त्यर्थमित्यध्याहर्तव्यमिति दर्शयन्ननन्तरग्रन्थमवतारयति मायाविमोचनेति। यच्छासनादलङ्घनीयं निगलनं तन्निवृत्तिरपि तेनैव कार्या नत्वन्येनेतिमामेव इत्यवधारणाभिप्रायं व्यञ्जयतिसत्यसङ्कल्पमिति। नहि बन्धविषय एव हि सङ्कल्पः सत्यः अपितु मोक्षविषयोऽपीति स एव प्रपदनीय इति भावः। शक्तस्यापि निर्घृणस्य प्रपत्त्या न किञ्चित्प्रयोजनमित्यत उक्तंपरमकारुणिकमिति। कारुणिकस्यापि लोकवत्परिग्राह्यापरिग्राह्यविभागे किमस्यासह्यापराधशालिनो जनस्य तत्प्रपत्त्या इत्यत्रोक्तम्अनालोचितेत्यादि। वायसशाखामृगविभीषणद्रौपदीप्रभृतिषु चैतत्स्पष्टम्। यदि वा रावणः स्वयम् वा.रा.6।18।34 इति च तदुक्तिः। एताम् इत्यस्याभिप्रेतमाह मदीयां गुणमयीमिति। अपीति शेषः। उपासनप्रकरणत्वाद्वक्ष्यमाणार्तादिचतुष्टयसाधारणत्वाच्चोपासनाङ्गभूता प्रपत्तिरत्रोच्यत इत्यभिप्रायेणाहमायामुत्सृज्येति।
(सं) रामानुजः (Eng) आदिदेवानन्दः ...{Loading}...
7.14 (a) This Maya of Mine consists of the three Gunas, Sattva, Rajas and Tamas. Because it is created by Me, the Divine, for purpose of sport, it is divine in its power and therefore difficult to overcome. The word Maya is used for the effects of the three Gunas, because it has got the power of generating wonderful effects as in the case of the magic of Asuras and Raksasas. See the passages: ‘Then the excellent discus, the flaming Sudarsana, was despatched by the Lord to defend the boy. The thousand Mayas or wonderfully created weapons of the evil-designed Sambara were foiled one after another, by that ickly moving discus, for protecting the body of the boy’ (V. P., 1.19. 19-20). Here the term Maya does not signify the sense of ‘false’. Even with regard to magicians, when the term, Mayavin (one who possesses Maya) is used, there is origination of real impressions with the aid of certain incantations, herbs etc., though the objects created are illusory things. Accordingly the term Maya denotes the incantations, herbs etc., which have got the power of creating real impressions. Inasmuch as the sense of the term should be invariable, following the usage in all cases, the term Maya can be applied to the illusory objects, only in a secondary sense, while its primary sense in regard to the real impressions generated in the mind. It is just like in the statement ‘The cots cry.’ The Maya of the Lord, which is absolutely real and which consists of the Gunas, is alone taught in the texts like, ‘Know then Maya to be the Prakrti and the possessor of the Maya to be the great Lord’ (Sve. U., 4.10). It not only obscures the essential nature of the Lord but also creates the condition of the mind that sees its objects as enjoyable. Therefore, the entire universe, deluded by the Lord’s Maya, does not know the Lord who is of the nature of boundless beatitude. (On the other hand they feel objects set forth by Maya as enjoyable). Sri Krsna teaches the way of deliverance from Maya: (b) But those who take refuge in Me alone - Me whose resolves are always true, who has supreme compassion, and who is the refuge of all beings without exception and without consideration of their particular status - such persons shall pass beyond this Maya of Mine consisting of the three Gunas. The meaning is that they worship Me alone, renouncing the Maya. Why, then do all not take recourse to refuge in the Lord which is conducive to the worship of the Lord;
अभिनवगुप्त-सम्प्रदायः
(सं) अभिनव-गुप्तः मूलम् ...{Loading}...
।।7.14।। कथं खलु सत्त्वादिमात्रस्थिता भगवतस्तत्त्वं न विदुः इत्याह दैवीति। देवः क्रीडाकरः तत्र भवा दैवी क्रीडा ममेयमित्यर्थः। तेन सत्त्वादीनां वस्तुतः संविन्मात्रपरब्रह्मानतिरिक्ततायामपि यत् तदरिक्ततावगमनं +++(N तदतिरिक्तभावगमनम्)+++ तदेव गुणत्वं भोक्तृतत्त्वपारतन्त्र्यं भोग्यत्वम्। तच्च भेदात्मकं रूपं संसारिभिरनिर्वाच्यतया तान् प्रति मायारूपम्। अतो ये परमार्थब्रह्मप्रकाशविदः ते तदनतिरिक्तं विश्वं पश्यन्तो गुणाना सत्त्वादीनां गुणतालक्षणां भेदावभासस्वभावां मायाम् अतितरन्ति इति मामेव इत्येवकारस्याशयः। ये तु यथास्थित ( यथास्थितभेद ) भेदावभासमात्रं विदुः ते मायां नातिक्रामन्ति +++(S नातिवर्तन्ते)+++ । तद्युक्तमुक्तम् न त्वहं तेषु इति।
(सं) अभिनव-गुप्तः (Eng) शङ्करनारायणः ...{Loading}...
7.14 Daivi etc. Deva means ‘one who plays’. What is born of (or exists in) him is daivi ‘play’. Hence, the meaning is : ‘This is My play’. Due to this [play-trick], the [Strands] Sattva etc., even though they are not really different from the Supreme Brahman, the Pure Consciousness, manifest as different from That. This [differentiation] itself accounts for their secondary nature i.e., the nature of being an object of enjoyment i.e., being dependent on the existence of the enjoyer. This peculiarity of dual-nature is inexplicable for the persons of mundane life. Hence to them it is a trick-of-Illusion. Therefore, those who have realised the light of the Brahman, the Supreme Reality, and find the universe as not distinct from that [Brahman], they [alone] cross over the trick-off-Illusion which is of the nature of manifesting in duality and is in the form of the dependent status of the Strands, Sattva etc. This is the idea indicated by ‘alone’ in ‘Me alone’. On the other hand those who would find just the manifestation of duality as they [appear to] exist - they do not across over the trick-of-Illusion. Thus it is rightly said ‘I am not in them (in the beings of the Sattva etc.) etc.’
माध्व-सम्प्रदायः
(सं) मध्वः मूलम् ...{Loading}...
।।7.14।। कथमनादिकाले मोहानत्ययो बहूनामित्यत आह दैवीति। अयमाशयः माया ह्येषा मोहिका सा च सृष्ट्यादिक्रीडादिमद्देवसम्बन्धित्वादतिशक्तेर्दुरत्यया। तथा हि देवताशब्दार्थं पठन्तिदिवु क्रीडाविजिगीषावव्यवहारद्युतिस्तुतिमदमोदस्वप्नकान्तिगतिषु धा.पा.दि.1 इति। कथं दैवी मदीयत्वात्। अहं हि देव इति। अब्रवीच्चश्रीभूदुर्गेति या भिन्ना महामाया तु वैष्णवी। तच्छक्त्यनन्तांशहीनाऽथापि तस्याश्रयात्प्रभोः। अनन्तब्रह्मरुद्रादेर्नास्याः शक्तिकलाऽपि हि। तेषां दुरत्ययाऽप्येषा विना विष्णुप्रसादतः इति च व्यासयोगे। तर्हि न कथञ्चिदत्येतुं शक्यते इत्यात आह मामेवेति। अन्यत्सर्वं परित्यज्य मामेव ये प्रपद्यन्ते गुर्वादिवन्दनं च मय्येव समर्पयन्ति स एव च तत्र स्थित्वा गुर्वादिर्भवतीत्यादि पश्यन्ति। आह च नारदीये मत्सम्पत्त्या तु गुर्वादीन् भजन्ते मध्यमा नराः। मदुपाधितया तांश्च सर्वभूतानि चोत्तमाः इति। आचार्यचैत्यवपुषा स्वगतिं व्यनङ्क्षि इति च।
(सं) मध्वः जयतीर्थः ...{Loading}...
।।7.14।। उपायाभावानुमानाभासाभ्यामनुपलम्भो विपरीतोपलम्भश्चेत्युक्तम् अतः किमुत्तरेण वाक्येनेत्यत आह कथमिति। भगवान्गुणमयविग्रह इत्ययं न मोहः बाधकप्रत्ययाभावात्। ज्ञानिनां सम्यक्प्रत्ययो बाधक इत्युक्तमिति चेत् न बहुतरज्ञानविरोधेन कतिपयज्ञानानामेव यथार्थत्वापत्तेः। ननूत्तरकाले बाधकप्रत्ययो भविष्यति चेत् न अनादौ काले जातस्योत्तरत्राप्यसम्भवादिति भावः। ननु बाधकप्रत्ययाभावाद्यथार्थ एवायं प्रत्यय इति शङ्कायां किमेतदसङ्गतमुच्यते इत्यत आह अयमिति। एषा इत्यनुवादेनमोहिका इति व्याख्यातं मोहितमिति धात्वर्थमात्रं परामृश्य योग्यप्रत्ययसम्बन्धेन व्याख्यानात्। गुणमयी तदभिमानिनी दुर्गा या हि तमोगुणेनैवंविधं मोहं जनयति। अनुमानं तु निमित्तमात्रम्। ततः किम् इत्यत आह सा चेति। सा च दुरत्यया तत्कृतमोहं कोऽपि नात्येतुं शक्नोति न कस्यापि बाधकप्रत्ययो भवति। कुतो दुरत्यया इत्यतोऽतिशक्तेरिति हेतुरध्याहृत्योक्तः। कुतोऽतिशक्तित्वम् इत्यतोदैवी इत्येतद्धेतुगर्भमिति व्याख्यातम् देवसम्बन्धित्वादिति। सम्बन्धित्वं परमप्रियत्वम्। स च देवस्यातिशक्तित्वे तत्सम्बन्धिन्यास्तत्स्यात् तदेव कुतः इत्यतो देवशब्दार्थो निरुक्तः। सृष्ट्यादीति। सृष्ट्यादिश्च सा क्रीडा च प्रथमादिपदेन स्थित्यादेः सङ्ग्रहः द्वितीयेन विजिगीषादेः। क्रीडादिमत्वेनातिशक्तिर्न सिध्यतीति क्रीडा व्याख्याता। देवशब्दस्य क्रीडादिमत्त्वमर्थः। कुतः इत्यत आह तथा हीति। देवशब्दे या प्रकृतिस्तदर्थमित्यर्थः। प्रत्ययंस्तु इगुपधलक्षणस्य कस्य बाधकः पचाद्यच्। दैवी इत्यनेन निराकाङ्क्षत्वान्ममेति व्यर्थमित्यत आह कथमिति। तस्यैव व्याख्यार्थमेतदिति भावः। त्वदीयत्वेऽपि कथं दैवीत्यतः शेषं पूरयति अहं हीति। आशयवर्णनसमाप्ताविति शब्दः। अत्र प्रमाणमाह अब्रवीच्चेति। उत्तरस्य प्रकृतोपयोगितया सङ्गतिमाह तर्हीति। यदि न केवलमनुमानं किन्तु भगवतोपोद्बोलिता माया मोहहेतुस्तर्हीत्यर्थः। ततश्च ज्ञानिव्यावृत्त्यर्थं यदिदमित्युक्तं तदसदिति भावः। ननु मायात्ययोपायस्यासम्भावनाशङ्कायां तदुपाय एव वक्तव्यः न तूपायान्तरप्रतिषेधः। अतोऽनुपपन्नमव धारणमित्यतआह अन्यदिति। स्वप्रतिपत्तावित्थम्भावसूचक एवैवशब्दो नोपायान्तरप्रतिषेधपर इत्यर्थः। एवं तर्हि गुर्वादिवन्दनाभावः प्राप्त इत्यतोऽभिप्रायमाह गुर्वादीति। भागवता एत इत्यादिबुद्ध्या वन्दनादि कुर्वन्तीति यावत्। एतन्मध्यमभक्तानां चरित्रमुक्तम् उत्तमानां त्वाह स एवेति। भगवानेव तत्र गुर्वादिषु। द्वयं प्रमाणेनोपपादयति आह चेति। अहं च सा सम्पत्तिश्च मदुपाधितया मत्प्रतिमात्वेन। चैत्यं चित्स्थम्। स्वगतिं स्वज्ञानम्। व्यनङ्क्षि व्यञ्जयसि।
शाङ्कर-सम्प्रदायः
(सं) शङ्करः मूलम् ...{Loading}...
।।7.14।। दैवी देवस्य मम ईश्वरस्य विष्णोः स्वभावभूता हि यस्मात् एषा यथोक्ता गुणमयी मम माया दुरत्यया दुःखेन अत्ययः अतिक्रमणं यस्याः सा दुरत्यया। तत्र एवं सति सर्वधर्मान् परित्यज्य मामेव मायाविनं स्वात्मभूतं सर्वात्मना ये प्रपद्यन्ते ते मायाम् एतां सर्वभूतमोहिनीं तरन्ति अतिक्रामन्ति ते संसारबन्धनात् मुच्यन्ते इत्यर्थः।। यदि त्वां प्रपन्नाः मायामेतां तरन्ति कस्मात् त्वामेव सर्वे न प्रपद्यन्ते इत्युच्यते
(सं) शङ्करः (हि) हरिकृष्णदासः ...{Loading}...
।।7.14।। तो फिर इस देवसम्बन्धिनी त्रिगुणात्मिका वैष्णवी मायाको मनुष्य कैसे तरते हैं इसपर कहते हैं क्योंकि यह उपर्युक्त दैवी माया अर्थात् मुझ व्यापक ईश्वरकी निज शक्ति मेरी त्रिगुणमयी माया दुस्तर हैअर्थात् जिससे पार होना बड़ा कठिन है ऐसी है। इसलिये जो सब धर्मोंको छोड़कर अपने ही आत्मा मुझ मायापति परमेश्वरकी ही सर्वात्मभावसे शरण ग्रहण कर लेते हैं वे सब भूतोंको मोहित करनेवाली इस मायासे तर जाते हैं वे इसके पार हो जाते हैं अर्थात् संसारबन्धनसे मुक्त हो जाते हैं।
(सं) शङ्करः (Eng) गम्भीरानन्दः ...{Loading}...
7.14 Hi, since; esa, this, aforesaid; daivi, divine; Maya mama, of Mine, of God, of Visnu, which (Maya) is My own; and which is guna-mayi, constituted by the gunas; is duratyaya, difficult to cross over; therefore, this being so, ye, those who; wholeheartedly prapadyante, take refuge; mam eva, in Me alone, in Me who am the Master of Maya and who am their own Self, by giving up all forms of rites and duties; te, they; taranti, cross over; etam, this; mayam, Maya, which deludes all beings. That is to say, they become freed from the bondage of the world. ‘If it is that those who resort to You cross over this Maya, why then do not all take refuge in You alone;’ This is being answered:
(सं) शङ्करः आनन्दगिरिः ...{Loading}...
।।7.14।। यथोक्तानादिसिद्धमायापारवश्यपरिवर्जनायोगाज्जगतो न कदाचिदपि तत्त्वबोधसमुदयसंभावनेत्याशङ्कते कथं पुनरिति। भगवदेकशरणतया तत्त्वज्ञानद्वारेण मायातिक्रमः संभवतीति परिहरति उच्यत इति। कथं दुरत्ययत्वेन तदत्ययः स्यादिति तत्राह मामेवेति। प्रधानस्येव स्वातन्त्र्यं मायाया व्युदस्यति देवस्येति। अस्वातन्त्र्ये मायात्वानुपपत्तिं हिशब्दद्योतितां हेतूकरोति यस्मादिति। अनुभवसिद्धा सा नाकस्मादपलापमर्हतीत्याह एषेति। जगतस्तत्त्वप्रतिपत्तिप्रतिबन्धभूता गुणाः सत्त्वादयः। ममेति प्रागुक्तमेव मायायाः संबन्धमनूद्य विधित्सितं दुरत्ययत्वं विभजते दुःखेनेति। मामेवेत्यादि व्याचष्टे तत्रेति। तस्मिन्मायारूपे यथोक्तरीत्या दुरत्यये सतीति यावत्। मामेवेत्येवकारेण मायया वेद्यकोटिनिवेशाभावो विवक्ष्यते सर्वात्मना कर्मानुष्ठानादिव्यग्रतामन्तरेणेत्यर्थः। मायातिक्रमे मोहातिक्रमो भवतीति मत्वा विशिनष्टि सर्वेति। मायातत्प्रयुक्तमोहयोरतिक्रमेऽपि कथं पुरुषस्य पुरुषार्थसिद्धिरित्याशङ्क्याह संसारेति।
(सं) शङ्करः मधुसूदन-सरस्वती ...{Loading}...
।।7.14।। ननु यथोक्तानादिसिद्धमायागुणत्रयबद्धस्य जगतः स्वातन्त्र्याभावेन तत्परिवर्जनासामर्थ्यान्न कदाचिदपि मायातिक्रमः स्याद्वस्तुविवेकासामर्थ्यहेतोः सदातनत्वादित्याशङ्क्य भगवदेकशरणतया तत्त्वज्ञानद्वारेण मायातिक्रमः संभवतीत्याह दैवीएको देवः सर्वभूतेषु गूढः इत्यादिश्रुतिप्रतिपादिते स्वतोद्योतनवति देवे स्वप्रकाशचैतन्यानन्दे निर्विभागे तदाश्रयतया तद्विषयतया च कल्पिताआश्रयत्वविषयत्वभागिनी निर्विभागचितिरेव केवला इत्युक्तेः। एषा साक्षिप्रत्यक्षत्वेनापलापानर्हा। हिशब्दाद्भ्रमोपादात्वादर्थापत्तिसिद्धा च। गुणमयी सत्त्व रजस्तमोगुणत्रयात्मिका। त्रिगुणरज्जुरिवातिदृढत्वेन बन्धनहेतुः मम मायाविनः परमेश्वरस्य सर्वजगत्कारणस्य सर्वज्ञस्य सर्वशक्तेः स्वभूता स्वाधीनत्वेन जगत्सृष्ट्यादिनिर्वाहिका माया तत्त्वप्रतिभासप्रतिबन्धेनातत्त्वप्रतिभासहेतुरावरणविक्षेपशक्तिद्वयवत्यविद्या सर्वप्रपञ्चप्रकृतिः। मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् इति श्रुतेः। अत्रैवं प्रक्रिया जीवेश्वरजगद्विभागशून्ये शुद्धे चैतन्येऽध्यस्तानादिरविद्या सत्त्वप्राधान्येन स्वच्छदर्पण इव मुखाभासं चिदाभासमागृह्णाति। ततश्च बिम्बस्थानीयः परमेश्वर उपाधिदोषानास्कन्दितः प्रतिबिम्बस्थानीयश्च जीव उपाधिदोषास्कन्दिकतः। ईश्वराच्च जीवभोगायाकाशादिक्रमेण शरीरेन्द्रियसंघातस्तद्भोग्यश्च कृत्स्नः प्रपञ्चो जायत इति कल्पना भवति। बिम्बप्रतिबिम्बमुखानुगतमुखवच्चेशजीवानुगतं मायोपाधि चैतन्यं साक्षीति कल्प्यते। तेनैव च स्वाध्यस्ता माया तत्कार्यं च कृत्स्नं प्रकाश्यते। अतः साक्ष्यभिप्रायेण दैवीति बिम्बेश्वराभिप्रायेण तु ममेति भगवतोक्तम्। यद्यप्यविद्याप्रतिबिम्ब एक एव जीवस्तथाप्यविद्यागतानामन्तःकरणसंस्काराणां भिन्नत्वात्तद्भेदेनान्तःकरणोपाधेस्तस्यात्र भेदव्यपदेशोमामेव ये प्रपद्यन्तेदुष्कृतिनो मूढा न प्रपद्यन्तेचतुर्विधा भजन्ते माम् इत्यादिः। श्रुतौ चतद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत्तथर्षीणां तथा मनुष्याणाम् इत्यादिः। अन्तःकरणोपाधिभेदापर्यालोचने तु जीवत्वप्रयोजकोपाधेरेकत्वादेकत्वेनैवात्र व्यपदेशः। क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषुप्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपिममैवांशो जीवलोके जीवभूतः सनातनः इत्यादिः। श्रुतौ चब्रह्म वा इदमग्र आसीत्तदात्मानमेवावेदहं ब्रह्मास्मीति तस्मात्तत्सर्वमभवत्एको देवः सर्वभूतेषु गूढःअनेन जीवेनात्मनानुप्रविश्यवालाग्रशतभागस्य शतधा कल्पितस्य च। भागो जीवः स विज्ञेयः स चानन्त्याय कल्प्यते।। इत्यादिः। यद्यपि दर्पणगतश्चैत्रप्रतिबिम्बः स्वं परं च न जानात्यचेतनांशस्यैव तत्र प्रतिबिम्बितत्वात्तथापि चित्प्रतिबिम्बश्चित्त्वादेव स्वं परं च जानाति। प्रतिबिम्बपक्षे बिम्बचैतन्य एवोपाधिस्थत्वमात्रस्य कल्पित्वात् आभासपक्षे तस्यानिर्वचनीयत्वेऽपि जडविलक्षणत्वात्। स च यावत्स्वबिम्बैक्यमात्मनो न जानाति तावज्जलसूर्य इव जलगतम्पादिकमुपाधिगतं विकारसहस्रमनुभवति। तदेतदाह दुरत्ययेति। बिम्बभूतेश्वरैक्यसाक्षात्कारमन्तरेणात्येतुं तरितुमशक्येति दुरत्यया। अतएव जीवोऽन्तःकरणावच्छिन्नत्वात्तत्संबन्धमेवाक्ष्यादिद्वारा भासयन् किंचिज्ज्ञो भवति। ततश्च जानामि करोमि भुञ्जे चेत्यनर्थशतभाजनं भवति। स चेद्बिम्बभूतं भगवन्तमनन्तशक्तिं मायानियन्तारं सर्वविदं सर्वफलदातारमनिशमानन्दघनमूर्तिमनेकानवतारान्भक्तानुग्रहाय विदधतमाराधयति परमगुरुमशेषकर्मसमर्पणेन तदा बिम्बसमर्पितस्य प्रतिबिम्बे प्रतिफलनात्सर्वानपि पुरुषार्थानासादयति। एतदेवाभिप्रेत्य प्रह्नादेनोक्तंनैवात्मनः प्रभुरयं निजलाभपूर्णो मानं जनादविदुषः करुणो वृणीते। यद्यज्जनो भगवते विदधीत मानं तच्चात्मने प्रतिमुखस्य यथा मुखश्रीः।। इति। दर्पणप्रतिबिम्बितस्य मुखस्य तिलकादिश्रीरपेक्षिता चेद्बिम्बभूते मुखे समर्पणीया। सा स्वयमेव तत्र प्रतिफलति नान्यः कश्चित्तत्प्राप्तावुपायोऽस्ति यथा तथा बिम्बभूतेश्वरे समर्पितमेव तत्प्रतिबिम्बभूतो जीवो लभते नान्यः कश्चित्तस्य पुरुषार्थलाभेऽस्त्युपाय इति दृष्टान्तार्थः। तस्य यदा भगवन्तमनन्तमनवरतमाराधयतोऽन्तःकरणं ज्ञानप्रतिबन्धकपापेन रहितंज्ञानानुकूलपुण्येन चोपचितं भवति तदातिनिर्मले मुकुरमण्डल इव मुखमतिस्वच्छेऽन्तःकरणे सर्वकर्मत्यागशमदमादिपूर्वकगुरूपसदनवेदान्तवाक्यश्रवणमनननिदिध्यासनैः संस्कृते तत्त्वमसीति गुरूपदिष्टवेदान्तवाक्यकरणिकाहंब्रह्मास्मीत्यनात्माकारशून्या निरुपाधिचैतन्याकारा साक्षात्कारात्मिका वृत्तिरुदेति। तस्यां च प्रतिफलितं चैतन्यं सद्य एव स्वविषयाश्रयामविद्यामुन्मूलयति दीप इव तमः। ततस्तस्या नाशात्तया वृत्त्या सहाखिलस्य कार्यप्रपञ्चस्य नाशः। उपादाननाशादुपादेयनाशस्य सर्वतन्त्रसिद्धत्वात्। तदेतदाह भगवान्मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते इति। आत्मेत्येवोपासीत तदात्मानमेवावेत्तमेव धीरो विज्ञायतमेव विदित्वाऽतिमृत्युमेति इत्यादिश्रुतिष्विवेहापि मामेवेत्येवकारोऽन्यानुपरक्तप्रतिपत्त्यर्थः। मामेव सर्वोपाधिविरहितं चिदानन्दसदात्मानमखण्डं ये प्रपद्यन्ते वेदान्तवाक्यजन्यया निर्विकल्पसाक्षात्काररूपया निर्वचनानर्हशुद्धचिदाकारत्वधर्मविशिष्टया सर्वसुकृतफलभूतया निदिध्यासनपरिपाकप्रसूतया चेतोवृत्त्या सर्वाज्ञानतत्कार्यविरोधिन्या विषयीकुर्वन्ति ये ते केचिदेतां दुरतिक्रमणीयामपि मायामखिलानर्थजन्मभुवमनायासेनैव तरन्ति अतिक्रामन्ति। तस्य ह न देवाश्च नाभूत्या ईशत आत्मा ह्येषां स भवति इति श्रुतेः। सर्वोपाधिनिवृत्त्या सच्चिदानन्दघनरूपेणैव तिष्ठन्तीत्यर्थः। बहुवचनप्रयोगो देहेन्द्रियादिसंघातभेदनिबन्धनात्मभेदभ्रान्त्यनुवादार्थः। प्रपश्यन्तीति वक्तव्ये प्रपद्यन्त इत्युक्तेऽर्थे मदेकशरणाः सन्तो मामेव भगवन्तं वासुदेवमीदृशमनन्तसौन्दर्यसारसर्वस्वमखिलकलाकलापनिलयमभिनवपङ्कजशोभाधिकचरणकमलयुगुलप्रभमनवरतवेणुवादननिरतवृन्दावनक्रीडासक्तमानसहेलोद्धृतगोवर्धनाख्यमहीधरं गोपालं निषूदितशिशुपालकंसादिदुष्टसंघमभिनवजलदशोभासर्वस्वहरणचरणपरमानन्दघनमयमूर्तिमतिवैरिञ्चमनवरतमनुचिन्तयन्तो दिवसानतिवाहयन्ति ते मत्प्रेममहानन्दसमुद्रमग्नमनस्तया समस्तमायागुणविकारैर्नाभिभूयन्ते किंतु मद्विलासविनोदकुशला एते मदुन्मूलनसमर्था इति शङ्कमानेव माया तेभ्योऽपसरति वारविलासिनीव क्रोधनेभ्यस्तपोधनेभ्यः। तस्मान्मायातरणार्थी मामीदृशमेव सन्ततमनुचिन्तयेदित्यप्यभिप्रेतं भगवतः। श्रुतयः स्मृतयश्चात्रार्थे प्रमाणीकर्तव्याः।
(सं) शङ्करः नीलकण्ठः ...{Loading}...
।।7.14।। देवस्य जीवरूपेण लीलया क्रोडतो मम संबन्धिनीयं दैवी हि प्रसिद्धा पिण्डब्रह्माण्डरूपेण वितता एषा मम चिन्मात्रस्य माया मामहं न जानामीति साक्षिप्रत्यक्षत्वेनापलापानर्हा अनृतस्य प्रपञ्चस्येन्द्रजालादेरिवप्रकाशिका गुणमयी सत्वरजस्तमोगुणमयी दुरत्यया दुरतिक्रमा। ये मामेव सर्वभूतस्थं भगवन्तं वासुदेवं प्रपद्यन्ते विषयीकुर्वन्ति त एवैतां मायां तरन्ति। अधिष्ठानज्ञानेनैव समूलस्य भ्रमस्योच्छेदो भवति नतु ज्ञानान्तरेण वा वृत्तिनिरोधेन वेत्यर्थः। अयमर्थः जीवेश्वरविभागशून्ये शुद्धचिन्मात्रे कल्पितो मायादर्पणश्चित्प्रतिबिम्बरूपं जीवं वशीकृत्य बिम्बचैतन्यमनुरुध्य प्रचलति। अयस्कान्तमनुरुध्येव लोहशलाका। इदमेव ईश्वराधीनत्वं मायायाः। ईश्वरस्य च मायाद्वारा सर्वस्रष्टृत्वमपि। तथा च श्रुतिःतस्मान्मायी सृजते विश्वमेतत्तस्मिंश्चान्यो मायया सन्निरुद्धः इति। तथाचैकैव माया जीवेश्वरयोरुपाधिर्दर्पण इव बिम्बप्रतिबिम्बयोर्बिम्बप्रतिबिम्बभावानाक्रान्तमुभयानुस्यूतं शुद्धचिन्मात्रमन्यत्तृतीयं मुक्तप्राप्यम्। जीवेश्वरौ च उपाधिपक्षपातदशायामल्पज्ञत्वसर्वज्ञत्वशास्यत्वशासितृत्वादिभावं भजेते। तावेव तदभावे उपाधिप्रचारदर्शिनौ उदासीनबोधरूपतया जीवसाक्षीश्वरसाक्षीतिशब्दाभ्यां व्यवह्रियेते। एवं च जीव ईश्वराराधनावाप्तप्रत्यक्तत्वज्ञानेन मायायां नष्टायां तत्कार्यस्यापि नाशेन साक्ष्याभावात्साक्षित्वमपि परित्यज्य बिम्बप्रतिबिम्बानुस्यूतं शुद्धं तृतीयं चैतन्यं प्राप्नोतीति तदिदमुक्तं दैवी मायेति। मम मायेति चैकस्या एव जीवेश्वरसंबन्धित्वं जीवस्येश्वरभजनेन मायातरणमिति च।
(सं) शङ्करः धनपतिः ...{Loading}...
।।7.14।। तर्ह्यनादिसिद्धां त्रिगुणात्मिका दैवीं मायां जीवमोहिनीं केनोपायेनातिक्रामन्तीत्यपैक्षायामाह दैवी हीति। देवस्य ममेश्वरस्य स्वभूता त्रिगुणमयी त्रिगुणात्मिका माया प्रकृतिःमायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्। सा प्रकृतिर्मायाविद्यारुपेण द्विधामाया चाविद्या च स्वयमेव भवति इति श्रुतेः। तदुक्तंतमोरजःसत्त्वगुणा प्रकृतिर्दिविधा मता। सत्त्वशुद्य्धविशुद्धिभ्यां मायाविद्ये च ते मते।। मायाबिम्बो वशीकृत्य तां स्यात्सर्वज्ञ ईश्वरः। अविद्यावशगस्त्वन्यस्तद्वैचित्र्यादनेकधा।। इति। तथाच माया प्रकृतिरविद्या मायामयी ईश्वरमधिष्ठानत्वेनाश्रित्य जीवान्मोहयति। तथाच शारीरकं भाष्यंअविद्यात्मिका हि बीजशक्तिरव्यक्तशब्दनिर्देश्या परमेश्वराश्रया मायामयी महासुषुप्तिर्यस्यां स्वरुपबोधरहिताः वस्तु न जानामीत्यत्र तथैवानुभवात्। नचाविद्यायां सत्यां जीवपरमात्मविभागः। सति चैतस्मिन्जीवाश्रया परमात्मविषया विद्येतीतरेताश्रय इति वाच्यम्। जीवाविद्ययोर्बीजाङ्कुरवदनादित्वात्। नन्वेतद्दृष्टान्तेन जीवानित्यत्वमिति चेन्न। उत्तरोत्तरजीवाभिव्यक्तीनां पूर्वपूर्वभ्रमनिमित्तत्वाश्रयणात्। नन्वविद्याया जीवाश्रितत्वे स्वस्य च तदाश्रितत्वे आत्माश्रय इति चेन्न। अनादित्वेनोत्पत्त्यभावात्। जीवस्य स्तवःप्रतीत्य तद्दलादविद्याया अपि प्रतीतिसंभवात्। नन्वेवमपि स्वस्कन्धारुढारोहणवत्स्वाश्रिताश्रितत्वं विरुद्धमितिचेन्न। जीवाविद्ययोरमूर्तत्वेन कुण्डबदरवदधरोत्तरीभावायोग्यत्वेनावच्छेद्यावच्छेदकत्वाश्रयणात्। अविद्यावच्छेदकोपाधिकं जीवत्वमिति जीवोविद्ययावच्छिद्यते। नन्विदमपीतरेतराश्रयग्रस्तमिति चेन्न। एवंविधस्थरेऽयोन्याश्रयस्यादोषात्। प्रमेयत्वावगाहि प्रमाणं निरुपकप्रमेयावच्छेद्यं प्रमेयं च स्वविशेषणीभूतप्रमाणावच्छेद्यमित्येवमादिप्ववच्छेद्यावच्छेदकत्वस्यान्योन्याश्रयतन्त्रस्य दृष्ट्वात्। जीवाविद्ययोरधिष्टानं तु ब्रह्म तस्यैव सर्वप्रपञ्चविवर्ताधिष्टनत्वात्। तदुक्तम् अधिष्ठानं विवर्तानामाश्रयो ब्रह्मशुक्तिवत्। जीवाविद्यादिकानां स्यादिति सर्वमनाकुलम्।। इति। अतएव भगवताप्युक्तंदैवी ह्येषा गुणमयी मम मायेति। शुक्तिरेव यथा रजतरुपेणावभासते तथा पर एवात्मा अनाद्यविद्यावच्चेदलब्धजीवभावभेदेनावभासते। सएव च देहेन्द्रियादिभिरवच्छिद्यमानो बालैः शारीर इत्युपचर्यते। तादृशां च जीवानामविद्या नतु सर्वोपाधिविहीनस्य परमात्मनः। नन्वस्वतन्त्रोऽन्येन कारग्रहे प्रवेश्यते। परमात्मा तु सर्वज्ञः सर्वशक्तिश्च कस्मादकस्मात्संसारी संपद्यत इतिचेन्न। शुद्धबुद्धमुक्तस्वभावस्य निर्मृष्टनिखिलाविद्यातद्वासनस्येति हि यस्मादेषानुभवसिद्धा अकस्मादपलापानर्हा गुणमयी सत्त्वरजस्तमोमयी। प्रधानस्येव मायायाः स्वातन्त्रयनिरासार्थं दैवीत्युक्तम्। देवस्येयं स्वभूता दैवी। कल्य देवस्येयं च केत्यपेक्षायां मम माया इत्युक्तम्। दुरत्ययां दुःखेनात्ययोऽतिक्रमणं यस्याः सा। अतिक्रमणे तर्हि क उपाय इत्यपेक्षायामाह मामिति। मामेव स्वात्मभूतम्। एवकारेण मायाया व्यावृत्तिविंवक्ष्यते। ये प्रपद्यन्ते सर्वात्मना प्रपन्ना भवन्ति ते मत्प्रसादाल्लब्धबुद्धियोगा मायामेतां दुरत्ययां सर्वभूतमोहिनीं तरन्ति अतिक्रामन्ति। संसारबन्धनान्मुच्यन्त इत्यर्थः। ते मत्प्रसादाल्लब्धबुद्धियोगा मायामेतां दुरत्ययां सर्वभूतमोहिनीं तरन्ति अतिक्रामन्ति। संसारबन्धनान्मुच्यन्त इत्यर्थः। अत्रेदमवधेयम् अनादिरनिर्वाच्या भूतप्रकृतिश्चिन्मात्रसंबन्धिनी माया। तस्यां चित्प्रतिबिम्ब ईश्वरः। तस्या एवावरणविक्षेपशक्तिमदविद्याभिधानेषु परिच्छिन्नानन्तप्रदेशेषु चित्प्रतिबिम्बो जीव इति केचित्। जीवेशावाभासेन करोतिमायाय चाविद्या च स्वयमेव भवति इति श्रुतिसिद्धौ मूलप्रकृतेस्त्रिगुणात्मिकाया द्वौ रुपभेदौ रजस्तमोनभिभूतशुद्धसत्त्वप्रधाना माया तदभिभूतमलिनसत्त्वप्रधानाऽविद्येति मायाविद्याभेदं परिकल्पयित्वा मायाप्रतिबिम्ब ईश्वरोऽविद्याप्रतिबिम्बो जीव इति केचिद्वर्णयन्ति। एकैव मूलप्रकृतिर्विक्षेपप्रधानान्येन मायाशब्दितेश्वरोपाधिः। आवरणप्रधान्येनाविद्याऽज्ञानशब्दिता जीवोपाधिरिति केचित्। कार्योपाधिरयं जीवः कारणोपाधिरीश्वरः इति श्रुतिमनुसृत्यविद्यायां चित्प्रतिबिम्ब ईश्वरः अन्तःकरणे चित्प्रतिबिम्बो जीव इति केचित्। एवमुक्तेष्वेतेष जीवेश्वरयोः प्रतिबिम्बविशेषत्वपक्षेषु यद्विम्बस्थानीयं ब्रह्म तन्मुक्तप्राप्यम्। अन्येतु जीव ईश्वरः शुद्धा चिदिति त्रैविध्यप्रक्रियां विहाय वस्तुत एकस्यैवाकाशस्य घटाकाशजलाशमहाकाशमेघाकशभेदाच्चातुर्विध्यमिवैकस्यैव चैतन्यस्य कूटस्थजीवब्रह्मेश्वरभेदेन चातुर्विध्यं परिकल्प्य धीवासनोपरक्ताज्ञानोपाधिरीश्वरः अन्तःकरणोपाधिर्जीव इति दर्शयन्ति। अन्येतुविभेदजनकेऽज्ञाने नाशमान्त्यतिकं गते। आत्मनो ब्रह्मणो भेदमसन्तं कः करिष्यति।। इति समृत्या एकस्यैवाज्ञानस्य जीवेश्वरविभागोपाधिध्वप्रतिपादनाद्विम्बप्रतिबिम्बभावेन जीवेश्वरयोर्विभागो नोभयोरपि प्रतिबिम्बभावेनोपाधिद्वयमन्तरेणोभयोः प्रतिबिम्बत्वायोगात्। तत्रापि प्रतिबिम्बो जीवः बिम्बस्थानीय ईश्वर इति। सच प्रतिबिम्बभूतो जीव एवाविद्योपाधिक एकमेव तदज्ञानं तदज्ञानकल्पितं च सर्वं जगत्तस्य स्वप्रदर्शनवद्यावदविद्यं सर्वो व्यवहारः। बुद्धमुक्तव्यवस्थापि नास्ति जीवस्यैकत्वात्। शुकमुक्त्यादिकमपि स्वाप्नपुरुषान्तरमुक्त्यादिकमिव कल्पितमिति वर्णयन्ति। परेतु रुपानुपहितप्रतिबिम्बो न युक्तः। सुतरां नीरुपे। ननु नीरुपस्य गगनस्य जलादौ प्रतिबिम्बानुभवान्नीरुपस्य न प्रतिबिम्ब इति नास्ति नियम इति चेन्न। आलोकप्रतिबिम्बे गगनप्रतिबिम्बत्वव्यवहारस्य भ्रममात्रमूलकत्वात्। ध्वनिधर्माणामुदात्तादिस्वराणां संनिधिमात्रेण व्यञ्जकतया वुर्णेष्वारोपोपपत्त्या वर्णप्रतिबिम्बोपाधिकत्वपल्पनााय निष्प्रमाणकत्वेन ध्ववौ वर्णप्रतिबिम्बत्ववादोऽप्ययुक्तः। तस्माच्चाक्षुषस्यैव चाक्षुष एव प्रतिबिम्बइति नियमस्य न क्वापि भङ्गोऽस्ति। चन्दनखण्डादिप्रतिबिम्बे चाक्षुषगुणानामेवानुभवात्। तदाग्राणेऽपि सौरभाननुभवाच्च। मुखादिप्रतिबिम्बेऽपि चाक्षुषगुणानामेवोपलम्भो नतु मुकोच्चारितशब्दस्य। ननु गुहादिषु प्रतिध्वनिरुपस्य ध्वनिप्रतिबिम्बस्योपलम्भ इति चेन्न। पञ्चीकरणप्रक्रियायां दुन्दुभिसमुद्रतवावानलझंझामारुदादिध्वनीनां पृथिव्यादिशब्दत्वेन प्रतिध्वनेरेवाकाशगुणत्वात्तस्यान्यशब्दप्रतिबिन्त्वानुपपत्तेः। नच वर्णात्मकप्रतिशब्दस्य पूर्ववर्णप्रतिबिम्बत्वमिति वाच्यम्। मूलध्वनिवदेव प्रतिध्वनेरपि वर्णाभिव्यञ्चकत्वोपपत्तेः। तस्मात् घटाकाशवदन्तःकरणाद्यवच्छिन्नं चैतन्यं जीवः। तदनवच्छिन्न ईश्वर इति। नचैवंयो विज्ञाने तिष्ठन्विज्ञानमन्तरो यमयति इत्यादिश्रुत्या ईश्वरस्यान्तर्यामिभावेन विकारान्तरावस्थानबोधकया विरोधः। ब्रह्माण्डान्तर्वर्तितत्तदन्तःकरणोपाधिभिस्तदन्तर्वर्तिचैतन्यस्य सर्वात्मना जीवभावेनावच्छेदात् तदवच्छेदरहितचैतन्यात्मकस्येश्वरस्य ब्रह्माण्डान्तः सत्त्वानापत्तेः। प्रतिबिम्बपक्षे तु जलगतस्वाभाविकाकाशे सत्येव प्रतिबिम्बाकाशदर्शनादेकत्र द्विगुणीकृत्य वृत्तिरुपपद्यत इति वाच्यम्। अविद्याश्रयत्वान्तःकरणसंवलितत्वाद्युपाधिकाज्जीवादविद्याविषयत्वान्तःकरणासंवलितत्वाद्युपाधिकस्यान्तर्यामिणो भेदेनावस्थानस्योपपत्त्या श्रुतिविरोधाभावात्। प्रतिबिम्बपक्षे तु अन्तर्यामिब्राह्मणस्यासामञ्जस्यं बहिस्थपाषाणादिवत् जलान्तर्वर्तिपाषाणादेः जले प्रतिबिम्बादर्शनादुपाध्यनन्तर्गतस्यैव चैतन्यस्य प्रतिबिम्ब इत्यवश्याङ्गीकर्तव्यत्वेन बिम्बभूतस्य विकारान्तरावस्थानायोगात्। एकत्र द्विगुणीकृत्यवृत्तिरित्यपि न। षडस्माकमनादयः इति सिद्धान्ते जीवेश्वरभिन्नत्वेनाभ्युपगतस्य जीवादिसर्वप्रपञ्चविवर्ताधिष्ठात्वेन सर्वगतस्य शुद्धचैतन्यस्याप्यन्तःकरणे सत्त्वस्यावर्जनीयत्वेन जीवोऽन्तर्यामी शुद्धतैतन्यं चेति एकत्र त्रिगुणीकृत्य वृत्तेरुपपादनीयत्वापत्तेः। नचावच्छेदपक्षेयथा स्वयंज्योतिरात्मा विवस्वानपो भिन्ना बहुधैकोऽनुगच्छन्। उपाधिना क्रियते भेदरुपो देवः क्षेत्रेष्वेवमजोऽध्यमात्माअतएव चोपमा सूर्यकादिवत् इति श्रुतिसूत्रविरोध इति वाच्यम्। भाष्यकारैरेवअतएवेति सूत्रं व्याख्याय सूर्यादिवदात्मनः प्रतिबिम्बो न युज्यते इति तदाक्षेपकत्वेनअम्बुवदग्रहणात्तु न तथात्तवम् इति सूत्रं व्याख्यातततो वृद्धिह्नासभाक्त्वमन्तर्भावादुभयसामञ्जस्यादेवम् इति सूत्रेणोक्तानुपपत्त्या आत्मनः प्रतिबिम्बनमनुपपन्नमित्यङ्गीकृत्यैव श्रुतिषु सूर्यादि प्रतिबिम्बोपादानस्य तात्पर्यान्तरवर्णनपरताया उक्तत्वात्। तथाच भाष्यंयत एव चायमात्मा चैतन्यस्वरुपो निर्विशेषो वाङ्यनसातीतः परप्रतिषेधोपदेश्योऽत एव चास्योपाधिनिमित्तामपारमार्थिकीं विशेषवत्तामभिप्रेत्य जलसूर्यकादिवदित्युपमा दीयते शास्त्रेषुयथा ह्ययं ज्योतिः इत्यादि। एक एव तु भूतात्मा भूतेभूते व्यवस्थितः। एकधा बहुधा चैव दृश्यते जलचन्द्रवत्।। इतिचैवमादिषु। अत्र प्रत्यवस्थीयते न जलसूर्यकादितुल्यत्वमिहोपपद्यते तद्वदग्रहणात् सूर्यादिभ्यो मूर्तेभ्यः पृथग्भूतं विप्रकृष्ठं देशम्। मूर्तं च जलं गृह्यते। तत्र युक्तः सूर्यादिप्रतिबिम्बोदय न त्वात्मा मूर्तो न चास्मात्पृथग्भूता विप्रकृष्टेशाश्चोपाधयः सर्वगतत्वात्सर्वानन्यत्वाच्च। तस्मादयुक्त उक्तोऽयं दृष्टान्त इति। अत्र प्रतिविधीयते युक्त एव त्वयं दृष्टान्तो विवक्षितांशसंभवात्। नहि दृष्टान्तदार्ष्टान्तिकयोः किंचित्क्वचिद्विवक्षितमंशं मुक्त्वा सर्वसारुप्यं केनचिद्दर्शयितुं शक्यते सर्वसारुप्ये हि दृष्टान्तदार्ष्टान्तिकभावोच्छेद एव स्यात्। नचेदं स्वमनीषया जलसूर्यकादिदृष्टान्तप्रणयनं शास्त्रप्रणीतस्य त्वस्य प्रयोजकमात्रमुपन्यस्यते किं पुनरत्र विवक्षितं सारुप्यमिति। तदुच्यते वृद्धिह्रासभाक्त्वमिति। जलगतं हि सूर्यप्रतिबिम्ब जलवृद्धौ वर्धते जलह्रासे ह्रसति जलचलने चलति जलभेदे भिद्यते इत्येवं जलधर्मानुविधायि भवति नतु परमार्थतः सूर्यस्य तथात्वमस्त्येवं परमार्थतोऽविकृतमेकरुपमपि सद्ब्रह्म देहाद्युपाध्यन्तर्भावाद्भजत इवोपाधिधर्मान्वृद्धिह्रासादीनेवमुभयोर्दृष्टान्तदार्ष्टान्तिकयोः सामञ्जस्यादविरोध इति। बृहदारण्यकभाष्येऽपि प्रवेशपदार्थस्यान्यथोपपादनेन प्रतिबिम्बपक्षदूषणं स्थरीकृतम्। तैत्तिरीयकभाष्येऽपितत्सृष्ट्वा तदेवानुप्राविशत् इति वाक्ये प्रवेशविचारावसरे जलसूर्यकादिप्रतिबिम्बवत्प्रवेशः स्यादितिचेन्न। अपरिच्छिन्नत्वादमर्तूत्वाच्च परिच्छिन्नस्य मूर्तस्यान्यस्यान्यत्र प्रसादास्वाभाविके जलादौ सूर्यकादिप्रतिबिम्बवत्प्रवेशः स्यादितिचेन्न। अपरिच्छिन्नत्वादमूर्तत्वातच्च परिच्छिन्नस्य मूर्तस्यान्यस्यान्यत्र प्रसादस्वाभाविके जलादौ सूर्यकदिप्रतिबिम्बोदयः स्यात्। नत्वात्मनोऽमूर्त्वादाकाशादिकारणस्यात्मनो व्यापकत्वात्तद्विप्रकृष्टदेशप्रतिबिम्बाधारवक्त्वभावाच्च प्रतिबिम्बवत्प्रेवेशो न युक्त इति प्रतिबिम्बभावेन प्रवेशनिराकरणं भाष्यकृद्भिः कृतम्। एवंच प्रतिबिम्बपक्षे श्रुतिसूत्रभाष्यविरोधोऽवच्चेदपक्षे तु तदभाव इति। अस्मिन्पक्षे श्रुतिसूत्रभाष्यानुग्रहोऽप्यस्ति। तथाहिघटसंवृतमाकाशं नीयमाने यथा घटे। घटो नीयेत नाकाशं तद्वज्जीवो नभोपमः इति जीवस्य नभोपमशब्देन घटसंवृताकाशतुल्यत्वमभिधायिन्या श्रुत्यावच्छिन्नचैतन्यस्यैव जीवरुपत्वमुक्तम्। अंशो नानाव्यपदेशात् इति सूत्रेण जीव ईश्वरस्यांशो भवितुमर्हति। यथाग्नेर्विस्फुलिङ्गोऽश इवांशः। नहि निरवयवस्य मुख्योऽशः संभवति कस्मात्पुनर्निरवयवत्वात्स एव न भवतिनानाव्यपदेशात्। य आत्मनि तिष्टन्नात्मानमन्तरो यमयति इतिचैवमादिको भेदनिर्देशो नासति भेदे संभवतीति भाष्येण च जीवचैतन्यस्य घटाकाशवदन्तःकरणावच्छिन्नत्वरुपमंशत्वं विवक्षितम्। यद्यपिआभास एव च इतिसूत्रेण आभास एवएष जीवः परस्यात्मनो जलसूर्यकादिवत्प्रतिपत्तव्यः इति तद्भाष्येण च तन्निराकरणं च न संभवतीति किंचिदनुरोधेन कस्मिंश्चिद्य्धाख्यातव्ये प्रतिबिम्बत्वनिराकरणस्ययुक्तियुक्त्त्वे न आभास इति सूत्रे भाष्यकृद्भिरपि भुत्योपपत्त्या प्रतिबिम्बत्वस्यासमर्थितत्वात्। तदेव सूत्रं तद्भाष्यं च वृद्धिह्रासभाक्त्वमिति सूत्रोक्तन्यायात्। अतश्च यथा नैकस्मिञ्जलसूर्यके कम्पमाने जलसूर्यकान्तरं कम्पते एवं नैकस्मिञ्जीवे कर्मफलसंबन्धिनि जीवान्तरस्य तत्संबन्ध इति तदधिकरणभाष्ये प्रतिबिम्बस्य दृष्टान्तत्वेनोक्तत्वाच्च प्रतिबिम्बसादृश्यप्रतिपादनपरं व्याख्येयम्। तस्मात्प्रतिबिम्बासंभवादिवच्छेदपक्षे विरोधाभावत्साधकस्य सत्त्वाच्च अवच्छेद्यचैतन्यस्य प्रतिबिम्बपक्षेऽपि संमतत्वेनोभयसंप्रतिपन्नत्वेन लाघवात्तस्यैव जीवत्वकल्पनौचित्यात्। सर्वगतस्य चैतन्यस्यान्तःकरणादिनावच्छेदोऽवश्यंभावीत्यावश्यकत्वाद्वच्छेदो जीव इति। स चानेकः अन्तःकरणादीनां नानाभूतानां जीवोपाधित्वाभ्युपगमात्। तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत्। यथाग्रेः क्षुद्रा विस्फलिघङ्ग व्युच्चरन्त्येवमेवास्मादात्मनः सर्व एत आत्मानो व्युच्चरन्ति इत्यादिश्रुतेः प्रतिषेधादिति चेन्न। शारीरादित्याधिकरणे बद्धमुक्त्वप्रतिपादकभाष्यस्य नैकस्मिञ्जीवे कर्मफलसंबन्धिनि जीवान्तरस्य तत्संबन्ध इतिआभास इति सूत्रस्थस्य सच स्वात्मभूतानिव घटाकाशस्थानीयानविद्योपस्थापितनामरुपकृकार्यकरणसंघातानुरोधिनो जीवाख्यान्विज्ञानात्मनः प्रतीष्टे इति। तदनन्यत्वं इत्यधिकरणस्थस्य जीवात्मापि पुण्यापुण्यकर्मा सुखदुःखभुक् प्रतिशरीरं प्रविभक्त इति जीवात्मनामुत्पत्तिप्रलयाबुच्येते। इति नात्मेत्यधिकरणस्थस्य च भाष्यस्यमामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते इत्यादिस्मृतेः। एवं जीवाश्चितो भावा भवभावनयोहिताः। ब्रह्मणः कलिताकारल्लक्षशोऽप्यथ कोटिशः।। असंख्याताः पुरा जाता जायन्ते चापि चाद्य भोः। उत्पतिष्यन्ति चैवाम्बुकणौघा इव निर्झरात्।। स्ववासनावशावेशादाशाविवशतां गताः। दशास्वतिविचित्रासु स्वयं निगडिताशयाः।। भविष्यञ्जातयः केचित्केचिद्भूतभवोद्भवाः। वर्तमानभवाः केचित्केचित्त्वभवतां गताः।। (अभवतां विदेहमुक्तिमिति टीकाकाराः)। जीवन्मुक्ता भ्रमन्तीह केचित्कल्याणभाजनाः। चिरमुक्ताः स्थिताः केचिन्नूनं परिणताः परे।। (परेपरमात्मनि परिणतास्तद्भावं प्राप्ता विदेहमुक्ता इति व्याख्यातारः)। केचिच्चिरेण कालेन भविष्यन्मुक्ततः शिवाः। केचिद्विशन्ति चिद्भावाः केवली भावमात्मनः।। केवलीभावं केवल्यमित्यादीतिहासस्य चास्मिन्पक्षे एवाञ्जस्यं नत्वेकजीववादे। नच नानाजीववादेऽपि ब्रह्मैव स्वाविद्यया नानान्तःकरणभावेन परिणतया नानाजीवभावं प्राप्य संसरति स्वविद्यया मुच्यत इत्यभिप्रायकत्वेपपत्तेः। नच जीवत्वोपाधिभूताया अविद्याया एकत्वाज्जीवैक्यसिद्धिरिति वाच्यम्। रूपं रुपं प्रतिरूपो बभूव तदस्य रुपं प्रतिचक्षणाय। इन्द्रो मायाभिः पुरुरुप ईयते ित्यादिश्रुत्या अविद्याया नानात्वाभ्युपगमात्। तदेकत्वश्रुत्यादीनां जात्यभिप्रायकत्वेपपत्तेः। अविद्याया एकत्वेऽपिकार्योपाधिरयं जीवः इतिश्रुत्यनुसारेणान्तःकरणानामेव जीवत्वोपाधित्वोपगमसंभवाच्च। अविद्याया नानात्वपक्षे विनिगमकाभावादनेकतन्त्वारब्धपटतुल्यः सर्वाविद्याकृतः प्रपञ्च इत्येके तत्ततज्ञानकृतप्रातिभासिकरजतवत्तत्तदविद्यकृतो वियदादिप्रपञ्चः प्रतिपुरुषं भिन्नः एक्यप्रत्ययस्तु शुक्तिरुप्यैक्यप्रत्ययवदित्यन्ये जीवाश्रितादविद्यानिचयाद्भिन्नाः परमेस्वराश्रिता मायैव प्रपञ्चकारणं जीवानामविद्यास्तु आवरणमात्रे प्रातिभासिकसृष्टौ चोपयुज्यन्ते। नाहं प्रकाशः सर्वस्य योगमायासमावृतः इत्यादिवचने मायापदं सर्वे वयमतःपरंकामात्मानः स्वर्गपराःभोगैश्वर्यप्रसक्तानांकृपणाः फलहेतवःकर्मजं बुद्धियुक्ता हि या निसा सर्वभातानांज्ञानयोगगेन साङ्ख्यानां कर्मयोगेन योगिनांकर्मणैव हि संसिद्धिमास्थिता जनकादयःये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहंएवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिःयत्साङ्ख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यतेज्ञानेन तु तदज्ञानं येषां नाशितमात्मनःतद्धुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः। गच्छन्त्यपुररावृत्तिं ज्ञाननिर्धूतकल्मषाःपण्डिताः समदर्शिनःइहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनःलभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः मामेव ये प्रपद्यन्ते मायामेतां तरन्ति तेन मां दुष्कृतिनो मूढाः चतुर्विधा भजन्ते मांजरामरणमोक्षाय मामाश्रित्य यतन्ति ये ते ब्रह्म तद्विदुः कृत्स्त्रंतत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाःमत्स्थानि सर्वभूतानिमहात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताःएवं सततयुक्ता ये भक्तास्त्वां पर्युपासतेअन्ये त्वेवमजानन्तःयज्ज्ञात्व मुनयः सर्वेनिर्मानमोहा जितसङ्गदोषाःविमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषःयतन्तो योगिनश्चैनंनष्टात्मानोऽल्पबुद्धयःत्रिविधा भवति श्रद्धा देहिनाम् इत्यादिभगवद्वचनेभ्योऽपि जीवानामनेकत्वमध्यवसीयते। क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारतप्रकृतिं पुरुषं चैव विद्य्धनादी उभावपिममैवांशो जीवलोके जीवभूतः सनातनः इत्यादिवचनेष्वेकवचनं तु जात्यभिप्रायम्। एवमनेन जीवेनात्मनानुप्रविश्यवालाग्रशतभागस्य शतधा कल्पितस्य च। भागो जीवः स विज्ञेयः स चानन्त्याय कल्पते इत्यादिश्रुतिष्वपि। एको देवः सर्वभूतेषु गूढः इत्यादिश्रुतिस्तु परमात्मैकत्वप्रतिपादिका नतु जीवैकत्वप्रतिपादिका। केवलो निर्गुणश्च इत्यादिविशेषणेभ्यस्तथा च भाष्यंभेदस्तुपाधिनिमित्तो मिथ्याज्ञानकल्पितो न पारमार्थिकः। एको देवः सर्वभूतेषु गूढः इत्यादिश्रुतिभ्य इत्यलं प्रासङ्गिकेन।
वल्लभ-सम्प्रदायः
(सं) वल्लभः मूलम् ...{Loading}...
।।7.13 7.14।। परमेतदसंस्पष्टं मां वेदान्तवेद्यं न जगद्वेदेह गुणतन्त्रत्वादित्याह त्रिभिरिति। भावैस्त्रिभिः पदार्थैः। त्रित्व गुणमयत्वाभिप्रायेण। मोहितं जगदिदमावृतं एभ्यस्त्रिगुणात्मकेभ्यो भावेभ्यो मूलभूतगुणेभ्यो वा परमव्ययं विनाशरहितं मां न जानाति। प्रकृतेर्गुणा एव बन्धकाः। सत्त्वरजस्तमोमयैः भावैः सर्वं जगन्मोहितं मम मायागुणा एव हि परिणता अपि स्वरूपावरणे विक्षेपे च हेत्वन्तरभूताः भगवज्ज्ञानसाधनप्रतिकूलाः प्रत्युत बन्धरूपाः जीवेऽविद्याकृताध्यासदार्ढ्यकारणभूताश्चसर्वाध्यासनिवृत्तौ हि सर्वथा न भवेद्यथा। सा च विद्योदये सा च न शब्दात्सुविचारितात्। मर्यादाभङ्ग एव स्यात्प्रमाणानां तथा सति। गजानुमानं नैव स्यात्साङ्कर्यं वा तथा भवेत्। दशमस्त्वमसीत्यादौ देहादिविषयत्वतः। शब्दस्य साहचर्येणचक्षुषैव भवेन्मतिः। स्मारकत्वमतो वाक्ये सङ्ख्याज्ञानं पुराः यतः। अध्यासस्यानिवृत्तत्वान्न विविक्तात्मदर्शनम्। मनसा शक्यते कर्त्तुं नान्यथा सर्वदा भवेत्। प्रत्यक्षेणापि विज्ञानं मायया ज्ञानकाशया। स्वप्नबोधरीत्या हि किमु शब्दं निवारयेत्। सर्वज्ञस्वं सर्वभावज्ञानं चापाततः फलम्। सर्वो न ब्रह्म सर्वं तु वामदेवस्तथा जगौ। अवयुज्यागर्भवासात्सूर्याद्यनुवदन्मुहुः। ज्ञानदुर्बलवाक्यत्वात्पाषण्डवचनं मतम्। सत्ये युगेऽतिमहतां भवत्येतन्न चान्यथा। स्वप्नो जागरणं चैव यथा ह्यन्योन्यवैरिणौ। विद्याविद्ये तथा स्यातां न तु सर्वात्मना लयः। इदमेव विनिश्चित्य श्रीकृष्णोऽर्जुनमाह वै। मामेवेति। एवकारेण सर्वेषामनुपायत्वमाह ज्ञानादीनां सर्वेषां भगवदधीनत्वात्। विश्वासं सर्वतस्त्यक्त्वा कृष्णमेव भजेद्बुधः इति श्रीमदाचार्योक्तानुसारेण प्रपत्तिमार्गरीत्या ये भजन्ते मां पुरुषोत्तममेव ते मायां तरन्ति। इयं च दैवी माया प्रकृते नासुरी अन्यस्याज्ञानविशेषेण स्वकृतिसाध्येन च बाधितत्वनियमात् अतएव दुरत्यया। यद्वा धात्वन्वर्था दैवी गुणमयी च। ममेति मदधीनभक्तहितकारिण्येषा भवतीति एतां मायां त एव जगति स्थिता मदीया निर्गुणात्मकास्तीर्णा इत्यर्थः।
(सं) वल्लभः पुरुषोत्तमः ...{Loading}...
।।7.14।। नन्वेवं चेदस्माभिः कथं ज्ञातव्य इत्याकाङ्क्षायामाह दैवीति। एषा मम गुणमयी मद्गुणात्मिका दैवी केषुचिद्भाग्यवत्सु रसदानेच्छया प्रकटीकृतक्रीडात्मिका माया अलौकिकसामर्थ्येनान्यथाभावोत्पादनसमर्था। अतएव दुरत्यया दुःखेनापि जेतुमशक्या। एतादृशीमपि ये मामेव केवलमनन्यभावेन पुरुषोत्तमं प्रपद्यन्ते प्रपन्ना भवन्ति ते एतां मायां मोहनात्मिकां तरन्ति। मां जानन्तीत्यर्थः। मामेव ये इत्यत्रैवकारेणमाम् इत्येकवचनेन च भावात्मकतया केवलं पुरुषोत्तमत्वेन स्वभजनं दास्यभावेनोक्तं न तु लीलादिसहितदर्शनेन स्वरमणेच्छादिकतया। एतेन त्वमपि तथा प्रपन्नो भवेत्युक्तम्।
संस्कृतटीकान्तरम्
(सं) श्रीधर-स्वामी ...{Loading}...
।।7.14।। के तर्हि त्वां जानन्तीत्यत आह दैवी हीति। दैवी अलौकिकी अत्यद्भुतेत्यर्थः। गुणमयी सत्त्वादिगुणविकारात्मिका मम परमेश्वरस्य शक्तिर्माया दुरत्यया दुस्तरा। हि प्रसिद्धमेतत्। तथापि ये मामेवेत्येवकारेणाव्यभिचारिण्या भक्त्या प्रपद्यन्ते भजन्ति ते मायामेतां दुस्तरामपि तरन्ति। ततो मां जानन्तीति भावः।
हिन्दी-टीकाः
(हि) चिन्मयानन्दः ...{Loading}...
।।7.14।। भगवान् श्रीकृष्ण स्वयं यह स्वीकार करते हैं कि अहंकार से युक्त आत्मकेन्द्रित पुरुष के लिए मेरी माया से उत्पन्न मोह को पार कर पाना दुस्तर है। यदि कोई चिकित्सक रोगी के रोग को पहचान कर कहे कि इस रोग के निवारण के लिए कोई औषधि नहीं है तो कोई भी रोगी सावधानी उत्साह तथा श्रद्धा के साथ चिकित्सक की सलाह के अनुसार उपचार नहीं करेगा। इसी प्रकार यदि भवरोगियों के चिकित्सक भगवान् श्रीकृष्ण रोग का कारण माया को बताकर उसे दुस्तर घोषित करें तो कौन व्यक्ति श्रद्धा के साथ उनके निराशावादी उपदेश का अनुकरण करेगा भगवान् श्रीकृष्ण इस कठिनाई अथवा दोष को जानते हैं और इसलिए तत्काल ही साधक के मन की शंका को दूर करते हैं। यदा कदा रोगी को उसके रोग की गम्भीरता का भान कराने के लिए चिकित्सक को कठोर भाषा का प्रयोग करना पड़ता है ठीक उसी प्रकार यहाँ श्रीकृष्ण अनेक विशेषणों के द्वारा हमें इस रोग की वह भयंकरता बताने का प्रयत्न करते हैं जिसके कारण हम अपने परमात्म स्वरूप को भूलकर संसारी जीवभाव को प्राप्त हो गये हैं रोग तथा उपचार को बताकर भगवान् श्रीकृष्ण पूर्ण स्वास्थ्य का आश्वासन भी देते हैं। जो साधक मेरी शरण में आते हैं वे माया को तर जाते हैं। शरण से तात्पर्य भगवान् के स्वरूप को पहचान कर तत्स्वरूप बन जाना है। इसका सम्पादन कैसे किया जा सकता है इसका विवेचन पूर्व के ध्यानयोग नामक अध्याय में किया जा चुका है। एकाग्र चित्त होकर आत्मस्वरूप का ध्यान करना यह साक्षात् साधन है और ध्यान के लिए आवश्यक योग्यता प्राप्त करने के उपाय भी पहले बताये गये हैं। यदि आपकी शरण में आने से माया को पार किया जा सकता है तो फिर सब लोग आपकी शरण में क्यों नहीं आते हैं इस पर कहते हैं
(हि) तेजोमयानन्दः अनुवादः ...{Loading}...
।।7.14।। यह दैवी त्रिगुणमयी मेरी माया बड़ी दुस्तर है। परन्तु जो मेरी शरण में आते हैं, वे इस माया को पार कर जाते हैं।।
(हि) रामसुखदासः अनुवादः ...{Loading}...
।।7.14।। क्योंकि मेरी यह गुणमयी दैवी माया बड़ी दुरत्यय है अर्थात् इससे पार पाना बड़ा कठिन है। जो केवल मेरे ही शरण होते हैं, वे इस मायाको तर जाते हैं।
(हि) रामसुखदासः टीका ...{Loading}...
।।7.14।।**व्याख्या–‘दैवी ह्येषा गुणमयी (टिप्पणी प₀ 411) मम माया दुरत्यया’–**सत्त्व, रज और तम–इन तीन गुणोंवाली दैवी (देव अर्थात् परमात्माकी) माया बड़ी ही दुरत्यय है। भोग और संग्रहकी इच्छा रखनेवाले मनुष्य इस मायासे सम्बन्ध-विच्छेद नहीं कर सकते।
आङ्ग्ल-टीकाः
(Eng) शङ्करनारायणः ...{Loading}...
7.14. This is My play (daivi), trick-of-Illusion composed of the Strands and is hard to cross over. Those, who resort to Me alone-they cross over the trick-of-Illusion.
(Eng) गम्भीरानन्दः ...{Loading}...
7.14 Since this divine Maya of Mine which is constituted by the gunas is difficult to cross over, (therefore) those who take refuge in Me alone cross over this Maya.
(Eng) पुरोहितस्वामी ...{Loading}...
7.14 Verily, this Divine Illusion of Phenomenon manifesting itself in the Qualities is difficult to surmount. Only they who devote themselves to Me and to Me alone can accomplish it.
(Eng) आदिदेवनन्दः ...{Loading}...
7.14 (a) For this divine Maya or Mine consisting of the three Gunas (assumed for purposes of sport) is hard to overcome৷৷. (b) ৷৷. But those who take refuge in Me (Prapadyante) alone shall pass beyond the Maya.
(Eng) शिवानन्दः अनुवादः ...{Loading}...
7.14 Verily, this divine illusion of Mine, made up of the (three) alities (of Nature) is difficult to cross over; those who take refuge in Me alone, cross over this illusion.
(Eng) शिवानन्दः टीका ...{Loading}...
7.14 दैवी divine; हि verily; एषा this; गुणमयी made of Gunas; मम My; माया illusion; दुरत्यया difficult to cross over; माम् to Me; एव even; ये who; प्रपद्यन्ते take refuge; मायाम् illusion; एताम् this; तरन्ति cross over; ते they.Commentary Maya is the Upadhi or the causal body (Karana Sarira) of Isvara. It is the material cause of this universe. It is inherent in the Lord. It is constituted of the three alities; viz.; Sattva; Rajas and Tamas. Those who completely devote themselves to the Lord alone after renouncing all formal religion (Dharma) cross over this illusion which deludes all beings. They attain liberation or Moksha.Isvara is the Lord of Maya (illusion). He has perfect control over it. Avidya is the Upadhi (limiting adjunct) of the Jiva (individual soul). The Jiva is a slave of this ignorance. Ignorance is the veil that has screened the Jiva from Satchidananda Brahman or the ExistenceKnowledgeBliss Absolute. When the veil is removed by the dawn of knowledge of the Self the Jiva loses his characteras a Jiva or an individual soul and becomes identical with Brahman. (Cf.XV.3and4)